भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 46

46.2

। .. .. .. .. .. .. .. .. .इ .. .. इत्य् आह तदुपादानयोर् इत्यादि तयोर् विरुद्धयोर् य उपादाने तयोर् अन्योन्यं परस्परं । द्वैगुण्यं तस्याश्रयत्वेन शीतोपादानम् उष्णोपादानवैगुण्यस्याश्रय इतरच् चेतरस्येत्य् अर्थः । तेन कारणेन विरुद्धयोः शीतोष्णकार्ययोर् एकत्र युगपदारम्भविरोधात्* । तयोर् अनन्तरोक्तेन प्रकारे ॥।
व्1 ॥। ब्धिप्रभेदे । न शीतः स्पर्शो ऽत्राग्नेर् इत्यादि । यद्य् अप्य् अत्रानुपलब्धिर् इति न श्रुतिस् तथापीदं स्वभावविरुद्धाख्यं लिङ्गम् अनुपलब्धेः सकाशान् न पृथग् उच्यते । किं कारणं तत एवानुपलम्भाद् विरोधगतेः विरोधाच् चाभावसाधनात्* विरुद्धो हि कथं निश्चीयेत । यदि तदुपलंभे प्रतियोगिनो ऽनुपल ।

46.3

। पलब्धेर् अभावासिद्धेर् इत्य् अर्थाद् विरुद्धवि .. ने ऽनुपलब्धिर् एव प्रयु .. .. .. .इति । भवतु नामैवंविधायाया दृश्यविषया अनुपलब्धेः सकाशाद् अभावगतिर् अतश् चेयं प्रमाणं सा पुनः कथम् अनुमानं किंतु प्रमाणान्तरम् एवेति भावः । कथं वा न स्याद् इत्य् आचार्यः । दृष्टान्तानपेक्षणाद् इति परः । दृष्टान्तापेक्षं ह्य् अनुमानम् अन्वयव्यतिरेकव .. ।

46.4

। .. .. .. .. मानं दृष्टान्तानपेक्षताम् एद्व न हीत्यादिना प्राह । अस्याम् इत्य् अनुपलब्धौ किं न निरुपाख्यम् इत्यादि आचार्यः दृष्टान्त एवेत्य् अर्थः । तद् असद् इत्यादि परः । तद् व्योमकुसुमादि असद् इति कथं केन प्रमाणेनावगन्तव्यं येनैवं स्यात्* । अनुपलअब्धेर् लिङ्गाद् अभावे साध्ये दृष्टान्तः स्याद् इत्य् अर्थः । अनुपलब्धेर् एव लिङ्गाद् व्योमकुसुमा ।

46.5

। .इद्यते दृष्टान्तो यस्या असत्तासिद्धेर् इति विग्रहः । अथात्राप्य् अपरो दृष्टान्तस् तस्या व्योमकुसुमाद्यसत्तासिद्धेः सदृष्टान्तत्वे वानवस्थाप्रसंगः । तत्राप्य् अपरो दृष्टान्तस् तत्राप्य् अपरो ऽपीति कृत्वा । तथा चानवस्थायां सत्यां एकस्यापि सिद्धाव् अप्रतिपत्तिः । सर्वत्र तस्माद् अनवस्थादोषपरिहारार्थं निरुपाख्य ।

46.6

। .. लब्धिलक्षणप्राप्तस्य अनुपलब्धेर् इत्यादाव् अपि प्रयोगे दृष्टान्तानपेक्षणाद् अननुमानम् अनुपलब्धिः । शृण्वन्न् अपीत्य् आचार्यः । सकृद् उक्तं यथा स्वभावानुपलब्धौ नाभावः साध्यते किंतु अभावव्यवहार इति तच्छृण्वन्न् अपि । मूर्खस्य त्रीणि नामानि देवो दिव्यः प्रजयतिर् इत्य् अतो देवानां मूर्खाणां प्रि .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc