भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 15

15.2

। व्यापारः कर्म तत्कृत उपकारो ऽतिशयस् तम् अपेक्ष्य स्थिरस्वभावस्य पूर्वस्वभावाद् अचलतः अनतिशायात् स्वभावान्तरानुपादानात्* । अविशेषाधायिनि कर्मणि । कापेक्षा । नैव । अतिशये वा द्रव्यस्य क्रियाकृते ऽभ्युपगम्यमाने ऽतिशयाधायकस्य कर्मणः ॥।
ह् प्रमाणवार्त्तिकटीका
र्1 ॥। .. । यदि क्रियाकृतो ऽतिशयो न स्वभावभूतो द्रव्यस्य तदर्थान्तरस्य कारणाद् द्रव्यं नैवोपकृतं स्यात्* । तस्मात् पर्तिक्षणं स्वभावभूतस्यान्यान्यस्यातिशयस्योत्पत्तेस् तद् अपि द्रव्यं देवदत्तादि क्षणिकं स्यात्* । तत इति क्षणिकत्वात्* स्वोत्पत्तिस्थानविना .. .. .. ।

15.3

। न्यस्य व्यंजकं स्यात्* । तस्मात् स्थितम् एतद् यथा वस्तुभूता जातिर् नास्तीति ॥ अत्र परो ब्रूते । कथं तर्हीत्यादि । यथेत्यादि सिद्धान्तवादी । यथा पाचकादिषु । पाचकत्वादि । सामान्यं नास्ति । तथा प्रसाधितं । अथ च तत्र प्रवर्तेते ऽन्वयिनौ ज्ञानशब्दौ । तथान्यत्राप्य् अन्तरेण्. ।

15.4

। वृत्तिर् इति । ततो ऽन्वयिज्ञानशब्दवृत्तेः पाचकादिष्व् अपि । पाचकत्वादिसामान्यम् अस्तीति । चिन्तितम् एतद् अनन्तरं यथा तेषु पाचकत्वादिसामान्यं न संभवतीति । यद्य् अन्वयिरूपं नास्ति । तत् किम् इदानीम् अनिमित्ते ते शब्दज्ञाने स्यातां । नेत्यादि । सिद्धान्तवादी । अस्त्य् एव तयोर् निमित्तं यत् तु परेण्. ।

15.5

। .. .. .. .. .. .. न भवतु । किं तर्हि + + र् निमित्तम् इत्य् आह । यथास्वम् इत्यादि । यो य आत्मीयो वासनाप्रबोधः तस्माद् अन्वयिनो विकल्पस्योत्पत्तिः । ततो विकल्पोत्पत्तेः सकाशाद् यथा विकल्पं शब्दा भवन्ति । न तु पुनर् विकल्पाभिधानयोर् वस्तुसत्ता अन्वयिपदार्थसत्ता समाश्रय इत्य् उक्तप्रायम् एतत्* । अवश्यञ् चै .. ।

15.6

। .. ज्ञानवास .. .. .. धात्* । विरोधिरूपसमा .. .. न परस्पररूपविरुद्धरूपाध्यारोपेण यथा प्रधानकार्यम् ईश्वरकार्यम् अहेतुकं संवृतिमात्रं जगद् इत्य् एवं सर्वभेदे ऽन्वयिनोस् तयोर् इति । ज्ञानाभिधानयोः अपरापरदर्शने ऽपीति । परस्परभिन्नानाम् अर्थानान् दर्शने ऽपि । न च तत्रेति । प्रधानादि .. + + + + .. र .. .. ।

15.7

। . ज्ञानशब्दयोर् निबन्धनं । कस्मान् नास्तीत्य् आह । .. + + + .इ .. धिनोर् इत्यादि । अनियमेनेत्यादि परः सर्वं सर्वत्रान्वयिज्ञानम् अभिधानं च स्यात्* । एतद् एव साधयन्न् आह । न ह्य् अनिमित्तम् इत्यादि । ननु यथास्वं वासनाप्रबोधात्* । विकल्पोत्पत्तेर् इत्यादि । तयोर् अनिमित्तत्वं प्रतिषिद्धम् इत्य् अनवकाश ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc