भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 2.4

2.4.1

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे तृतीयोध्यायः
श्रीहंस उवाच
साङ्गज्ञानात्मकतनुमनन्तगुणपूरितम् ।
साङ्गासद्भीषयन्त्वीशं वेद्यैः शास्त्रैर्निरूपितम्

2.4.2

अनन्तनामरूपाढ्यं स्व स्व योग्यफलप्रदम् ।
विचारितमुपास्यं च रमा ब्रह्मादिभिः सदा

2.4.3

स्वभिन्नस्वावरानन्तमुक्तामुक्ताणुजीवकैः ।
सेवितं श्रीपतिं व्याप्तं चेतनाचेतनस्य तु

2.4.4

सत्यस्य सृष्टिकर्तारं हरिं दुःखादि भोगिनम् ।
जानन्ति तस्य चाज्ञानं क्वचित् क्वापि न युज्यते

2.4.5

मिथ्याभूताज्ञानमस्तीत्यत्र मानं न विद्यते ।
अज्ञाना भवितास्तष्ठोपाधिर्निवह युज्यते

2.4.6

सिद्धौ ज्ञाने तु तज्जोपाधिः सिद्धै तदन्वये ।
सर्वस्याज्ञानयोगस्तदभावात्तदेवन

2.4.7

अज्ञानाभावतोज्ञासी अधिकाधि न विद्यते ।
अज्ञानाभावतस्तन्निवृत्तिरूपं न हि क्वचित्

2.4.8

अज्ञानकल्पितं शास्त्रं नैवाज्ञाननिकृन्तनम् ।
इति हेयं तन्मतं हि बद्धस्येशो विमुक्तिदः

2.4.9

विश्वं सत्यं नैव मिथ्या न बाध्यं सत्यकारणम् ।
प्रत्यक्षादिप्रमाण्यैस्तु सिद्धं नारोपितं जगत्

2.4.10

नार्थक्रियाकारि शुक्तौ प्रतीतं रजतं जगत् ।
अर्थक्रियाकारि तेन तद्दृष्टान्तो न युज्यते

2.4.11

दृष्टान्तरहितो यत्तु जगन्मिथ्यात्वकारणम् ।
न भवेत् तन्मते ब्रह्म दृश्यत्वाच्च तथा भवेत्

2.4.12

मिताकाशादि वेदोक्तं विष्णुनेति नतन्मृषा ।
न च न्यायोक्तमिथ्यात्वे मानं तन्मतापि न

2.4.13

श्रुतिर्नित्यापौरुषेया दुर्वाक्यैर्न च दूष्यते ।
इति ज्ञात्वा विधिर्विष्णोर्माहात्म्यं ज्ञानबोधयत्

2.4.14

सत्याशेषजगन्नाथः सत्यसत्साधनेन च ।
सत्यैर्जीवैःसदोपास्यः सत्यसत्यविमुक्तिदः

2.4.15

इति मेरुस्थितो ब्रह्मा निशान्ते यज्ञमीश्वरम् ।
अभिषिच्य सपत्नीकं सर्गे सम्पार्थ्य योजयत्

2.4.16

अपीपलधरिः स्वर्गं सर्वदेवगणेडितः ।
ततः स्वायंभुवमनुं शतरूपा समन्वितम्

2.4.17

अभिषिच्य विधिर्भूमौ बर्हिष्मत्यामवासयत् ।
भावीनश्च पदस्थाश्च उपदेवाः सहस्रशः

2.4.18

मनुं पर्यचरन् प्रीत्या ते निरंशास्ततो भवन् ।
विधिस्ततो मय(सू)सुतमन(त)वेधाद्वलाह्वयम्

2.4.19

स तु षण्णवती (प्रा)मायाः स्वविजृम्भणतोसृजत् ।
स्वैरिण्यश्चैव कामिन्यः पुंश्चल्य इति त्रिधा

2.4.20

तज्जाताभिसमुद्भूताः भोगिन्यो बहुशो मताः ।
कृत्वाकाम्यं भारतेस्मिन् मर्त्याधम पुरोगमाः

2.4.21

अधो लोकेषु विहरः एताभिः सह दुर्मदाः ।
अनेकाः दानवोपेताः बलस्तदधिनायकः

2.4.22

तदधस्ताच्च वितले त्रिवृद्भूतगणावृतः ।
कैश्चिद्रक्षौ (गु)गणैर्युक्ताः भ(वा)वन्त्यास्ते भवः किल

2.4.23

तया सदा रमति सः तद्वीर्याधाटकादिभिः ।
ः नदी तदन्तगा तत्र शुष्मत्यप्यग्निवायुभिः

2.4.24

यन्नदीवारिपानेन अधोलोकेषु संस्थिताः ।
मदोद्धता नरानार्यः क्रीडन्ति सुचिरं सदा

2.4.25

तदधस्ताच्च सुतले प्रतिमन्वन्तरेष्वपि ।
नामरूपविभेदेन प्रह्लादः सानुगो ऽवसत्

2.4.26

वैवस्वतान्तरे विष्णोर्वामनाय पदत्रयम् ।
याचमानाय पुत्राय कश्यपस्य महात्मनः

2.4.27

बलिर्विरोचनसुतो ददौ लोकत्रयं विभुः ।
सोपीन्द्राय पदस्थाय तस्मादादाय दत्तवान्

2.4.28

लोकत्रयं हि देवानामनुजो वटुरूपदृक् ।
पयोव्रतप्रभावेन्यैवाविर्भूतः स कश्यपात्

2.4.29

इन्द्र प्रवासतः खिन्नमातृतुष्ट्यै जगत्पतिः ।
बलिं विरोचनसुतं महाभागवतोत्तमम्

2.4.30

स्थापयामास तल्लोके स्वयं तद्वारपालकः ।
बभूव वामनः सर्वे स्वरूपामरसेवितः

2.4.31

तस्य त्रिकोटिलोमभ्यो वायुस्तावत्स्वरूपकः ।
वाण्या तावद्रूपवत्या वामनस्यार्चको(का) भवत्

2.4.32

विन्ध्यावली पतिस्तत्र बलिस्तिष्ठति सानुगः ।
तदधस्त(त्प्रि)न्मयो विष्णुः भक्तोप्यखिलदानवैः

2.4.33

अर्थितो दानवकुले जातस्तक्षा भवत्पुरा ॥
तल्लोकपः सदैत्यानां त्रिपुराणि व्यचीक्लपत्

2.4.34

अभेदाभेद्यरूपाणि स्वर्णरौप्यायसानि च ।
स निर्ममे पुरास्तिस्रः स्वर्णरौप्यायसीमयः

2.4.35

कामया तेषु तेष्वेते संस्थिता त्रिपुरौकसः ।
विहारान्तरे ह्यस्मिन् सर्वान् जन्तूनपीडयन्

2.4.36

सुरास्तत्पीडया रुद्रशरणं ययुरूर्जिताः ।
रुद्रः पृथ्वीरथं कृत्वा रथाङ्गं शशिभस्करौ

2.4.37

देवान् कृत्वा हयानब्जभवं कृत्वैव सारथिम् ।
शेषं मौर्व्यां विधायेशो पतत्रं(तं) च खगेश्वरम्

2.4.38

कृत्वा विष्णुं बाणरूपं स्वयमेकक्षणे हरः ।
त्रिपुराणि ददाहेशः सर्वलोकस्य शङ्करः

2.4.39

त्रिपुरासुरपुत्राद्यैः सहा वसति तत्र हि ।
वैवस्वतेन्तरे दक्षपत्न्याः कश्यपभार्यकाः

2.4.40

त्रयोदशासं(शाः)स्तपसा तासु पुत्रानवाप सः ।
विवस्वान् शक्रवरुणमित्राः पूषार्यमाभगः

2.4.41

सविता त्वष्ट्रृपर्जन्यो धातायां वामनो वटुः ।
अदितेस्तनयादित्यां हिरण्याक्षहिरण्यकौ

2.4.42

दनौ तु दानवा गावो महिष्यः सुरभीसुताः ।
तान्माया पक्षिणोरिष्टा यातुधानाश्च निरृतिः

2.4.43

इलायां भूसुरा आसन् श्वादयः परमासुताः ।
पोष्टाया चैव बेतालाः कार्द्रवेया महाहयः

2.4.44

एतन्मन्वन्तरे षष्ठिसहस्राणि भुजङ्गमाः ।
कर्द्रुजास्तेषु केचित्तु तात्विकाः शेषसेवकाः

2.4.45

अपरे कर्मजाजान स्तुल्यास्तत्पुत्रपौत्रकाः ।
सस्त्रीका मणिभूधन्याः महातल निवासिनः

2.4.46

महाविषाः महाघो(धा)राः कामरूपधराः खलाः ।
सरस्वत्यां सपत्नीकः कश्यपस्तप आचरत्

2.4.47

तस्या विदूरे पत्नीनां भवनानि व्यचीकॢपत् ।
उपयुक्तनतद्युक्तं तद्भृत्यास्तेषु चावसन्

2.4.48

कदाचिद्महिमवत्पार्श्वं वियाहि(विपाहि)पति मातरौ ।
गत्वा दृष्ट्वोच्चैश्रवसं नीलवालमहीप्रसूः

2.4.49

प्राहस्वच्छन्द विनताकद्रुते वचनं यदि ।
सत्यं दासी तवाहंस्यामन्यथात्वं ममेति च

2.4.50

अद्या सरात्रिश्च प्रातरिति ते गृहमीयतुः ।
तद्बालनैल्यवर्ण्ये तु सुतानाह च साधवः

2.4.51

नैश्चन्तानलपद्वैह्वौ कालान्ना शोभवेत्तव ।
क्रूराहयास्तथाकृत्वा ता चक्रुर्मातृ किं करीम्

2.4.52

शप्ताहयः शेषवाक्यात्स्वरुच्या(त्स्वस्त्र्याक्ष)क्षममात्मनः ।
ज्ञात्वा ददुर्जरत्कारोः सनाम्नीं भगिनीं मुनेः

2.4.53

स विरक्तोपि सन्तप्तैः निराश्यैर्नरकास्थितैः ।
पितृभिः प्रार्थितो गृह्णंस्तद्गर्भे त्वास्तिकं व्यधात्

2.4.54

तां त्यक्तुमूरौ सुष्टाप सा सन्ध्यार्थेव्यबोधयत् ।
निद्राभङ्गकरा गच्छेत्याहु तत्याज तां मुनिः

2.4.55

साग्रजं प्राप्य सुषुवे शिखायज्ञोपवीतिनम् ।
स आपदि स्मृतो यामीत्युक्तोगान्मातुलं प्रति

2.4.56

नैमिशं वासुकिः प्राप्य सुधाममृतमन्थने(ते) ।
शप्ता हीना तात्विकानो तेनात्यन्विप संमताः

2.4.57

तक्षकः शृङ्गिशापेन व्यदशच्च परीक्षितम् ।
शशास पृथिवीं तस्य सुतः स जनमेजयः

2.4.58

तदोदङ्को गालवस्य शिष्यः सेवा सुखात्मनः ।
दक्षिणामपि दास्यामीत्युक्तः स कुपितो ऽदिशत्

2.4.59

असाध्य पौष्यभार्यायाः राज्ञा देहि सुकुण्डले ।
इत्युक्तोगात् पुरं तस्य मार्गे गोमयभक्षणम्

2.4.60

कृत्वानाचाम्य राजानं दृष्ट्वा याचत्स्व भामिनीम् ।
याचयेत्याह तां गेहे हेनायस्य शप्तुमारभत्

2.4.61

नृपं न शप मां ब्रह्मन् शुद्धः पश्यसि भामिनीम् ।
तत आचम्य गत्वा तां दृष्ट्वा तां प्राप सङ्कुण्डले

2.4.62

साह पूर्वे तक्षकायेमादामाया च तेपि च ।
पतिव्रतानसंदृश्या(धृष्या)हन्तु(न्तुं)शक्रोहमादृ(गमद्रृ)तम्

2.4.63

यतो भवेति तं प्राहगुरुभक्तं न मा स्पृशेत् ।
इत्युक्तौ याचितः पौष्याद्भुञ्जन् श्राद्धान्नगं कचम्

2.4.64

दृष्ट्वा शत्भवान्ध(शपद्भान्ध)वस्त्वम् इति सोप्यशपन् मुनिम् ।
अपत्नी कोसीति राज्ये लोकस्यान्धोपि पश्यसि

2.4.65

इति दत्वा वरं विप्रो ययौ मार्गेथ तक्षकः ।
शिष्यो भूत्वा ग्रन्थिवाहः सोविशच्च रसातलम्

2.4.66

मुनिश्च योगसामर्थ्यात्तत्रागान्नागमायया ।
अधोस्तुवधि(वेश्चि)वन्तस्य गोमूत्रं नेत्रयोर्व्यधात्

2.4.67

ततो पश्यन्नागराजो भियादात् कुण्डलद्वयम् ।
तदादाय गुरोर्दत्वा क्रुद्धोगाज्जनमेजयम्

2.4.68

तं प्राहत्वं वृथाजातो पितृमृत्युं न चावधीः ।
अहं मन्त्रप्रवक्तास्मि सम्भारान् छटयाश्चलम्

2.4.69

विना शेषं सर्वलोकान् निर्भुजङ्गान् करोम्यहम् ।
इत्युक्त्वा सर्पयागेन भुजङ्गान् शतकोटिशः

2.4.70

व्यहनच्छक्रमगमंस्तक्षकाद्या नचापतन् ।
ततो ऋषिः सहेन्द्रोत्र तक्षकः पततामिति

2.4.71

तक्षकायसहेन्द्राय स्वाहेत्यजुहदाहुतिम् ।
तदाकम्पत्स्वराण्णागाः अस्मरन्नास्तिकं मुनिम्

2.4.72

सोभीत्या पूजितो राज्ञा ह्युदकेनापि चास्तिकः ।
स्वाभिप्रेतं तदोदकमाया च जनमेजयम्

2.4.73

दास्येर्थितमिति प्रोक्ते देहि मातुलजीवनम् ।
इति तक्षकपूर्वान् सः कालमृत्योर्व्यमूमुचत्

2.4.74

साचोदकं समाधा(ध्या)य तक्षकादीन् वधोर्व्यधात् ।
यज्ञप्राप्य फलं राज्ञे दत्वा सर्पान् अथाशपत्

2.4.75

अनागसं मादशध्वं नागसंस्मरणान् मम ।
अन्यथा वः शिरः शीर्णं भवेदिति ययौ मुनिः

2.4.76

विनता सेवयाखिन्ना गर्भं गर्भिण्यताडयत् ।
उरुपृष्ठेपुराजातानूरुपादविवर्जितान्

2.4.77

स्वाशक्तिं कालतो दास्य प्राज्ञांरभगर्भविपम् ।
प्रोक्त्वा मातुर्ययौ यान्ता सूर्यस्यासरथस्थितः

2.4.78

सौदामिन्यां सुतौ तस्य द्वौ सम्पातिजटायुषौ ।
कालेन गरुडो जातो विष्णोर्वाहो बभूव ह

2.4.79

पितुर्वाक्याद्बलप्राप्त्यै बभक्ष गजकच्छपौ ।
गन्धमादनगो पूर्वं गन्धर्वौ शापसम्भवौ

2.4.80

कद्रूतमाहात्मसुतान् प्रति पीयूषदोसिचेत् ।
दास्यान्मोक्षे मातरं च इत्येपास्तु न चाधिकम्

2.4.81

इत्युक्तो ऽमृतमादाय प्रादात्तर्गाद्व्यमोचयत् ।
दास्यात् स्वमातरं स्वर्गगतवच्चं सुरेश्वराः

2.4.82

प्राक्षिपतृणवतं च विधूय च सुधां पुनः ।
शक्रोयदाप च स्वर्गं(शक्रायदादापसख्य) तस्य कर्द्रुमथावदत्

2.4.83

कुतोमृतं हृतमिति पृष्टे हि विनतासुतः ।
माता त्वया वञ्चिता मे मया त्वं तेन वञ्चितः

2.4.84

देहीत्युक्ता सुधां पाययेति नोक्तमतो(हृ)धृतम् ।
तदादि गरुडः सर्पान् वञ्चकान् हन्तुमारभत्

2.4.85

कर्दुर्हिस्वोत्तमाद्रोहात् पुत्रशोकातुराभवत् ।
वञ्चकास्ते पतन् यज्ञे तदन्ये गरुडाशिनः

2.4.86

तदुत्थितास्तस्य करं दत्वा जीवन्ति कृत्स्नशः ।
कोवा निरागसानुसर्धूगृध्यजीवितुमुत्सहे

2.4.87

इहामुत्रापि दुःखं ते योग्या अपि भवन्ति हि ।
किमयोग्या राक्षसास्तु विशन्ति तम ऊर्जितम्

2.4.88

एवं शेषस्य सामीप्यसेवायामृतपानतः ।
सख्यात् गरुत्मतः श्रीशभक्तितो गुरुभक्तितः

2.4.89

निष्कापट्यादास्तिकस्य वरतः शक्रदासतः ।
मातुः शापं तृणीकृत्य सुखमापुः स पन्नगाः

2.4.90

किमलभ्यं जगत्यस्ति विष्णुवैष्णवसेवया ।
महातले तु(कु) सर्पाणां स्थानं विपति बिभ्रतम्

2.4.91

शिवस्य वरतोन्येषु चरन्तो यान्ति दुर्(गर्)मतिः

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc