भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 2.3

2.3.1

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे द्वितीयो ऽध्यायः
हरिः ओं
तदा मेरौ तु सुज्येष्ठः कामधुक्कल्पवृक्षकौ ।
चिन्तामणिं रूपभेदैः स्वर्गोपस्वर्गगान् व्यधात्

2.3.2

तदाविधिः सर्वजीवबिम्बरूपाण्यचिन्तयत् ।
स्वयं तथा तथाभूत्वा सृजत्ता(वछ)दृक्शरीरिणः

2.3.3

स्वर्गस्थानां पदस्थानां सर्वमन्वन्तरेष्वपि ।
भूमौ हर्यावतारे तु तदाज्ञामकरोद्विधिः

2.3.4

दुष्प्रारब्धस्य भोगायागामि सत्साधनाय च ।
सुराणां हरिसेवार्थम् अवताराण्यनुक्रमात्

2.3.5

पुनस्तत्तन्मूलरूपैरेकीभावं स सर्वदा ।
भुवं स्पृशन्त्विति तथा ते च कुर्वन्त्यजाज्ञया

2.3.6

एधमानद्विडेषां हि सर्वदा भारतास्थितिम् ।
नाज्ञापयधरिस्तेन तथा चक्रे सतां(तान्) विधिः

2.3.7

ततो धातात्मदेहस्थतत्वान्युच्चावचानि च ।
संसृष्टानि तदीशांश्च मेरुस्थः सव्यचिन्तयत्

2.3.8

देहमध्येत्वधोनाभेर्मूलाधारं स पुष्करम् ।
चतुर्दलं(शं) स्वर्णनिभं मायाद्यादलदेवताः

2.3.9

अनिरुद्धमुदानं च सुषुम्ना (दि)हि त्रिकाश्रयम् ।
तन्मध्यसम्भवा नाडी सुषुम्ना सूक्ष्मरूपिणी

2.3.10

एका शाखादिरहिता स्वर्णवर्णा पराश्रया ।
भूम्या स्वायम्भवेनापि रक्षितेब्जे समुत्थिता

2.3.11

च्छिद्रान्विता च सा सप्तप्राणादि मरुदाश्रया ।
मध्ये ज्वलन्ती तत्पार्श्वजातयोः पिङ्गलेल(ड)योः

2.3.12

मूर्धां ता नाभिकञ्जादि षट्पद्मानां समाश्रया ।
षट्दलं नाभिकमलं नीलाद्यास्तद्दलाधिपाः

2.3.14

इषन्नीलोपेतभागे गोरिकारक्तिमान्विते ।
स्थितं प्रद्युम्ननामानं नागाख्यप्राणसेवितम् ॥ प्स्_2,3.र्13 ॥
मरुतः प्रवहादींश्च सप्ततद्गान् व्यचिन्तयेत् ।
ते द्वे ऊर्ध्वमुखे हृद्गकञ्जमाहरधोमुखम्

2.3.15

नाभे द्व्यष्टाङ्गुलोर्ध्वस्थ सुषुम्नाष्टदिगुत्थितैः ।
दलैरधोमुखैरुद्यद्भानुवर्णैस्थाष्टभिः

2.3.16

दशाङ्गुलिमितान्तर्(ग)द्गर्(भा)भावकोशावहैः शुभैः ।
परस्परं दृढाश्लिष्टसंयुक्ताग्राङ्गुलं भवेत्

2.3.17

हृत्कजं तत्रगीर्देवी भारत्या सहमानिनी ।
प्राणाः कूर्मात्मकस्तत्र वसवो दलदेवताः

2.3.18

स्थानेशो हि तदन्तस्थो दशाङ्गुलमितो हरिः ।
तदीय हृदयाकाशमण्टपं श्रीस्वरूपकम्

2.3.19

दुर्गाभूश्रीभागभेदैर्भागत्रयसमन्विता ।
दुर्गाकन्दात्मिका चैव भूर्मध्ये नालरूपिणी

2.3.20

तदूर्ध्वगे तु श्रीभागे रमाकञ्जस्वरूपिणी ।
वेदिका तु त्रिभागस्था सार्धाङ्गुलि दृढा मता

2.3.21

तन्मण्टपं मणिमयं चतुर्द्वारं शुभास्पदम् ।
सुगन्धैर्मणिदीपैश्च रम्भास्तम्भैर्मनोरमम्

2.3.22

तोरणैः पूर्णकुम्भैश्च पताकछत्रमण्डितम् ।
मणिस्तम्भैमौक्तहारैः नाना श्वेताङ्कुरैरपि

2.3.23

श्रीभागं कञ्जसंमानः मूलेशाख्यो हरिस्वयम् ।
कञ्जोपरीन्दुसूर्याग्निमण्डलान्युपरिस्फुटम्

2.3.24

रम्यैव दिव्यशय्याभूत्कमनीयोपबर्हणा ।
तस्मिन् स्वरूपशेषाभ हरिरूर्ध्वफणोन्नतः

2.3.25

तस्योपरि रमाचित्रासनरूपा तदूर्ध्वगा ।
प्राज्ञात्मा स तु जीवेशो जीवोयद्वशगः सदा

2.3.26

चक्रशङ्खगदापद्महस्तः स तु चतुर्भुजः ।
किरीटकुण्डललसन् नूपुराङ्गदभूषणः

2.3.27

हारश्रीवत्सकण्ठस्थ कौस्तुभादैरलङ्कृतः ।
रत्नाङ्गुलीयकटककटिसूत्रादि सत्कृतः

2.3.28

पिताम्बरोति सर्वाङ्गसौन्दर्यसुभगोचितः ।
स विश्वतोमुखोप्येकमुखवद्भाति नीलदृक्

2.3.29

स्थानेश मूलेशयुक्तः समुपास्यो निरंशकैः ।
मण्टपाधः प्रदेशस्थशक्तिराधाररूपिणी

2.3.30

कूर्मशेषश्च भूः क्षौरवार्धिपाद्वीपरूपिणी ।
श्वेतां रमां संविचिन्त्य निरंशैरित्यचिन्तयत्

2.3.31

उरुस्ताल्वोर्भ्रुवोर्मध्ये शिरस्यूर्ध्वमुखानि च ।
कञ्जानि श्वेतवर्णानि द्विषड्व्यष्टदलैस्तथा

2.3.32

द्वाभ्यां सहस्रदलकैर्युक्तानि दलदेवताः ।
आदित्याः प्रथमे पद्मे इन्द्राद्यास्तत्रदेवताः

2.3.33

देवतास्तु त्रृतीयेब्जे भारती च सरस्वती ।
मूर्ध्नैको बहुरूपेण वायुः सर्वदलाधिपः

2.3.34

नारायणो हरिः कृष्णो वासुदेवस्तदीश्वरः ।
कृकलो देवदत्ताख्यः सूत्रनामा मरुत्पतिः

2.3.35

मरुतः सप्तसप्तापि पञ्चस्वपि हदारिषु ।
सुषुम्ना नालजातानि पद्मान्येतानि सप्त च

2.3.36

गुणत्रयात्मिकानाडी सुषुम्ना वेदपारगैः ।
स्यैका शाखादि रहिता गर्भेछिद्रान्वतापि च

2.3.37

सरस्वती तदन्तर्गा नदी वारिस्वरूपिणी ।
हैरण्मयी वैध्युतीति वज्रिका भास्वतीति सा

2.3.38

नामभिः संयुतालोकाः भूराद्याः तत्रसंस्थिताः ।
भूर्भुवस्वर्गलोकेशा महरादीश्वरः(श्चराः) क्रमात्

2.3.39

भूविघ्नेशेन्द्रानिरुद्धकामशेषाब्जजा मताः ।
कट्यूरुद्वितये जानुजङ्घगुल्पो भयाङ्घ्रिषु

2.3.40

अतलाद्याश्रितादेवा देहे देवेश सेवकाः ।
मित्राग्न्यस्त्रपवारीशमयमन्दयमाः क्रमात्

2.3.41

देहेप्येवं विराड्देहधारिणं तन्मितोवति ।
सुषुम्ना मूलदेशोत्थे गङ्गायामुनवार्धरे

2.3.42

पिङ्गलेले रक्तनीलवर्णे सव्यापसव्यगे ।
गर्भछिद्रान्विते षट्त्रिंशत्सहस्रप्रभेदिनी

2.3.43

पृथक् पृथक् सव्यनाड्यो महत्तत्वात्मिका मताः ।
त्रिधा विभक्ताः पादान्तं द्विषट्साहस्रसंमिताः

2.3.44

दक्षिणे दक्षपादान्तं नाड्यस्तावन्मिताः क्रमात् ।
पिङ्गला ऊर्ध्वदेहेषु व्याप्तास्तावन्मिताः शुभाः

2.3.45

अधोमध्योर्ध्वगास्तास्तु सप्तास्य पथमाश्रिताः ।
सप्तसन्त्येव विवराः घ्राणास्य श्रुति नेत्रगाः

2.3.46

सप्तास्यपथनामानो गोलकाः सप्तकीर्तिताः ।
सप्तोर्ध्वनाड्यो हृत्कञ्जाधस्थलाद्वामपार्श्वगाः

2.3.47

पुनर्हृत्कं चोर्ध्वदेशात् सव्यमावृत्य पिङ्गलाः ।
सप्तास्य पथगाः तत्र(सूर्यो) वह्न्याद्या वत्सरेश्वराः

2.3.48

उत्तरायणमासेशाः दिनेशाः शुक्लपक्षपाः ।
परशुक्लत्रयं ह्यस्मिन् ह्येत एवाभिमानिनः

2.3.49

सूर्यादि सर्वदेवानां नामवाच्यास्तु पिङ्गलाः ।
तस्यां ब्रह्माभिमानी गी ऋजवस्त्वपरोक्षिणः

2.3.50

प्राणापाना विलायां च पिङ्गलायां च वर्ततः ।
रूपैः षड्विंशत्सहस्रैस्तासु तौ भारतीयुतौ

2.3.51

तथानिरुद्धप्रद्युम्नौ दक्षिणे पुं स्वरूपतः ।
स्त्रीस्वरूपेण वामे तु तावद्रूपैश्च तास्वलम्

2.3.52

तादृक्पाणस्वरूपस्थौ ब्रह्मरुद्राद्युपासितौ ।
दक्षिणायनमासेशाः रात्रीशाश्चैव देवताः

2.3.53

कृष्णपक्षेश्वरारुद्रविपशेषाः सभार्यकाः ।
अहङ्कारात्मकेलायां देवाः सर्वेभिमानिनः

2.3.54

आनन्दविज्ञानमयौ पिङ्गलेलाधिपौ क्रमात् ।
व्यानात्मा सर्वसन्धिस्थः उदानोब्रह्मनाडिगः

2.3.55

सुषुम्ना ब्रह्मनाडीति समानःसर्वदेहगः ।
अधो मध्योर्ध्वगाः सप्तसप्तेलानाडिका क्रमात्

2.3.56

सप्ताश्वमार्गपथगाः ऊर्ध्वेलाः पिङ्गला यथा ।
हृत्कञ्जाधोभागतस्ताः सव्यं प्राप्य तदूर्ध्वतः

2.3.57

अपसव्यं पुनः प्राप्यसप्ताश्वपथगाः क्रमात् ।
भूम्या(धूमा)दि देवताशब्दैरिलावाच्यासमस्तशः

2.3.58

ऋग्वेदसूक्तभागेषु बृहतीःऋक्सहस्रयुक् ।
सूत्रद्व्यष्टादशैकोनैः पूर्णरुक् प्रभविष्यति

2.3.59

पादस्तु नववर्णात्मा तादृक्पादचतुष्टयैः ।
रुक्तत्संयुक्ताक्षरेतावर्णाद्वासप्ततीरिताः

2.3.60

द्वासप्ततिसहस्राणि वर्णाः सर्वरुगाश्रिताः ।
द्वासप्ततिसहस्रेषु पिङ्गलेलाह्वयासु च

2.3.61

नाडीषु तत्तद्वर्गेषु वाच्यरूपाण्यचिन्तयेत् ।
सुषुम्नायाश्चतुर्दिक्षु हृत्कञ्जाधः समाश्रितम्

2.3.62

मनोबुद्धिरहङ्कारश्चित्तञ्चेति चतुर्विधम् ।
तत्रेन्द्रकामौ भार्यौ तौ तद्विशेषाभिमानिनौ

2.3.63

श्रोत्रे दिग्देवताश्चन्द्रस्त्वक्चाहं प्राणनामकः ।
नेत्रयोर्भास्करो जिह्वामानी वरुणर् इरितः

2.3.64

दश्रौ घ्राणाश्रितावेते तद्विशेषाभिमानिनः ।
वक्त्रे(वाचि) वह्निः करेदक्षो जयन्तः पादयोर्ध्वयोः

2.3.65

मित्रः स्वायंभुवौ पायूपस्थयोरभिमानिनौ ।
घ्रा(प्रा)णो मरुच्छब्दमानीत्वपानः स्पर्शगस्ततः

2.3.66

व्यानोरूपः रसमानी ह्युदानो गन्धसंस्थितः ।
समान एते मात्रासु विशेषादभिमानिनः

2.3.67

भूदेवी मानिनी पृथ्वीः अबात्मा वरुणः स्मृतः ।
अग्निस्तेजोमयो वायौ प्रवहः प्रभुरीश्वरः

2.3.68

आकाशमानी विघ्नेशः भूतेष्वेते विशेषपाः ।
केशालि(स्थि)त्वङ्मांसनखरूपा भूर्देहगा मताः

2.3.69

वारिरक्तात्मकं देह जठराग्निस्तु तैजसम् ।
वायुः श्वासात्मकः काये ह्यवकाशो नभस्तनौ

2.3.70

प्रत्यक्षसिद्धसर्वेषां सत्वं बा(बो)ध्यं न हि क्वचित् ।
सुदुर्गन्धौ घ्राणवेद्यौ देहे जिह्वेन्द्रियप्रियः

2.3.71

शुभाशुभरसो रूपं चक्षुर्वेद्यं कलेवरे ।
शीतोष्णादिः त्वचावेद्यः स्पर्शः शब्दे(ब्दः) श्रुतिप्रिये(यः)

2.3.72

मात्राधृषीकविषयाः सत्याबाध्यान हीरिताः ।
वचनादानगमनोत्सर्गभोगादिसाधनम्

2.3.73

कर्मेन्द्रियपञ्चचार्थक्रियाकारेति(रिण) (बा)बध्यते ।
सत्यं शृणोतिस्पृशतिपश्यत्यत्ति च जिघ्रति

2.3.74

श्रेत्रत्वङ्नेत्ररसनाघ्राणस्तत्वानि तान्यतः ।
अर्थक्रियाकराण्येव विबोध्यानीहवेदगम्

2.3.75

मनश्च श्रुतिहेतुत्वात् सप्तं(त्यं) च शरीरगाः ।
अहङ्कारापादकत्वात् पिङ्गला ममतास्पदा

2.3.76

नाड्यो दौर्बल्यसमये भान्तिसव्यापसव्ययोः ।
पुंसांस्त्रीणामायादिव्यञ्जकाः प्रभवन्ति हि

2.3.77

अतः सत्याच्च(श्च) बहुषु ज्ञानाज्ञानप्रवर्तकाः ।
गुणाः सत्वादि देहस्थाः सत्यास्तदभिमानिनः

2.3.78

देवाः सत्याः केवलस्य जडस्यस्थित्ययोगतः ।
देहानां च सदेहानां देहबन्धमतिकृताम्

2.3.79

दुःखास्वदत्वाद्देहाप्तिकारणं सत्यमेव हि ।
कर्माणि द्विविधं वेदेषूक्तानुक्रमसच्चसत्

2.3.80

सुखदुःखप्रदं तेन सत्यावेदाःसमस्तशः ।
देशे काले कृतङ्कर्म फलदत्त्वेन तौ वृतौ

2.3.81

तत्कर्मफलभोक्तारो जीवाः सत्याः सलिङ्गकाः ।
भग्नलिङ्गा विमुक्ताश्च श्रुत्युक्ताश्च कृताः स्मृताः

2.3.82

इहान्यत्राल्प बहुलज्ञानाज्ञानादि योगिभिः ।
सदसत्तारतम्यं च सप्त(त्य)मेते स्वतन्त्रकाः

2.3.83

चिच्चेत्यरूपा एतेषां देहयोगविवर्जिताः ।
नियन्ता पुरुषश्रेष्ठः न च एतत् प्रयुज्यते

2.3.84

तस्माल्लक्ष्मीपतिर्व्याप्तः स्वतन्त्रः श्रुतिचोदितः ।
निर्देषो नित्यसुगुणः सदा नारायणो हरिः

2.3.85

एवमाध्यात्मिकं सत्यम्(प्तम्) अधिभूतं बहिस्थितम् ।
सर्वाङ्कुरोत्पादकत्वात् भूःसत्वा(त्या)खिलकारणात्

2.3.86

अभस्मरनादि योग्यत्वात् पालकद्दाहादि साधनम् ।
वह्निश्च शोषको वायुरवकाशप्रदानियत्

2.3.87

तत्कारणानि मात्राश्च तद्गतानीन्द्रियाणि च ।
सत्या(प्ता)न्येवं समस्तानि संसृष्टान्यण्डगानि च

2.3.88

एतन्मूलान्यसंसृष्टान्यपि सत्यानि सर्वशः ।
सङ्गृह्येतद्विनिर्माया याति सत्यः सहत्यजः

2.3.89

केचिन्निरङ्गा निर्देहा ज्ञानादि गुणवर्जिताः ।
निरंशो खण्डरूपश्च सर्वादृश्योनिरूपिताः

2.3.90

अनामरूपो फलदस्त्वनुपास्यो विचारितः ।
ब्रह्मैकन्तु जडं सर्वे ब्रह्मण्यारोपितं मृषा

2.3.91

शुक्तौ रजतवद्रज्जौ सर्पवत्प्रतिभाति च ।
अज्ञानं कल्पितं तद्धि शुक्तिज्ञानाद्धि बाध्यते

2.3.92

विचारिते सति हि सा शुक्तिर्नरजतं भवेत् ।
अतो बोध्यं मृषाभूतं मिथ्या तद्रजतं यथा

2.3.93

वस्तुस्वरूपं ज्ञानेन कल्पितत्वाच्चतत्तथा ।
अज्ञानकल्पितं ब्रह्मण्येतद्विश्वं प्रकल्पितम्

2.3.94

ब्रह्मण्यारोपकृज्जीवो ब्रह्मान्यो नैव वर्तते ।
निरंशमपि तद्ब्रह्मत्वज्ञानावृतमञ्जसा

2.3.95

अनन्तरूपकं भुङ्क्ते नानायोनिसमुद्भवम् ।
तस्यज्ञानमुपाध्युत्थं सत्योपाधिर्न विद्यते

2.3.96

मिथ्या साज्ञानजतत्वान्नाज्ञानं सत्य(त्व)मुच्यते ।
तदाज्ञानेन जीवस्थं जीवस्याभावतः स्वतः

2.3.97

निर्विशेषब्रह्मणि तु ज्ञानाज्ञानेन वर्ततः ।
अतो न ब्रह्मनिष्टं तत्तज्ञानतदुपाधिजम्

2.3.98

एवं मिथ्याभूतकालकर्मदेशागमादिभिः ।
भ्रमद्ब्रह्म च कल्पान्ते ब्रह्ममूल स्वरूपकम्

2.3.99

ज्ञात्वा तत्रैक्यमापन्नो न पुनर्जायते भुवि ।
मुक्तस्यापि न चाज्ञानं नेन्द्रियाणि न क्वचित्

2.3.100

निर्विशेषे परेब्रह्मण्यैक्यमेतादृशं खलु ।
तदज्ञानं न सन्नासत्सदसन्न च तर्हिकम्

2.3.101

अनिर्वाच्यं तन्निवृत्तिर्मुक्तिरित्यभिधीयते ।
पूर्वापरेषु कालेषु सृष्टिन्मेत्यपि ते जगुः

2.3.102

एतद्धि दुर्मतं सन्तो नाङ्गीकुर्वन्तितात्विकाः

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc