भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 1.8

1.8.1

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमो ऽध्यायः
श्रीहंस उवाच
व्यतीते लयकाले तु सृष्टिकाल उपागते ।
परकालादिमादौ तु पुरुषः सर्वचेतनान्

1.8.2

वासुदेवेर्पयल्लिङ्गबद्धान् जीवान् (सृज्यान्)विलक्षणान् ।
तारतम्ययुतान् स्वयोग्यतां कलितांश्च सः

1.8.3

स्वस्वोचितमहायत्नाभिमुखान् स्वस्वकर्मणा ।
जन्मलाभोचितान् वासुदेवस्थान् वीक्ष्य चिन्तयन्

1.8.4

सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजाम् ।
लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः

1.8.5

एकं गृहीत्वान्यजीवान् प्रादात् सङ्कर्षणो विभुः ।
स वायुमेकं लिङ्गे तं गृहीत्वान्यान् सुचेतनान्

1.8.6

प्रद्युम्रो ऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके ।
तदन्यान्तात्विकान् सर्वपदस्थान् भावितात्विकान्

1.8.7

व्यक्तापरोक्षिणः संख्या नियमात् सूक्ष्मयोगतः ।
स्रष्टुं प्रादात् सचरमे अनिरुद्धो ऽखिलेश्वरः

1.8.8

वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् ।
तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः

1.8.9

न्यपतन् तत्र योबिन्दुः सात्विकः स तु निर्मलः । ।
रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतत्

1.8.10

तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः ।
रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितम्

1.8.11

पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः ।
तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटम्

1.8.12

समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् ।
ततो माया प्रार्थितः सन् वासुदेवस्तदादिमः

1.8.13

तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः ।
अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितम्

1.8.14

निक्षिप्य च निगीर्येशोमायायां महदाह्वयम् ।
सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः

1.8.15

तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुम् ।
गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः

1.8.16

यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते ।
तत्र सत्वाणवः सर्वे दशधोपचिताः सदा

1.8.17

भवन्ति राजसास्तामसाणवः पादमात्रतः ।
भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः

1.8.18

सत्वादयस्तु दशधा ऊर्जिताःसम्भवन्ति हि ।
त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि

1.8.19

सत्वाणवो राजसाश्च तामसाह्यणवश्च ये ।
ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि

1.8.20

सांशाःसर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः ।
सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सताम्

1.8.21

रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः ।
तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयम्

1.8.22

सर्वेषां सूक्ष्मदेहानां अन्ते वसति नाशकृत् ।
सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकम्

1.8.23

श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः ।
शुक्लरक्तात्मिकानीला आदायानन्तरूपकः

1.8.24

तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः ।
तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखम्

1.8.25

एकोनविंशतिमुखौ विश्वतैजसनामकौ ।
सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगम्

1.8.26

गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत ।
दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः

1.8.27

उत्तमानां मध्यमानां नीचानां तत्वमानिनाम् ।
त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयाम्

1.8.28

करोत्ययं मध्यगाख्य त्रितयेन स एव हि ।
उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयाम्

1.8.29

करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि ।
निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः

1.8.30

पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति ।
अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु

1.8.31

जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः ।
कृतानि सात्विकादीनि कर्माण्युच्यावचानि च

1.8.32

यानि यान्यपि सर्वाणि संचिन्तान्यपि तेष्वलम् ।
नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलम्

1.8.33

तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि ।
भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः

1.8.34

प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयम् ।
यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटम्

1.8.35

न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः ।
तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः

1.8.36

भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी ।
हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः

1.8.37

राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः ।
सञ्चितान्यपि तानीह अपरोक्षे सति स्फुटम्

1.8.38

दग्धान्यपि विनष्टानि भवन्त्येव न संशयः ।
मर्त्यो जीवन्भारतेस्मिन् नित्यं कोटिसहस्रशः

1.8.39

करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः ।
अनन्त जन्मनानन्तानन्तायुः परिमाणतः

1.8.40

कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः ।
सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचित्

1.8.41

क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने ।
नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः

1.8.42

लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः ।
रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः

1.8.43

यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् ।
च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः

1.8.44

बोधयन्त्यपि हे जीव न ते सञ्चिततो भयम् ।
इति कारणतो नाशं सञ्चितस्य वदन्ति हि

1.8.45

घटादिनाशवन्नाशः कर्मणां नैव शस्यते ।
सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः

1.8.46

अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभम् ।
आगामीत्युदितः सद्भिर्नतलोपो भविष्यति

1.8.47

न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः ।
यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः

1.8.48

आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः ।
गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि

1.8.49

आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः ।
आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते

1.8.50

वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतम् ।
बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः

1.8.51

भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभम् ।
ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलम्

1.8.52

समस्त भूतले वापि विवरेष्वन्तरिक्षके ।
स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे

1.8.53

निरये वा तमसि वा वैकुण्ठादिषु वा जनः ।
जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि

1.8.54

आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः ।
महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा

1.8.55

तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः ।
स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः

1.8.56

अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् ।
नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनाम्

1.8.57

रियुः त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् ।
तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु

1.8.58

अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।
स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः

1.8.59

ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु ।
अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नताम्

1.8.60

वासः प्रारब्धपुण्येन निष्कामो न भविष्यति ।
आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि

1.8.61

स तात्विकानां प्ररब्धात् पुण्यात्पापाच्च संचितात् ।
भोगदत्तात् पुण्यपापात् सुखदुःखादि शस्यते

1.8.62

तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते ।
निरंशनीचसांशानां नरके वास इष्यते

1.8.63

प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः ।
अयोग्यानां द्वेषपाकात् तमः प्राप्तिर्भविष्यति

1.8.64

देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् ।
देवानां निरयो नैव तमश्चापि कथञ्चन

1.8.65

ना सुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् ।
भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु

1.8.66

सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः ।
तमो मिथ्याज्ञानयोगात् ज्ञानेनैव हरेः पदम्

1.8.67

तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् ।
जाग्रत्प्रवर्तको विश्वः सो ऽज दक्षाक्षिगो भवेत्

1.8.68

लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् ।
न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकम्

1.8.69

न दैन्यावेशदुःखादि न संशयविपर्ययौ ।
न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः

1.8.70

न देहाभिमतिर्नासत्पथे देहेन्द्रियोद्गतिः ।
निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः

1.8.71

ब्रह्मणो हि परस्यास्य प्रसादात् सर्वदासुखम् ।
स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेत्

1.8.72

सोन्तरङ्गो हरेः साक्षात् सर्वोत्कृष्ट प्रियो मतः ।
पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवम्

1.8.73

अनादिकालमारभ्य अजजीवगणाः सदा ।
पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः

1.8.74

यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः ।
कृतयानन्तवेदोक्त गुणोपासनया पदम्

1.8.75

प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् ।
तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः

1.8.76

तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान् हरिः ।
एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना

1.8.77

मनस्युत्पद्यते तच्च न करोति प्रयत्नतः ।
निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः

1.8.78

अनुकूला भावताव(भवत्येव) जन्मजन्मान्तरेष्वपि ।
अकृतानां कर्मणान्तु स्वप्नः(प्न)स्येशफलप्रदः

1.8.79

स्वप्नदृष्टा अनन्तार्थास्तत्काल सुखदुःखदाः ।
न जाग्रदृष्टिपथगाः किन्तु तत्काल कल्पिताः

1.8.80

स्वप्ने स्वस्थस्य जीवस्य वासनानन्त्यमीश्वरः ।
उपादानीकृत्यमुख्यैः पूर्वोक्तैरेव तैजसः

1.8.81

कल्पयित्वा बहूनर्थान् दर्शयत्यखिलेश्वरः ।
स्वप्नः सत्यस्ततो यस्मात् भावीनफलसूचकः

1.8.82

शेषादिसर्वजीवानां योग्यकाले तथा चरन् ।
तैजसः स्वप्नकृच्चेति जनस्य स्वप्नकृद्भवेत्

1.8.83

तत्तमोगुणमादाय प्राज्ञस्तसूक्ष्महृद्गतः ।
जीवस्य लिङ्गबद्धस्य पादस्थस्य जगद्गुरोः

1.8.84

ध्यानावस्थां ददात्येवमेकास्यो देह्वयोनितः ।
लिङ्गबद्धं ग्रसन्नर्धं मूर्छावस्थां प्रयच्छति

1.8.85

लिङ्गबद्धं मुखेस्थाप्य प्राज्ञोत्यल्पोन्यरूपतः ।
यदाश्लिष्यति तं देवः तदा निद्रां प्रयच्छति

1.8.86

प्राज्ञो जीवेश्वरस्तं वै विना जीवोक्षमः स्मृतः ।
प्राज्ञः कण्ठस्थितं प्राप्य जीवानां स्वप्नदो भवेत्

1.8.87

जीवं गृहीत्वा दक्षाक्षिगतोसौ जग(जागृ)दीश्वरः ।
न प्राज्ञतेजसौ धातुः स्वप्ननिद्रा प्रवर्तकौ(का ?)

1.8.88

ध्यानावस्थां विना तस्य तत्तद्दुष्कर्म वर्जनात् ।
प्राज्ञं जीवेश्वरं प्राहुः स सर्वहृदिसङ्गतः

1.8.89

सांशजीवं स वै प्राज्ञो रूपैण्यैकेन पादयोः ।
हृदिसंस्थाप्य सूक्ष्मान्यरूपेणादाय चेतनम्

1.8.90

सलिङ्गं स यदा विश्वे नैकीभूतो भविष्यति ।
सोणुः प्राज्ञोहृदिस्थेन एकीभूतो भवेद्यदि

1.8.91

ध्यानावस्थां सञ्जनयत्यपि जीवपतिप्रभुः ।
विश्वादयो निरंशानां अवस्था त्रितयप्रदाः

1.8.92

विना ऋजून् सर्वसुरान् भुविजातान् जगद्गुरुः ।
अवस्थात्रयसंयुक्तान् कुर्वन्ति प्राज्ञपूर्वकाः

1.8.93

ऊर्ध्वलोकस्थितानान्तु सदा जागृत्प्रवर्तकः ।
एवं सूक्ष्मशरीरेण ब्रह्माणमसृजद्विभुः

1.8.94

एवं सङ्कर्षणो वायोः जयायां सूक्ष्मदेहकृत् ।
वासुदेवः सरस्वत्याः ब्रह्माणमकरोत्पतिम्

1.8.95

सङ्कर्षणस्तु भारत्याः मुख्यप्राणं व्यधात्पतिम् ।
सरस्वत्याश्च भारत्याः प्रद्युम्नः सूक्ष्मदेहकृत्

1.8.96

तयोस्ताभ्यां सूक्ष्मतनू विपशेषौ बभूवतुः ।
सूत्रनामा तदावायुः ब्रह्मा पुरुषनामकः

1.8.97

वेदादि सर्वनित्यानाम् अर्थानां जीवसन्ततेः ।
नित्यानामपि सृष्टौ हि तावुभावाभिमानिनौ

1.8.98

ते भार्ये तौ विनाकश्चनार्थोपि स्थितिमर्हति ।
ब्रह्मा निरभिमानित्वात् शरीर्यप्यशरीरवान्

1.8.99

अशरीरो वायुरभ्रं विद्युदित्यादि नामभिः ।
परशुक्लत्रयं वाच्यं योगात्ते सर्वमानिनः

1.8.100

अथानिरुद्धः कालेन ब्रह्मवाय्वोः सभार्ययोः ।
त्रिचतुस्त्वेकविंशत्यवारं सूक्ष्मशरीरकृत्

1.8.101

त्रिवारमेकविंशत्सवारं सूक्ष्म(तनुप्रदः)तनुं प्रदात् ।
अनिरुद्धो विपादीनां नीलादीनां तथैव च

1.8.102

सौपर्ण्यादि त्रयाणाञ्च कालदेशक्रमेण च ।
इन्द्रादि पुष्करान्तानां तात्विकानाम् अशेषतः

1.8.103

एकविंशतिवारन्तु अनिरुद्धस्तु सूक्ष्मकृत् ।
यदा यस्य च सूक्ष्माप्तिस्तत्पूर्वक्षण एव च

1.8.104

तत्तज्जीवगणस्यासु लिङ्गवैषम्यमित्यपि ।
पञ्चसप्तभिर्मासैर्बाह्यमानेन सर्वशः

1.8.105

तात्विकानां तु देवानां सूक्ष्मसृष्टिरभूद्धरेः ।
ततो स सत्वतमसः वैषम्यावस्थयायुताम्

1.8.106

जडाख्यां प्रकृतिं सम्यक् चेष्टयामास विश्वसृट् ।
ततो बिन्दुत्रयं जातं सत्वं चेति रजस्तमः

1.8.107

ऊर्ध्वदेशे सत्वबिन्दुः रजोबिन्दुस्ततोप्यधः ।
तदधोभूत्तमो बिन्दुः स्थूलश्चाद्यास्त्रिबिन्दवः

1.8.108

श्रीभूदुर्गेति रूपा मा क्रमात्रिगुणमानिनी ।
विष्णुब्रह्माशिवश्चेति बिन्दुक्रमनियामकाः

1.8.109

ब्रह्मवायू सभार्यौ द्वौ त्रिरूपावभिमानिनौ ।
सत्वादिबिन्दुषु श्रीश्च श्रिता नश्वरेषु वै

1.8.110

रजस्तमो बिन्दुगतवैषम्ये जगदीश्वरः ।
ब्रह्मा सङ्कर्षणात्मा तु समुधृत्य ररक्षतुः

1.8.111

ततो विष्णुः सत्वबिन्दुगतः संवर्धयत्यजः ।
सत्वावरणमाद्यं च चक्रे तत्र वृतोद्यमम्

1.8.112

रजोविन्दुगतो ब्रह्मनामकस्तदधस्तने ।
देशे द्वितीयावरणं राजसस्यैव नामकम्

1.8.113

तमोबिन्दुस्थितो रुद्रस्तामसावरणं व्यधात् ।
तद्धि द्वितीयावरणं रजसस्यैव गर्भगम्

1.8.114

विष्णुब्रह्मशिवौ द्वौ द्वौ ब्रह्मवायू सभार्यकौ ।
श्रीभूदुर्गास्वाद्यमाद्य तृतीयावरणेषु हि

1.8.115

तत्तदात्मस्थूलदेहत्रिगुणेष्वभिमानिनौ ।
आद्यं शुक्लं द्वितीयं तु रक्तं नीलं तृतीयकम्

1.8.116

रजोगुणस्यवैषम्या त्रिगुणावरणान्तरे ।
महदावरणं चक्रे ब्रह्मनामा स भूपतिः

1.8.117

चतुर्थावरणं तत्र विष्णुब्रह्मशिवात्मकः ।
जाताभ्यां ब्रह्मवायुभ्यां जतौ द्वौ द्वौ त्रिरूपकौ

1.8.118

सभार्यौ ब्रह्मवायू च महत्तत्वाभिमानिनौ ।
महत्तत्वनियन्तेशः आनन्दाख्यो हरिः स्वयम्

1.8.119

आनन्दनाम्नस्तनयौ ब्रह्मवायू महद्गतौ ।
रजोगुणस्य वैषम्यात् सर्वांशेन मतः कलाः

1.8.120

राजसांशेनेन्द्रियाणां दशानां च कलास्तथा ।
तामसांशेन तन्मात्राः कलाः पञ्चमहद्गताः

1.8.121

अभवन्ताः कला नित्यं षोडशापि सदातनः ।
महत्तत्वाद्विकुर्वाणाद्ब्रह्मणः स्थूलदेहतः

1.8.122

आनन्दवशगाज्जातस्त्वहङ्कारस्त्रिवृन्मतः ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा

1.8.123

उद्यद्रविप्रभावत्वान् महताहं त्रिवर्णकः ।
वैकारिकस्तु सत्वांशजातः शुक्ल उदहृतः

1.8.124

तैजसो राजसांशोत्थः रक्तवर्णः प्रकीर्तितः ।
मनो हृषीकाणि मात्राः पूर्वं सूक्ष्मस्वरूपतः

1.8.125

महत्तत्वगताह्येता अहङ्काराश्रिताः क्रमात् ।
गायत्रीशो विधिः सत्वे विरिञ्चस्तु रजोगुणे

1.8.126

सावित्रीशो भवत्यद्धा तमसि ब्रह्मनामकः ।
सरस्वतीशो वसति तादृग्रूपत्रयोत्थितौ

1.8.127

त्रिरूपौ वै ब्रह्मवायू तन्नामानौ महद्गतौ ।
विद्यादिभिस्त्रिभिस्तासु गायत्र्यादिषु तिसृषु

1.8.128

क्रमाद्ब्रह्मा च वायुश्च शेषश्चासन् हरीच्छया ।
विपशेषौ सभार्या च महद्राजे रजोत्रिधार्

1.8.129

हर्याज्ञयैवत्रिविधाहंरेष्वभिमानिनः ।
विद्याद्युत्थैर्ब्रह्मपूर्वैस्त्रिभिः रुद्रस्त्रिरूपकः

1.8.130

सभार्यस्त्रिविधाहङ्कृन्मानीतुस्थूलदेहकः ।
महत्तत्वस्य गर्भस्थमहदावरणं मतम्

1.8.131

लक्ष्मीनारायणो ब्रह्मवायू भार्यासमन्वितौ ।
उक्तेषु वक्ष्यमाणेषु सर्वतत्वेषु सर्वदा

1.8.132

वसन्ति तान्विना शेषवीशाद्या नक्षमा क्वचित् ।
वैकारिकाद्धि कुर्वाणान् मनस्तत्वं जगद्गुरुः

1.8.133

सृष्ट्वाहङ्कारगर्भस्थं चकार पुरुषर्षभः ।
तैजसात्तु विकुर्वाणात् हरिणा चेन्द्रियाणि च

1.8.134

ज्ञानशक्तीनि पञ्चापि कर्मशक्तीनि पञ्च च ।
सृष्टा भावीनि काले तु सृज्यं वै भूतपञ्चकम्

1.8.135

यत्र यत्र स्थाप्यमीशस्तत्रतानि क्रमाद्व्यधात् ।
आकाशं तु विकुर्वाणात् स्पर्शमात्रमभूद्धरेः

1.8.136

ततो वायुं समुत्पाद्य वाय्वावरणमातनोत् ।
वायोश्चैव विकुर्वाणाद्रूपमात्रं ह्यभूत्ततः

1.8.137

ततो वह्निं समुत्पाद्य वह्न्यावरणमातनोत् ।
वह्नेरपि विकुर्वाणाज्जलमात्रं व्यधाद्धरिः

1.8.138

ततः सलिलमुत्पाद्य जलावरणमाचरत् ।
जलावृत्ते विकुर्वाणात्तु गन्धमात्राभवद्विभोः

1.8.139

ततः पृथ्वीं सनिर्माय चक्रे भूम्यावृतिं हरिः

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc