भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 1.7

1.7.1

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठो ऽध्यायः
श्रीहंस उवाच
नारीकेलफलाकारो लिङ्गदेहस्त्रिवृन्मतः ।
मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा

1.7.2

अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने ।
न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलम्

1.7.3

दुःखस्पृष्टा लिङ्गबद्धाः दुःखास्पृष्टा रमैव हि ।
यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना

1.7.4

अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः ।
तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता

1.7.5

भूम्याकृता भवति सा (स्वरूपज्ञानरूपिणी)जीवानां ज्ञानरोधिनी ।
स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये

1.7.6

रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा ।
यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल

1.7.7

क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा ।
भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः

1.7.8

सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते ।
सात्विकी राजसी चेति तामसीति समस्तशः

1.7.9

योग्यानां सात्विकीबुद्धिः बहुला अन्ये ऽल्पके मते ।
मध्यमानान्तु जीवानां राजसी तामसी मतिः

1.7.10

क्रमात्बहुतरे ऽन्येतु स्वल्पमात्रे भविष्यतः ।
पञ्चमात्रागताज्ञानपञ्चकं लिङ्गदेहगम्

1.7.11

अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् ।
साक्षीन्द्रियाणां (तमसा)मनसा योगे तद्धि भविष्यति

1.7.12

साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि ।
बाह्या स्वारूपिकञ्ज्ञानं त्रिविधानां चितामिह

1.7.13

साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि ।
बाह्यमस्वारूपिकं च कामक्रोधादिकं च यत्

1.7.14

अनादिकामो जीवानां त्रिविधानां भविष्यति ।
रजः परिच्छेदगताः ज्ञानेन्द्रियकलाः यदि

1.7.15

साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति ।
अनादिकामःसा प्रोक्ता त्रिविधानां चितामिह

1.7.16

रजः परिच्छेदगताः कर्मेन्द्रियकलाः यदि ।
साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकम्

1.7.17

बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतम् ।
अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगम्

1.7.18

मदीयमितिमत्वा तु बद्धो भवति चेतनः ।
कालेन भारते वर्षे लब्धजन्मापि मानुषम्

1.7.19

ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च ।
प्रसादात् श्रीहरेः कर्म देवतानामथान्तरे

1.7.20

अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये ।
अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया

1.7.21

परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च ।
अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये

1.7.22

हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि ।
दुःसङ्गवृद्धात् अण्डान्तर्लिङ्गदेहस्य नाशने

1.7.23

सतिवायोर्गदाघातादसतां कालयोगतः ।
अनाद्यविद्याकामौ चानादिकर्मापि नश्यति

1.7.24

अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः ।
ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे

1.7.25

अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत्।
तदा जीवस्य सर्वस्य न भवन्ति कदाचन

1.7.26

राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः ।
लये तेषु रजस्येकः सत्वपार्श्वगतादश

1.7.27

भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवम् ।
रजोगतोणुस्तमसः सतो द्विगुणराजसम्

1.7.28

राजसाणुशतांशाभाः सत्वगास्तामसाणवः ।
दशापिदशतोत्कृष्टान्सात्विकाणून् लये ध्रुवम्

1.7.29

नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता ।
तामसी राजसी चेति साम्यावस्था द्विधा मता

1.7.30

साम्यावस्था सात्विके तु न क्वापि किल विद्यते ।
द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु

1.7.31

लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः ।
यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः

1.7.32

अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च ।
वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते

1.7.33

यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः ।
सृज्यानां सर्वजीवानां अण्डाद्बहि रथान्तरे

1.7.34

नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् ।
व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च

1.7.35

साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च ।
लये सत्वप्रविष्टा ये दशते राजसाणवः

1.7.36

स्वशताधिकसत्वस्थपरमाणु समन्विताः ।
सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि

1.7.37

तमः परिच्छेदगत राजसाणुर्लये तु यः ।
स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः

1.7.38

रजोभागं प्रविशन्ति सृष्टिकाले समागते ।
लये रजोभागमध्यगतोणू राजसस्य यः

1.7.39

रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते ।
प्रकृतौ लिङ्गदेहो ऽपि एवं यदि गुणस्थितिः

1.7.40

साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति ।
लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः

1.7.41

राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः ।
युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः

1.7.42

रजोविष्टस्तामसाणुः पूर्वाणु(सत्वेण)तुलितः स्वयम् ।
स्वतो(सत्वाच्च) द्विगुणेनैव संयुक्तो राजसाणुना

1.7.43

तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते ।
भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया

1.7.44

एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः ।
दशाभिश्चैकतमसा तथा राजसतामसम्

1.7.45

प्राप्यसंमिलिताःसर्वे तमो वैषम्यनामकम् ।
सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः

1.7.46

शुद्धेन रजसैकेन रजसायुक्त तामसः ।
अणुर्यदैकीभवति रजो वैषम्य उच्यते

1.7.47

रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc