भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 1.3

1.3.1

इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः
श्रीहंस उवाच
जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि ।
यदा भवन्ति तस्याः समीपे तिर्गास्थितः

1.3.2

केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः ।
मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः

1.3.3

यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः ।
तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु

1.3.4

भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः ।
तच्छतांशो देवलोके स्थितस्य परमाणुकः

1.3.5

तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः ।
परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते

1.3.6

परमाणुद्वयात्मातु कालो द्व्यणुकर् इरितः ।
परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः

1.3.7

त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु ।
लवोवेधत्रयात्मास्यात् निमेषस्तु त्रिभिर्लवैः

1.3.8

क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् ।
काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः

1.3.9

लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता ।
विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति

1.3.10

ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् ।
अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः

1.3.11

सपादसप्तभिर्वापि सार्धसप्तभिरेव वा ।
यामः कालोष्टभिर्वापि कालभेदेन चोदितः

1.3.12

यामैश्चतुर्भिः अहः स्यात् तावद्भिर्यामिनीमता ।
अहोरात्रत्रिंशता च मासः पक्षद्वयात्मकः

1.3.13

ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितम् ।
कर्कादि कार्मुकान्तेषु यदा चरति भस्करः

1.3.14

दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् ।
यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति

1.3.15

उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः ।
अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः

1.3.16

षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः ।
अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः

1.3.17

कॢप्तः कृतयुगस्तस्मात् त्रेतापादोनमुच्यते ।
सहस्रषण्णवत्येतलक्षद्वादश संमितः

1.3.18

त्रेतायुगस्ततः पादन्यूनो द्वापरर् इरितः ।
चतुःषष्ठिसहस्रेत अष्टलक्षमितिस्मृतः

1.3.19

द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः ।
द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः

1.3.20

कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः ।
चतुर्युगात्मकः कालो महायुग इतीर्यते

1.3.21

विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः ।
कॢप्तः कालः कालदृग्भिः महायुग इतीर्यते

1.3.22

षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्दर् इरितः ।
तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः

1.3.23

त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसंमितः ।
द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः

1.3.24

कृतस्यादौ कृतान्ते च पृथगब्दश्चतुःशतम् ।
सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम्

1.3.25

सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् ।
शताब्दःसंमितः कालः सन्धिराद्यन्तयोः कलेः

1.3.26

एवं दैवेन मानेन द्वदशाब्दाःसहस्रतः ।
कॢप्तः कालः कालविद्भिः महायुग इतीर्यते

1.3.27

सार्धाष्टादशलक्षाब्दे युगानाम् एकसप्तति ।
मिलितो मनुसन्धातभोगकाल उदीरितः

1.3.28

द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः ।
स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः

1.3.29

पञ्चादशशताब्दात्मा लयः काल उदीरितः ।
चतुर्दशशताब्दात्मा लयः काल उदाहृतः

1.3.30

तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु ।
चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते

1.3.31

रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा ।
षष्ठ्युत्तरत्रिशतकाद्वत्सरो ऽजस्य कीर्तितः

1.3.32

एवं विधशताब्दात्मा कालो ऽजस्यायुषो मतः ।
वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे

1.3.33

यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु ।
मासत्रयाधिकादब्दषट्कात् पूर्वतनादभूत्

1.3.34

सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः ।
सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततो ऽभवत्

1.3.35

नारायणादजाद्रुद्रात् क्रमात् कालानुसारतः ।
यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता

1.3.36

अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः ।
आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे

1.3.37

दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् ।
तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु

1.3.38

नाभ्युत्थिताल्लोकमयात् प्राकृतात् पद्मकोशतः ।
पाद्मः ब्रह्मोत्थितःसार्धं सप्तत्रिंशच्चतन्मये

1.3.39

दिनान्तिमे निशायां च नाशो ऽण्डस्य जगत्पतेः ।
व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम्

1.3.40

एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी ।
स्वयं चात्मस्वरूपाणाम् एकीभावं करोत्यजः

1.3.41

यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता ।
एकीभूतेपि रमति तथैकीभूतमायया

1.3.42

तावत्कालं ततः पश्चात् सुप्तवत् स्वापयत्यजः ।
सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे

1.3.43

भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः ।
करोति पुरुषस्तस्य नायुर्मानं विधीयते

1.3.44

एवं विधापरिमितानन्तानन्तपरात्मके ।
काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति

1.3.45

स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते ।
लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम्

1.3.46

ये ऽनन्तकालतस्तस्य मृतिजन्मजरादयः ।
आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः

1.3.47

अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः ।
कृशतारोगदुरितपुण्यलेपादयस्तथा

1.3.48

आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा ।
नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे

1.3.49

तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः ।
तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः

1.3.50

तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः ।
यः कालः परमाण्वादि द्विपरार्धावसानकः

1.3.51

तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः ।
तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः

1.3.52

नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः ।
नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात्

1.3.53

अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः ।
शताब्दःसंमितः कालो ब्रह्मणः परसंज्ञकः

1.3.54

सकालस्तु निमेषाख्यः अहश्च परमेशितुः ।
इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते

1.3.55

अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् ।
अथापि परकालान्तं ब्रह्माणं जनयन्विभुः

1.3.56

अङ्गीकरोति तं कालमहोयदखिलेश्वरः ।
रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः

1.3.57

रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः ।
निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः

1.3.58

करोति पुरुषस्तस्य आयुर्मानं विधीयते ।
एवं विधापरिमितानन्तानन्तपरात्मकः

1.3.59

कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः ।
स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः

1.3.60

पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि ।
उत्तरत्रायास्यमानपरमाणुप्रवाहतः

1.3.61

संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः ।
घटिकायाममासाद्या नैकदा सम्भवन्ति हि

1.3.62

आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः ।
विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकम्

1.3.63

वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च ।
रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम्

1.3.64

समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा ।
एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम्

1.3.65

कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकम् ।
अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणाम्

1.3.66

आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् ।
एवं कालगतिं जानन् कालभीतिं तरिष्यति

1.3.67

एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः ।
दशावरणसंयुक्तं सृजत्यवति हन्त्यजः

1.3.68

नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः ।
ब्रह्माणं गरुडं शेषम् इद्रं प्राणं रविं सुरान्

1.3.69

एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः ।
तथाप्यजाण्डानन्तानां नियन्ताजाण्डरूपवान्

1.3.70

हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः ।
रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः

1.3.71

तादृशानन्तरूपाणाम् अनन्त्यानन्त्ययोगतः ।
अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः

1.3.72

रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः ।
अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः

1.3.73

निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः ।
समशक्तिः समज्ञानबलादिशुभसद्गुणः

1.3.74

समाधिकविहीनश्च रमयानन्तरुपया ।
सहस्वाधीनया सत्याशेषचिज्जडभृद्धरिः

1.3.75

स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः ।
भिन्नैर्नित्यजडैःसत्यैः भिन्नैः जीवेश्वरैः सदा

1.3.76

विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः ।
अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः

1.3.77

पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc