भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 1.2

1.2.1

इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमो ऽध्यायः
श्रीहंस उवाच
संस्तुतो भगवानेवं तदैवोत्थाय केशवः ।
शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः

1.2.2

पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः ।
सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः

1.2.3

पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः

1.2.4

श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् ।
मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः

1.2.5

शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता ।
सैवमायाजयाभूत्वा कृतिःशान्तिरितीरिता

1.2.6

वासुदेवादि भार्यासीत् सर्वदा सानपायिनी ।
चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः

1.2.7

सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः ।
प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः

1.2.8

बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः ।
सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः

1.2.9

विमलादिनवात्माभूत् समत्स्यादि दशाकृतिः ।
शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान्

1.2.10

आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः ।
केशवादि चतुर्विंशद्रूपवानभवद्धरिः

1.2.11

अजादि पञ्चाशद्रूपः ततोभूत् पुरुषोत्तमः ।
कालाख्यषष्ठिरूपोभूत् संवत्सरनियामकः

1.2.12

नारायणादि शतकः स विश्वादि सहस्रकः ।
पराद्यनन्तरूपोभूदात्मभेद विवर्जितः

1.2.13

तदाज्ञयैव देवी सा रमापि बहुरूपिणी ।
स तयानन्तरूपिण्या अनन्तरूपो रमापतिः

1.2.14

स्वरतो ऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः ।
लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः

1.2.15

प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत्

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc