प्रकरणपञ्चिका (टीका सहित) · अध्याय 7
पूर्वपक्षः- नन्वाश्रय एव द्रव्यं जातेरसदिति सौगताः ।
तथाहि न परमाणुषु चतुर्विधेषु पार्थिवाप्यतैजसवायवीयेषु जातिराश्रिताभिमता, अनुवृत्ताकारप्रत्ययवियोगात् ।
भिन्नेषु यदभिन्ना जातिरुपेयते, तत्रानुवृत्ताकारावभासिनी बुद्धिरेव निबन्धनम् ।
न कस्यचिज्जन्तोः परमाणुषु करणपथविदूरवर्तिषु निपुणमपि निरूपयो ऽनुवृत्ताकारावभासिनो मतिराविर्भवति ।
यापि चेयं परमाणुरिति मतिः, सापि 56पारिमाण्डल्यलक्षणगुणकारणिका मीमांसकैरपि सङ्गीर्यते ।
पृथिवीत्वादिकमपि न तत्तदसाधारणगन्धादिगुणसमवायमात्रलब्धात्मलाभायां पृथिव्यादिबुद्धौ निबन्धनम् ।
न च स्थलेषु द्रव्येष जातिः समवेयात्, तेषामेव दुरुपगमत्वात् ।
न खलु स्थूलद्रव्यारम्भो57 घटते ।
तथा हि---द्व्यणुकादिक्रमेण स्थूलद्रव्यारम्भो ऽभिधीयते, तत्र तावद् द्रव्यारम्भ एव न साधीयानिति मन्यामहे ।
न खलु तथैवैकः परमाणुरारभते ।
द्रव्यस्यैकाकिनः स्थूलद्रव्यान्तरारम्भकत्वानुपपत्तेः ।
न चैकैकद्रव्यव्यतिरिक्तमपरमारम्भकमस्ति ।
संयोगो ऽपि च तयोरनुपपन्न एव ।
स हि नैकैकद्रव्यसमवेतः, नाप्यनेकद्रव्यसमवेतः ।
एकैकातिरेकेणानेकस्याभावात् ।
एवञ्च प्रत्येकमेकद्रव्यसमवेतत्वाभावे, नानेकद्रव्यसमवेतत्वमपि सम्भवति ।
अनेनैव मार्गेण त्र्यणुकस्य त्रिमिर्द्व्यणुकैरारम्भणीयस्य महिमगुणशालिनः सम्भवो निरस्तः ।
तदेवं दूरभूता स्थवीयसामवयविनामारम्भसंकथा ।
अपि चावयविनः किमवयवेषु प्रत्येकं कार्त्स्न्येन वृत्तिः ? व्यासङ्गेन वा ? इति चिन्तनीयम् ।
न तावत् कार्त्स्न्येन वृत्तिमुपलभामहे, एकैकावयवगतस्य तस्याप्रतिपत्तेः ।
एकैकावयवगते च कम्पे रागे वा सकलस्यावयविनः कम्परागप्रतीतिप्रसङ्गात् ।
तथावयवान्तरे च कम्परागविरहे कम्परागविरहसमासक्तेः, अवयवी कम्पेत न कम्पेत, रज्येत न रज्येत चेति विषमां दशामाविशेत् ।
नापि व्यासङ्गेनावयविनो वृत्तिरवयवान्तरविरहात् ।
अवयवान्तरशालिनो हि केनचिदवयवेन क्वचन, केनचिदवयवेन क्वचनेति व्यासङ्गिनी वृत्तिरुपपत्तिमती ।
किञ्चैकैकत्रावृत्तेरवृत्तिरेव, एकैकातिरिक्तानेकाभावात् ।
किञ्च सकलावयवग्रहणे एव नियमेनावयवी ज्ञायेत, न च तथा सम्भवति, अवयवान्तरेणावयवान्तरतिरस्कारात् ।
न च प्रकारान्तरेण वृत्तिरिति वदितुं शक्यम्; अनुपपत्तेः प्रकारान्तरस्य ।
अवयवेभ्यश्चावयवी व्यतिरिच्यमानो ऽव्यतिरिच्यमानो वा न प्रमाणेन सङ्गच्छते ।
व्यतिरिक्तो हि दिग्रहे ऽपि ग्रहणं कदाचिदनुभवेत् ।
न खलु भिन्नयोः सहोपलम्भनियमो घटपटयोरिव ।
तद्वदवयव्यपि भिद्यमानो नावयवैरेव सहोपलभ्येत ।
कस्याञ्चिदपि दशायामननुभूयमानेष्वप्यवयवेष्वनुभूयेत ।
न चावयविनमवयवानुभवमन्तरेण केचिदुपलभन्ते ।
अव्यतिरिच्यमानस्तु नास्त्येवेति वचनभङ्गिमात्रेणोक्तं भवति ।
तदेवमवयवि द्रव्यमुपपत्तिभिरनुसन्धीयमानमेकान्ततो लीयते ।
कथं तर्हि स्थूलावभासिनी मनीषा समर्थनीया ? इत्थम्--उत्तराधरभावेन निरन्तरमुत्पन्नाः परमाणव एव समधिगतैन्द्रियकज्ञानजननयोग्यदशाविशेषाः प्रत्यक्षमीक्ष्यन्ते ।
तांस्तथाभूताननुसंदधतस्तद्बलभावी मानस एव स्थूलविकल्पो विजृम्भते, दूरादिव तरुषु निरन्तरेषु समनुभूयमानेषु वनमिति मतिः ।
अतः स्थवीयसां द्रव्याणामाश्रयत्वेनाभिमतानामयोगाज्जातिरपि तदाश्रिता नाभ्युपगममर्हति ।
अपि च जातिरपि नेन्द्रियज्ञानविषया प्रतीयते, तस्या नित्यत्वेनाभ्युपगमात् ।
नहि नित्यं कस्मैचित्कार्याय पर्याप्तम्; तद्धि न शक्तस्वभावम्, नित्यं कार्योदयप्रसङ्गात् ।
अशक्तस्वभावं तु नित्यत्वादविचिकित्सयाशक्तिकं नित्यं न किञ्चित् कुर्यात् ।
न चाजनकमिन्दिरनयज्ञानविषयतामनुभवति ।
यो हि विषयः स्वस्यान्वयव्यतिरेकज्ञानमनुकारयति, स प्रत्यक्षः ।
किञ्च समुन्मिषितचक्षुषश्चिराय विषयान्तरानुसन्धानव्यावृत्तचित्तस्य पुरोवर्तिनीं स्वस्तिमतीं कालाक्षीं वा साक्षात्कुर्वाणस्येव न जातिरपरावभासते ।
अन्यच्च न जातिरसौ पिण्डैः सहोत्पद्यते, विनश्यति वा ।
तथोपगमे 58स्वरूपहानिप्रसङ्गात् ।
एका59 च जातिरनेकाधिष्ठाना प्रतिज्ञायते, उत्पत्तिमती विनाशिनी चान्यान्या स्यात्, विरुद्धधर्माध्यासस्य भेदापादकत्वात् ।
सेयं नित्या जातिरुदितवत्यां व्यक्तौ प्रतीयमाना नान्यत आगता, निष्क्रियत्वात् ।
न च तत्रैवासीत्, प्रागप्रतीतेः ।
न च स्थितिरपि युक्तिमती, व्यक्तिरेव हि तस्या देशो नाकाशादिः, अनुत्पन्ना च व्यक्तिरिति क्वावतिष्ठतामाकृतिः ।
नचोत्पाद्ये ऽप्यवतिष्ठते ।
तदेषा जातिरवतिष्ठते, नावतिष्ठते च, इति सङ्कटमापतितम् ।
किञ्च व्यक्तेरभिन्ना वा ?भिन्ना वा ? उभयरूपा वा जातिरास्थेया ? ।
तत्र नाभिन्ना; तथाभावे व्यक्त्या सहोत्पादे विनाशे वा स्वरूपहानिप्रसङ्ग इति पुरस्तादुपन्यस्तम् ।
व्यक्तिमात्राङ्गीकारे च को ऽस्मत्पक्षस्य अस्य च भेद इत्यपि चिन्तयान्तः सीदन्तु भवन्तः ।
अतो व्यक्तिमात्रमेवव तत्त्वमिति वदतां साहाय्यकमेवाचरितमनतिरेकिणीं जातिमुररीकुर्वाणैः ।
भिन्नत्वे ऽपि पिण्डग्रहणमन्तरेण ग्रहणापत्तिः ।
उभयप्रतीतौ च सम्बन्धप्रतीतिसमापत्तिः60 ।
अस्त्येवेति चेत्; महदिदं वैयात्यम् ।
कः खलु इह गवि गोत्वमिति मतिमभ्युपगच्छेत्, अन्यत्र निरस्तत्रपायन्त्रणात् भवतः ।
भिन्नत्वे च वृत्तिप्रकारो दुर्निरूप एव---किं व्यासङ्गिनी वृत्तिः ? उत प्रत्येकपरिसमाप्तिमतीति ।
एकत्र च परिसमाप्तावन्यत्र न वर्तेतेति पुनरपि स्वरूपहानिप्रसङ्गः ।
व्यासङ्गो ऽपि कालत्रयवर्तिनीषु व्यक्तिष्वनुपपन्न एव ।
प्रत्येकञ्च गौः गौरिति प्रत्ययो विकल्पमात्रमित्यङ्गीकृतं स्यात् ।
न चोभयरूपता, विरोधात् ।
न चोपलम्भबलेन विरोध एव नास्तीति चतुरस्रम्, तथाविधस्योपलम्भस्यैवासम्भावनीयत्वात् ।
अभिन्नाकारबुद्धिबोध्यं हि वस्त्वभिन्नमिति लौकिकाः मन्यन्ते, विलक्षणाकारबोधविषयश्च भिन्नमिति ।
तत्र यदि विलक्षणाकारप्रतीतिसमये द्वे वस्तुनी विलक्षणेनाकारेणावभातस्तदाभेदप्रतीतिदशायामेक आकारो ऽनुभवनीयः---स जातिभागस्य ? तत्रैकस्य द्विरवभासो ऽयं स्यान्न तु जातिजातिमतोरभेदावभासः ।
अथ---विलक्षणावप्याकारौ तादात्म्येनावसीयेते---इति मतम् ।
तत्रापि पर्यनुयोजनीयः---किमिदं तादात्म्यं नामेति ? यद्येकाकारतेति ब्रूयात्; तर्हि पूर्वोक्तमेव दूषणमात्मसात्कृतम् ।
शब्दयोः सामानाधिकरण्यं तादात्म्यमिति चेत् ? 61अयुक्तमिदं, गौर्वाहीक इत्यादावतादात्म्ये ऽपि सामानाधिकरण्यदर्शनात् ।
उपचारस्तत्रेति चेत् ।
अत्रापि भिन्नजातिवादिन उपचारमेव मन्यन्ते ।
वयन्तु विवक्षामात्रपरतान्त्राः शब्दा न वस्तुव्यवस्थापनायेशत इति सर्वत्र मन्यामहे ।
कथं तर्हि गौर्गौरिति नानाभूतासु व्यक्तिषु बुद्धिरनुवृत्तमाकारमुल्लिखन्ती समुपजायते ? तेनास्या एव बुद्धेर्द्रढिम्नः कारणमनुमास्यामहे ।
अस्ति तद्विशेषणं यदुपरागवशेनेयं भिन्नेष्वभिन्नाकारानुसन्धायिनी धीरुदीयत इति ।
तदपि न जातिसाधनसमर्थम् ।
कार्यभूता हि बुद्धिरेषा कारणमाक्षिपन्ती यदनन्तरमेवोपजायते तदेव कारणं कल्पयति, न पुनरप्रतीतमपरमपि किञ्चिदुपस्थापयति ।
सा चेयं स्वलक्षणविषयदर्शनसमनन्तरभाविनीति ता एव व्यक्तयः स्वनिर्भासा बुद्धीरुपजनय्य तन्मुखेन तामेकाकारानुभासिनीं धियमाविर्भावयन्ति ।
नितान्तभेदवतीनां च व्यक्तीनां कासांचिदेष महिमा न सर्वासामिति किमनुपपन्नम् ।
यथा ह्यत्यन्तभिन्ना अपि चक्षुरालोकमनस्संयोगाः एकसामग्रीसमुपनिपतिता एकविज्ञानोदयलक्षणं कार्यमारभन्ते, तथा व्यक्तयो ऽपि किं नारभन्त इति नेदं प्रतिपत्तिकठिनम् ।
सा चेयं स्वाकारेणाभेदेनात्यन्तिकभेदयोगिनीनामपि व्यक्तीनां भेदं सम्वृणोतीति संवृतिरित्यनुगीयते ।
एषा च मनीषा न स्वलक्षणं विषयीकरोति, तस्य विशदावभासित्वात्, अस्याश्चाभिलापसंसर्गयोग्यार्थप्रतिभासत्वात् ।
अभिलापानाञ्च विशदाकारमवभासितुमशक्तेः, अभिलापमात्रेण तथाविधप्रतीत्यभावात्62 ।
तेनैषा न स्वच्छाकारावभासिनी ।
नन्वेतत् प्रतीतिपराहतमुदितम्, गौरयमिति बुद्धौ विशदावभासात् ।
उच्यते---न विशदावभासित्वमवजानीमहे ।
तत्तु समानकालभाविनो निर्विकल्पप्रतययस्य स्वलक्षणावलम्बिनः प्रसादात्, तदभावे तथात्वानुपलम्भात् ।
न चैतद्वाच्यं कथमेकमेव वस्त्विन्द्रियैर्विशदावभासं अनुभूयते, शब्दैश्चा63विशदावभासमिति ।
भिद्यमाने ऽपि बोधोपाये बोध्याभेदेबोधवैलक्षण्यानुपपत्तेः ।
नियताकारञ्च स्वलक्षणमनियताकारश्चास्यां बुद्धौ चकास्ति ।
तदेवं विशदाविशदतया नियतानियततया च स्वलक्षणस्य विकल्पाकारस्य च भेदे सत्यपि विकल्पाः साक्षात्परम्परया वा स्वलक्षणविषयदर्शनप्रभवतया स्वलक्षणग्रहणाभिमानिनो जायन्ते ।
तत एव तत्र प्रवर्तयन्तः पुरुषं व्यवहाराङ्गभावमनुभवन्ति ।
पारम्पर्येण वस्तुनि प्रतिबन्धादवस्त्वपि प्रतिबद्धं भवति, मणिप्रभायां मणिबुद्धिवत् ।
यथा हि खलु मणिप्रभायां मणिदीप्तायां मणिकिरणविषयिणी मणिबुद्धिरयथार्थतया भेदमजुषमाणापि मणिमनु प्रतिबद्धेति मणिसमधिगमनिमित्तं भेवत, तथेयमपि वस्तुतः स्वलक्षणमगृह्णत्यपि स्वलक्षणाद्दर्शनं, दर्शनतो विकल्प इति स्वलक्षणप्रतिबद्धा सती तत्प्राप्तये प्रभवति ।
निर्विकल्पकप्रत्ययसमधिगतस्वलक्षणप्रापकतया च स्मृतिरियमुच्यते ।
तत एव च गृहीतग्राहित्वादप्रमाणम्, अन्यथा वस्तुविषयतया वस्तुप्रापकतया चानुमानमिव प्रमाणमेव स्यात् ।
स चायं तस्याकारः प्रथमानो न ज्ञानस्यैव, बहिष्ट्वेनावभासात् ।
न चार्थगत एव; उक्तेन न्यायेन निरस्तत्वात् ।
किन्त्वयमसन्नेव ज्ञानमनु भासते शब्दमिव प्रतिशब्दः ।
एतच्च शास्त्रचिन्तका विवेचयन्ति, प्रतिपत्तारस्तु दृश्यविकल्प्यावर्थावेकीकृत्य बाह्यमेवानुन्यमाना व्यवहारेषु प्रवर्तन्ते, प्रवृत्ताश्चार्थप्रतिलम्भेनाविसंवादं मन्यन्ते ।
कथं पुनरेकत्वाध्यवसायो दृश्यविकल्प्ययोः, अतद्व्यावृत्ततया तत्सदृशत्वात्, यथा दृश्यस्यातद्व्यावृत्तता, तथा विकल्प्यस्यापि ।
तस्माज्जातिप्रत्ययो विकल्पमात्रम्, परमार्थतस्तु न जातिर्नाम किञ्चित् ।
अपि च द्रव्यसमवायिनी जातिरभिमता ।
न च गन्धादिव्यतिरिक्तं द्रव्यमुपलभामहे, चक्षुरादीनां प्रत्येकं रूपादिष्वेव व्यापारादिति पूर्वपक्षसंक्षेपः ।
सिद्धान्तः--- अत्रोच्यते---संविदेव हि भगवती विषयसत्त्वोपगमे शरणम् ।
गवादिषु च स्थूलाकारावलम्बिनी संविदुदीयत इति निर्विवादम् ।
नयवीथ्याञ्च निर्णीतं प्रमाणं स्मृतिश्च नः प्रत्यय इति ।
ननु तदेवासदिति मन्यते, अवयव्यादीनामेकान्ततो ऽनुपपन्नत्वात् ।
उच्यते ।
न दृष्टे काचिदनुपपत्तिः ।
ननूक्तावयविनो ऽनुपपत्तिः आरम्भकाभावात् ।
अनुपपन्नेयमनुपपत्तिः; कार्यं प्रतीतं कारणकल्पनायां प्रमाणम् ।
न पुनः स्फुटावभासिकार्यं कारणानिरूपणे ऽपह्नवमर्हति, तेनावयवा एव समासादितसंयोगलक्षणसाधारणगुणा अवयविन उत्पादका भविश्यन्ति ।
64संयोगश्चैक एवानेकत्र वर्तते, एकैकत्र संयुक्तप्रत्ययानुदयात्, एकातिरिक्तानेकाभावे ऽप्येकैव एव सद्वितीय आश्रयः संयोगस्येति न दोषः ।
ननु द्रव्यं एव तथोत्पन्ने संयोगविकल्पमाविर्भावयतो न तदतिरेकी संयोगो नाम कश्चिद् गुणविशेषः ।
तन्न, प्रत्यभिज्ञायेते हि द्रव्ये अनुवृत्ते ।
कादाचित्की च तयोरपरेयं दशा दृश्यत इति भवत्येव भेदसिद्धिः ।
स्थापिता च मीमांसाजीवरक्षायां प्रत्यभिज्ञा ।
अतः संयोगलक्षणसाधारणगुणासमवायिकारणोपगृहीता अवयवा एव समवायिकारणमवयविन उपपद्यन्ते ।
65यश्चायमवयविनो वृत्तिविकल्पेन दोष उक्तः, सो ऽप्यवयविनः प्रतीतौ स्थितायामनुपपन्नः ।
व्यासक्त एवावयवेष्ववयवी, नैकत्र जातिवत्परिसमाप्तः ।
अवयवान्तरैरपि च विना स तस्य को ऽपि महिमा, य एक एवानेकावयवानुस्यूत इति किं न कल्प्यते ।
यद्यपि चावयविन एकैकत्रावृत्तिस्तथापि नावृत्तिदोषः ।
संयोगसचिवा एवावयवा जनका आश्रयभूता यतः जनकतयैवाश्रयत्वात् समवायिकारणानाम् ।
अत एव संयोगः सद्वितीयाश्रय इति न दोषः ।
न च सकलावयवोपलम्भसापेक्षा तदुपलब्धिः, अवयविनस्तेभ्यो भिन्नत्वात् ।
न चैतावता एकावयवग्रहणे ऽपि ग्रहणपर्यनुयोगो युक्तः, कार्यानुगुणत्वात् कारणकल्पनायाः ।
कार्यसिद्ध्यर्थं हि कारणं परिकल्प्यते न कार्यविनाशाय ।
तेन यावतामवयवानां ग्रहणे तदुपलम्भस्तावतामेवावगमस्तदवगमनिबन्धनमिति दर्शनबलेनाभ्युपेयते ।
66भिन्नत्वे ऽति तत एव सहोपलम्भनियमः, उपेयोपायभावात् ।
उपेयभूतो ऽवयवी उपायपदवर्तिनश्चावयवाः ।
प्रत्येकं तु तेषां शक्यत एवासहोपलम्भो ऽपि वक्तुम्, अवयवान्तरयोगिनो ऽवयविनो ऽपि परिग्रहे इतरावयवव्यतिरेको ऽपि सुदर्श एव ।
इयञ्च भेदसाधने युक्तिः---अन्वयव्यतिरेकाभ्यां हि वस्त्वन्तरत्वमवसीयते, अवगम्यमानो ऽपि चावयवी विलक्षणबुद्धिगोचरतामावहत्येव ।
अवयवी हि स्थवीयानेको हृदयमागच्छति अवयवास्तु क्षोदीयांसो भूयांसश्च ।
स चायमवयवी महत्त्वाद्रूपवत्त्वाच्च चाक्षुषः स्पार्शनो वा, पार्थिवो वाम्भसो वा तैजसो वा ।
वायवीयस्तु महत्त्वात् स्पर्शवत्त्वाच्च स्पार्शन एव ।
द्व्यणुकस्तु चातुर्भौतिको ऽप्यमहत्त्वादप्रत्यक्ष एव ।
तस्य चामहत्त्वम्, 67अवयवबहुत्वमहत्त्वप्रचयविशेषाणां महत्त्वगुणकारणानामभावात् ।
गगनादीनां तु महतामपि रूपस्पर्शविधुरतया न प्रत्यक्षगोचरतेत्यलमतिविस्तरेण ।
ननु सकलावयवसमाश्रितत्वादवयविनस्तिरोहितैरवयवैः सहेन्र्दियासन्निकर्षे कथमवयविना समागमः? न चासङ्गतमेव बहिरिन्द्रियमवबोधकमिति प्रतिज्ञा युज्यते, अवयवानामप्यसन्निकृष्टेन्द्रियबोध्यत्वापत्तेरिति ।
उक्तोत्तरमेतत, भिन्नत्वादवयविनो ऽवयवान्तरासंयोगे ऽपि संयोगबुद्धेः पटादिषूपपन्न एवेन्द्रियसन्निकर्षो ऽवयविनः ।
तदनया दिशा तावदुपपन्नमाश्रयद्रव्यमाकृतेः पृथुलम् ।
ननूक्तं रूपादिव्यतिरेकि द्रव्यं नोपलभ्यत इति, किमिदं पश्यतोहरत्वम्---प्रतीयते हि महानवयवी रूपादिव्यतिरेकी ।
अत एव जपाकुसुमसन्निधानाभिभूतरूपमपि स्फटिकद्रव्यं प्रत्यभिज्ञायते ।
कथं नामागृहीतं प्रत्यभिज्ञायेत ।
अपि च दर्शनस्पर्शनाभ्यामेकार्थग्रहणाद्रूपस्पर्शव्यतिरेकि द्रव्यं स्फुटतरप्रतीतं तत् नापन्होतुमुचितम् ।
अत एव वनादिषु बाधकप्रत्ययबलेन तत्कल्पना न प्रसरतीति दूरतयान्तरालाग्रहणनिबन्धनो ऽयमभेदव्यवहारः प्रवर्तत इति ।
अवयविनि तु बाधकज्ञानं नास्तीति पुरस्तादावेदितम् ।
तेनाश्रयद्रव्याभावाज्जातेरपलापः प्रलापमात्रमिति स्थितम् ।
यच्चेदमुदितं ऽनित्यतया जातेरात्मविज्ञानजनने ऽपि न शक्ततेतिऽ तदपि 68क्षणभङ्गनिराकरणपर्वणि विस्तरेण नित्यानामथक्रियाकारित्वसमर्थनेन प्रत्युक्तम् ।
मा वा स्वविज्ञानमपि जातिरजीजनत् ।
तथापि कथङ्कारंरसावप्रत्यक्षा ।
काममप्रत्यक्षा ।
अथवा न खल्वियमाज्ञा राज्ञः कारणभूतस्यैव प्रत्यक्षेण भवितव्यमिति ।
यस्तु यतः प्रतीतये स तस्य विषय इति सर्वालौकिकम् ।
ननु प्रत्यक्षमप्यविसंवाद्येव प्रमाणम् ।
असंविवादश्च तस्मादात्मलाभात् अन्यतस्तु भवतो69ऽतथाभूतस्य वाभावे ऽपि भावसम्भवान्नियमेन संवादायोगादिति बालादभ्युपेयं प्रत्यक्षस्य कारणमेव विषय इति ।
अत एव च प्रत्यक्षमनुमानं च द्वे एव प्रमाणे; तयोरेवार्थाविसंवादकत्वात् ।
प्रत्यक्षं साक्षादर्थेन प्रतिबद्धम्, अनुमानं त्वर्थप्रतिबद्धलिङ्गजन्यतया पारम्पर्येण प्रतिबद्धम् ।
यस्य तु न साक्षात्, नापि परम्परयार्ऽथप्रतिबन्धः, न तस्य प्रमाण्यमुचितं, तस्य तदविसम्वादनियमाभावात् ।
अर्थाविसम्वादि च प्रमाणं व्यवजिहीर्षमाणा लौकिका आद्रियन्ते इति ।
सिद्ध्येदयं मनोरथो यदि ज्ञानान्तरनिबन्धनो ऽविसंवादः प्रार्थनीयः ।
यद्विषयमेव च यज्ज्ञानं, तेनैव तस्मिन् विषये पर्युपस्थापिते नास्ति प्रत्ययान्तरनिबन्धनाविसंवादप्रार्थना ।
अर्थेनाप्रतिबद्धमपि च ज्ञानं स्वमहिमपर्युपस्थापितार्थमविसंवादकमेव संप्रवर्तते ।
तेनोत्पत्तिमात्र एव विज्ञानस्य परापेक्षा, न प्रामाण्येर्ऽ70थाव्यभिचारलक्षणे ।
अतः सिद्धं शास्त्रादीनामपि अर्थप्रतिबन्धविरहिणां प्रामाण्यम् ।
एतदर्थमेव नयवीथ्यां"सर्वं ज्ञानं विषयाव्यभिचारि" इति प्रतिपादितम् ।
अतो नित्यायामपि जातौ भवत्येव प्रत्यक्षस्य प्रामाण्यम् ।
यत् पुनरुक्तम्---ऽएकभावेन मनसा समाकलयतः कालाक्षीं स्वस्तिमतीं वा नास्ति जातिप्रतीतिःऽ इति ।
तदसिद्धम्, आकारो हि सा, प्रतीते चाकारे यदि परमर्थान्तरानुसन्धानविकलतया तस्यानुवृत्तिर्नावसीयते ।
अनुवृत्ता च जातिर्नानुवृत्तिः ।
अग्रहणे ऽपि च धर्मस्य धर्मिणो ग्रहणं नानुपपन्नम् ।
अत एव च पिण्डान्तरसमधिगमे पूर्वाकारपरामर्शिनी मनीषा प्रत्यभिज्ञासमाख्यातोदीयते ।
यच्चोक्तम् ऽअनाश्रयतया तत्रैव प्रागनवस्थिता निष्क्रियतया चान्यस्मादनागच्छन्ती स्वरूपहानिप्रसङ्गेन व्यक्त्या सहानुपजायमाना कथं सम्बन्धमनुभवति जातिःऽ इति ।
तदिदं मायामोहजननं यथाजातजनोद्वेजनमात्रम् ।
संयोगो ह्युभयकर्मजो भवति मल्लयोरिव, अन्यतरकर्मजो वास्थाणुश्येनयोरिव, संयोगजो वा यथा तन्तुतुरीसंयोगादुत्पन्नस्य पटस्य तुरीसंयोगः ।
स च कर्म, प्राक्संनिधानं वापेक्षते ।
समवायस्तु संयोगाद्विभिन्नो न कर्म, प्राक्सत्तां वापेक्षते ।
यत एव तु पिण्डस्योदयः समवायिकारणात्, तत एव जातिसमवायो ऽपि तस्य उत्पद्यते ।
71समवायञ्च न वयं काश्यपीया इव नित्यमुपेमः ।
72विनष्टाथामपि व्यक्तौ न जातिरन्यत्र याति, न च तत्रावतिष्ठते, न विनश्यति, केवलं तद्व्यक्तिसमवायस्तस्या निवर्तते तेन तस्यानुपलम्भनम् ।
तथाहि---न याति निष्क्रियत्वात्, नावतिष्ठते व्यक्तिमात्राश्रयत्वात्, तदभावे ऽवस्थानांसम्भवात्, न च विनश्यति, पिण्डान्तरे ऽपि प्रत्यभिज्ञायमानत्वादिति ।
विनाशो नामात्यन्तिको ऽनुपलम्भ 73इत्यमृतकलायां वक्ष्यते ।
अतो न सङ्कटं किञ्चित् ।
यच्च पिण्डेभ्यो जातेरभिन्नत्वमुभयरूपत्वञ्च दूषितम्, तदस्माकं साहायकमेवाचरितम् ।
को हि नाम सचेतनः पदार्थान्तरप्रत्यभिज्ञामभेदाश्रयेण साधयेत् ।
को वा परस्परविरोधिनी एकस्य द्वे रूपे प्रतिजानीते ।
भेदवादः पुनरस्माकमपि सम्मत एव ।
न च तत्र इहप्रत्ययापत्तिर्देषः ।
प्रतीत्य ह्याधारमाधेयञ्च सम्म्बधं प्रतीयात् ।
सर्वञ्च रूपं रूपिग्रहणमन्तरेण न प्रतीयते ।
अतः समानेन्द्रियग्राह्यतया जातिरपि व्यक्तिप्रत्ययानुप्रवेशिनीति, न इह प्रत्ययसम्भवः ।
कर्मणि त्वनुमेये भवत्येव इहप्रत्ययः ।
वृत्तिविकल्पे तु कृत्स्नसमाप्तिरेवाङ्गीकरणीया ।
न चान्यत्रावृत्तिदोषः, प्रत्यक्षावगमाद्वृत्तेः ।
प्रत्यभिज्ञायाः स्थापितत्वात् ।
पृथग्ग्रहणं तु जातेरसिद्धमेव ।
व्यक्त्यन्तरे हि जातिः प्रतीयमाना प्राच्यपिण्डपरिहारेण प्रकाशते ।
उदीच्यपिण्डपरिहारस्तु प्राक्तनपिण्डसमधिगमसमये सिद्ध एवेति परिहृतनिखिलानुपपतितकमुपपादितं गवादिषु साधारणाकारानुभवसिद्धं जातितत्त्वम् ।
उपपन्नञ्च प्रत्यक्षवेद्यत्वं जातेः, इन्द्रियव्यापारानुविधानेन प्रतीतेः ।
संयुक्तसमवायलक्षणश्च सन्निकर्षो ऽपि नानुपपन्नः ।
गौरयमिति च मतिर्विशदतरार्थनिर्भासिनी प्रथत इति चेत् ।
तन्न, तथाभावे प्रमाणाभावात् ।
शब्दमात्रेण तु केवलाकारपरिगृहीताकारप्रतीतेः रूपान्तरानवभासाच्चाविशदावभास एव ।
ऐन्द्रियके तु सम्वेदने प्रचुरतरावयवरूपावभासाद्विशदावगम इति नाबाह्यविषयत्वापत्तिः ।
नन्वेषा जातिप्रतीतिर्भिन्नामेव व्यक्तिमभेदेनावगमयन्ती जायत इति भ्रान्तिरेषा न प्रत्यक्षं प्रमाणम् ।
इयन्तु भ्रान्तिर्निर्बीजा न युज्यत इति बीजभावेन जातिरनुमीयते, तत्समवायश्च ।
दृष्टा हि सन्तापसञ्चारितदहनपरमाणुसंवलितायोगोलके दहनाकारानुकारिणी प्रतीतिरिति ।
तदिदमुक्तोत्तरमपि पुनः पर्यनुयोज्यामहे विस्मरणापराधादिति मन्यामहे ।
भिन्ना हि जातिरवगम्यते ।
न खल्वाकारमाकारिणञ्चैकमेव मन्यामहे ।
केवलं शब्दप्रयोगे एव समाधिर्वक्तव्यः ।
तत्र च लौकिकः प्रयोग एव शरणम् ।
प्रयोगश्च श्रुत्या लक्षणया गौण्या वा वृत्त्या नानुपपन्नः ।
समवायस्तु भवतु वस्त्वन्तरे सिद्धे ऽनुमेयः, प्रत्यक्षेण तदनवगमात् ।
आकृतिस्तु प्रत्यक्षप्रमाणसिद्धा नानुमेया ।
नचानुमानमपि शक्यं शाक्येषु प्रतिबन्धुष्वित्यलमतिविस्तरेण ।
सत्ताजातिनिराकरणम् ।
अत्र केचिद्गवादितुल्यतया द्रव्यगुणकर्मस्वपि सत्ताजातिमङ्गीकुर्वन्ति, भवति हि सर्वेष्वेव सत्सदिति प्रत्ययानुवृत्तिरिति संवदन्तः ।
तदिदमपरामृष्टजातितत्त्वानामुपर्युपरि जल्पितम्74 ।
पूर्वरूपानुकारिणी यदि धीरुदीयते, ततो ऽभ्युपेयेतैव जातिः ।
न च नानाजातीयेषु द्रव्येषु सर्षपमहीधरादिषु, गुणेषु गन्धरसादिषु वा समानाकारानुभवो भवति ।
कवेलं तु तत्सदिति शब्दमात्रमेव प्रयुज्यते ।
भवति च विनापि जात्या पाचकमीमांसकादिशब्दप्रवृत्तिः ।
नन्वेवं शब्दप्रवृत्तिरपि नैकनिबन्धनमन्तरेणोपपद्यते ।
सत्यं, अस्त्येवोपाधिरेकः प्रमाणसम्बन्धयोग्यता नाम ।
75 76तत्रान्यः पण्डितम्मन्यो मन्यते---नन्विदमसमञ्जसमुच्यते सर्वत्र ह्युपाधिभेदमवगम्यौपाधिकशब्दानुविद्धः प्रत्ययो भवति, न पुनः प्रागेव, सह वा ।
इह च प्रमाणमेव जायमानमस्तीत्येवमेव जायते ।
प्रमाणोदयोत्तरकालं ह्यनया भवितव्यम् ।
किञ्च सत्यपि प्रमाणयोगे किञ्चिदस्तीति गम्यते, किञ्चिच्चासीदिति, तथान्यद्भविष्यतीति ।
तत्र प्रमाणसम्बन्धस्य वर्तमानत्वात् सर्वत्र वर्तमानसत्ताप्रतययेन भवितव्यम् ।
तदतिरेकिणि तु सत्त्वे तस्य त्रेधा व्यवस्थानाद्युक्तस्त्रिधावभासः ।
अपि च भूमितलनिखातेषु चिरतरकालवर्तिषु प्रलीनज्ञातृपुरुषेषुलिङ्गादिरहितेषु सकलप्रमाणप्रत्यस्तमये ऽपि वर्तमानसत्तासन्देहः ।
स च प्रमाणसम्बन्धातिरेकिणीं सत्तामन्तरेणानुपपन्न इति ।
तदिदमनाकलितपरवचनस्य केवलं गलगर्जितम् ।
उक्तमस्माभिः प्रमाणसम्बन्धयोग्यतोपाधिरिति ।
यदि हि प्रमाणसम्बन्ध उपाधिरिति वदेम, तत इत्थमुपालम्येमह्यपि ।
योग्यता तु प्रमाणसम्बन्धातिरिक्ता प्रमाणेनावसीयत इति युक्त एवास्तीति प्रमाणोदयः ।
तस्याश्च त्रैकाल्यात् त्रैकाल्यावगमो ऽपि समर्थित एव ।
तस्याश्च संशायिततापि युक्तैव ।
का पुनरियं प्रमाणसम्बन्धयोग्यता नाम ।
ननु नामान्तरेण महासामान्यमेवेदमुररीकृतम् ।
नैतदेवम्; यो हि महासामान्यं सत्तां सङ्गिरते, सो ऽपि स्वरूपसत्तां पदार्थानां मन्यत एव ।
अन्यथा शशशृङ्गादीनामनुत्पन्नातिवृत्तानाञ्च किमिति महासामान्येन सम्बन्ध एव न स्यादिति पर्यनुयोगे, कः परिहारः ? तेन स्वरूपसत्तैव प्रमाणसम्बन्धयोग्यता ।
यस्य हि स्वरूपमस्ति, तत् प्रमाणेन परिच्छिद्यते ।
त्रैकाल्यमपि स्वरूपस्यैव युक्तम्, न च महासामान्यस्य, नित्यत्वात् ।
तथा संशयिततापि तस्यैव, न पुनरसंशयिते स्वरूपे ऽपरः सत्तासन्देहो भवति ।
अथ नित्याया अपि सत्तायाः कः सम्बन्धो यः स त्रिकालः ।
तस्यैव त्रैकाल्यं कुतः ? नान्यदत्रोत्तरं स्वरूपत्रैकाल्यादित्यतः ।
तस्मात्स्वरूपसत्तोपाधिक एव सच्छब्दो न पुनरेक आकारः सत्ता नाम द्रव्यगुणकर्मणाम् ।
77अपि च काश्यपीयानां जातिसमवायविशेषेषु स्वरूपसत्तोपाधिक एव सच्छब्द इत्यभ्युपगमः ।
तस्य च द्रव्यगुणकर्मस्वपि तथाभावो ऽस्त्विति ।
तदेवमपाकृते पदार्थस्वरूपातिरेकिणि महासामान्ये सत्ताख्ये यत् स्वमनीषानिर्मितकुतर्कबलेन सन्मात्रविषयं प्रत्यक्षमिति साधितं, तदतिदूरोत्सारितम् ।
एतेनैव न्यायेन शब्दत्वमपि निरस्तं वेदितव्यम् ।
नहि ककारगकारयोरेकमाकारमनुगतं परामृशन्ती मनीषा समुन्मिषति ।
यो ऽपि चायं शब्दशब्दः, सो ऽपि श्रोत्रग्रहणोपाधिलब्धप्रवृत्तिरिति न जातु जातिकल्पनायै विभवति ।
तदिदमपहस्तितम्, यदाहुः 78"शब्दत्वमेव तत्तदसाधारणाभिव्यञ्जकध्वनिनिबन्धनतया नानावर्णपेण विषयीभवत् तस्य तस्यार्थस्यावगमाय कल्पत" इति ।
ब्राह्मणत्वादिजातिनिराकरणम् ।
अनयैव च दिशा ब्राह्मणत्वादिजातिरपि निवारिता ।
नहि नानास्त्रीपुरुषव्यक्तिषु पुरुषत्वादर्थान्तरभूतमेकमाकारमात्मसात्कुर्वान्ती मतिराविर्भवति ।
नहि क्षत्रियादिभ्यो व्यावर्तमानं सकलब्राह्मणेष्वनुवर्तमानमेकमाकारमतिचिरमनुसन्दधतो ऽपि बुध्यन्ते ।
यदप्याहुः- 79यद्यप्यापातसंजातया धिया ब्राह्मण्यं नावसीयते, तथापि ब्राह्मणभूतमातापितृसम्बन्धानुसन्धानप्रभवायां बन्द्धौ तच्चकास्तीति ।
तदपि च स्वमानसविसंवादि ।
अनुसन्दधानो ऽपि मातापितृसम्बन्धं को जात्वेकमाकारमवबोद्धुं प्रभवति ।
यच्चोपदर्शितम्---यथा विलीनमाज्यं तैलादव्यतिरिच्यमानं गन्धग्रहणसहकारिणा चक्षुषैव भिन्नमवगम्तय---इति ।
तदपि न सुन्दरम् ।
नहि तदानीं चाक्षुषस्य संवेदनस्य विषयातिरेकः, किन्त्वनुमानमेव तत्र सर्पिषः ।
यस्तु निपुणदर्शो सूक्ष्ममपि रूपमीक्षितुं क्षमः, स चक्षुषैवाज्यजातिमपि प्रत्येति, न गन्धग्रहणमपेक्षते ।
नन्वेवं बह्ववहीनम्, किंनिबन्धनो हि तदानीमाहवनीयादिसाध्यकर्मसु केषाञ्चिदधिकारो नान्येषाम्; किंनिबन्धना च ब्राह्मणशब्दस्य प्रवृत्तिव्यवस्था इति ।
80अत्रोच्यते ।
अनादौ संसारे जन्यजनकभावेन व्यवस्थितास्तावत् काश्चिदेव स्त्रीपुरुषसन्ततयः सन्ति, तासामन्योन्यव्यतिकरेण जाताः स्त्रीपुंसव्यक्तयो ब्राह्मणशब्दवाच्याः ।
अनिदम्प्रथमतया च सन्ततेः सर्वेषां तत्सन्ततिपतितत्वात् सिद्धा ब्राह्मणशब्दवाच्यता ।
तेन सन्ततिविशेषप्रभवत्वमेव ब्राह्मणशब्दप्रवृत्तावुपाधिः ।
तत्प्रभवानामेव कर्मस्वधिकार इति न किञ्चिदवहीनम् ।
के पुनस्ते सन्ततिविशेषाः ।
न ते परिगणय्य निर्देष्टुं शक्यन्ते, किन्तु लोकत एव प्रसिद्धाः प्रत्येतव्याः ।
तथा च तज्जन्यत्वे ऽवगते ब्राह्मणशब्दं प्रयुञ्जते लोकाः ।
कथं पुनस्तज्जन्यत्मेव शक्यमवगन्तुम्, स्त्रीणामपराधसम्भवात् ? संभवन्ति हि पुंश्चल्यो स्त्रियः परिणेतारं व्यभिचरन्त्यः ।
उच्यते ।
उक्तमेतत् दृश्यादर्शनमेवाभाव इति ।
यत्र यावत्युपलब्धिसामग्री, तावत्यां सत्यामपि यासां व्यभिचारो न दृश्यते, तासां नास्त्येव व्यभिचार इति लोकप्रमाणकमेतत् ।
अपि च अप्रमत्तैः स्त्रियो रक्षणीयास्तासु नास्त्येव व्यभिचारसम्भावनावकाशः ।
यासु त्वस्ति, माभूत् तदपत्येषु तत्सन्ततिप्रभवत्वनिश्चयः ।
न चैतावता यत्रापि निश्चयः शक्यस्तत्राप्यनिश्चय इति वक्तुं युक्तमिति ।
यच्च बह्वीषु ज्वालास्वेकवर्तिवर्तिनीषु ज्वालात्वं सामान्यं प्रत्यभिज्ञागोचरः कैश्चिदिप्यते ।
तदपि गुरुरस्माकं न मृष्यति ।
स खल्वेवं निरीक्षञ्चक्रे अनन्यथासिद्धा बुद्धिः सामान्यकल्पनाबीजम् ।
इयं तु भेदाग्रहणेन शुक्तिकारजतप्रत्ययवदुपपद्यत इति नालं सामान्यमौपस्थापयितुम् ।
तेन भेदग्रहणपुरस्सरमभेदज्ञानं भिन्नेषु जात्यभ्युपगमे शरणमिति निरवद्यम् ।
शालिकनाथेन कृतं कृतमतिना जातिनिर्णयाख्यमिदम् ।
बहुविधविवादहरणं प्रकरणमुरुणावधानेन ॥
इति श्रीमहामहोपाध्यायशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां जातिनिर्णयो नाम चतुर्थं प्रकरणं समाप्तम् ।
अथ 107प्रमाणपारायणं नाम षष्ठं प्रकरणम् ।
प्रथमः प्रत्यक्षपरिच्छेदः प्रकरणार्थप्रतिज्ञा ।
स्वरूपसंख्यार्थफलेषु वादिभिः यतो विवादा बहुधा वितेनिरे ।
ततो वयं तत्प्रतिबोधसिद्धये प्रमाणपारायणमारभामहे
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0