प्रकरणपञ्चिका (टीका सहित) · अध्याय 4
अथ नयवीथी नाम तृतीयं प्रकरणम् ।
प्रकरणार्थप्रतिज्ञा---
यथार्थं37 सर्वमेवेह विज्ञानमिति सिद्धये ।
प्रभाकरगुरोर्भावः समीचीनः प्रकाश्यते
तत्र पूर्वपक्षः---
तत्र तावदिदं केचिदूचिरे चारुचेतसः ।
भ्रमसन्देहविज्ञाने अयथार्थे उभे इति
इदं रजतमित्येषा य शुक्तिशकले मतिः ।
सा चेद्यथार्था भ्रान्तित्वं तदा तस्यास्तु कीदृशम्
यथावस्थितवस्त्वाभमपि ज्ञानं यदा भ्रमः ।
प्रमाणेषु तदाऽपन्ना सर्वेषुर् भमरूपता
विवेकाग्रहणं भ्रान्तिरिति चेन्नैतदीदृशम् ।
सुषुप्ते ऽपि भ्रमापत्तेः सर्वभेदापरिग्रहात्
भूदाग्रहे गृहीते च यदि स्याद् भ्रमरूपता ।
दूरात् सामान्यमात्रस्य दर्शनं स्यात् भ्रमस्तदा
यथार्थदर्शनत्वे च बाधको ऽपि न युज्यते ।
अज्ञातभेदग्रहणैर्न बाधकमतिर्भवेत्
यथार्थतापि चैतस्याः कथमित्यपि चिन्त्यताम् ।
एषा हि रजतत्वेन शुक्तिकामध्यवस्यति
रजतत्वं न शुक्तेश्च रजतस्य न शुक्तिता ।
तयोरन्योन्यभिन्नत्वं प्रत्यक्षेणावधारितम्
अथेयं रजतत्वेन न शुक्तिमवलम्बते ।
सामानाधिकरण्येन प्रतिपत्तिर्विरुध्यते
रूप्यार्थिनः प्रवृत्तिश्च शुक्तौ स्यान्निर्निबन्धना ।
अग्रहो ऽपि न भेदस्य प्रवृत्तौ कारणं यतः
रजतप्रतिपत्तिश्च नेयमन्धस्य जायते ।
तेनेयमिन्द्रियाधीना संयुक्ते चेन्द्रियं धियम्
समर्थमुत्पादयितुं शुक्तिसंयोगि चेन्द्रियम् ।
तेन सैवेन्द्रियेणेह रजतत्वेन गृह्यते
स्यान्मतं शुक्तिकामात्रमिन्र्दियेणावसीयते ।
तदेव सदृशत्वेन रजतस्मृतिकारणम्
सदृशप्रत्ययेनेह संस्कारोद्बोधहेतुना ।
तदित्युल्लेखरहिता रजते भवति स्मृतिः
स्मृतावस्यां मनोदोषात् तदित्यंशो ऽवखण्डितः ।
तेनेन्र्दियानुकारित्वमन्यथासिद्धमित्यसत्
अनुभूते ऽपि विषये तत्परामर्शवर्जितम् ।
न बोधं स्मृतिमिच्छन्ति धारावाहिकबोधवत्
अपरोक्षपुरोवर्तिसामानाधिकरण्यतः ।
नेयं स्मृतिः, किन्तु शुक्तौ भ्रान्तो ऽयं रजतग्रहः
स्मृत्युद्बोधनिमित्तं च स्वप्ने किञ्चिन्न विद्यते ।
पीतशङ्खावबोधे च द्विचन्द्रग्रहणे तथा
दिङ्मोहालातचक्रादिभ्रान्तयश्च कथं पुनः ।
स्मृतित्वाश्रयणेनैता वर्णनीया यथार्थतः
तेनेन्द्रियादिदोषेण जायन्ते भ्रान्तिबुद्धयः ।
बुध्यमाना वस्तुरूपमन्यथास्थितमन्यथा
स्थाणुर्वा पुरुषो वेति सन्देहो यो ऽपि जायते ।
अभावात्तदृशो ऽर्थस्य स यथार्थः कथं भवेत्?
38 ॥
सिद्धान्तः---
अत्र ब्रूमो--य एवार्थो यस्यां संविदि भासते ।
वेद्यः स एव नान्यद्धि 39विद्याद्वेद्यस्य लक्षणम्
इदं रजतमित्यत्र रजतञ्चावभासते ।
तदेव तेन वेद्यं स्यान्न तु शुक्तिरवेदनात्
तेनान्यस्यान्यथाभानं प्रतीत्यैव पराहतम् ।
परस्मिन् भासमाने हि न परं भासते यतः
नन्वेवं रजताभासः कथमेष 40घटिष्यति ।
उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम्
शुक्तिकाया विशेषा ये रजताद् भेदहेतवः ।
ते न ज्ञाता अभिभवाद् ज्ञाता सामान्यरूपता
अनन्तरञ्च रजते स्मृतिर्जाता तथापि च ।
मनोदोषात् 41तदित्यंशपरामर्शविवर्जितम्
रजतं विषयीकृत्य नैव शुक्तेर्विवेचितम् ।
स्मृत्यातो रजताभास उपपन्नो भविष्यति
धारावाहिकवन्नेयं स्मृतिरित्युदितञ्च यत् ।
उच्यते ऽनन्यगतितः स्मृतिरत्रावगम्तये
न ह्यसन्निहितं तावत् प्रत्यक्षं रजतं भवेत् ।
लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः
परिशेषात् स्मृतिरिति निश्चयो जायते ततः ।
तस्याः कारणसद्भावात्, धारावाहिकधीषु तु
प्रत्युत्पन्नेन्द्रियग्रामसामग्रीग्रहकारणम् ।
ग्रहणस्मरणे चेमे विवेकानवभासिनी
सम्यग्रजतबोधात्तु भिन्ने यद्यपि तत्त्वतः ।
तथापि भिन्ने नाभातो भेदाग्रहसमत्वतः
सम्यग्रजतबोधश्च समक्षैकार्थगोचरः ।
ततो भिन्ने अबुध्वा तु स्मरणग्रहणे इमे
समानेनैव रूपेण केवलं मन्यते जनः ।
अपरोक्षार्थबोधेन समानार्थग्रहेण च
अवैलक्षण्यसंवित्तिरिति तावत् समर्थितम् ।
व्यवहारो ऽपि तत्तुल्यस्तत एव प्रवर्तते
समत्वेन च संवित्तेर्भेदस्याग्रहणेन च ।
मिथ्याभावो ऽपि तत्तुल्यव्यवहारप्रवर्तनात्
रजतव्यवहारांशे विसंवादयतो नरान् ।
बाधकप्रत्ययस्यापि बान्धकत्वमतो मतम्
(42)
प्रसज्यमानरजतव्यवहारनिवारणात्
सन्निहितरजतशकले रजतमतिर्भवति यादृशी सत्या ।
भेदानध्यवसायादियमपि तादृक् परिस्फुरति
साधारणं हि रूपं तस्या अस्याश्च विद्यते तेन ।
तन्मात्रप्रतिभानात् समानतामेव मन्यन्ते
तत्तुल्यव्यवहारः43 प्रवृत्तिरपि युज्यते चातः ।
तद्विनिवारणकरणाद्बाधकता बाधकस्यापि
एवं स्वप्ने ऽपि वस्तूनि स्मर्यमाणानि सन्त्यपि ।
अनुभूतांशमोषेण भासन्ते गृह्यमाणवत्
ग्रहणस्य विशेषो हि गृहीतग्रहणं स्मृतिः ।
सा गृहीतांशमोषेण गृहीतिरिव44 तिष्ठति
संस्कारोद्बोधहेतुश्च तत्रादृष्टं प्रकल्प्यते ।
विपरीतख्यातिपक्षे ऽप्येषा तुल्या हि कल्पना
अदृष्टस्य च हेतुत्वाज्जाग्रतस्तादृशी न धीः ।
अवस्थापि ह्यदृष्टस्य सामग्रीफलसम्भवे
पीतशङ्खावबोधे च पित्तस्येन्र्दियवर्तिनः ।
पीतिमा गृह्यते द्रव्यरहितो ऽप्स्विव तिग्मता
शङ्खस्येन्द्रियदोषेण शुक्लिमा च न गृह्यते ।
केवलं द्रव्यमात्रन्तु प्रथते रूपवर्जितम्
गुणे द्रव्यव्यपेक्ष45 च द्रव्ये च गुणकाङ्क्षिणि ।
भासमाने तयोर्बुद्धिरसम्बन्धं न बुध्यते
सत्यपीतावभासेन समे भातो मती इमे ।
व्यवहारो ऽपि तत्तुल्यः, एवमत्रापि युज्यते
यत्तु नेत्रगतस्यापि कज्जलस्य न कालिमा ।
गृह्यते कारणं तत्र तेनेन्द्रियनिरोधनम्
अतसीपुष्पसंकाशं यत् तावन्नेत्रमण्डलम् ।
तत्रस्थमञ्जनं यत्तत् तेजोवृत्तिनिरोधकम्
मण्डलान्तरसंस्थन्तु यन्नाम नयने ऽञ्जनम् ।
तस्यानार्जवदोषेण नीलिमा नावगम्यते
इन्द्रियोपरिभागे ऽपि लिप्तेन स्वच्छभावतः ।
पित्तेन नायनं तेजः काचेनेव न रुद्ध्यते
प्रसरन्नायनं तेजो ग्राहकं 46नानिन्द्रियस्थितम् ।
पित्तस्याग्रहणं सौक्ष्म्यात् प्रभायामिव तेजसः
मधुरे तिक्तधीरेवं व्याख्याता पित्तवर्जिनः ।
तैक्त्यस्य रसहीनस्य गुडस्य च परिग्रहात्
तथा द्विचन्द्रबोधे ऽपि भिन्नं द्वेधैन्द्रियं महः ।
भिन्ने जनयति प्रख्ये एकस्मिन्नेव शीतगौ
सम्वित्ती ते न भिद्येते तद्द्वित्वे सति मन्यते ।
भिन्नार्थबुद्धितुल्यत्वमत्रापि खलु पूर्ववत्
स्मरतो ऽप्येकतां तेन भ्रमो ऽयमुपपद्यते ।
न हि स्मृतिप्रमोषेण सर्वत्रैव भ्रमो मतः
दिङ्मोहे ऽदृष्टसामर्थ्याद् दिक्स्वरूपानवग्रहात् ।
दिगन्तरस्वरूपस्य स्मरणाच्च भ्रमो मतः
अलातचक्रे ऽलातस्य भ्रमतः सर्वतो 47द्रुतम् ।
निरन्तरं धियो जाताश्चक्रबुद्धिसमा मताः
कालभेदस्तु शीघ्रत्वाद्धियां तासां न लक्ष्यते ।
चक्रधीव्यवहारश्च तेनास्मिन्नपि युज्यते
48॥
अनेनैव प्रकारेण सर्वभ्रान्तिषु पण्डितैः ।
ऊहनीया हेतुभेदा यथार्थज्ञानसिद्धये
स्थाणुर्वा पुरुषो वेति सन्देहे ऽपि यदा द्वयम् ।
स्मर्यते ऽन्योन्यनिर्मुक्तं तदार्थविरहः कुतः?
यदि चार्थं परित्यज्य काचिद्बुद्धिः प्रवर्तते ।
व्यभिचारवती स्वार्थे कथं विश्वासकारणम्?
नन्वत्राप्यरजतधीतुल्यताशङ्कया समः ।
अविश्वासस्तत्र दोषविरहाच्चेद् विनिर्णयः
सममेतद् विपरीतख्यातिपक्षे ऽपि दृश्यते ।
अहो बत महानेष प्रमादो धीमतामपि
ज्ञानस्य व्यभिचारे हि विश्वासः किंनिबन्धनः? ।
ज्ञानस्य व्यभिचारे ऽपि ज्ञातं यत् सत्यमेव तत्
अज्ञानमपि किन्त्वस्ति रूपभेदनिबन्धनम् ।
जिज्ञासा जायते येयं साप्यन्येन निवर्तते
यत्नेनान्विष्यमाणे ऽपि रूपं तच्चेन्न दृश्यते ।
तदा पूर्वैव संवित्तिस्त49 त्त्वेनाप्यपदिश्यते
50॥
अयथार्थत्वपक्षे च ज्ञानं साकारमापतेत् ।
आकारो भासते यो हि ज्ञान एवावतिष्ठते
51॥
अयथार्थस्य बोधस्य नोत्पत्तावस्ति कारणम् ।
दोषाश्चेन्न हि दोषाणां कार्यशक्तिविघातिता
52॥
भस्मकादिषु कार्यस्य विघातादेव दोषता ।
अग्नेर्हि रसनिष्पत्तिः कार्यं जठरवर्तिनः
विद्यमानवस्तुरूपग्रहणे प्रतिबन्धृता ।
दोषाणामुपपन्नेति भ्रान्तिरग्रहबन्धना53
विषयाव्यभिचारित्वं साधयितुं सर्वसंविदामेषा ।
निरमीयत नीतिविदा शालिकनाथेन नयवीथी
मिश्रशालिकनाथेन नयवीथीतिसंज्ञितम् ।
कृतं लोकहितार्थाय प्रभाकरमतं यथा
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0