प्रकरणपञ्चिका (टीका सहित) · अध्याय 5
इति श्रीमहामहोपाध्याय-शालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां नीतिपथो नाम तृतीयं प्रकरणं समाप्तम् ॥
जातिनिर्णयो नाम चतुर्थं प्रकरणम्
प्रकरणार्थप्रतिज्ञा---
बहुधा
जातिविषये विवदन्ते विपश्चितः ।
प्रभाकरमतेनायं तेषां प्रत्यास उच्यते
केचिदाचक्षते जातिरिति विकल्पविलासितम् इति ।
एके तु सत्तीमपि जातिमाश्रयेभ्यो ऽभिन्नामनुमन्यन्ते ।
अन्ये तु भिन्नामप्यनुमेयामाहुः ।
अपरे तु भिन्नाभिन्नामिच्छन्ति ।
तथा अजातावपि जातिव्यवहारो बहुलमुपलभ्यते केषाञ्चिदिति तन्निराकरणायेदमारभ्यते ।
54सिद्धान्तः- जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगो55चरः ।
पूर्वाकारावमर्शेन प्रभाकरगुरोर्मता
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0