प्रकरणपञ्चिका (टीका सहित) · अध्याय 24
इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामङ्गपारायणे आरादुपकारकाङ्गनिरूपणपरो नाम द्वितीयः परिच्छेदस्समाप्तः ॥
अथातिदेशपारायणं नाम चतुर्दशं प्रकरणम् ॥
प्रकरणार्थप्रतिज्ञा ।
1विकृतौ ये पदार्थानामतिदेशं न मन्वते ।
2प्रकारस्योपदेशञ्च तेषामुत्तरमुच्यते
स्वसिद्धान्तस्योपन्यासः ।
प्राकृतेनोपकारेण पदार्थैश्चैव वैकृतैः ।
प्रयोगविधिना स्वेन विधिरन्वित उच्यते
यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।
तेनान्वितो हि विध्यर्थस्स्वशब्देनैव वर्ण्यते3
साध्यभूतश्च विध्यर्थ उपकारमपेक्षते ।
4वाक्यादिभिः5 प्राकृतश्च स योग्यस्सन्निधाप्यते
अन्यथानवगम्यत्वाद्यद्यप्यङ्गपुरस्सरः ।
उपकारः प्राकृतो ऽसौ विकृतौ सन्निधाप्यते
तथाप्यपेक्षितत्वेन प्रकारं प्रभमं विधिः ।
स्वीकरोति पदार्थांस्तु प्रतीतानप्युपेक्षते
पश्चात्तु तैरपि पुनरुपकारप्रसिद्धये ।
अपेक्षितैस्तद्वशेन प्रोप्तैरन्वयमृच्छति
गुणप्रधानभावेन सर्वत्रैवान्वयो मतः ।
6प्रधानञ्च विधिर्धर्मा गुणास्तं प्रति सम्मताः
अन्वितस्याभिधानञ्च न 7शब्दोपस्थितैः परम् ।
दर्शनात्पितृयज्ञादौ कल्प्येनाप्यधिकारिणा
सम्बन्धिना न सर्वेण सहसैवान्विताभिधा ।
सम्बन्धिनां सन्निधानक्रमेण तु यथायथम्
प्रकृति-विकृत्योर्विशेषोपन्यासः ।
8प्रकृतौ तु स्वशब्दत्वात्पदार्थानां पुरो ऽन्वयः ।
उपकारस्य कल्प्यस्य पश्चादिति परं भिदा
अतिदेशलक्षणम् व्युत्क्रमेणोपकारेण पदार्थैश्चैव वैकृतैः ।
प्राकृतैर्विधिरन्वेति सो ऽतिदेशश्च सम्मतः
यस्य देशे विधिर्यस्मिंस्ततो ऽन्यत्रापि तद्गतिः ।
अतिदेशः प्रकारस्य धर्माणाञ्चैव युज्यते
अन्यत्रत्यो यथान्यत्र प्रकारो ऽन्वयमृच्छति ।
तथा धर्म 9अपीष्यन्ते तेषामप्यतिदेश्यता
एकदेशिमतेन दशमाद्यविरोधशङ्का ।
नन्वेयं दशमाद्येन विरोधस्ते प्रसज्यते ।
नैवं कार्यानपेक्षो ऽसावतिदेशो निवारितः
तद्वद्भावेन सम्बन्धो धर्माणामेव चेद्भवेत् ।
अनपेक्ष्यप्रकारत्वात्तदा10 बोधो न सिध्यति
तन्निरासः ।
प्रकृतौ हि पदार्थानां सम्बन्धे ऽवगते यथा ।
द्वारं दृष्टमदृष्टं वा सम्बन्धार्थं प्रकल्प्यते
कार्यानपेक्षसम्बन्धे तथैवावगते सति ।
द्वारं दृष्टमदृष्टं वा कल्प्यं स्याद्विकृतावपि
ततो न घटते बाधः कार्यलोपनिबन्धनः ।
दृष्टाभावे ऽप्यदृष्टस्य द्वारस्य खलु सम्भवात्
कार्यापेक्षा यदा धर्मा विकृतौ यान्ति सङ्गतिम् ।
तदा कार्यावलोपेन तेषां बाधः प्रसिद्ध्यति
प्राप्नुवन्तीति हि कार्येण धर्मा द्वारसमन्विताः ।
प्राप्नुवन्तीति न द्वारकल्पनावसरस्तदा
कार्यानपेक्षसम्बन्धो धर्माणामुच्यते यदि ।
दशमाद्यविरोधस्स्यात्तदानीं न च तत्तथा
11॥
तद्वद्भावेन किं धर्माः प्रकारो वापि गृह्यते ।
इत्येषा दशमाद्ये हि चिन्ता बाधप्रसिद्धये
स्वमतेन दशमाद्यविरोधोपन्यासः ।
11पूर्वपक्षी च तत्राऽह पदार्थानां परिग्रहम् ।
नोपकारे हि धर्मेभ्यो विना शक्यं रिरूपणम्
यद्यप्याकाङ्क्षति विधिः प्रकारं प्रथमं स्वयम् ।
तथापि तस्य प्रकृतावपि नैव स्वरूपतः
परिज्ञानं किन्तु यथाश्रुतैर्धर्मैस्तथैव हि ।
तस्मात्पदार्थपूर्वैव सदा तस्य निरूपणा
अतः पूर्वप्रतीतत्वात्पदार्थैरेव वैकृतः ।
विधिस्सम्बन्धमाप्नोति तान्गृहीत्वा तु स स्वयम्
उपकारं प्राकृते द्वारे ऽलुप्ते बाधन्तु नार्ऽहति
स्वमतेन दशमाद्यसिद्धान्तवर्णनम् ।
12राद्धान्ती तु वदत्येवं सत्यं धर्माः पुरस्सराः ।
तथा ।
द्यपि ते न गृह्यन्ते तदानीमनपेक्षणात्
प्रकारं हि पुनस्साध्यरूपो विधिरपेक्षते13 ।
नपदार्थनिति हि 14तात्प्रतीतानप्युपेक्षते
प्रकारेणैव सम्बन्धं प्रथमं प्रतिपद्यते ।
प्रकारकल्पितैः पश्चात्पदार्थैरिति दर्शितम्
अन्यधर्माणामन्यधर्मत्वशङ्का-निरासौ ।
धर्माणामन्यदीयानां कथमन्यत्र सङ्गमः ।
इति चेदुपकारे ऽपि तुल्यमेतदथोच्यते
नोपकारस्य सम्बन्ध इति हास्यमिदं वचः ।
यद्यसौ नान्यदीयस्स्यात्कथं तर्ह्यतिदिश्यते
अन्यत्र ह्यन्यदीयस्य देहशो ऽतिदेश उच्यते ।
तद्वद्भावेन तत्प्रापौ विरोधश्चेन्न विद्यते
तद्वद्भावोपत्त्यर्थं पदार्थेष्वपि तत्समम् ।
प्रतिपत्तिविरोधो ऽयमन्यदीयान्यसङ्गमे
मुखान्तरेण15 सम्बन्धे स च नास्ति कथञ्चन ।
भाट्टमते ऽनुपपत्त्युपन्यासः ।
ये तु नेच्छन्ति धर्माणां सम्बन्धं वैकृतैस्सह
अपूर्वे प्राकृताङ्गानां16 ग्रन्थस्तेषां विरुध्यते ।
सप्तमा-ष्टमयोस्तेषां15 प्रकारप्राप्तिचिन्तनम्
न युक्तं तत्र चिन्ता हि षट्के ऽस्मिन्कार्यबन्धना ।
नियोगो ऽप्यथ कार्यञ्चेत्तदर्थमपि चिन्त्यते
चतुर्थाध्यायचिन्तापि16 षट्के ऽस्मिन्नापतेत्तथा ।
स्वमतेनोपपत्तिप्रदर्शनम् ।
कार्यतो ह्युपदेशार्थद्विध्यर्थाद्यप्रतीयते
17॥
यथा तस्योपदिष्टत्वं तथाऽक्षेपण ।
वक्ष्यते ।
तेन विध्यर्थमुत्सृत्य कार्यमन्यत्समाश्रितम्
द्वारभूतमियं चिन्ता कार्यषट्के विधीयते ।
अतिदेशः पदार्थानां तेन षट्के ऽत्र चिन्तितः
तस्यैव हेतुभतस्स उपकारो ऽपि दर्शितः ।
"षड्भिर्दीक्षयती"त्यत्र प्राकृतानाञ्च वैकृतैः
अङ्गभूतैरनङ्गानां बाधश्चैवं प्रसज्यते ।
प्रधानभावबाह्यत्वादुपकारप्रसिद्धये
नैव प्रयुक्तिमात्रेण क्रियते प्राकृतं पुनः ।
तत्र ।
कार्यातिदेशोयं सम्मतस्त्वौपदेशिकः
18॥
उपदेशप्रमेयेण विध्यर्थेनोपकल्पितः ।
प्रकृतावुपकारस्य यदपूर्वेण कल्पना
नियोज्यस्य च वृद्धानामुपदेशेन सम्मता ।
स्वमतेनोपदेशशब्दार्थोपन्यासः ।
उपदेशो हि ।
नामात्र ग्रन्थसन्दर्भ उच्यते
स च प्रमाणं विध्यर्थे कार्यरूपे ऽवधारितः ।
योर्ऽथः प्रतीयते यस्मात्स परं नौपदेशिकः
विध्यर्थस्स्वप्रतीत्यथ यमाक्षिपति सो ऽपि च ।
अपर्यवस्यन्विध्यर्थे यं प्रकल्पयितुं क्षमः
औपदेशिकता युक्ता तस्याप्यक्षरबोध्यवत् ।
उपकारविशेषञ्नच विधिः कल्पयितुं क्षमः
न पदार्थविशेषन्तु वैकृतं प्राकृतो यथा ।
उपकारविशेषस्य कल्पनायां क्षमो ऽपि यत्
प्रकृतेरेव गृह्णाति लाघवं तत्र कारणम् ।
कॢप्त-कल्प्यविरोधे हि लघुः क्लॄप्तपरिग्रहः
अस्ववाक्य-नाम-लिङ्गैश्च कॢप्तो ऽसौ-सन्निधाप्यते ।
पदार्थभेदप्राप्तिस्तु नोपकरं विना भवेत्
प्रकृति-विकृत्योर्विशेषकथनम् ।
तत्प्राप्तेः कार्यतस्तेषां प्रकारश्चोपदेशतः ।
प्रकृतावुपकारश्च पदार्थश्चोपदेशतः
विकृतौ कार्यतो धर्माः प्रकारश्चोपदेशतः
स्वमतोपन्यासः ।
उपदिष्टे ऽपि चैतस्मिन्नतिदेशपदाभिधा ।
न वार्यते ऽस्ति तस्यार्ऽथो देशान्यत्वं निजाद्विधेः
उपदेशातिदेशयोर्भिन्नविषयत्ववादिभाट्टमते दोषोद्भावनम् ।
उपदिष्टातिदिष्टत्वं न त्वेकस्य विरुद्ध्यते ।
नोपदेशातिदेशौ हि प्रमाण इति सम्मते
उपदेशातिदेशौ हि प्रमाणे भवतो यदि ।
स्वमते पूर्वोक्तदोषाभाववर्णनम् ।
तदा विरोधो जायेत न चैवमिह सम्मतम्
तेनोपदेशमेयत्वादुपदिष्टमितीष्यते ।
अन्यस्मिन्नन्यतोभावादतिदेशो ऽपि युज्यते
स्वमतेनोपदेशदेशयोर्विषयनिर्देशः ।
उपदेश-कार्यरूपप्रमाणद्वयसंश्रयौ ।
षट्कावुभौ नोदेशमतिदेशञ्च संश्रितौ
अतिदेशाश्रयत्वे हि बाधे तन्त्रे च भूयसी ।
उपदिष्टार्थविषया चिन्ता नैवोपपद्यते
द्वारकार्याश्रयत्वे तु सर्वासामुपपन्नता ।
चिन्तानामितिचिन्तेह युक्ता कार्यसमाश्रया
उपकारवत् पदार्थानामुपदिष्टत्वशङ्का ।
19नन्वेवमुपदिष्टत्वं पदार्थानां प्रसज्यते ।
कार्यवत्तैरपि यते विध्यर्थो ऽन्वित उच्यते
तन्निरासः ।
उच्यते शाब्दतैवं स्यान्नोपदेशप्रमेयता ।
प्रमाणद्वयभेदो ऽयमुपस्थाननिबन्धनः
उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति ।
स औपदेशिको ज्ञेयस्स च द्वैधमुपस्थितः
ग्रन्थैनोपस्थितश्चैव विध्यर्थोपस्थितस्तथा ।
20यथोपकारः प्रकृतौ नियोज्यो वाश्रुतो यथा
प्रकारोपस्थितो यश्च द्वेधा नासावुपस्थितः ।
तेनौपदेशिको नासौ केवलं कार्यबन्धनः
पूर्वनिबन्धनिबन्धनमपनेतुं मोहमीहमानेन ।
शालिकनाथेन कृतः कृतिनामानन्ददो यत्नः
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0