प्रकरणपञ्चिका (टीका सहित) · अध्याय 20
तदा व्युत्पित्समानो ऽन्यस्तत्रैवमवगच्छति ।
1224बुद्धिपूर्वा 1225ममेवास्य प्रवृत्तिरियमीदृशी ।
लिङादियुक्तवाक्यश्रवणसमनन्तरं वृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा, व्युप्तित्समानो बाल एवमाकलयति---येयं स्वाधीनास्व प्रवृत्तिः, सा मद्वद् बुद्धिपूर्विकेति ।
पुनश्च तस्यायं विमर्शो जायते---अहं बुद्ध्वा प्रवृत्तो1226 यथा, तद्वदेषो ऽपि ।
यस्याः प्रवृत्तेर्हेतुभूता बुद्धिः, सा यद्विषया सती मम प्रवृत्तिहेतुः, तद्विषयैवास्यापीति, पुनर्व्युत्पित्सोरनुमा जायते ।
तदेवमनुमानद्वयमेततद्वृद्धस्य स्वतन्त्रा प्रवृत्तिः-धर्मिणी, बुद्धिपूर्विका-इति साद्ध्यो धर्मः, स्वतन्त्रप्रवृत्तित्वात् मदीयस्वतन्त्रप्रवृत्तिवदिति, तथा-वृद्धस्य प्रवृत्तिहेतुभूता बुद्धिः---धर्मिणी यद्विषया बुद्धिर्मम प्रवृत्तिहेतुभूता तद्विषयैवास्यापीति---साध्यो धर्मः, प्रवृत्तिहेतुभूतबुद्धित्वात् मदीयप्रवृत्तिहेतुभूतबुद्धिवत्---इति ।
पुनश्च तस्यायं विमर्शः प्रवर्त्तते ।
1227तदस्य तु शब्देन बोध्यते ।
अनेन मम मानान्तरेण तु यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता, तद्वस्त्वनेन1228 शब्देन बोध्यते ।
तद्भावे सत्यवगमात्, मम तु मानान्तरेण तद् बोध्यत इति---अयमावयोर्विशेषः ।
तेन यत् बुद्ध्वा प्रवृत्तिर्मम, तदस्यानेन शब्देन बोद्ध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थावबोधकतामवधारयति ॥ 3 1
पुनश्च को ऽसौ प्रवृत्तिहेतुभूतोर्ऽथश्शब्दाभिधेय इति निर्धारयितुम्, स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतमर्थमनुसन्धत्ते---
तत्र बुद्ध्वा प्रवृत्तो ऽहं किं तावत् स्वयमन्यदा
शब्दनिरपेक्षस्स्वयमहं प्रवर्त्तमानः किं बुद्ध्वा प्रवृत्त इति जिज्ञासते ।
अन्यदेत्यनेन---व्युत्पत्तितः प्रागवस्थोच्यते ।
व्युत्पन्नेन बालेन यदात्मनि प्रवृत्तिकारणतया 1229प्रतीतम्, तदेव व्युत्पन्नस्यापीति कल्प्यते, नान्यदित्यर्थः ।
शब्द-व्यापारयोर्भावनात्वनिरासः ।
1230तेन शब्द एव प्रवृत्तिहेतुभूतो विधिः, तद्व्यापारो वेति निरस्तं भवति ।
तयोर्बालेनाऽत्मनि प्रवृत्तिकारणत्वेनादर्शनात् ।
1231अतिमन्दतया चेमौ पक्षौ न साक्षादुपन्यस्य निरस्तौ ।
तथाहि---लिङादिशब्दस्वरूपस्य प्रवर्तकत्वे सर्व एव तच्छाविणो नियमेन प्रवर्त्तेरन्, नचैवं दृश्यते, कस्यचित् कदाचित् प्रवृत्तेः ।
लिङादिव्यापारस्य तु प्रवृत्तिहेतुत्वाश्रयणं देवाः प्रतिपद्यन्ताम्, पिशितचक्षुषो मानुषा वयं नेयतीं प्रमाणभूमिमवगाहितुं क्षमाः ।
शाब्दभावनोपन्यासः ।
केयं शब्दभावना1231 -1231उच्यते---लिङादिव्यापाररूपा पुरूषप्रवृत्तिभवनानुकूला ।
स्वज्ञानकरणिका, अर्थवादोदितप्राशस्त्यलक्षणेतिकर्त्तव्यतायोगिनी प्रेरणात्मिका कल्प्यते ।
"स्वाध्यायाध्ययनविधिना हि सर्वे विधायकाः, स्वाध्यायपदोपात्तश्चात्मा नियुज्यन्ते भावयेदि" [तं. वा. पृ. 114टति ।
तत्र किमित्यपेक्षायां पुरुषप्रवृत्तिस्सम्बद्ध्यते ।
केनेत्याकाङ्क्षायां विधिज्ञामेव योग्यतया करणत्वेनाङ्गीक्रियते ।
ज्ञाता हि शाब्दभावना प्रवृत्तिं प्रसूते, योग्यतयैवार्ऽथवादसमुत्थप्राशस्त्यज्ञानमितिकर्त्तव्यतांशे निविशते ।
अवसीदन्ती हि विधिशक्तिः प्राशस्त्यज्ञानेनोत्तभ्यते ।
तस्याश्च पुरुषव्यापाररूपा स्वर्गादिभाव्यावच्छिन्ना भावार्थकरणिका श्रौत-स्मार्त्ता-चारप्राप्तपदार्थजनितकरणोपकारवत्यार्थभावना समानप्रत्ययवाच्या विषयभूता---इति ।
तन्निरासः ।
तन्न ।
लिङादेस्तादृशो व्यापारो विद्यत इत्यत्र न किञ्चन प्रमाणम् ।
लिङादिशब्दानन्तरभाविनी पुरूषप्रवृत्तिरेव प्रमाणमिति चेत् ।
न ।
तन्निबन्धनत्वेन प्रवृत्तेरन्यत्रादृष्टत्वात् ।
अयन्निबन्धना हि प्रवृत्तिर्दृंष्टा, तदेव तां दृष्ट्वा शक्यमनुमातुम्, न पुनरप्रतिपन्नपूर्वकारणभावश्शब्दव्यापारविशेषः ।
अथ लिङादिशब्द एव प्रमाणमिति साहसम्, अगृहीतसम्बन्धस्यावाचकत्वात् ।
अनवधारिते हि सम्बन्धिनि, सम्बन्धबोधवैधुर्यात् ।
प्र्प्र्कथञ्च तत्र स्वाध्यायाध्ययनविधिना सर्वे विधायकास्स्वात्मा च विनियुज्यन्ते ।
पुरुषं च्विधिरार्थभावनायां प्रेरयति ।
यश्च येन ओंप्रेर्यते, स तेन नियुज्यते ।
न चाचेतनानां ग्विधीनां नियोजकत्वमपि सम्भवति ।
अथ नच्च् नियोज्यन्ते ।
तदप्यनुपपन्नम्---शाब्दभावनासु सर्वशब्दानां स्वत एव कर्तृत्वात् विनियोगानपेक्षणात् ।
अथ न अपुरुषाः प्रेरणे विनियुज्यन्ते, किन्त्वर्थावबोधने ।
तदपि न घटते ।
तत्रापि नियोज्यानपेक्षायास्तुल्यत्वात् ।
अध्ययनविधेश्चाक्षरसंस्काररूपाध्ययनविधायकत्वाभ्युपगमाता ।
तथाचाऽहुः---
"द्रव्यादीनां पुनः कस्मिन् स्वाध्यायो ऽन्तर्गतो भवेत् ।
त्रेधापि प्रतिभात्यस्मिन् संस्कारत्वस्य निर्णयः ॥
संस्कार्यगणनायाञ्च युक्तैवाक्षरसंस्क्रिया ।
स्वाध्यायां हि स्फुटं कर्म साक्षात्संस्क्रियते चि सः" ॥
इति ।
संस्कारविधिश्च न संस्कार्यं विनियुङ्क्ते, प्रमाणान्तरावसितोपयोगस्य शेषित्वात् ।
संस्कारपर्यवसायी तु संस्कारविधिर्न संस्कार्यस्य कार्यं कल्पयेत् ।
आत्मा चाध्ययनविधिना विनियुज्यते, न विनियुज्यते वेति प्रतिपत्तिद्वयस्याप्यसम्भवादनुपपन्नम् ।
पुरुषप्रवृत्तेर्भाव्यत्वप्रक्षेप-प्रतिक्षेपौ ।
कथञ्च पुरुषवृत्तिस्तस्या भाव्यम्, न तावदनन्तरनिष्पत्तेः, विधिज्ञानस्य करणत्वाभावप्रसङ्गात् ।
क्रियाफलं हि तदा पुरुषप्रवृत्तिस्स्यात् ।
न च क्रिया स्वफलप्रसवाय करणमपेक्षते ।
न च गमनं संयोग-विभागारम्भे करणापेक्षम् ।
स्यान्मतम् 1233लिङादिशब्दो विधिज्ञानं जनयित्वा, 1234करणानुगृहीताः प्रेरणारूपं स्वव्यापारमारभते इति ।
न च करणत्वाभावः, क्रियानिष्पत्तावेव करणत्वात् ।
तदिदमलौकिकम् ।
न हि कस्यचिद्वस्तुनस्स्वज्ञानमुत्पादहेतुः प्रतीतम् ।
प्राशस्त्यज्ञानस्येतिकर्तव्यतात्वनिरासः ।
एवमर्थवादोदितप्राशस्त्यस्यापीतिकर्त्तव्यतात्वं विध्यस्तम् ।
योग्यतया हि तस्य तथाभावः ।
न च प्रेरणोत्पत्तौ शब्दकर्तृकायां करणीभूतज्ञानानुग्रहयोग्यता तस्य शक्यते ऽवगन्तुं ।
पुरूषकर्तृकायान्तु प्रवृत्तौ स्यात् तस्य योग्यतावगमः, प्रशस्ते 1235पुरुषप्रवृत्तिदर्शनात् ।
स्यान्मतम् ।
अप्रशस्ते प्ररुषप्रवृत्त्यसम्भवे प्रेरणैव नोपपद्यते ।
तदसत् ।
न फलसम्भवायत्ता क्रियानिष्पत्तिः, क्रियानिष्पत्त्यायत्तैव तु फलसिद्धिरिति लोके प्रतीतम् ।
अत एव तस्मिन्पक्षे निष्फले ऽपि प्रेरणासिद्धेः प्रवृत्तिस्स्यात् ।
अथ फलमपीतिकर्त्तव्यतापदनिवेशि, प्राशस्त्यवत्, अतस्तदभावे न प्रेरणा निष्पद्यते---इति ।
तर्हि फलमेवास्त्वितिकर्त्तव्यतांशपरिपूरकम्, किं प्राशस्त्येन ।
सत्यमेतद्, अस्ति तावद् तदपीति न त्यज्येत ।
एवं तर्ह्यश्रुते प्राशस्त्ये तदपेक्षा मा भूत् ।
ततश्च तदतिदेशादिकल्पनमघटमानं केवलस्य विधेर्दर्विहोमवत्करणेतिकर्त्तव्यताकल्पनापि कल्पनामात्रमेव ।
दर्विहोमवदिति1236 चासिद्धो दृष्टान्तः ।
तत्रापि श्रौतद्रव्य-देवता-स्मृत्याचारप्राप्ताचमनादीतिकर्त्तव्यतामात्रेणोपकारकॢप्तेरभिमतत्वात्1237 ।
नह्येकस्यैव वस्तुनो ऽनुग्राहकता, अनुग्राह्यता च स्वात्मन्युपपद्यते ।
अथ शब्दः प्रेरणां करोत्येव, प्रवृत्तिस्तु न तावन्मात्रेण, किन्तु तज्ज्ञाने सति ।
एवं तर्हि ज्ञानफलमेव प्रवृत्तिरस्तु, न प्रेरणाफलं, तस्मिन्सति भावात्, असति चाभावात् ।
तथा च न शाब्दभावना विधिरिति सिद्धम् ।
1238किञ्च शब्दो ऽम्बरगुण इति, 1238प्राप्यकारीन्द्रियवादिनाभ्युपेयम् ।
अन्यथा नभसश्श्रोत्रभूतस्य, शब्दस्य च प्राप्त्यसम्भवात्संयोग-समवाययोरन्यतरस्य च प्राप्तिरूपत्वात्, संयोगस्यान्यतरकर्मजस्य, उभयकर्मजस्य, संयोगजस्य च द्रव्यत्वे सति शब्दस्य नभसा सहासम्भवात् तस्य च त्रैविध्यनियमात्, पारिशेष्यात्समवायः प्राप्तिरिति, आकाशगुणश्शब्दः ।
न च तस्य व्यापारसम्भवः, द्रव्याश्रितत्वाद्द्व्यापाराणाम् ।
कथं तर्हि शब्दस्याभिधानलक्षणो व्यापार आश्रीयते ।
यथा तत्तथा श्रूयताम्---यत्तावदात्मन्यर्थविषयज्ञानं शब्दविषयज्ञानानन्तरं जायते, 1239तच्छब्दकर्तृकतया यदा विवक्ष्यते, तदा 1240तदाभिधानिकमित्युच्यते ।
परस्थे ऽपि व्यापारे भवत्येव कर्तृता, परिस्पन्द इवात्मन इति, न कश्चिद्दोषः ।
कथञ्चासौ शब्दव्यापारार्थभावनाविषयः, एकप्रत्ययवाच्यत्वात्-इति1241 ।
तदुक्तम्---
"1242विधि-भावनयोश्चैकप्रत्ययग्राह्यता कृतः ।
धात्वर्थात्प्रथमं तावत्सम्बन्धो ऽध्यवसीयते" ॥
[श्लो. वा. अ. 7. श्लो. 79 1 ।
2. 80 1 ।
2] इति ।
तन्न ।
प्रत्ययस्य भावनाभिधानमस्मिन्पक्षे दुर्घटं यतः ।
आख्यातानां भावनावाचित्वशङ्का ।
ननु1243 च सर्वाख्यातानां भावनावचनता करोतिसामानाधिकरण्यादध्यवसीयते ।
तथाहि---भवत्यर्थस्य कर्तुः प्रयोजकव्यापारो भावना, सैवकृतिः ।
भाव्यमानस्यैव क्रियमाणत्वात्, तस्य कृतिकर्मत्वात् ।
किमकार्षीत् ? अपाक्षीत् किं करोति ? पचति ? किं करिष्यति, पक्ष्यति,इति प्रश्नोत्तरदर्शनात्, करोत्यर्थस्सर्वाख्यातैरभिधीयत इति गम्यते ।
अन्यथा करोत्यर्थविषयप्रश्ने तदुत्तरानुपपत्तिः ।
1241तत्र सत्यामपि प्रकृतौ धञन्तादिषु करोत्यर्थानवबोधात्, आख्यातप्रत्ययसन्निधाने च तदवगमात्, आख्यातानामेव सोर्ऽथ इति निश्चीयते ।
तन्निरासः ।
तदसत् ।
किं करोतीत्यस्य प्रश्नस्य यद्ययमर्थः-यत्करोति, तत्किमिति, तत्र चेत्पचतीत्युत्तरं स्यात्, तदा पाकं करोतीत्यस्मिन्नर्थे पचतीति वर्त्तते ।
तथा च सिद्ध्येदाख्यातानां करोत्यर्थता ।
न चैतदेवम् ।
अनवगते हि धातुवाच्ये व्यापारविशेषे, तद्विशेष एव-एवंपृच्छ्यते, तत्र पचतीत्युत्तरम् ।
तथा च न सिद्ध्यति धात्वर्थातिरिक्तकरोत्यर्थवचनताऽख्यातानाम् ।
सर्वे धात्वर्थाश्च कस्यचिदभूतस्य भवने ऽनुकूलतां भजन्तः करोत्यर्थतामापन्नाः करोतिना प्रष्टुम्, निर्देष्टुञ्च शक्यन्त इति, तद्विशेषप्रश्नोत्तरे एव ते ।
किञ्च धातुवाच्यव्यापारविशेषविषयत्वेनापि प्रश्नो-त्तरयोरुपपत्तौ, तदतिरिक्तकरोत्यर्थवाचकताऽख्यातानां न शक्यते वक्तुम् ।
अपि च सप्रयत्नक्रियेषु देवत्तादिषु व्यापारभेदसम्भवात् घटेतां प्रश्नोत्तरे ।
व्यतिरिक्तकरोत्यर्थविषये "किं करोती"ति प्रश्ने, "गच्छती"ति चोत्तरे गमनातिरिक्तव्यापारामावादनुपपत्तिरेव स्यात् ।
धात्वर्थविशेषविषयत्वे तु तत्राप्युपपत्तिः ।
अथ तत्रापि संयोग-विभागौ धात्वर्थः, परिस्पन्दस्तु विभक्त्यर्थ इति, तत्रापि धात्वर्थव्यतिरिक्तव्यापारसम्भवान्नानुपपत्तिः ।
तन्न ।
परिस्पन्दस्यैव गमिवाच्यत्वात् ।
तथाहि---न केवले संयोगे, विभागे वा गमेः प्रयोगः, स्थाणौ श्येनेन वियुक्ते, संयुक्ते वाप्रयोगात् ।
नापि द्वयोः, उत्पत्य-निपतिते श्येने स्थाणौ प्रयोगप्रसङ्गात् ।
एकक्रियाक्षणजन्यौ संयोग--विभागौ गमिवाच्याविति यद्युच्येत ।
तर्हि क्रियैवास्तुवाच्या, किमसावुपाधिकोटौ निवेश्यते ।
एवं ह्युपाधिसमाश्रयगौरवमेव परिहृतं भवति ।
अपि च वृद्धव्यवहाराच्छब्दार्थनिर्णयः ।
न चाऽरव्यातानां भावनावचनत्वमन्तरेण कस्यचिद्वृद्धव्यवहारस्यानुपपत्तिः ।
प्रश्नोत्तरे तु सम्बन्धज्ञानोत्तरकालभाविनी, अतो न तद्वशेन सम्बन्धिनिरूपणा ।
कर्त्रादिसंख्यामात्रवाचितयाऽख्यातप्रयोगोपपत्तौ, नाधिकं वाच्यं शक्यं कल्पयितुम् ।
अपि च "पाकं करोति देवदत्तः" इत्यत्र तावत्पच्यर्थं पाकशब्दो ब्रवीति, तदनुगुणन्तु पुरुषप्रयत्नं करोतिराचष्टे, आख्यातन्तु केवलकर्तृसंख्यां वक्तीति, सिद्धं तन्मात्रवाचित्वम् ।
अतो ऽन्यत्रापि तत्रैव वर्त्तत इति युक्तम् ।
एवं "पचति देवदत्तः" इत्यस्य यद्विवरणं---पाकं करोतीति ।
तदप्यनुपपन्नम् ।
पचतीत्यत्र यः पुरुषप्रयत्नः यत्सम्बन्धेन पच्यर्थस्साध्यभूतः, तं करोतिना प्रकृतिभूतेनोपादाय विवरणोपपत्तेः ।
यत्रापि "रथो गमनं करोति"ति न प्रयत्नो ऽपरो ऽस्ति, तत्रापि गमनस्य साध्यतां दर्शयितुम्, गौणः करोति प्रयोगो द्रष्टव्यः ।
पक्षद्वये ऽपि तुल्यत्वात् ।
मण्डनमिश्रमतोपन्यास-निरासौ ।
यस्तु---"देवदत्त ओदनं पचती"त्यादौ वृद्धव्यवहारे एव प्रकृत्यर्थातिरिक्ते प्रयत्ने प्रयोगादारव्यातानां तदर्थतामाह ।
स इत्थं शिक्षयितव्यः---
वत्स ! किं न वेत्सि "अनन्यलभ्यश्शब्दार्थः" इति ।
इह च प्रकृत्यर्थाक्षेपेणापि प्रयत्नप्रतिपत्त्युपपत्तेः, न शक्यते तद्वाचकताऽख्यातानामाश्रयितुम्---इति ।
कार्यवाचिनामेव कृतिवाचित्वनिरूपणम् ।
ननु प्राभाकरा अपि भावनावाचकतां न कथमारव्यातप्रत्ययस्येच्छन्ति ।
उच्यते---न सर्वाख्यातप्रत्ययानां भावनावचनत्वमभ्युपेमः, किन्तु कार्याभिधायिनो लिङादयः कार्यस्यान्यथानभिधानात् कृत्यभिधायिन इष्यन्ते ।
कृतिसम्बन्धि हि कार्यं कृत्यनभिधाने नाभिहितं स्यात् ।
नह्यस्ति सम्भवः, कृतिश्च नाभिधीयते, कार्यञ्चाभिधीयते---इति ।
अथ मतम् ।
यथा दण्डीत्यत्र प्रत्ययेन दण्डो नाभिधीयते, अथ च तद्विशिष्टपुरुषप्रतीतिः, एवमिहापि भवेदिति ।
तन्न ।
तत्राप्यप्रतीते दण्डे, न तद्वति प्रत्ययः ।
अस्ति च तत्र प्रकृतिभूतो दण्डशब्दः, स च तस्य प्रत्याययिता ।
न चेह तथा सम्भवति, प्रकृतीनां 1244पुरुषव्यापाराभिधानानियमात् ।
पुरुषो हि चेतनः कार्यं लिङादिभिरवबुध्यते ।
न चासौ परकृतिसम्बन्धि स्वयं कार्यं बोद्धुमलमिति, तदीयकृत्यभिधानमेषितव्यम् ।
तस्य च कृतिः प्रयत्नरूपा ।
न च सर्वथा 1245तदननुभवे तदभिधायिन इति, न दण्डिन्यायस्यायं विषयः ।
स्यान्मतम् ।
यथा लिङ कर्त्रादिसंख्यामात्रवचनता, क्रियाक्षेपेण च कर्त्रादीनां प्रतीतिः ।
तथेहापि क्रिया प्रयत्नमाक्षिपति, मा भूत्तस्य लिङ्वाच्यता--इति ।
तदसत् ।
यद्यपि प्रकृत्यर्थभूतया क्रियया प्रयत्न आक्षिप्यते ।
तथापि तदायत्तसिद्धिकतया1246 कथमपूर्वं गम्यते ।
प्रयत्नाभिधाने तदवच्छिन्नतया प्रतीयमानं1247 तदायत्तसिद्धिकमवगम्यते, नान्यथा ।
न च कृत्त्यनवच्छिन्नस्वरूपमात्रेणापूर्वमभिहितं कृतिमाक्षेप्तुमलम् ।
अवगतसम्बन्धं हि वस्त्वाक्षिप्यते ।
न च शब्दमन्तरेणापूर्वस्य प्रयत्नसम्बन्धावगमे 1248कारणमस्ति ।
अतः कथं तत् प्रयत्नमाक्षिपेत् ।
तस्मादपूर्वकार्यभिधायिनां प्रयत्नाभिधानमवश्यमाश्रयणीयमिति, विषयकरणीये निपुणतरमुपपादितमित्यलमतिप्रसङ्गेन
तत्र न क्रियामत्रं तावदहं बुध्वा प्रवृत्तः, नापि फलमात्रम्, न क्रियाफलसम्बन्धमात्रं वा ।
क्रिया--फलयोस्साध्य-साधनतावगमे ऽपि न प्रवृत्तिरुपपद्यते ।
तृप्तिहेतौ भोजने ऽतीते, वर्तमाने वाप्रवृत्तेः, भविष्यत्यपि तत्साधने सामुद्रविदाख्यात इवानुष्ठानाभावात् ।
पुरुषाशयावगमस्तु प्रबृत्तिहेतुत्वेनाऽशङ्कितो ऽपि, स्वतन्त्रप्रवृत्तौ व्युत्पित्सोर्दूरोत्सारितत्वात् ।
किन्तु कार्यतां बुध्वा प्रवृत्तो ऽहम्, ममेदं कार्यथ्मति प्रतीत्य---अहं सर्वत्र प्रवृत्तः ।
तथाहि---
आस्तां तावत्क्रिया लोके गमना-गमनादिका ।
अन्ततस्स्तन्यपानादिस्तृप्तिकाररिण्यपि1249 क्रिया
सा यावन्मम कार्येयमिति नैवावधार्यते ।
तावत्कदाऽपि मे तत्र प्रवृत्तिरभवन्न1250 हि
ब्रह्मसिद्धिकतो मतेनाऽशङ्का ।
1251अत्रापर आह ।
सत्यं---कार्यावगमादेव प्रवृत्तिः ।
इष्टसाधनतैव तु कार्यता, न परा काचित्, सैव प्रवृत्तिहेतुर्विधिरुच्यते ।
तदाह---
"अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः ।
अतो ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः" ॥
[ब्र. सि. कां. 3, 103 1 ।
2 104 1 ।
2 पृ0 115] इति ।
1252तथा "पुंसो नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।
प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्त्तनाम् ॥
[वि. वि. श्लो. 26 पृ0 243] इति ।
कर्त्तुरिष्टाभ्युपाये हि कर्त्तव्यमिति लोकधीः ।
विपरीते त्वकर्तव्यमिति तद्विषये ततः ॥
[वि. वि. श्लो. 30 पृ0 302] इति च ।
तन्निरासः ।
तत्र तावदिदमेव वक्तव्यम् ।
अतीतस्य 1253वर्तमानस्य चेष्टसाधनताऽस्ति, न च तत् कार्यतयाऽवसीयते ।
तेनान्या कार्यता, अन्या चेष्टसाधनता---इति ।
तथा प्रवृत्तिरपि तन्मात्रावगमायत्ता न भवतीत्युपेक्ष्यैव तावत् तं, फलसाधनता---कार्यतयोर्भेदं विनिर्दिशति---
1254फलसाधनता नाम या सा नैव च कार्यता ।
कार्यता कृतिसाध्यत्वं फलसाधनता पुनः
करणत्वं फलोत्पादे भिद्येते ते परस्परम् ।
यद्यप्येकवस्तुनिवेशिता द्वयोः, तथापि स्वरूपभेदो ऽस्त्येव ।
तदेव हि वस्तु फलं प्रत्युपायभावात्फलसाधनमित्युच्यते, कृत्यधीनात्मलाभतया च कार्यमिति
किमितीष्टाभ्युपायेष्वेव कर्त्तव्यतावगमः, अन्यत्र नेत्यत्राऽह---
।
किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत्
फलसाधनता तत्र 1255कारणं तेन कार्यता ।
तद्भावभाविनी नित्यं तदा सैव1256 प्रकाशते
स्वभावेन हि कर्माणि दुखोत्पादहेतुभूतानि ।
तेषु कार्यत्वावगमः फलसाधनतावगमनिबन्धनः ।
कार्यता हि न कृत्यधीनसिद्धितामात्ररूपा, किन्तु कृतिं प्रति प्रधानभूतं सत् यत् तदधीनसत्ताकम्, तत्कार्यमुच्यते ।
तच्च कृतेः प्रधानम्, यदधिकृत्य कृतिः प्रवर्तते ।
न च दुःखं दुखहेतुंवाधिकृत्यकृतेः प्रवृत्तिरुपपन्ना, नाप्यदुःखम्, अदुःखहेतुं वा ।
किन्तु सुखं, सुखहेतुं वा ।
तत्र न तावत्स्वयं सुखरूपं कर्म, सुखसाधनमपि चेन्न स्यात्, न तस्य कृतिं प्रति प्राधान्यावगमो1257 घटते ।
अतः कर्मसु कार्यत्वावगमः फलसाधनतावगमनिबन्धन इति, ज्ञापककोटिनिविष्टा फलसाधनता 1258कार्यतामनुरुध्यते, न त्वसौ तदात्मैव ।
तथा चासाधनस्यापि सुखस्यैवास्ति कार्यता ।
सुखं हि सर्वः कार्यतयावैति, न तस्य फलसाधनतामपेक्षते ।
तेन फलसाधनतोत्तीर्णकार्यतावगमेन मे प्रवृत्तिरिति निश्चित्य, व्युत्पित्समानश्चैत्रं प्रवर्त्तमानं दृष्ट्वानुमिनोति--चैत्रो ऽपि कार्यबोधात्प्रवर्तते---इति ।
चैत्रस्य 1259प्रवृत्तिः--धर्मिणी, कार्यबोधपूर्विका--इति साध्यो धर्मः, बुद्धिपूर्वकत्वे सति प्रवृत्तित्वान्मदीयप्रवृत्तिवदिति ।
लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायिनः कार्यमेवाभिदधते ।
तस्यैवावगतस्य प्रवृत्त्यनन्तरकारणत्वात्
इच्छा यद्यपि प्रवृत्तिहेतुः, तथापि सा लिङादिवाच्या न भवति ।
तदवगमस्य प्रवृत्तावनपेक्षितत्वात् ।
उत्पन्ना हि सा प्रवृत्तिकारणम्, नावगता ।
नन्वेवमपि कथं लिङादीनां कार्ये व्युत्पत्तिरित्यत्राऽह---
शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि ।
आवापो-द्वापभेदेन तथा कार्ये लिङादयः
1260॥
लिङादियुक्तवाक्यश्रवणे तद्भावभाविन्या प्रवृत्त्या विशिष्टकार्यावगतिमनुमाय, वाक्यस्य 1261हेतुतामध्यवस्यति ।
तत्रापि 1262कोर्ऽथः केन 1263शब्देनाभिहित इति विवेचने, लिङानद्यावापे1264 कार्यावगतिदर्शनात्, तदुद्धारे चादर्शनात्, त एव कार्यावगतिं कुर्वन्तीति शब्दान्तरवल्लिङादीनां कार्यवाचकत्वव्युत्पत्तिसिद्धिः
ननु लोकव्यवहारात् लिङादयो वाचकतया व्युत्पाद्यमानां प्रैषादिष्वेववचकतया व्युत्पत्तिमर्हन्ति ।
तत्रैव तेषां प्रयोगदर्शनादित्यशङ्क्याऽह---
।
कार्यमेव हि 1265वक्तृणां ज्यायः-सम-कनीयसाम् ।
प्रवर्त्त्यापेक्षया भेदात्प्रैषादिव्यपदेशभाक्
प्रवर्त्त्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपाद्यमानं कार्यं प्रैष इति व्यपदिश्यते ।
समेना ।
द्यऽमन्त्रणं, हीनेनाध्येषणमिति, प्रैषादिप्रतिपादका अपि लिङादयः 1266कार्यमेव प्रतिपादन्ति, नार्ऽथान्तरम्
कथं पुनरवसीयते---कार्यमेव प्रैषादिव्यपदेशभागित्यत्राऽह---
कार्यमेव हि सर्वत्र प्रवृत्तावेककारणम् ।
प्रवृत्त्यव्यभिचारित्वाल्लिङाद्यर्थो ऽवधार्यते
प्रवृत्तिर्हि बालेन स्वात्मनि कार्यावगमपूर्विका प्रतिपन्नेति, सर्वपुरुषानपि प्रवर्त्तमानान्दृष्ट्वा कार्यावगममेव बालः कल्पयतीति, प्रैषादीनामपि प्रवृत्तिः कार्यावगमनिबन्धनेति, कार्यमेव प्रैषादिव्यपदेशयोगीति सिद्धम् ।
वस्तुतस्तु प्रैषादीनामपि 1267प्रवृत्त्यव्यभिचारित्वात्कार्यस्य च प्रवृत्तिषु सर्वासु हेतुभूतत्वात्प्रैषादिष्वपि लिङादीनां कार्यमेवार्ऽथ इति निश्चीयते
केन पुनः प्रमाणेन बालस्स्व्यं कार्यमवगच्छति ।
यतः प्रवर्त्तत इत्यत्राऽह---
कृतिसाध्यं प्रधानं 1268यत्तत्कार्यमभिधीयते1269 ।
1270तच्च मानान्तरेणापि वेद्यमोदनपाकवत्
कृतौ सत्यां भावात्, असत्याञ्चाभावादनुमानतः कृतिसाध्यता तावदवगम्यते ।
यदधित्कृत्य कृतिः प्रवर्त्तते, तत्कृतेः प्रधानम्, प्रयत्नश्च कृतिः ।
स च मानसप्रत्यक्षवेद्य इति, विशिष्टप्रयोजनतापि प्रयत्नस्य प्रत्यक्षवेद्यैव ।
तेन प्रत्यक्षा-नुमानाभ्यां कार्यमवगम्यते ।
यथा चोदन-पाकयोरिति, न किञ्चिदनुपपन्नम् ।
उपसंहरति---
एवं कार्यात्मके ऽप्यर्थे व्युत्पद्यन्ते लिङादयः ।
तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि
एवमपि कथं मानान्तरावेद्यकार्यवाचिता लिङादीनामित्याशङ्क्य, मीमांसामवतारयति---
संप्रधार्यमिदन्त्वत्र तत्कार्यं किं क्रियात्मकम् ।
यद्वा तद्य्वतिरेकीति ....................... ॥
को नु निर्णय इत्यत्राऽह---
................. तत्र लोकानुसारतः
प्रमाणान्तरविज्ञेया क्रिया कार्येति यद्यपि ॥
लोके हि लिङादियुक्तवाक्यश्रवणे विशिष्टक्रियानुष्ठानदर्शनात्तद्विषया कार्यावगतिर्लिङादिभिः क्रियत इति युक्तम्, अवगति-प्रवृत्त्योरेकबिषयत्वात् ।
नह्यन्यत्कार्यतयावगम्य, अन्यत्र बालः प्रवर्त्तते ।
किञ्च क्रियायां कार्यभूतायां लिङादियुक्तवाक्यप्रतिपाद्यायामभ्युपगम्यमानायां1271 शक्तिकल्पनालाघवं स्यादेव ।
तथाहि---धातुरेव स्वार्थं ब्रवीतु, तथाभूतार्थवाचिनस्तु धातोः परे लिङादयो भवन्तीत्याश्रीयते ।
लिङादिश्रवणे तु तथाभूतार्थंपरतया1272 धातुः प्रयुक्त इत्यवगम्य, कार्यभूतधात्वर्थावगमस्सम्पद्यते ।
यथा लडादिभ्यो वर्त्तमानाद्यध्यवसायः, तेष्वपि 1273वर्तमानेर्ऽथे वर्त्तमानाद्धातोर्लडित्येव सूत्रार्थः ।
कर्त्रादिसंख्यामात्रवाचित्वमेव केवलं लडादीनामिव लिङादीनामप्यर्थ इति, क्रियैव कार्यतया वेदे ऽप्यवगम्यत इति, यद्यपि विवेकासमर्थानामवगतिर्भवति1274 ।
1275तथापि वेदे षष्ठाद्यसिद्धान्ते ऽवस्थिते सति
स्वर्गकामादयः कार्ये नियोज्यत्वेन 1276सम्मताः ।
1277स्वर्गकामादिभिश्श्ब्दैर्वक्तव्या इतयवस्थितम्
षष्ठाद्ये ह्येतदुक्तम्---लिङादिप्रयोगे तावत्कार्यावगतिरस्तीति निर्विवादम् ।
कृतिसाध्यञ्च कार्यं भवति ।
सति कर्त्तरि तस्याऽत्मलाभः ।
कर्तृलाभश्च स्वसम्बन्धिकार्यावबोधे सति भवति, नान्यथा ।
तेन यद्यपि लोकानुसारेण क्रियाया एव कार्यतया बोध्यमानाया वाक्यार्थत्वात्, तदन्वयित्वाच्चेतरेषामपि1278 पदार्थानाम्, कारकत्वादृते चान्यस्य क्रियान्वयित्वासम्भवाल्लोहितोष्णीषन्यायेन विशेषणभूतस्वर्गकामनासमर्पणपरतया कर्तृविशेषणत्वेन स्वर्गकामस्यान्वयो ऽवगम्यते ।
तथापि स्वसम्बन्धिकार्यबोद्धृत्वेनैवान्वयो वर्णनीय इति, नियोज्यसमर्पकत्वमेवाऽश्रीयते--इति
एवमपि किमित्याह---
नियोज्यस्स च कार्यं यस्स्वकीयत्वेन बुद्ध्यते ।
तथापि किमित्याह---
स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते
साध्यविषयैव हि सर्वत्र कामना भवति, तेन तत्सम्बन्धात्साध्यभूतं स्वर्गादि काम्यमानतया पुरुषं विशिनष्टि---
तेन साध्यत्वपर्यन्तस्वर्गादीच्छाविशेषितः ।
तदेव शक्नुयात्कार्यं बोद्धुं यत्काम्यसाधनम्
मण्डनमिश्रमतस्योपन्यासः ।
अत्र कश्चिदाह---यद्यपि कामनायोगात्साध्यता स्वर्गादीनामवगम्यते, तथापि प्रकृतकार्यसाध्यत्वावगमो निष्प्रमाणक एव, अन्यसाध्यस्यापि साध्यत्वसम्भवात् ।
न च यत्काम्यते, तस्यावश्यं साधनमस्ति ।
मनोरथपरम्पराहृतचेतसो हि तन्नास्ति, यन्न कामनाविषयीभवति ।
न च तस्य सर्वस्य साधनं भवति, सर्वज्ञत्वमपि केचित्कामयन्ते, न च तस्योपायसम्भवः ।
अथ तदिच्छावतो ऽतत्साधने कर्त्रृता नोपपद्यते ।
कथ1279 नोपपद्येत ।
दृश्यन्ते हि ग्रामाभिगमनकामा 1280अपि यादृच्छिकीषु क्रियासु प्रवर्त्तमानाः ।
अपि च सर्वो ऽभ्युदयार्थ्येव1281 पुरुषः, तथापि प्रायशस्तद्विरोधिष्वेवेन्द्रियार्थेषु प्रवर्त्तमानो दृश्यते-इति ।
तन्निरासः ।
अत्रोच्यते---स्वर्गादिकं कामयमानस्य तदेव कार्यतया बबोद्धुमवकल्पते, यदेव तस्य काम्यमानस्य सिद्ध्यनुगुणम् ।
अन्यथा हि तत्कामिना सता तत्कार्यतयानवबुद्धं स्यात् ।
अपरित्यक्ततत्कामनासम्बन्धो हि तत्साधनं कार्यतयावबुध्यते ।
तस्माद्यत्कामिनो यत्कार्यतयोपदिश्यते, तत्तस्नय काम्यस्य 1282साधनमिति नियोज्यकार्यान्वयानुपपत्त्यैव गम्यते
एवं सति किं फलमित्याह---
लिङादिस्तत्र कार्यञ्चेत् क्रियामेवावबोधयेत् ।
समन्वयो नियोज्येन तदानीमेव हीयते
कथमित्याह---
क्रिया हि क्षणिकत्वेन न कालान्तरभाविनाः ।
स्वर्गादेः 1283काम्यमानस्रू 1284समर्था जननं प्रति
इष्टस्याजनिका सा च नियोज्येन फलार्थिना ।
कार्यत्वेन न सम्बन्धमर्हति क्षणभङ्गिनी
कार्यविरोधि कर्मेति प्रमाणान्तरसिद्धम् ।
परिस्पन्दो ह्युत्तरदेशसंयोगोदयापवर्गीत्याशुतरविनाशी, स्वर्गश्च नियतदेशान्तर---कालान्तरभोग्यः ।
मण्डनमिश्रमतानुवादः ।
1285ननु प्रीतिमात्रवचनस्स्वर्ग इति षष्ठाद्ये साधितम्, प्रीतिसाधनेषु द्रव्येषु स्वर्गशब्दप्रयोगात् ।
न च तेषु स्वरूपनिबन्धन एव तत्प्रयोगः, प्रीत्यपगमे तदभावात् ।
न च तत्साधनवचनता तदनभिधाने घटते, तदभिधानाभ्यूपगमे तद्वाचकतैव ।
लक्षणया तत्साधने प्रयोगोपपत्तेः, तत्र शक्तिकल्पनापरिक्षयात् ।
अखण्डशब्दतया च दण्डिन्यायस्यासम्भवात्तदन्तर्गतस्य दण्डशब्दस्य दण्डप्रत्यायकत्वसम्भवात् ।
प्रीतेश्च कर्मानन्तरभावित्वमपि न सम्भवत्येव ।
तन्निरासः ।
उच्यते ।
न प्रीतिमात्रवचनतया ज्योतिष्टोमादिचोदनासु स्वर्गशब्दस्य प्रयोगो ऽवकल्पते1286, अर्थवादेषु दुःखासम्भिन्नचिरतरोपभोग्याभिलाषोपनेयप्रीतिश्रवणात् ।
तत्र यदि विध्युद्देशगतस्स्वर्गशब्दस्तथाविधप्रीतिपरतया न वर्ण्यते, तदातिपरोक्षार्ऽथवादपदानां वृत्तिरादृता न भवेदिति, तदानुगुण्येन तादश्यामेव प्रीतौ स्वर्गशब्दः प्रयुक्त इति निश्चीतते ।
तथाभूता1287 च सा नियतमेव देशान्तरभोग्या ।
अतो न कर्मानन्तरभाविनीति, न तत्र कर्मण आशुतरविनाशिनस्साधनतावकल्पते ।
यस्मिन् हि पूर्ववर्त्तिनि यन्निष्पाद्यते, तत्तस्य साधनमितिलोकप्रतीतिः ।
अत एव च विनष्टस्यापि कर्मणश्शास्त्रेण साधनत्वं बोधत इति ये ब्रुवते, ते ऽपि निरस्ताः ।
एवं चासावाशुतरविनाशिनी क्रिया स्वर्गकामिना नियोज्येन सह कार्यतया सम्बन्धुं नार्ऽहति, स्वर्गं प्रति साधनत्वानुपपत्तेः
- 22 ॥
तस्मान्नियोज्यसम्बन्धसमर्थं विधिवाचिभिः ।
कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते
ननु क्रियैव कार्यतयोच्यताम्, अस्तु सैव 1288फलसाधनम् ।
तेन तस्या अपि नियोज्यसंबन्धो घटत एव ।
न त्वसौ क्षणभङ्गिनी देहान्तरोपभोग्यस्वर्गसाधनतां कथमवलम्बिष्यते ।
उच्यते ।
वरं तस्या एव तदनुपपत्त्या चिरतरावस्थायिताकल्पना, न पुनरदृष्टस्याश्रुतस्य तदतिरेकिणोर्ऽथस्य कल्पना ।
यदि 1289वा कर्मण एव शक्तिरवस्थायिनीत्यभ्युपगम्यताम् ।
तदिदमुभयमपि प्रमाणान्तरविरोधान्न कल्पनामर्हति ।
अविरोधि हि प्रतीतसिद्ध्यर्थ कल्पयितुं शक्यम् ।
कर्मणश्चाऽशुतरविनाशिनश्चिरतरावस्थायिता प्रमाणान्तरविरुद्धा1290 ।
वार्तिकमतोपन्यास-निरासौ ।
शक्तिमति चातीते शक्तिरप्यतीतेति प्रमाणान्तरसिद्धमिति, न सापि स्थायिनी शक्या कल्पयितुम् ।
1291अपि चाऽश्रये निवृत्ते, किमाश्रया शक्तिरवतिष्ठताम् ।
आत्माश्रितेति चेत् ।
नान्यदीया शक्तिरन्यत्र वर्तते, प्रमाणान्तरविरोधादेव ।
किञ्च शथ्कतमत्यसति,शक्तेः फलं न युक्तम् ।
शक्मिमद्धि साधनम्, न शक्तिः केवला1292, अन्यथा शक्तित्वं न स्यात् ।
देवताप्रसादस्य फलप्रयोजकत्वशङ्का 1293ननु यागादिक्रिया देवताराधनोपायभूता सती कार्यतयोच्यताम्, सा तत्प्रत्त्यासत्तिद्वारेण कालान्तरे ऽपि फलं जनयितुमलमेव ।
देवता फलदानसमर्था कर्मभिराराध्यते, साऽराधिता प्रसीदति, प्रसन्ना च कर्त्रॄन्कालान्तरे ऽपि फलेन योजयत्येव---इति ।
तन्निरासः ।
नैतदेवम् ।
यागादीनां देवताराधनहेतुत्वे प्रमाणाभावात् ।
न हि देवताराधनोपायभूतो याग इत्यत्र किञ्चित्प्रमाणमस्ति ।
ननु देवपूजार्थ एव यजिस्स्मर्यते ।
पूजो च सर्वा ।
पूज्यमानाराधनार्थेत्यवगतम् ।
उच्यते ।
न स्मृतिः प्रमाणम्, स्मृतित्वादेव ।
प्रमाणान्तरापेक्षया च स्मृतीनामर्थवर्णनम्, तदनुवर्त्तित्वात्तासाम् ।
न च प्रमाणान्तरेण देवतासाधनोपायता अयागस्यावगम्यत इत्युक्तम् ।
अतो देवतोद्देशेन द्रव्यत्यागो याग इति, गौणं देवतापूजात्मकत्वमवगन्तव्यम्, पूजापि पूज्योद्देशेनैव हि प्रवर्त्तते--इति ।
अप च सा कर्मभिराराध्यते,याऽराधनं प्रतिपद्यते ।
नानादेशगामिना पुरूषेणानुष्ठीयमानयागात्मकपूजावगमश्च देवताया इति, प्रमाणविरुद्धमेव 1294विग्रहवतश्च प्रतिपत्तियोगिता, तस्य च वेदेनानादिनाऽराध्यतया प्रतिपादनमपि प्रमाणान्तरविरुद्धमेव, तस्यानादित्वानुपपत्तेः ।
देवताधिकरणे [मी. द. 9. 1. 4] च प्रपञ्चेनायमर्थो निरस्त इति, नातीवात्र यतितव्यम् ।
यागस्य पुरुषसंस्कारकत्वशङ्का ।
अथापि स्यात्पुरुषसंस्कारहेतुभूतैव क्रिया शब्देन कार्यतयोच्यते, तस्याश्च स्वर्गकामादिपुरुषसम्बन्धात्पुरुषसंस्कारादेव कालान्तरे फलं भविष्यति--इति ।
तन्न ।
पुरुषसंस्कारकत्वे प्रमाणाभावात् ।
न हि प्रमाणान्तरतः, शब्दतो वा पुरुषसंस्कारहेतुता यागादीनामवसीयत इति "कर्माण्यारम्भभाव्यत्वादि" [मी. द. अ. 11. पा. 1 सू. 20] त्यत्रोक्तम् ।
क्रियाकार्यत्वशङ्का ।
ननु क्रियैव कार्यतयोच्यताम्, फलसाधनता च तस्या एवाऽश्रीयताम् ।
तदन्यथानुपपत्त्या तु किञ्चिदप्यपरं तञ्जन्यं फलोदयानुगुणं कालान्तरस्थाय्यात्माश्रयं परिकल्प्यताम्, मा भूत्तस्य लिङादिवाच्यता---इति ।
कार्यं लिङादिवाच्यमिति स्वमतनिरूपणम् ।
उच्यते---तद्धि तदनुपपत्त्या कल्प्यते, यद्यस्योपपादकम् ।
न च क्रियाजन्येनान्येन फलजनकेन कल्पितेन क्रियायाः फलसाधनतोपपादिता भवति ।
न हि साधनसाधनं तस्य साधनं भवति, अवान्तरव्यापारो वा, शक्तिर्वा तत्साधनतां निर्वाहयति ।
व्यापारयोगितयैव शक्तिमतां साधनता यतःन चाऽत्मसमवाय्यर्थान्तरं कर्मणामवान्तरव्यापारः, नापि शक्तिरिति, न तस्यार्ऽथापत्तिगम्यता युक्ता ।
किन्त्वन्विताभिधाने स्थिते, नियोज्यानुगुण्याच्छब्दवाच्यतैवाचितेति सूक्तम्---
1296नियोज्यसम्बन्धसमर्थं कालान्तरस्थापि कार्यं क्रियातिरिक्तं लिङादिभिरेवोच्यते---इति ।
गुरुमतसर्वस्ववर्णनम् ।
1297अत्रैषा प्रक्रिया ।
चोदनासूत्रे कार्यार्थता प्रतिपादिता ।
षष्ठाद्ये तस्यैव कार्यस्य स्वसम्बन्धितया बोध्यस्स्वर्गकामादिर्नियोज्य इति व्युत्पादितम् ।
स्वर्गकामना च नियोज्यविशेषणमित्येकादशाद्ये [मी. द. 11. 1. 1.] व्युत्पादितम् ।
तस्य च कार्यस्य नियोज्यविशेषणीभूतकाम्योत्पत्तिहेतुत्वमिति बादर्यधिकरणे [मी. द. 3. 1. 3] राद्धान्तितम् ।
तच्च तथाभूतं कार्यं क्रियारूपं न भवति, तस्याः फलसाधनत्वायोगात् ।
देवताराधनमुखेन तावत् फलसाधनता नास्तीति देवताधिकरणै [मी. द. 9. 1. 4] व्युत्पादितम् ।
पुरुषसंस्कारमुखेन नास्तीति "कर्माण्यारम्भभाव्यत्वादि"त्यत्रोक्तम् ।
कर्मणः, तच्क्तेर्वा स्थायिता नेति चापूर्वाधिकरणे [मी. द. 2. 1. 2.] प्रतिपादितम् ।
अतो नियोज्यान्वयमुखेन मानान्तरापूर्वमात्मसमवायि कार्यं लिङादिभिरभिधयत इत्यनेकन्यायसाध्यम् ।
कार्यञ्च कृतिसाध्यम् ।
कृतिश्च पुंसां प्रयत्न एव ।
न च चासौ भावार्थमन्तरेणास्तीति, 1298तत्सम्बद्ध एवोच्यतैति भावार्थाधिकरणे [ 2. 1 . 1 ] स्थितम् ।
स च भावार्थस्सम्बध्यमानस्तमवच्छिनत्तीति, शब्दान्तराधिकरणे [मी. द. 2. 2. 1] निर्णीतम् ।
विषयभूतश्च भावार्थः करणीभवतीति बादर्यधिकरणे एवोक्तम्, स्वकार्यसाधने भावार्थे पुरुषस्यैश्वर्यमिति च तत्रैवाक्तम्
कालान्तरावस्थायिनः कार्यस्य नियोज्यान्वययोग्यतामाह---
तद्धि कालान्तरस्थानाच्छक्तं स्वर्गादिसिद्धये ।
सम्बन्धो ऽप्युपपद्येत नियोज्येनास्य कामिना
ननु भाष्यकारः---प्रत्ययार्थं प्रयत्नमित्याह1299, न क्रियादिभिन्नं कार्यमिति यो मन्यते, तं प्रत्याह---
क्रियादिभन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत् ।
अतो मानान्तरापूर्वमपूर्वमिति गीयते
नियोगनिर्वचनम् ।
नन्वेवमप्यपूर्वं वाक्यार्थस्स्याद्, न नियोगः ।
नियोगश्च वाक्यार्थैति प्राभाकराणामुल्लाप इत्यत्राऽह---
1300कार्यत्वेन नियोज्यञ्नच स्वात्मनि प्रेरयन्नसौ ।
नियोग1301 इति मीमांसानिष्णातैरभिधीयते
एवमपि कथं 1303तस्य वाक्यार्थत्वमितयाह---
कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वञ्च युज्यते ।
वाक्यं तदेव हि प्राऽह नियोज्य-विषयान्वितम्
उक्तं ह्येतत्-यत् प्रधानतया प्रतिपाद्यते, तद्वाक्यार्थः--इति ।
कार्यञ्च प्रधानतयोच्यत इति, तस्यैव वाक्यार्थत्वम् ।
नियोज्यान्विताभिधाने प्रायिकमिति कथनम् ।
नियोज्यन्विताभिधानञ्च प्रायिकम्, आधानाध्ययनाङ्ग-प्रधानोत्पत्तिनियोगानां नियोज्यशून्यानामभिधानाभ्युपगमात् ।
विवरणकारा ह्याधानविषयमपि नियोगान्तरमिच्छनित, क्रतुनियोगप्रत्यभिज्ञानाभावाद् ।
असन्निधाने हि तन्नियोगप्रत्यभिज्ञानं नोपपद्यते ।
नापि 1303पणतादिवदव्यभिचरितक्रतुसम्बन्धाग्निमुखेन1304 प्रत्यभिज्ञोपपत्तिः ।
प्रागाधानादाहवनीया1305दिशब्दानामर्थापरिज्ञानात्क्रतुसम्बन्धानवगमात् ।
जुह्वादीनान्त्वाकृतिवचनत्वात्प्रागेव 1306विधेर्नियोगप्रत्यभिज्ञासम्भवः ।
नन्वग्नीनामपि साध्यत्वात्, साध्यद्वयं कथमेकस्मिन्वाक्ये ऽन्वीयते ? उच्यते---नियोग एवात्रापि प्रधानं साध्यम्, अनीप्सितकर्मतात्वग्नीनाम् ।
अनीप्सितकर्मत्वे ऽपि यत्तदाधानजन्यं फलमग्निसमवायि, तद्योगिन्याहवनी यादिशब्दप्रयोगात्, आहवनीयादीनाञ्च क्रतूपयोगित्वात्तत्सिद्ध्यर्थतयैव पुरुषप्रवृत्त्युपपत्तेरनुष्ठानलाभादलं 1307नियोज्यान्विताभिधानेन--इति ।
तथाध्ययनविधावप्याचार्यकरणविधिप्रयुक्त्यैवानुष्ठानलाभान्नियोज्यशून्याभिधानमिति स्थितम् ।
प्रधानोत्पत्तिनियोगा अप्यधिकारनियोगाक्षिप्तस्वविषयानुष्ठानेनैव लब्धसिद्धय इति, न तत्र नियोज्यान्विताभिधानान्वेषणम् ।
प्रयाजादिषु नियोगान्तरोपन्न्यासः ।
अङ्गोत्पत्तिनियोगा अपि विनियुक्तप्रयाजादिविषयत्वादधिकारनियोगाङ्गतयैव सिध्यन्तीति, किं तेषु नियोज्यान्विताभिधानेन ।
कथं पुनः प्रयाजादिविधीनां विनियुक्तविषयत्वम् ? उच्यते---साधिकारनियोगसन्निधौ प्रयाजादिवाकयानि श्रुतानि न 1308तावत्स्वविषयं नियोगान्तरमवगमयितुमीशते, अवधातादिवदनुवादकत्वसम्भवात् ।
किन्तु स्वरूपमात्रमव1309 योग्यस्वपदार्थविशिष्टमुपस्थापयन्ति1310 ।
तच्च प्रयोजनाकङ्क्षितया प्रयोजनीभूतेन साधिकारेण नियोगेनान्वीयत इति, अधिकारवाक्यगत एव लिङ्शब्दस्तदन्वितं स्वार्थमभिधत्ते ।
स चान्वयः प्रयाजादीनामैदमर्थ्यमात्रेण ग्राहकग्रहणमित्युच्यते ।
करणोपकारसाकाङ्क्षस्य चापूर्वस्य यत्कर1311णोपकारपरिकल्पनम्, स प्रकरणव्यापारः ।
तत्र यत्तेषां 1312करणोपकारजनकतवकल्पनम्, तदौपादानिकम्---इति ।
तत्र शङ्का-निरासौ ।
नास्ति तर्हि प्रयाजादिषु नियोगान्तरम् ? न नास्ति, क्षणिकानां तेषां सम्भूयकरणोपकारकत्वानुपपत्तेर्नियोगान्तरस्यावश्याश्रयणीयत्वात् ।
यो ऽसौ लिङादिः प्रागनूद्यमानार्थकतया शङ्कितः, स इदानीं नियोगान्तरमभिधत्ते ।
अत एव चावघातादिवदेषां यज्यादिशब्दानामेवाङ्गवाक्यगतानामधिकारनियोगान्वितस्वार्थाभिधानं नाभ्युपगम्यते ।
तथा सत्युत्पत्तावेवाङ्गयागस्वरूपस्यान्यतिरश्चीनस्य नियोगान्तराविषयत्वात्, नियोगान्तरविषयता न स्यात् ।
उत्पत्तिदशायां 1313त्वनन्यतिरश्चीनतयाभिधानाद्युक्तं नियोगान्तरविषयत्वम् ।
कस्मात्पुनरन्यतिरश्चीनस्य नियोगान्तराविषयत्वम्, 1314कार्यद्वयसम्बन्धावगमानुपपत्तेः ।
नह्येकं वस्तु युगपत्कार्यद्वयसम्बन्धि शक्यमवगन्तुम् ।
यच्च तन्नियोगान्तरं प्रयाजादिषु, तत् पश्चादभिधीयमानमधिकारनियोगाङ्गतयैव1315 स्वशब्देनाभिधीयते ।
अन्यथा विषयद्वयविनियोगविरोधादित्यलमतिप्रसङ्गेन
नियोगस्य गुणत्वशङ्का-निरासौ ।
ननु नियोगस्य काम्यमानफलसाधनत्वाभ्युपगमात्, फलस्येव प्राधान्यात्, तस्यैव वाक्यार्थत्वं1316 युक्तमित्यत आह---
आत्मसिद्ध्यनुकूलस्नय नियोज्यस्य प्रसिद्धये ।
कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः
यत्तदपूर्वं कार्यम्, तस्य नियोज्यान्वयं विना कार्यत्वानुपपत्तेः, अनुष्ठानं विना तदसम्भवात्, कर्त्रा च विना तदनुपपत्तेः, अधिकारेण1317 च विना कर्त्तुरभावात्, नियोज्यत्वं विना तदयोगात्, अकामसाधने च 1318कामिनो नियोगानवगमादिति, आत्मसिद्ध्यर्थमेव नियोगः काम्यमानफलसिद्धिहेतुत्वमवलम्बते, स्वामिवत् ।
यथाऽत्मन एव संविदधानस्स्वामी गर्भदासस्योपकरोति, तथा नियोगो ऽपि नियोज्यस्येति, न 1319प्राधान्यप्रच्युतिः
ननु नियोगस्य फलसाधनत्वात्, तस्य च सेतिकर्त्तव्यताककरणनिबन्धनसिद्धित्वात्, तदनुष्ठानानन्तरं नियोगसिद्धेः फलसिद्धिस्स्यात्, अनन्तरं नियोगो 1320न निष्पद्यते, तर्हि क्रियायामतीतायां कुतस्तत्सिद्धिरित्यत्राऽह---
विषयानुष्ठितौ सत्यां सिद्धो न हि विधिः फलम् ।
तदानीमेव कुरुते सहकारिव्यपेक्षया
एषाऽत्र दर्शनस्थितिः---प्रधानोत्पत्तिनियोगाः, अङ्गोत्पत्तिनियोगाश्च यथायथं संनिपत्योपकारकाङ्गयुक्तस्वविषयमात्रानुष्ठानेनैव सिद्ध्यन्ति ।
तत्र यान्यङ्गापूर्वाणि, तानि सम्भूत प्रधानोत्पत्त्यपूर्वेषूपकुर्वन्ति, तस्माच्च परमापूर्वं निष्पद्यते ।
यान्यपि चाऽङ्गापूर्वाणि दीक्षिणीयादीनाम्, तेषामप्यारादुपकारकातिदेशिकाङ्गमाजामेकमुत्पत्त्यपूर्वम्, अपरमप्यङ्गापूर्वं प्रधानवद्वेदितव्यम्---इति ।
अनया दिशान्यत्रापि सकलमूहनीयम् ।
इत्थं यद्यपि कर्मानुष्ठानानन्तरमेव नियोगसिद्धिः, तथापि यत् फलस्यानन्तराभवनम्, तत् उपपत्त्या कल्प्यते---इति
नन्वेवं सति फलहेतुतापूर्वस्य बाध्येतेत्यत्राऽह---
सहकारिव्यपेक्षा च कारणत्वं न बाधते ।
मा1321 बाधिष्ठेति सर्वत्र तदनुग्रहकल्पना
तथेत्यर्थः ।
"1322अतः पुरुषकारश्च दैवञ्च फलसाधनम्" ।
इत्याचार्याः ।
दैवम्---अपूर्वम् ।
अपेक्षणीयं सहकारि च पुरुषकारपदवेफम् ।
नित्यादिषु नियोगानभिधानशङ्का-परिहारौ ।
नन्वेवं भवतु काभ्येष्वपूर्वकार्याभिधानं लिङादीनाम्, नित्य-नैमित्तिकनिषेधाधिकारेषु कथम् ? 1323न हि तेषु फलोदयं प्राभाकरा अनुमन्यन्ते ।
न हि फलं फलतयान्वीयते, किन्त्वधिकारिविशेषणतया ।
लब्धे तु जीवनादावधिकारिविशेषणे, किं फलान्वेषणेन ।
न च फलमन्तरेण प्रवृत्त्यसम्भवः, स्वसम्बन्धिकार्यावगममात्रायत्तत्वात्प्रवृत्तेः ।
निरपेक्षाच्छब्दात्फलमन्तरेणा ।
द्यपि स्वसम्बन्धिकार्यावगमः, तावन्मात्रस्य लोके प्रवृत्तिहेतुत्वावगमात् ।
कार्यावगमोत्पादनायै फलमुपयुज्यत इत्युक्तम् ।
ननु यथा शब्दात्कार्यावगतिः, तथा निष्फलत्वादनुमानेनाकार्यताप्रतीतिरपीति, कथं प्रवृत्त्युपपत्तिः ? न ।
1324आगमविरोधेनानुमानस्याऽत्मलाभाभावात् ।
अन्यथा यदि कश्चित्कल्पिते फले न प्रवर्तते, तदा किं कर्त्तव्यम्
ननु फलोदयानभ्युपगमे च प्राच्यमार्गासम्भवात्, नित्यादिष्वपूर्वकार्याभिधानमप्रमाणकं स्यात्, तत्राऽह---
एवं कामाधिकारार्थपर्यालोचनयोत्थिता ।
व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तिनिबन्धनम्
1325॥
उक्तमिदमन्याय्यञ्चानेकार्थत्वम्-इति ।
तेन कामाधिकारे सिद्धे ऽपूर्वकार्याभिधायकत्वे, नित्यादिष्वपि स एवार्ऽथो विरोधाभावादाश्रीयते ।
नित्याधिकारानुगुण्येन तु क्रियाकार्यत्वाभिधानं काम्येष्वनुपपन्नमिति, सर्वत्रापूर्वमेव1327 वाक्यार्थः---इति
तत्रैतदेव तावद्वक्तव्यम्---न केवलं वेदे लोकव्यवहारादेव शब्दार्थावधारणम्, किन्तु प्रसिद्धार्थपदसम्बन्धादपि पदार्थान्तरान्वययोग्यार्थाभिधायकतेति1328 स्थिते, तदनुरूपार्थाभिधायकता निर्णीयत एव ।
एतच्च यववराहाधिकरणे [मी. द. 1. 3. 5.] व्युत्पादितम् 1329व्यवहारत एव सम्बन्धावधारणादुभयथापि पदान्तरार्थाध्यवसानं भवत्येव, तेन वैदिकवाक्यशेषान्वयार्हतालोचनेन दीर्घशूकाद्यर्थत्वमेवेति राद्धान्तः ।
तथा त्रिवृच्छब्दे, यूपा--हवनीयादिषु च शक्त्यवधारणात् ।
लोके ऽपि चायं व्यवहारो बहुलमुपलभ्यते ।
तथा सति वैदिकनियोज्यान्वययोग्यतया लिङादीनामपूर्वकार्याभिधायकत्वनिर्णयो नानुपपन्नः ।
अयञ्चापरो विशेषः---यल्लिङादियुक्तानां वाक्यानां कार्यार्थत्वम्, तत्तावद्वृद्धव्यवहारादेव सिद्धम्, किन्तु लिङादिप्रत्ययानां यद्वच्यं1330 कार्यम्, तच्चापूर्वंरूपमित्येतावन्मात्रं वैदिकपदसम्बन्धादवसीयते--इति
1331॥
एकदेशिमतमधुना निराकर्त्तुमुपन्यस्यति---
व्यवहारत एवाहुर्व्युत्पत्तिमपरे पुनः ।
कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि
अस्यार्ऽथः---केचिदेवमाहुः---लिङादियुक्तवाक्यश्रवणे प्रवृत्तिदर्शनात्, कार्यावगतिनिबन्धनत्वात्प्रवृत्तेः, कार्यमात्रमेव तेषामर्थः, न 1332क्रिया ।
वैदिकलिङादेः कार्ये शक्तिनिर्णयः ।
नन्वेवं वेदादेव व्युत्पत्तिरास्थिता स्यादित्याशङ्क्याऽह---
व्युत्पत्तिरिप कार्येर्ऽथे व्यवहारानुसारिणी ।
किन्तु निर्धारणामत्रं वेदवाक्यविमर्शजम्
तस्यां शब्दस्य प्रवृत्त्यनुपयोगित्वादिति, क्रियानिष्कृष्टकार्याभिधायिता लौकिकव्यवहारादेव निर्णीयते--इति
तदिदमयुक्तमिति प्रतिजानीते---
सितेतर इव त्वेष पक्षश्चित्तं न कर्षति ।
चन्द्रातपामलन्यायप्रवासमलिनीकृतः
कथमित्याह---
कार्ये मानान्तरावेद्ये पार्श्वस्थस्तन्निबन्धनम् ।
व्यवहारं कथङ्कारं शब्दात्प्रागवबुध्यताम्
व्यवहारमविज्ञय तन्निबन्धनतद्ग्ता ।
प्रतिपत्तिः कथं ज्ञेया शब्दशक्तिः कथन्तराम्
इदमत्राऽकूतम् ।
यद्यपि कार्यमात्रमेव प्रवृत्त्युपयोगीति तावन्मात्रमेव शब्दार्थः, तथापि तस्य लोके क्रियागतस्यैव प्रवर्त्तकत्वदर्शनाद्, शक्यते क्रियाश्रितता प्रत्येतुम् ।
यथाऽकृतिमात्रस्य शब्दार्थत्वे ऽपि व्यक्त्याश्रिततापि न प्रतिक्षिप्यते, तथा क्रियाश्रितत्वं प्रमाणान्तरप्रमितं न प्रतिक्षेपमर्हति ।
तेन क्रियातिरिक्तकार्याभिधायकत्वमसिद्धम्1333 ।
यदि परं तन्निबन्धनव्यवहार एव1334 स्यात्, तदा तद्दर्शनात्तद्धेतुभूतप्रतिपत्त्यन्यथानुपपत्त्यानुमानेन शब्दस्य वाचकत्वाध्यवसानं भवेत् ।
न चैतदस्ति,तस्य शब्दादन्यतः प्रागनवगमात्तन्निबन्धनव्यवहाराप्रतिपत्तिः1335, तदप्रतिपत्तौ च तद्धेतुभूतप्रतिपत्त्यननुमानान्न शक्तिकल्पनोपपत्तिः
- 36 ॥
तत्राऽकूतं विवृणोति---
कार्यप्रतीतिमात्रञ्च प्रवृत्तेरनुमीयताम् ।
किन्तु कार्या क्रियैवेति1336 लोकदृष्ट्याऽवसीयते
लोकप्रतीतं क्रियारूपत्वञ्च न शक्यते ऽपह्नोतुमिति, कार्यमात्रार्थत्वे क्रियैव कार्यतया लिङाद्यर्थ इति निश्चीयते, न पुनः प्रमाणान्तरादपूर्वम्-इति
मतान्तरेण क्रियाकार्यत्वशङ्का-निरासौ ।
अन्ये पुनर्---वेदार्थबोधकाचार्यवचननिबन्धनप्रवृत्तिदर्शनेनातीन्द्रिये1337 कार्ये लिङादयो व्युत्पद्यन्त इत्याहुः ।
यद्याचार्यवचनादपि क्रियैव कार्यतयाऽवगम्यते, तदा तस्यास्स्वयं दुःखरूपत्वात्पुरुषार्थान्तरानुबन्धनं विन प्रवृत्त्यसम्भवान्नियमेन सुखार्थिनः प्रवृत्तिर्न स्यात् ।
1338न च सन्ध्योपासनादौ पुरुषार्थो ऽस्ति ।
तस्मात्क्रियातिरिक्तकार्यमाचार्यवचनेभ्यो ऽवगम्यते---इति ।
तान्प्रत्याह---
वेदार्थाचार्यवाक्येषु प्रवृत्तियाऽपि दृश्यते ।
तत्राप्येषैव सम्बन्धपरिज्ञानविधा भवेत्
आचार्यवाक्यश्रवणादपि शिष्याणां या सन्ध्योपासनादौ प्रवृत्तिः, तत्रापि बालस्स्वविषयनिरूपितं क्रियाकार्यत्वावगममेव कारणत्वेन परिकल्पयेत्, फलं विना च तदनुपपत्तेः फलावगममपि सम्भावयेत् ।
लोकव्युत्पत्त्यनुसारेण 1339वेदार्थमपि प्रतिपद्यमानो नित्य-नैमित्तिक-निषेधाधिकारेष्वपि1340 फलं कल्पयेत् ।
स एव वाल्यदशायां व्युत्पन्नस्स्वयमाचार्यपदवीमधिरुढो वेदार्थं प्रतीत्य, शिष्येभ्य उपदिशन् क्रियामेव कार्यतया प्रतिपादयेत्, नापूर्वं कार्यम्--इति
उपसंहरति---
तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके ।
तस्य त्वपूर्वरूपत्वं वेदवाक्यानुसारतः
एवमपूर्वकार्याभिधायित्वे सिद्धे चोदयति---
ननु लोकविरोधित्वं पक्षे ऽस्मिन्नपि दृश्यते ।
सर्वथैव1341 यतो लोके क्रिया कार्यैव गम्यते
परिहरति---
भवेदेवं विरुध्येते कायऽपूर्वे ऽपि लौकिकौ ।
प्रतिपत्ति-प्रयोगौ चेत् क्रियाकार्यत्वगोचरौ
यदि क्रियाकार्यत्वगोचरौ लौकिकौ प्रतिपत्ति-प्रयोगावपूर्वकार्याभिधायित्वपक्षाङ्गीकारे विरुध्येते, ततो लोकविरुद्धत्वं स्यादस्मत्पक्षस्य ।
न चैतदस्तीत्याह---
अपूर्वं हि क्रियासाध्यं साधिता साधनं क्रिया ।
तस्मादपूर्वकार्यत्वं1342 क्रियाकार्यत्वसङ्गतम्1343
प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति ।
क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः
प्रतिपत्ति-प्रयोगौ हि नावश्यं श्रौतवृत्त्यनुसारिणावेव, लक्षणयापि लोके1344 तद्दर्शनात् ।
तेन यद्यप्युक्तेन न्यायेनापूर्वमेव कार्यं लिङादीनामभिधेयम्, तथापि तस्य क्रियाकार्यत्वाव्यभिचारात्, तत्र लक्षणया तयोर्नानुपपत्तिः ।
यत्तु श्रौतपदार्थे कार्ये लोके लिङादि न प्रयुज्यत इति ।
तत् तस्यापूर्वात्मनः प्रमाणान्तराप्रतीतत्वात्, प्रतीतविषयत्वाच्च लौकिकप्रयोगस्य ।
क्रियासाध्यन्त्वपूर्वम्, साधिता च सती क्रिया साधनं भवतीत्यपूर्वेण सह क्रियाकार्यत्वं1345 नित्यसम्बद्धमिति, शक्यते तल्लक्षयितुम् ॥ 42 - 43 ॥
यद्येषा1346 लक्षणा, किमिति तर्हि लोको नावगच्छतीत्याह---
लक्षणानभिमानस्तु मुख्यार्थानवधारणात् ।
ये तु1347 मुख्यार्थकुशलास्तेषां लाक्षणिकत्वधीः
मुख्यमर्थमविदित्वा लाक्षणिकमप्यर्थं श्रौतमिव मन्यन्ते, म्लेच्छा इव यव-वराहाद्यर्थम् ।
मुख्यार्थविवेकिनान्तु परीक्षकाणां लाक्षणिकत्वधीः---इति
उपसंहरति---
तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् ।
वेदवाक्यं ब्रवीतीति संक्षेपो ऽयमुदाहृतः
ग्रन्थस्य, कर्तुश्च संज्ञां, प्रयोजनञ्चाऽह---
वाक्यार्थमातृकेयं प्रभाकरगुरोर्भतानुसारेण1348 ।
अनसूयुबोधनार्थं शालिकनाथेन सङ्ग्रथिता
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0