प्रकरणपञ्चिका (टीका सहित) · अध्याय 2
इति महामहोपाध्याय श्रीशालिकनाथमिश्रप्रणीतायां
प्रकरणपञ्चिकायां शास्त्रमुखं नाम प्रथमं
प्रकरणं समाप्तम् ॥
नीतिपथो नाम द्वितीयं प्रकरणम् ।
प्रकरणार्थप्रतिज्ञा ।
अर्थासंस्पर्शिताशङ्का यथा शब्दस्य वार्यते ।
प्रभाकरगुरोः शिष्यैस्तथा यत्नो विधीयते
पूर्वपक्षः ।
अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः ।
अर्थासंस्पर्शितां केचिदाहुः शब्दस्य वादिनः
निश्चयो ऽर्थस्य संस्पर्शः स चार्थाव्यभिचारिणाः ।
प्रत्यक्षादेरेव भवेच्छब्दस्तु व्यभिचारवान्
विनाप्यर्थं हि शब्देन प्रतीतिरुपजायते ।
अङ्गुल्यग्रे ऽस्ति करिणां यूथमित्येवमादिना
नचात्र शक्यते वक्तुं शुक्तौ रजतबोधवत् ।
अग्रहाद् भ्रान्तिरेषेति कारणस्याविशेषतः
दुष्टा हि 30हेतवः कार्यं सम्पूर्णं कर्तुमक्षमाः ।
तेन भेदाग्रहो युक्तः शुक्तिकारजतादिषु
इह तु ज्ञानहेतुर्यः शब्दः स न विशिष्यते ।
विशिष्यते यस्तु वक्ता स ज्ञानस्य न कारणम्
वक्तापि यदि विज्ञानहेतुः स्यादिन्द्रिनयादिवत् ।
ततस्तस्यापि दोषेण भवेदग्रहणां तदा
वक्ता तु केवलं शब्दव्यक्तवेवोपयुज्यते ।
ज्ञानं तु शब्दमात्रेण निरपेक्षेण जन्यते
न च तस्येह दुष्टत्वं किञ्चिदप्युपलभ्यते ।
दोषश्चाग्रहणे हेतुस्तदभावे स्फुटो ग्रहः
तेन शब्दोपजनितं ज्ञानमेवेदमीदृशम् ।
अर्थं व्यतिक्रामतीति कुतस्तेनार्थनिश्चयः?
येनापि हि विना यस्य सद्भाव31 उपपद्यते ।
निश्चयस्तत्र तेनेति सुभाषितमिदं वचः
नन्वेवमाप्तवाक्येभ्यः कथं व्यवहृतिर्भवेत्? ।
व्यवहारो हि लोकस्य कथं स्यान्निश्चयं विना?
उच्यते व्यवहारो हि संदेहादपि लौकिकः ।
प्रायशो दृश्यते तेन च किञ्चिदिह दुष्यति
अपि चाप्तत्वमालोच्य वक्तुस्तत्रार्थनिश्चयः ।
मानान्तरवशेनापि कथञ्चिदुपपद्यते
वेदस्त्वलौकिकार्थत्वादभावाद्वक्तुरेव च ।
अहो बत दशां कष्टामुपनीतो हि पण्डितैः
सिद्धान्तः ।
अत्र प्रतिविधानाय यतन्ते मतिशालिनः ।
ज्ञानस्य व्यभिचारित्वं नयवीथ्यां निवारितम्
श्रूयतामवधानेन गतिर्नरगिरामपि ।
अनुमानात्पृथग्भावं तासां नेच्छन्ति सूरयः
वाक्यं हि पुरुषाधीनरचनं लौकिकं सदा ।
शङ्क्यमानायथार्थत्वं नार्थनिश्चायकं स्वतः
अन्योन्यानन्वितार्थानि पदान्यपि हि मानवाः ।
रचयन्तो विलोक्यन्ते तेन नान्वयनिश्चयः
केचित्तावद् भ्रमेणैव केचिदाशयदोषतः ।
प्रमादात्के ऽप्यशक्तेश्च के ऽप्यनन्वितवादिनः
तदुक्तानां पदार्थानां यद्यप्यन्वययोग्यता ।
तथाप्यनन्वितस्यापि दृष्टेर्नान्वयनिश्चयः
तत्र निश्चयशब्देन ज्ञानमेवाभिधीयते ।
अन्वयानिश्चये तेन ज्ञानमेवास्ति नान्वये
शङ्क्यमानायथार्थत्वरचनं तेन पुंवचः ।
श्रुतमात्रकमेवार्थे न तावन्निश्चयावहम्
यावद्वक्तुरविज्ञातं पूर्वभाविप्रमान्तरम् ।
विवक्षितार्थविषयमिन्द्रिनयार्थनिबन्धनम्
तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते ।
ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः
तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् ।
ज्ञानं चार्थाविनाभावि तेनार्थे द्यपि विनिश्चयः
तत्रार्थे निश्चिते पश्चात्सो ऽर्थो वाक्येन गम्यते ।
तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता
पूर्वं तु32 लिङ्गभूतं तत् वक्तुर्ज्ञानावधारणे ।
वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते
कार्यात्कारणसिद्धिश्च सर्वेषामनुमानतः33 ।
पौरुषेयमतो वाक्यं न शास्त्रमभिधीयते
एवञ्च सति लिङ्गस्य व्यभिचारो ऽयमीक्ष्यते ।
न शास्त्रस्येति तस्य स्यादर्थासंस्पर्शिता कुतः?
लिङ्गस्यापि न चैवायं व्यभिचारो ऽस्ति किन्तु यः ।
लिङ्गालिङ्गे न शक्नोति विवेक्तुं मूग्चेतनः
तस्यालिङ्गे लिङ्गरूपसाधारण्यनिबन्धनः ।
लिङ्गसंव्यवहारो ऽयं विपरीतः प्रवर्तते
श्रुतिलिङ्गाधिकरणे विस्तरेणैतदीरितम् ।
तेन न व्यभिचारो ऽस्ति द्वयोर्लैङ्गिकशास्त्रयोः
नन्वर्थ एव प्रथमं पुंवाक्येम्यो ऽवगम्यते ।
अन्यथा हि कथं वक्तुर्धीर्विशिष्टानुमीयते?
अर्थेनैव विशेषो हि निराकारतया धियाम् ।
नचाप्रतीतेनार्थेन विशेषश्चावकल्पते
अत्र ब्रूमो ऽयथार्थत्वशङ्कयार्थो न निश्चितः ।
अनिश्चितश्च न ज्ञात इति तावद्व्यवस्थितम्
किन्त्वज्ञाते ऽपि 34वाक्यार्थे पदजाते श्रुते सति ।
विमर्शो35 जायते श्रोतुरीदृशो मतिशालिनः
अन्योन्यान्वययोग्यार्थं पदजातं ब्रवीत्ययम् ।
आप्तस्तेनामुना नूनं ज्ञातस्तेषां समन्वयः
न कदाचिदसंबद्धानर्थानेष विवक्षति ।
न वाप्रतीतसम्बन्धानिति दोषो न कश्चन
नन्वेवं तुरगारूढस्तुरङ्गं विस्मृतो भवान् ।
वेदप्रामाण्यसिद्ध्यर्थमुत्थितस्तत्प्रहीणवान्
लोकावगतशक्तिर्हि वेदे शब्दो ऽवबोधकः ।
लोके च लिङ्गभावेन प्रतीतिर्भवताऽश्रिता
स्वयं त्विह समाधानमाचार्येण36 प्रदर्शितम् ।
शब्दस्यार्थेन सम्बन्ध इति दर्शयता सता
अन्वितार्थाभिधायित्वे पदानां हि स्थिते सति ।
विशिष्टा वक्तृधीर्ज्ञातु शक्यते नान्यथा यतः
ज्ञातेषु हि पदार्थेषु श्रोता वक्तरि कल्पयेत् ।
अन्योन्यान्वयविज्ञानं नान्यथेत्युपदर्शितम्
पदानां तत्पदार्थेषु शक्तिः स्वाभाविकी स्थिता ।
पुंवाक्येषु विसंवादशङ्कया सा तिरोहिता
वेदेषु त्वस्मर्यमाणकर्तृकेषु स्वरूपतः ।
प्रमाणान्तरसंस्पर्शरहितार्थावबोधिषु
न कर्तुरनुमानं स्याद्वाक्यत्वादिति लिङ्गतः ।
न कर्ता शक्नुयाद्वाक्यं कर्तुं कार्ये ह्यलौकिके
तेन वेदे विसंवादशङ्का नास्ति कथञ्चन ।
अर्थनिश्चयहेतुत्वादर्थसंस्पर्शिता स्थिता
व्यपगतवाङ्मलपङ्कः प्रोद्धृतपरयुक्तिकण्टकप्रकरः ।
सृष्टः प्रगुणतरो ऽयं शालिकनाथेन नीतिपथः
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0