भाषा

ENहिગુ
ग्रंथ पाठ

प्रकरणपञ्चिका (टीका सहित) · अध्याय 1

1.1

ओं
श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण
महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका
न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया
च समलङ्कृता
शास्त्रमुखं नाम प्रथमं प्रकरणम्
प्रकरणार्थप्रतिज्ञा
स्वाध्यायविधिवाक्यार्थविचारे प्रयतामहे ।
प्रभाकरगुरोर्दृष्ट्या मीमांसारम्भसिद्धये

1.2

भाट्टमतेन मीमांसाशास्त्रानारम्भपूर्वपक्षः अत्र केचिदाचक्षते---
न मीमांसाशास्त्रमारम्भणीयमिति ।
तद्धि वेदवाक्यार्थविचारोपायभूतन्यायनिबन्धनम् ।
न च वेदवाक्यार्थो विचार्यो ऽस्ति, यो विचारस्य विषयभूतः ।
नाप्यसौ विचार्य निर्णीतः प्रयोजनमवकल्पते, अपुरुषार्थत्वात् ।
पुरुषार्थत्वे हि तस्य चोदनैव प्रमाणं स्यात् ।
न चाविवक्षितार्था सा प्रमाणं भवितुमर्हति ।
ननु शब्दानामौत्पत्तिकत्वादर्थपरत्वस्य नाविवक्षितार्थता युक्ता ।
सत्यमेवम् ।
वेदेनैव त्वन्यपरतामवगमयताविवक्षितार्थताऽपद्यमाना न शक्या वारयितुम् ।
तथाहि---
स्वाध्यायो ऽध्येतव्य इत्यत्र परप्रेरणात्मकविध्यवरुद्धाभावना तव्यप्रत्ययवाच्या प्रतीयते ।
सा च स्वभावतो भाव्यं करणमितिकर्तव्यताञ्चापेक्षते ।
तत्र1 न तावदध्ययनमेव समानपदोपात्तं भाव्यतया सम्बन्धमर्हति, अपुरुषार्थत्वात् ।
तस्मिन् हि भाव्यतया स्वीक्रियमाणे पुरुषप्रवृत्त्यनुपपत्तेः परप्रेरणात्मकविधिव्यापारभङ्गप्रसङ्गात् ।
नाप्येकवाक्यतया समभिव्याह्वियमाणस्य स्वाध्यायस्य भाव्यतया सम्बन्धो ऽवकल्पते, विध्यानर्थक्यप्रसङ्गात् ।
अन्तरेणापि हि विधिं प्रतीयत एवाध्ययनेन स्वाध्यायो ऽवाप्यत इति ।
न च व्रीहीनवहन्तीतिवन्नियमार्थो विधिरिति शक्यते वक्तुम्, अक्रत्वर्थत्वादध्ययनस्य ।
न खल्वध्ययनस्य हि क्रतावेव नियम्यन्ते, न तण्डुलादिस्वरूपे ।
अवधातेनैव सम्पादितैस्तण्डुलैः क्रतुफलसिद्धिरिति प्रमाणान्तरस्याविषयत्वात्तेनैव सिद्धिरिति न किञ्चिद्विरुद्धम् ।
स्वाध्यायस्वरूपग्रहणं त्वध्ययनेनैव सिध्यतीति नियम्यमानं मानान्तरविरुद्धम्, स्वयमनधीयानस्यापि परपुरुषाधीयमानस्वाध्यायग्रहणदर्शनात् ।
न चाध्ययनस्वीकृतेनैव स्वाध्यायेन क्रतुफलभावनासिद्धिरिति अक्रत्वर्थतया क्रतुसंस्पर्शाभावेन नियमानुपपत्तेरिति ।
एतेनैवार्थावबोधस्यापि भाव्यतया सम्बन्धो निरस्तो वेदितव्यः ।
तथा हि---
यद्यप्यधीतात्स्वाध्यायात्फलवत्कर्मावबोधो दृश्यत इति तस्यैव भाव्यतावसीयते, तथापि विनापि विधिनान्वयव्यतिरेकाभ्यामध्ययनस्यार्थावबोधसाधनत्वावमाद्विधिरनर्थक एव ।
न चाध्ययनेनैवार्थावबोधो भावयितव्य इति नियमविधेरर्थवत्ता, प्रकारान्तरेणापि तत्संभवान्नियमानुपपत्तेः ।
न चाध्ययनेनैवार्थमवबुध्यानुतिष्ठतां क्रतुफलभावनासिद्धिरिति नियमः संभवति, अक्रत्वर्थत्वादध्ययनस्य ।
2तस्माद्विश्वजिन्न्यायेन स्वर्गे एव भाव्यतया कल्पयितव्ये प्राप्ते फलमात्रेयो3 निर्द्देशादित्यर्थवादिकमधुघृतकुल्यादितृप्तपित्रादिप्रसादलभ्यसव्रकामफपलावाप्तिरेव भाव्यतयावसीयते ।
नन्वाद्याध्ययने न किञ्चिदार्थवादिकं फलं श्रूयते, तत्रैषामर्थवादानामश्रवणात् ।
धारणजपयज्ञविध्यर्थवादा ह्येते ।
तदाहुर्वार्तिककारमिश्राः---
"4आद्ये त्वध्ययने नैव काचिदस्ति फलश्रुतिः ।
धारणे जपयज्ञे च या साप्येवं निवारिता" ॥
इति ॥
सत्यमेवम्, तथापि तेषामतिदेशतो ऽपि लब्धेर्युक्तैव तदीयफलस्य भाव्यता ।
तथा हि5 ---
6लिङादियुक्तेषु वाक्येषु द्वे भावने ऽवगम्येते, शब्दभावनार्थभावना चेति ।
तत्र शब्दभावना परप्रेरणात्मिका ।
तस्याः पुरुषप्रवृत्तिर्भाव्यम्7 ।
तया च प्रेरणया सह यो लिङादीनां वाच्यवाचकभावः सम्बन्धः, स तत्र योग्यतया करणम् ।
तदाहुर्वार्तिककारमिश्राः---
"लिङादयो हि प्रेरणां कुर्वन्त्यभिदधति चेति" तन्त्रवा- 1. 2. 1.ट ।
प्रवर्त्यरुच्युत्पादनयोग्यतया चार्थवादिकी स्तुतिरितिकर्तव्यता ।
तदेवमध्ययनविधौ साक्षादश्रुतार्थवादके शब्दभावनायामितिकर्तव्यताभूतार्थवादाकाङ्क्षिण्यां जपयज्ञाध्ययनादतिदेशेनार्थवादाः स्वीक्रियन्ते ।
तदाहुर्वार्तिककारमिश्राः---
"अनुषङ्गानुमानाद्यैर्लभ्यन्ते ऽन्ये ऽतिदेशतः" इति ।
ते चातिदिष्टा अर्थवादा अर्थभावनायां फलं समर्पयन्ति रात्रिसत्रवत् ।
एवमार्थवादिके फले भाव्यतयावसिते ऽध्ययनं समानपदोपात्तं करणाकाङ्क्षापरिपूरकत्वेन संबध्यते ।
एवञ्च 8यदैकस्मादपूर्वं तदेतरत्तदर्थमिति न्यायेन स्वाध्यायशब्दवाच्यो ऽक्षरराशिरप्यध्ययननिर्वृत्त्यर्थ एवावसीयते ।
एवञ्चान्यपरत्वादक्षराणां तेभ्यो ऽर्थप्रतिपत्तिरेवानुपपन्ना, व्युत्पत्तिविरहात् ।
वृद्धव्यवहारे ह्यनन्यपराण्येवाक्षराण्यर्थावबोधकतया व्युत्पन्नानि ।
व्युत्पत्त्यपेक्षश्च शब्दो ऽर्थावबोधकः ।
यः पुनरन्यपरेभ्यो ऽप्यक्षरेभ्यो ऽर्थावगमः, स सामान्यतोदृष्टनिबन्धनानन्यपरत्वभ्रान्त्या भ्रान्तिरेवेति मन्तव्यम् ।
अप्रतीयमानश्चार्थो न विचारस्य विषयः, नापि प्रयोजनमिति विचारस्तावन्नारब्धव्यः, तदनारम्भे च तदपायभूतन्यायपरिज्ञानमप्यनुपयोगि ।
तदनुपयोगे च तन्निबन्धनं मीमांसाशात्रमनारम्भणीयमिति पूर्वः पक्षः ॥
भाट्टमतेन मीमांसारम्भसमर्थनम्---
राद्धान्तस्तु स्वाध्यायो ऽध्येतव्य इति स्वाध्यायस्य 9कर्मत्वावगमात्स एव भाव्यतयावसीयते ।
यद्यपि नित्यत्वान्निर्वर्त्त्यकर्मता नास्ति स्वाध्यायस्य, विकार्यकर्मता वा, अध्ययनेन तस्य विकारानुपपत्तेः, तथापि प्राप्यतया तस्य कर्मता नानुपपन्ना ।
अत एव प्राप्यकर्मोदाहरणं वृत्तिकारस्य वेदाध्ययनम् ।
यच्च कर्म, तदर्थैव क्रिया युक्ता ।
सो ऽयं श्रौतो विनयोगः ।
न च स्वाध्यायस्य सक्तुवच्छेषित्वमनुपपन्नम्, फलवदर्थावबोधोपयोगित्वात् ।
यद्यपि चार्थावबोधोपयोगित्वमध्ययनात्प्राङ्नावगम्यते, तथापि पश्चाद्भाव्यपि भवत्येव प्रयोजनम् ।
भाविनापि चोपयोगेन शेषित्वं नानुपपन्नम्, अग्निवत् ।
उत्पन्नानां ह्यग्नीनां विनियोगावगमः, नावगतविनियोगानामुत्पत्तिः ।
आहवनीयादिशब्दानामलौकिकार्थतया प्राग्व्युत्पत्त्यवगमादर्थानवगतेः होमादिषु विनियोगासंभवात् ।
तथा चोक्तम्---
"भूतभाव्युपयोगं हि द्रव्यं संस्कारमर्हति ।
" [तन्त्रावा- 2. 1. 4.] ननु चार्थावबोधोपयोगितया संस्कारविधिरनर्थक एवेत्युक्तम् इति ।
नानर्थकः, नियमार्थतयार्थवत्त्वात् ।
ननु च नियमो न सम्भवति, अप्रतुसंस्पर्शित्वादित्क्तम् ।
तन्न सम्भवति स्वाभाविकार्थपरत्वानुसारेण क्रत्वनुप्रवेशे क्रतुसंस्पर्शिताया एवोचितत्वात् ।
यदि खल्वध्ययनविधेः क्रत्वनुप्रवेशिता नाश्रीयते, तदा शब्दानां वृद्धव्यवहारव्युत्पन्नानां स्वाभाविकार्थपरता हीयेत ।
जहत्स्वार्थत्वं च न न्याय्यमिति क्रतुफलभावनानुप्रवेश्येवाध्ययनसंस्कारो युक्तः ।
तत्र कर्मविधिष्वेवं नियमवर्णना अध्ययनाविर्भावितैरेव कर्मविधिभिरर्थमवबुध्यानुतिष्ठतां क्रतुफलभावनासिद्धिरिति ।
अर्थवादेषु त्वध्ययनाविर्भावितार्थवादप्ररोचिताः क्रियमाणाः क्रतवः फलभावनाय अलमिति ।
मन्त्रेषु पुनरध्ययनपरिगृहीतैरेव मन्त्रैः क्रतुषु पदार्थस्मरणं फलभावनाङ्गमिति ।
अध्ययननियमाश्रितश्च कालनियमो व्रतादिनियमश्च ।

"श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रो ऽर्धपञ्चमान् ॥
[मनु. अ. 2, श्लो. 2,49,11]
"भवत्पूर्व चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्" ॥
[मनु. अ. 2, श्लो. 2,49,11] इति ।
एवञ्चानन्यपरत्वादक्षराणां फलवत्कर्मावबोधोत्पत्तेर्विचारस्य विषयप्रयोजनलाभाच्छास्त्रस्यारम्भणीयत्वम्, विषयप्रयोजनलाभे च विचारस्याध्ययनानन्तरमुपनिपतितत्वाद् गुरुकुलस्थितेरर्थवत्त्वात्तन्निवृत्तिमध्ययनानन्तरप्राप्तां स्मरद् ऽवेदमधीत्य स्नायाद्ऽइति स्मृतिवचनमपन्यायमूलं दर्शयन्नर्थावबोधपरतया स्वाध्यायस्य विवक्षितार्थतां मन्यमानः सूत्रकारो विचारस्य विषयं प्रयोजनं चाह"अथातो धर्मजिज्ञासा" पू-मी- 1.1.1 इति ।
एतच्च व्याख्यातम्---
"अथातो धर्मजिज्ञासासूत्रमाद्यमिदं कृतम् ।
धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" ॥
मीमांसाश्लोकवार्तिकम् 1. 1. 11. इति बहुरोपि 10तदयुक्तम् ।
न हि लिङादियुक्तवाक्येषु भावना भाव्यान्तरमपेक्षते, अपूर्वस्य भाव्यस्य स्वशब्देनाभिहितत्वात् ।
लिङादयो हि भाव्यकोटिनिविष्टप्रधानभूतापूर्वोपसर्जनतापन्नामेव भावनामभिदधतीति 11विषयकरणीये निपुणतरमुपपादितम् ।
अतो न पूर्वपक्षे भाव्याकाङ्क्षायामार्थवादिकफलसम्बन्धः ।
नापि सिद्धान्ते स्वाध्यायस्य साध्यतयान्वयः ।
कथं तर्हि विश्वजिदादिषु स्वर्गादिफलकल्पनम्? यथा तत्तथा निशम्यताम्---
यदपूर्व कार्यभूतं प्रतीयते तद् विषयत्वेन सम्बद्धकरणीभूतयागाद्यनुष्ठानाधीनात्मलाभम् ।
12न च विना कर्त्रा तदनुष्ठानोपपत्तिः ।
नचाधिकारं विना कर्तृत्वलाभः ।
नच नियोज्यमन्तरेणाधिकारसिद्धिः ।
न वाविशिष्टो नियोज्यो ऽवकल्पत इति विशेषणभावेन स्वर्गकामना परिकल्प्यते ।
स्वर्गकामना चेन्नियोज्यविशेषणं ततो ऽग्निहोत्रादिवत् स्वर्गस्यापि नियोगतः सिद्धिरिति ।
भवत्वेवम्, अत्रापि तर्हि नियोज्यविशेषणतयैवार्थवादिकं फलं रात्रिसत्रवत्सम्बध्यताम् ।
न ।
अन्यतो ऽनुष्ठानसिद्धेः ।
कुतो ऽन्यतः? आचार्यकरणविधिप्रयुक्तेः ।
कः पुनराचार्यकरणविधिः?"उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः ।
सकल्पं सरहस्य च तमाचार्यं प्रचक्षते" ॥
[मनुः 2. 140] इति स्मरणानुमितः शिष्यमुपनीय वेदाध्यापनेनाचार्यकं भावेयदित्येवंरूपः अलौकिकञ्चाहवनीयादिवदाचार्यकमिति तन्निष्पत्त्युपायविधानं युक्तमेव ।
तत्रार्थादाचार्यीबुभूषत एवाधिकारो धनार्जननियमवत् ।
तत्र शिष्यं प्रति विहिततद्धिताचरणदक्षिणादानदर्शनात्तल्लिप्सोरेवाचार्यभवनेच्छा ।
यथा दीक्षणीयया दीक्षितत्वसिद्धिः, तथा वेदाध्यापनेनाचार्यत्वसिद्धिः ।
उपनयनं च क्त्वाप्रत्ययेनाध्यापनसमानकर्तृकमवगम्यमानमेकप्रयोगतया विना समानकर्तृकत्वासम्भवादङ्गाङ्गिभावेन च विना एकप्रयोगत्वानुपपत्तेराचार्यकभावनाकरणीभूतमध्यापनं प्रत्यङ्गत्वेनावतिष्ठते ।
तदाश्रित ऽश्चाष्टवर्षब्राह्मणमुपनयीतेऽत्यादिनियमः ।
उपनयनं न स्वभावत उपनेयासत्तिप्रयोजनकमिति तद्द्वारेणैव तस्याङ्गम् ।
न चाध्यापनं प्रत्यनुपयोगिन उपनेयस्यासत्तिरध्यापनोपयोगिनीत्युपनेयस्य कर्मापेक्षायामुपनयनं प्रक्रम्य ऽस्वाध्यायो ऽध्येतव्यऽ इत्यध्ययनं विधीयमानमुपनेयस्य कर्मेत्यवगम्यते ।
अध्ययनं चाध्यापनोपयोगीति ।
सद्धिमेतत् ।
13तेन स्वाध्यायमध्येष्यमाणस्य माणवकस्योपनयनम 14ध्यापनाङ्गमित्यध्यापनविधिः स्वाङ्गभूतमुपनयनं प्रयुञ्जानस्तस्यान्यत्रानुपपत्त्याध्ययनमपि प्रयुङ्क्ते ।
तत्प्रयुक्ताध्ययननिष्पत्त्या च लब्धसिद्धिस्स्वाध्यायाध्ययननियोगो नाधिकारान्तरमपेक्षते ।
अतो नायं विश्वजिन्न्यायस्य विषयः, नापि रात्रिसत्रन्यायस्य, अनन्यप्रयुक्तविषयनियोगगोचरत्वात्तयोः ।
अत एव प्रयाजादिनियोगेषु तयोरनवतारः ।
अन्यथा सिद्धान्तेपि कामश्रुतिप्रयुक्तमध्ययनमिति विद्यासाध्येष्वपि कर्मसु शूद्रादीनामधिकारः स्यात् ।
अतो ऽध्यापनविधिप्रयुक्तत्वादध्ययनस्य येषामेवोपनयनं तेषामेव तत्प्रयुक्तमन्त्रलाभाच्छूद्रादीनामनधिकारः ।
एवञ्च विध्यन्तरप्रयुक्ते ऽध्ययने न रात्रिसत्रन्यायेन पूर्वपक्षाशङ्कोचिता ।
न चातत्प्रयुक्त्या पूर्वः पक्षः, तत्प्रयुक्त्या च राद्धान्त इति युक्तम् ।
अतत्प्रयुक्तत्वे कारणाभावात् ।
यच्चोक्तं नियमार्थो विधिरिति ।
तदयुक्तम् ।
स्वाध्यायाध्ययनस्य नियोगनिष्पत्त्यर्थतया विधानेन वचनस्यार्थवत्त्वात् ।
स्वाध्यायो ऽध्येतव्य इति तव्यप्रत्ययेन विधिरभिधीयते ।
न चावहन्त्यादिष्विव क्रतुविषयनियोगानुवादो ऽयमवकल्पते, असंनिधानात् क्रतुनियोगानाम् ।
सन्निधानवशेनैव हि क्रतुनियोगप्रत्यभिज्ञानात्तत्र क्रतुनियोगानुवादोपगमः ।
न चेह सन्निधानमस्ति ।
नापि ऽपर्णमयी जुजूर्भवतीतिऽवत् पदार्थसम्बन्धमुखेन क्रतुनियोगप्रत्यभिज्ञानम्, स्वाध्यायस्य व्यभिचरितक्रतुसम्बन्धत्वात्, हुमित्येवमादीनामनर्थकानां स्वाध्यायान्तर्गतिदर्शनात् ।
यत एवात्र नियोगः साध्यतयावगम्यते, अत एव स्वाध्यायस्य नेप्सितकर्मतया सम्बन्धो ऽवकल्पते, एकस्मिन् वाक्ये साध्यद्वयविरोधात् ।
न च स्वर्गादिवत् स्वाध्यायस्य नियोज्यविशेषणतयान्वयादविरोधः, अनियोगफलत्वात्स्वाध्यायग्रहणस्य ।
यदेव हि नैयोगिकं फलम्, तदेव साध्यतया नियोज्यविशेषणं नान्यदिति तृतीये दर्शितम्---
15"अनमिज्ञो भवान्विषयनियोज्यानाम्" इत्यत्र ।
अतो ऽध्ययनविषयनियोगप्रतिपादनेनैव तस्यार्थवत्त्वान्न क्रतुप्रवेशकल्पनया नियमार्थता विधेः ।
जरत्प्रभाकरमतं तत्खण्डनं च ।
अन्ये पुनरेवं पूर्वपक्षयन्ति---
अध्यापनविधिप्रयुक्तमध्ययनमध्यापनाङ्भूतम् तन्निष्पत्त्यर्थतया च स्वाध्यायस्यान्यपरत्वादविवक्षितार्थता--इति ।
तदयुक्तम् ।
प्रयुक्तिमात्रेण तादर्थ्यानुपपत्तेः ।
स्यान्मतम्--यथा 16प्रजापतिव्रतेषु स्वतन्त्रकर्त्रवगमात्तद्धेतुभूताधिकारसिद्ध्यर्थं नियोज्यपरिकल्पनं, तथा प्रयुक्तिदर्शनात्तादर्थ्यम्--इति ।
तन्न ।
प्रयुक्तेस्तादर्थ्यव्यभिचारात् ।
असत्यपि तादर्थ्ये केवलोपकारकतामात्रेणाध्ययनस्य क्रतुविधिभिः प्रयुज्यमानत्वात् ।
कथं तर्हि 17पश्वेकत्वादेरङ्गत्वम् ।
न तावद्विभक्तिरेव क्रतुसम्बन्धितयैकत्वादिकमभिधत्ते येनारुण्यादिवद्वाक्येन विनियोगः स्यात् ।
विभक्तयो हि प्रातिपदिकार्थगतमेव स्वार्थ श्रुत्याभिदधति ।
नापि करणभूतस्यैकत्वमुच्यते, संख्यान्वितस्य वा करणत्वम्, करणत्वैकत्वयोर्युगपदभिधानात् ।
अतो न वैनियोगिकं शेषत्वं विभक्त्यभिहितायाः संख्यायाः ।
इष्यते च शेषत्वम्, तच्च प्रयुक्तिकृतमेव ।
मैवम् ।
न तत्रापि शेषत्वमौपादानिकं किन्तु लैङ्गिकमेव ।
वस्तुसामर्थ्यमेव लिङ्गमुच्यते ।

संख्या च स्वभावत एव संख्येयावच्छेदिकेति संख्येयार्थैव, किन्तु संख्येयभूतप्रातिपदिकार्थमात्रसम्बन्धे ग्राहकान्वयव्याघातापत्तेर्ग्राहकीयभूतपश्वादिसम्बन्ध औपादानिकः ।
सन्निधिसमाम्नानमात्रेण हि विभक्त्यर्थस्यापि ग्राहकं प्रत्यैदमर्थ्येनान्वितस्यैवाभिधानम्, तदन्यथानुपपत्त्या च केवलाभिधाननिबन्धनं स्वरूपसम्बन्धमतिलङ्घ्य साधनीभूतसंख्येयसम्बन्धाध्यवसानमिति नौपादानिकं तत्रापि शेषत्वम् ।
भवतु तर्हि लिङ्गादेवाध्ययनस्यापि अध्यापने विनियोगः ।
नैवं भवितुमर्हति, सामान्यसम्बन्धबोधकप्रमाणसापेक्षत्वाल्लिङ्गविनियोगस्य ।
न चास्य सामान्यसम्बन्धबोधकं किञ्चिदस्ति प्रमाणम् ।
ननु च णिच्छ्रुतिः प्रकृत्यर्थभूतस्याध्ययनस्य शेषतामापादयतीति ।
तन्न ।
प्रयोजकव्यापारस्य प्रयोज्यव्यापारोत्पत्तिहेतुत्वाद्विपरीतशेषत्वापत्तेः ।
वाक्यप्रकरणस्थानसमाख्यानानि त्वध्ययनस्याध्यापनं प्रति विनियोजकतया नाशङ्कनीयान्येव ।
18किञ्च टीकाग्रन्थविरोधश्चाङ्गत्ववादिनाम् ।
यत एवमाह भगवान्19 ---
"प्रयोज्यत्वादनङ्गत्वाच्च20 भवति संशयः" इति ॥
तस्मादनङ्गतयैव पूर्वपक्षणीयम् ।
कथं पुनरनङ्गतया पूर्वपक्षयितुं शक्यते ।
उच्यते ।
सर्वो हि विधिरधिकारपर्यवसायी ।
नचाध्ययनविधौ कस्यचिदधिकारो ऽस्तीत्युक्तमेव साक्षादश्रवणात्, अध्यापनविधिप्रयोज्यतया कल्पनानुपपत्तेः ।
तत्र य एवासौ प्रयोजकविधावधिकारः स एव प्रयोजनमिति युक्तम्, प्रथमोपनिपातित्वात् ।
यदपि च यस्यानङ्गं तदपि तस्य प्रयोजनं भवत्येव आधानस्येव होमादय इति ।
ननु चानन्तरभाविकर्मावबोधफलकतया अध्ययनस्याध्येतुरेवाधिकारो ऽध्ययने प्रतीयते इति तत्प्रयोजनतैव स्वाध्यायविधेर्युक्ता अन्तरङ्गत्वात् ।
न ।
तस्योत्तरकालभावित्वात् ।
तुल्यायां हि प्राप्तावन्तरङ्गता बलीयसी ।
न चानयोरधिकारयोस्तुल्या प्राप्तिः ।
प्रथमोपनिपातित्वात्प्रयोकविध्याधिकारस्य उत्तरकालभावित्वाच्चार्थावबोधनिबन्धनस्याधिकारस्य ।
यदा चाध्यापनविध्यधिकारसिद्धिरध्ययनस्य प्रयोजनमित्यध्ययनविधिना बोधितं तदाध्ययननिष्पत्त्यर्थत्वात्स्वाध्यायस्यान्यपरत्वादविवक्षितार्थत्वम् ।
अविवक्षितश्चार्थो न विचारणीय इति वेदाध्ययनमात्रेणैव गुरुकुलस्थितेः कृतार्थत्वादध्ययनोत्तरकालं गुरुकुलनिवृत्तिरेव युक्तेति मत्वा स्मृतं "वेदमधीत्य स्नायाद्" ।
[बौ. गृ. सू. 6. 1] इति अत्र च न स्नानमदृष्टार्थं विधीयते,किन्तु यो"ब्रह्मचारी न स्नायात्" बौ. गृ. सू. इति अस्नाननियमस्तस्य पर्यवसानमेतदध्ययनाङ्गतया नियमानां तन्निवृत्तौ प्राप्तमुच्यते ।
अस्नाननियमतुल्यतया च गुरुकुलवासादीनामपि निवृत्तिः प्राप्तैवेति सकलब्रह्मचारिधर्मनिवृत्तिरेवाध्ययनानन्तरमुच्यते ।
एवं चाध्ययनविधिना विचारस्यानाक्षिप्तत्वात्तुदुपायभूतन्यायनिबन्धनं मीमांसाशास्त्रं नारम्भणीयमिति पूर्वः पक्षः ।
स्वमतेन सिद्धान्तः ।
राद्धान्तस्तु--यद्यपि प्रयोजकविध्यधिकारः प्रथमभावी, तथापि तन्निष्पत्तिः प्रयोजनमिति न युक्तम् ।
किन्तु दृष्टार्थावबोधफलकतयाध्ययनोत्तरकालभाव्यप्यध्येतुरेवाधिकारः प्रयोजनतया युक्त आश्रयितुम्, कर्तृसमवायित्वात् ।
यत्कर्तृकं हि यत्कर्म तस्यैव तत्रैश्वर्यमिति युक्तम्, अन्तरङ्गत्वात् ।
न च सहसैव विधिदर्शनादत्राधिकारपर्यवसानकल्पनाकारणमस्ति, परप्रयुक्त्यैवानुष्ठानस्य सिद्धत्वात् ।
यत्र खल्वधिकारपर्यवसानकल्पनामन्तरेण प्रागनुष्ठानं न लभ्यते, तत्रानुष्ठानात्प्रागनवगतो ऽधिकारः तदनुप्रवेशात्साध्यः ।
इह त्वध्यापनविधिप्रयुक्त्यैवाधिकारपर्यवसानकल्पनामन्तरेणानुष्ठानं लब्धमिति प्राथम्यमकिञ्चित्करम् ।
अन्तरङ्गत्वादध्येतुरेवाधिकारो युक्त इति ।
तदेवमध्ययनविधेरन्यप्रयुक्त्यैवानुष्ठानसिद्धेर्नियोज्यो नास्ति ।
अधिकारी तु विद्यत एव ।
यदथ हि यत्कर्म स तत्राधिकारी ।
अर्थावबोधोपयोगेन चाध्येत्रर्थताध्ययनस्येति स तत्राधिकारी ।
स चायमधिकारः प्रागध्ययनान्नावगम्यते, अध्ययनोत्तरकाले चावगम्यते ।
स्वाध्यायाध्ययनं त्वेवमभिनिर्वर्त्यते--"श्रावण्यां प्रौष्ठपद्या वाप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रो ऽर्धपञ्चमान् ॥
" म. 4 अ.95 ततः21 परं तु छन्दासि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेत् ॥
" म. 4. अ. श्लो. 98 इति ।
इत्थं चाध्ययने क्रियमाणे ऽङ्गाध्ययनसंस्कृतस्य वेदवाक्यादर्थावगमो जायते ।
स चायमध्येता मन्यते मदुपयोगिकर्मावबोधकतया मदर्थमध्ययनमिति ।
22यो ऽयं वेदाध्ययनसीमांसाश्रवणयोर्मध्ये ऽधिकारः, सो ऽयं 23तान्मौलिकः शास्त्रार्थः ।
इममेव तावदधिकारमालोच्य पित्रादयो ऽर्थदानादिना कांश्चिदानमय्य पुत्रादीनुपनाययन्ति ।
प्रबुद्धाश्च केचन स्वयमेवात्मानम् ।
अन्यथाध्ययनासंभवात् ।
अनुपनीतस्याध्ययननिषेधात् ।
"नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते ।
24स शूद्रेण समस्तावद्यावद्वेदान्न जायते ॥
" म. अ. 2. श्लो. 172 इति ।
एवं तावदध्यापनविधिं स्मृत्यनुमितमाश्रित्य राद्धान्तवर्णना कृता ।
विवरणसिद्धान्तः ।
25अन्ये तु साक्षाच्छ्रुताध्यापनविध्यनुसारेणैवमाहुः ।
यद्यध्यापनविध्यधिकारप्रयोजनता स्वाध्यायाध्ययनविधेः स्यात्, तदाध्यापनविधेरपिस्वाध्यायान्तर्गतत्वादविवक्षितार्थत्वेन तत्प्रयुक्ततापि न सम्भवति ।
26स्वशाखा हि स्वाध्यायशब्देनोच्यते ।
साक्षादधीतश्चाध्यापनविधिर्नूनं केषाञ्चिच्छाखिनां स्वशाखान्तर्गतो भवेदिति स्वाध्यायस्याविवक्षितार्थत्वेन तस्याप्यविवक्षितार्थत्वान्न प्रयोजकत्वमवकल्पते इति पश्चाद्भाव्यर्थावबोधोपयोगितयाध्येतुरेवाधिकारो ऽध्ययनविधेः प्रयोजनमिति ।
ननु स्वाध्यायो ऽध्येतव्य इति नियोगसिद्धेरवगमात्तन्निष्पत्त्यर्थत्वादध्ययनस्यान्यपरत्वादर्थविवक्षा दुर्भणैव ।
मैवम् ।
यदि केवलं नियोगनिष्पत्त्यर्थतैवाध्ययनस्य स्यात्स्यादेतदेवम् ।
यदा त्वर्थावबोधो ऽपि प्रयोजनतया स्वीक्रियते, तदार्थऽपरताप्यस्तीति नाविवक्षितार्थता ।
कथं पुनरेकस्मिन्वाक्ये प्रयोजनद्वयम् ।
उच्यते ।
नियोगनिष्पत्तिरेव शाब्दं प्रयोजनम्, आर्थं त्वर्थावबोधनमिति न विरोधः ।
यच्च तदर्थावबोधाख्यं प्रयोजनं तन्न केवलाध्ययनसाध्यमिति अध्ययनविधिरेव स्वप्रयोजनसिद्धये विचारमाक्षिपति ।
विचारस्य च 27न्यायनिबन्धनत्वान्न्यायानां मीमांसाज्ञानगम्यत्वान्मीमांसाज्ञानस्य गुर्वायत्तत्वान्न वेदाध्ययनानन्तरं गुरुकुलान्निवर्तितव्यमिति मन्यमानो भगवान्सूत्रकारः पूर्वपक्षनयमूलतां स्मृतेर्दर्शयितुं धर्मजिज्ञासोपदेशमुखेनाध्ययनानन्तरभाविनीं गुरुकुलनिवृत्तिं प्रतिषेधन्निदमाह---
"अथातो धर्मजिज्ञासा" 28इति ।

वेदवाक्यार्थविचारविरोधिनी च गुरुकुलनिवृत्तिरेव केवला निवार्यते, न सकलेतरभिक्षाचरणब्रह्मचर्यादिधर्मनिवृत्तिः ।
असमाप्तसकलब्रह्मचारिनियमश्च न स्नातक इति न दाराधिगमेनऽधिक्रियते स्नातकस्य दाराधिगमस्मरणात्,"स्नातकः29 सदृशीं भार्यां विन्देद्" गौ. ध. सू. अ. 4-1 इति ।
तस्माद् गुरुकुले स्थित्वा सकलेतरब्रह्मचारिधर्मान्परित्यज्य वेदार्थो विचारयितव्यः, अविचारितस्यानिर्णीयमानत्वात् ।
अनिर्णीतवेदार्थश्चेद् गुरुकुलान्निवर्तेत, ततः कृतदारसंग्रहः श्रौताग्निहोत्रादिनित्यनैमित्तिकधर्माधिकारापातात्तदनुष्ठानं कर्तुमसमर्थः प्रत्यवेयात् ।
तस्मादध्ययनस्यानन्तरमेव वेदार्थो विचारयितव्य इति विचारोपायभूतन्यायनिबन्धनं मीमांसाशास्त्रमारब्धव्यमिति सिद्धम् ।
शास्त्रमुखं नाम गुरोराविष्कर्तुं गभीरमपि भावम् ।
शालिकनाथेन कृतं प्रकरणमेतत्प्रसन्नतरम्

मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc