प्रकरणपञ्चिका (टीका सहित) · अध्याय 16
वाक्यार्थप्रतिपत्तौ हि पदानामनुपायत्वे तदन्यथानुपपत्त्या, वाक्यमेकं तदुपायभूतं कल्प्यते ।
यद्यपि व्युत्पत्त्यनपेक्षाच्छब्दादर्थो नावगम्यते ।
यद्यपि चाऽनन्त्याद्वाक्यानाम्, तदर्थानाञ्च, वैदिकस्य चार्ऽथस्यानन्योपायत्वात् व्युत्पत्तिरशक्या ।
तथापि काल्पनिकपद-पदार्थव्युत्पत्तिसंस्कृतात् वाक्याद्वाक्यार्थमवगच्छतीत्याश्रीयते ।
यदि काल्पनिकत्वे पद-पदार्थानां प्रमाणाभावादेकैकवर्णोच्चारणेर्ऽथानवबोधात्, क्रमेणोच्चारितानाञ्च युगपच्छवणासम्भवात्, पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायकः, तस्य च पारमार्थिकपद-पदार्थव्युत्पत्तिस्सहकारिणीति पक्षस्स्वीक्रियते, यदि वा पदैस्सुकरव्युत्पत्तयो ऽनन्विता एव स्वार्था अभिहिता वाक्यार्थमवबोधयन्तीत्यङ्गीक्रियत, यदि तु पदान्येवान्वितान्स्वार्थानभिदधतीति शक्यते साधयितुम्, तदा वाक्यार्थस्यावबुद्धत्वान्नैताः कल्पना आत्मानं लभन्ते
कथं पुनः पदानामन्वितस्वार्थमात्रबोधकत्वे वाक्यार्थावगतिस्सिद्ध्यतीत्यत्राऽह---
1075प्रधानगुणभावेन लब्धान्योन्यसमन्वयान् ।
पदार्थानेव वाक्यार्थान् सङ्गिरन्ते विपश्चितः
ननु तेषां भूयस्त्वाद् भूयांसो वाक्यार्थाः, वाक्यानि च स्युरित्यत्राऽह---
भूयांसो यद्यपि स्वार्थाः पदानां ते पृथक्पृथक् ।
प्रयोजनतया त्वेकवाक्यार्थं सम्प्रचक्षते
तत्प्रतीत्येककार्यत्वाद्वाक्यमप्येकमुच्यते ।
कथं पुनरेकप्रयोजनत्वमित्यत्राऽह---
प्रतिपत्तिर्गुणानां हि प्रधानैकप्रयोजना
यद्धि प्रधानभूतं, तदेव कथन्नाम विशिष्टं प्रतीयतामित्येवमर्थं गुणानां प्रतिपादनम्, तेन तत्रैव तात्पर्यम्, तदेव प्रमेयम्, तात्पर्यविषय एव शब्दस्य प्रामाण्याभ्युपगमात्, तस्य तथाभूतस्य प्रतिपत्तिर्नैकपदनिबन्धनेति, वाक्यमेव तत्र प्रमाणम् ।
अत एव च "1076षष्ठाद्ये न पदं नाम किञ्चन वाक्ये, न पदार्था नाम केचन वाक्यार्थे" [बृ. टी. 6-1-1] इत्युक्तम् ।
पृथग्भूतं पदं नाम न किञ्चन प्रमाणमस्ति ।
पृथग्भूताश्च पदार्थाः, न प्रमेयास्सन्तीत्यर्थः ।
एतच्च तत्रैव स्पष्टमुक्तम्
1076 ॥
सम्प्रति वाक्यमेव वाचकं वाक्यार्थस्येति ये ब्रुवते, 1077ये च वाक्यान्त्यवर्ण एवेति ।
तन्निराकरणायाऽह---
व्यवहारेषु वृद्धानां वाक्यश्रवणभाविषु ।
आवापे-द्धारभेदेन पदानां शक्तिनिश्चयः
यद्यपि वृद्धव्यवहारपूर्विकैव सर्वा शब्दव्युत्पत्तिः, वाक्यैरेव च व्यवहारः ।
तथापि यत्पदावापे यस्यार्ऽथस्याऽवापः, यदुद्धारे चोद्धारः, तस्मिन्नेवार्ऽथे तस्य पदस्य वाचकशक्तिरवसीयते ।
न च तथा सति वाक्यार्थप्रतिपत्तिर्नोपपद्यते, वक्ष्यमाणत्वान्न्यायस्य ।
येन कार्यबलेन वाक्यमेकं प्रत्यक्षपरिदृश्यमानवर्णपदभेदापह्नवेन कल्प्येत ।
1078किञ्च, "शिशो ! गामानय, शिशो ! गां बधान, वत्स ! गामानय, वत्स ! गां बधान, अर्भक ! गामानय, अर्भक ! गां बधान, डिम्भ ? गामानय, डिम्भ ? गां बधाने"त्यष्टानां वाक्यानामष्टौ वाचकशक्तयः कल्प्याः ।
पदवादिनस्तु, सप्तानां पदानां सप्तैव शक्तय इति कल्पनालाघवम् ।
अनयैव दिशा शुक्लामिति पदप्रेक्षेपे वाक्यवादिनो ऽष्टावपराः कल्प्याः, 1079पदवादिनस्त्वेकैव ।
अपारमार्थिके च 1080पद-पदार्थविभागे किमाश्रिता व्युत्पत्तिरभ्युपायतामुपैतीत्यपि चिन्तनीयम् ।
ये पुनः---वाक्यान्त्यवर्णस्य वाचकतामाहुः, तन्मते ऽपि तावत् पदार्थविभागस्य पारमार्थिकत्वात् घटेतैव व्युत्पत्तिः ।
ननु वाच्यवाचकसम्बन्धग्रहणमेव व्युत्पत्तिरित्युच्यते ।
न च वाक्यान्त्यवर्णवाचकत्ववादिनां पदं पदार्थस्य वाचकम् ।
अतस्तन्मते ऽपि निर्विषयैव व्युत्पत्तिः ।
उच्यते ।
न निर्विषया, निमित्तनैमित्तिकभावस्याभ्युपगतत्वात् ।
केयमवाचकस्य निमित्तता ? नैष दोषः ।
वाक्याद्धि यत्पदप्रयोगे1081 सति, यत्पदार्थान्वितो वाक्यार्थः प्रतीयते, तत्पदं तस्यार्ऽथस्यावाचकमपि भवति निमित्तम् ।
किन्तु तन्मते ऽपि शक्तिकल्पनागौरवं पूर्वोक्तन्यायेन तुल्यमेव ॥
ये ऽप्याहुः---वाक्यमेव स्मृत्यारूढं वाक्यार्थं प्रतिपादयतीति, तेषामपि प्राच्यमेव शक्तिकल्पनागौरवलक्षण1082 दूषणमशक्यपरिहारम् ।
1083भाष्यकारवचनञ्च "पूर्ववर्णनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायकः" [शा. भा. पृ. 46] इति निर्विषयम् ।
अशक्यञ्च महावाक्यस्य सकृत्स्मरणम् ।
तस्मात्पदानामेव वाचकशक्तिराश्रयणीया ।
अत्र केचिच्चोदयन्ति---ननु वृद्धव्यवहारप्रयुक्ते वाक्ये पदानां वाचकशक्त्यवधारणमेव नोपपद्यते ।
पुरुषवाक्यनामर्थं प्रति लिङ्गभावेन प्रमाणत्वाभ्युपगमात् ।
वाक्याद्धि कार्यभूतात्प्रतीतस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं 1084कारणभूतमनुमीयते ।
तस्य व ज्ञानस्य ज्ञेयाव्यभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति, न वाचकशक्त्यवगमः ।
उच्यते ।
न नूनं भवान् 1085नीतिपथोक्तमर्थं सम्यगाकलयति ।
परिहृतं हि तत्रेदम्---बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवणसमनन्तरभाविनीं विशिष्टचेष्टानुमितामर्थप्रतीतिं शब्दकारणिकामवगच्छति ।
स तथा व्युत्पन्नः कदाचित्कस्यचिदनन्वितार्थपदरचनं वाक्यमुपलभते, तथोपलभमानस्य चैव विमार्शो जायते---सम्भाव्यमानानन्वितार्थपदरचनमिदं वाक्यं कथं प्रयोज्यवृद्धस्य अर्थनिश्चयं कृतवत् ? वृद्धस्यापि पुरुषायत्ते वाक्ये ऽनन्वितार्थपदरचनशङ्का ममेव सम्भवतीति ।
तस्यैवं विचिकित्सोदये पुनरेष निश्चयो जायते---
नूनमनेनायं प्रयोक्तेत्थमवधारितो यदन्वितार्थान्येव पदान्ययं प्रयुङ्क्ते-इति ।
तथाविधापदप्रयोगनियमश्चास्यानुपलब्धे ऽन्वये नोपपद्यते इत्येवमन्वयोपलम्भमनुमिमानेनान्वयो निश्चीयते ।
निश्चिते चान्वये वाक्यमेतदनुवादभूत186 मर्थस्येति ।
एवञ्चेदनुवादकतया तस्यार्ऽथस्य तद्वाक्यं वाचकमेवेति, पूर्ववाचकशक्तिज्ञानं नायथार्थमिति मन्यते ।
यदि परं मया प्रागनुमानपुरस्सरोर्ऽथनिश्चो ऽस्येति नावगतम् ।
यापि चेयमर्थस्यानिश्चिते ऽन्वये विशिष्टवक्तृज्ञानानुमा, सापि पदानां स्वरूपमात्रावगमादेव नोपपद्यते, किनतु विशेषावगमात् ।
न च शक्तेरन्यः पदानां विशेषो ऽवगम्यते ।
ततो मयेवानेनापि पदानां वाचकशक्तिरवधारिता ।
तेन विशिष्टान्वयवाचकपदप्रयोगात्तद्विषयं वक्तुः पूर्वज्ञानमनुमितवान्, इति गम्भीरो ऽयं नीतिमहाह्वदः ।
अन्विताभिधानानुपपत्तिशङ्का ।
अत्र 1087केचिदाचक्षते---भवतु पदानां पदार्थेषु शक्तिज्ञानम्, तथाप्यन्विताभिधानं न सिध्यति---इति ।
तथाहि---प्रतियोगिनामनन्ततया अन्वयानामानन्त्यात्, तदानन्त्ये चान्वितानामप्यानन्त्यात्सम्बन्धग्रहणं दुष्करम् ।
अगृहीतसम्बन्धस्य च पदस्य वाचकत्वे, एकस्माच्छब्दात्सर्वार्थप्रतीतिप्रसङ्गः1088 ।
सामान्यान्वयाभिधानञ्च नाऽशङ्कनीयमेव, वाक्येभ्यो विशेषान्वयावगमात् ।
स्वरूपमात्राभिधानेनापि च वाक्यार्थप्रतिपत्त्युप1089 - पत्तावन्विताभिधानाश्रयणे शक्तिकल्पनागौरवम्1090 ।
तथा1091 पदेनान्वितस्स्वार्थो ऽभिधीयमानः--किमभिहितेन पदार्र्थान्तरेणान्वितो ऽभिधीयते ? उत, अनभिहितेनेति ? विकल्पनीयम् ।
अनभिहितेन चेत्, 1092पदान्तरप्रयोगवैयर्थ्यम् ।
एकस्माच्च 1093सर्वान्वयप्रतीतिप्रसङ्गः ।
अभिहितेन चेत्, तदपि तर्हि पदमन्विताभिधायितया 1094पदान्तरोपात्तमर्थमभिधानायापेक्षत---इति, इतरेतराश्रयः प्राप्नोति ।
तस्मात्पदान्तराभिधानानपेक्षस्वरूपमात्राभिधानमेवार्ऽथानां पदैः क्रियते ।
ते च तथाभूताः पदैरभिहिताः पदार्था आकाङ्क्षा-सन्निधि-योग्यतावन्तो वाक्यार्थमवगमयन्ति ।
न तेषां सम्बन्धग्रहणापेक्षा शङ्कनीया ।
यतः पदधर्मो ऽयम्, नायमर्थधर्मः ।
तदाह भाष्यकारः---
"1095पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि ।
अथेदानीं अवगतास्सन्त वाक्यार्थमवगमयन्ती" [पू. मी. 1. 1. 25.] ति
तदेतन्निराकर्तुमुपक्रमते---
ओप्यन्ते, चोद्ध्रियन्ते च स्वार्था अन्वयशालिनः ।
अन्वितेष्वेव सामर्थ्य पदानां तेन 1096गम्यते
तत्रैव वार्तिकमतेन शङ्का ।
अत्राऽह---सत्यमन्वितपदार्थविषयावेवाऽवापोद्धारौ, तथाप्यन्विताभिधानमशक्यम् ।
पारम्पर्येणापि तदुपपत्तेः ।
तथाहि---पदैरनन्वितो ऽप्यभिहितोर्ऽथो ऽन्वितार्थप्रतिपत्तेर्निमित्तं भवतीति, पदानां पारम्पर्येणान्वितेष्वपि हेतुत्वम् ।
तदाहुर्वार्तिककारभिश्राः---
"न विमुञ्चनित सामर्थ्यं वाक्यार्थे ऽपि पदानि नः ।
तन्मात्रावसितेष्वेषु पदार्थेभ्यस्स गम्यते" ॥
[श्लो. वा. अधि. 7. श्लो. 229] इति ।
पदार्थप्रतिपादनञ्च वाक्यार्थप्रतिपत्तये प्रयुक्तानां पदानामवान्तरव्यापार इति च, तेषामेव व्यवहारः---
"वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां 1097पदार्थप्रतिपादनम्" ॥
[श्लो. वा. अधि. 7. श्लो. 343.] इति ।
एतामाशङ्कामुपेक्ष्यैव तावद्दोषान्तरं परिहरति---
आकाङ्क्षा-सन्निधिप्राप्तयोग्यार्थान्तरसङ्गतान् ।
स्वार्थानहुः पदानीति व्युत्पत्तिस्संश्रिता1097 यदा
आनन्त्य-व्यभिचाराभ्यां तदा दोषो न कश्चन ।
यत्तावदुक्तम्---आनन्त्याच्छब्दशक्त्यवधारणानुपपत्तिः, अगृहीतशक्तेश्च वाचकत्वे व्यभिचारप्रसङ्ग इति ।
तदनुपपन्नम् ।
उपलक्षणाश्रयणेनापि 1098सम्बन्धबोधः, सौकार्यादाकाङ्क्षितेन योग्येन सन्निहितेन चान्वितं स्वार्थं पदं वक्तीति व्युत्पत्तिराश्रीयते ।
तेन---
1099यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।
तदन्वितः पदेनार्ऽथस्स्वकीयः प्रतिपाद्यते ॥
इति संग्रहश्लोकः ।
आकाङ्क्षविषये न्यायमतोपन्यास-निरोसौ ।
का पुनरियमाकाङ्क्षा ? प्रतिपत्तुर्जिजासा ।
किन्निबन्धना पुनरसौ ? 1100अविनाभावनिबन्धनेति केचित् ।
क्रिया हि कारकाविनाभाविनीति तां प्रतीत्य, कारकं जिज्ञासते, एवं कारकमपि बुध्वा, क्रियामिति ।
1101तदयुक्तमिति मन्यामहे ?, जिज्ञासाविरामानुपपत्तेः ।
तथाहि---यदा तावत् कारकजिज्ञासा, तदा तदीयजनक--तद्गुण--तत्क्रिया--तत्कारकान्तरादिजिज्ञासाप्यापद्यते ।
अथ प्रयोजनाभावात् कारकातिरिक्तमन्यन्न जिज्ञास्यते, तर्हि क्रियामात्रावगमे ऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति, तत्र जिज्ञासा न स्यात् ।
अनुष्ठेय तया हि क्रियायामवगतायां कारकमन्तरेण तदनुष्ठानानुपपत्तेः, कारकज्ञानं न प्रयोजनवत् ।
वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति न कारकज्ञानेन प्रयोजनम् ।
अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता ।
अत एव तत्राध्याहारमपि कुर्वन्ति ।
यत्रापि चानुष्ठेयक्रियावगमः, तत्रापि निश्शेषकारकजिज्ञासा स्यात् ।
यथा-देवदत्त ! "गामानये"ति 1102करणानुपादानादपरिपूर्णता स्यात् ।
अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा, तर्हि देवदत्त ! "गामानय दण्डेने"ति प्रयुक्ते ऽपि दण्डशब्दे, तदाकाङ्क्षा न स्यात् ।
ततश्च अनाकाङ्क्षितत्वात् तस्य, तदन्वयो न स्याद्वाक्यार्थे ।
अथ दण्डपदोच्चारणात् तत्राऽकाङ्क्षा परिकल्प्यते ।
1103अन्यथा दण्डपदार्थस्यानन्वये तत्पदोच्चारणमनर्थकं स्यात् ।
एवम "प्यरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै. सं. 6.1.9] त्यत्राप्यनन्वयप्रसङ्गः ।
न हि वेदपदोच्चारणेनानर्थकेन न भवितव्यमिति किञ्चन प्रमाणमस्ति, अतो न तत्राऽकाङ्क्षोदये किञ्चित्कारणमस्तीति, "सोमं क्रीणाती"त्यतो ऽधिकस्यानन्वितता स्यात् ।
अपि च लौकिकत्वात् क्रियाकारकयोः, यत्किञ्चित्क्रिया-कारकोपादाने ऽपि तत्सिद्धेरविघातान्नऽतीव विशेषजिज्ञासा घटते ।
अज्ञाते हि ज्ञानेच्छा घटते, न पुनर्ज्ञाते ऽपि ।
स्वमतेनाऽकाङ्क्षाकथनम् ।
1104अत्रोच्यते---अभिधानापर्यवसानम्, अभिधेयापर्यवसानञ्च जिज्ञासोदये निबन्धनम् ।
एकपदप्रयोगे हि 1105द्वारमित्यादावभिधानमेव न पर्यवस्यति ।
न ह्यनुच्चरिते प्रतियोगिसन्निधापके1106 पदे ऽन्विताभिधानं शक्यते वक्तुम् ।
वृद्धव्यवहारवशेनान्वितार्थप्रतिपादनपरता पदानामवधारितेति, तदर्थं युक्तैव प्रतियोगिजिज्ञासा ।
यस्याप्यभिहितान्वय इति राद्धान्तः, तन्मते ऽपि पदार्थस्य 1107पदार्थान्तरमन्तेरणान्वयासामर्थ्यात्, तदुपपत्तये युक्तैव 1108प्रतियोगिजिज्ञासा ।
तस्याञ्च सत्यामपरिपूर्णवाक्यपरिपूरकतया लोके ऽध्याहारस्य1109 1110विदितत्वात्, प्रकरणादिवशेन योग्यप्रतियोग्यध्याहारः क्रियते ।
"अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती" [आ.श्रौ.1.3.7.सू.1.2.] त्यादिष्वनेकपदप्रयोगादन्विताभिधाने ऽपि, अभिहितस्नय कार्यस्यापूर्वात्मनो ऽनुष्ठानं विना कार्यत्वानुपपत्तेः, कर्त्रा च विना तदसम्भवात्, अधिकारादृते च तदयोगात्, नियोज्यमन्तरेण चतस्यानवकल्पनात्, तदुपपत्तये युक्तैव तदन्वययोग्यनियोज्यजिज्ञासा ।
तस्यां सत्यामपरिपूर्णत्वावगमात्, लोकवदध्याहारे कर्तव्ये सत्यपि, 1111जीवनस्याऽवश्यकत्वे ऽन्तरङ्गत्वे च 1112विधेरनुष्ठानाक्षेपो न कल्पेतेति, तत्परित्यागेन काम्ये नियोज्यविशेषणे स्थिते सर्वकामिपुरुषव्यापिस्वर्गस्यैव नियोज्यविशेषणत्वयोग्यत्वात्, स्वर्गकामो नियोज्यो ऽध्याह्वियते ।
1113तथाध्ययनविधावन्यप्रयुक्तानुष्ठाननिर्वाहितकार्यभावे नियोज्यो नाध्याह्वियते ।
1114अलौकिकत्वाच्चापूर्वे कार्ये नियोज्यस्याध्याहारमन्तरेणाऽकाङ्क्षा न निवर्तते ।
अलौकिकत्वादेव च "सौर्यं चरुं1115 निर्वपेत् घृते शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः" [मै. सं. 2. 2. 2] इत्यादौ करणोपकारमन्तेरण विधेस्सिद्ध्यसम्भवात् तज्जिज्ञासा, तज्जनकपदार्थजिज्ञासा च ।
अत एव तदभावे भाष्यकारो वाक्यानां 1116न्यूनतामाशङ्क्य परिहृतवान्1117 ।
नन्वेवं तर्हि तत्र पदत्रयं प्रयुज्यते---"गामानय शुक्लामि"ति लोके, तत्र हि कारकद्वयस्यासम्भवान्नाऽकाङ्क्षास्तीति कथमन्विताभिधानम् ।
"गामानयेत्ये" तावतैव परिपूर्णत्वाद्वाक्यस्य ।
सत्यम् ।
पदान्तरानुच्चारण एवम्, उच्चरिते तु तस्मिन्, तस्याप्यानयतिसन्निधानादेकवाक्यत्वावगमादानयत्यन्वितस्वार्थाभिधाय् इत्वात्, आकाङ्क्षां विना च तदसम्भवात्, आनयतेराकाङ्क्षा परिकल्प्यते ।
तथा चोक्तं 1118भाष्यकारेण---
"भवति च रक्तं प्रत्याकाङ्क्षे" [शा. भा. पृ. 117.टति ।
तेनात्राप्यन्विताभिधानसिद्ध्यर्थमेवाऽकाङ्क्षा ।
यदि परमयं विशेषः, "द्वारमि"त्यादौ तस्यैव पदस्यान्विताभिधानायाऽकाङ्क्षा, "गामानय शुक्लामि"त्यादौ तु 1119पदान्तरस्येति ।
अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा ।
प्रतियोगिनि जिज्ञासा या साऽकाङ्क्षेति गीयते ॥
इति सङ्ग्रहश्लोकः ॥
सा चेयमाकाङ्क्षा 1120भवन्ती व्युत्पत्तावुपलक्षणमाश्रीयते ।
किमिति पुनस्सन्निधि-योग्यत्व एव 1121नाऽश्रीयते, निराकाङ्क्षाणामन्विताभिधानादर्शनात् ।
"अयमेति पुत्रो राज्ञः, पुरुषो ऽयमपनीयतामि"त्यादौ पुत्रपदसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते ।
कस्मात्पुनरनयोः पुत्र-पुरुष-योस्सन्निधि-योग्यत्वाविशेषे ऽपि पुत्रेणैव राज्ञस्सम्बन्धः, न पुरुषेण ।
उच्यते---वाक्यात् 1122वाक्यार्थप्रतिपत्तेर्न्यायसापेक्षत्वात्, नित्यसापेक्षेण पुत्रेणैव राजा सम्बध्यते, तत्सम्बन्धनिराकाङ्क्षश्च न पुरुषसम्बन्धमनुभवतीत्याकाङ्क्षापि व्युत्पत्त्युपलक्षणमाश्रीयते ।
परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः1123 ।
व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाप्युपलक्षणम् ॥
इति संग्रहश्लोकः ॥
सा चेयमाकाङ्क्षा प्रतियोगिषु सर्वेषु न सहसैवोपजायते, किन्तु कारणोपनिपातक्रमेण ।
तथाहि---विषयमन्तरेणापूर्वं कार्यं प्रत्येतुमेव न शक्यत इति, प्रतिपत्त्यनुबन्धभूतविषयापेक्षा प्रथमं विधेः ।
अथ प्रतिपन्ने विषयसम्बन्धिनि विध्यर्थे, नियोज्यमन्तरेण तत्सिद्ध्यसम्भवान्नियोज्याकाङ्क्षा ।
तथा विषयीभूते भावार्थे करणे लब्धे, वैकृतापूर्वाणां करणोपकाराकाङ्क्षा, लब्धे च तस्मिन्, तज्जनकपदार्थाकाङ्क्षेति ।
तथा चाऽहु ः---
"प्रतियोगिषु सर्वेषु नाऽकाङ्क्षोदेति तत्क्षणात् ।
कारणोपनिपातानुपूर्व्येण तु यथायथम्" ॥
इति ॥
तत्क्रमेणान्विताभिधानमपि क्रमेणैव ।
श्लोकश्चात्र भवति---
जिज्ञासा जायते बोद्धुस्सम्बन्धिषु यथा यथा ।
तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥
सन्निधिनिरूपणम् ।
अथ 1124सन्निधिः कः ? 1125यस्यार्ऽथस्य श्रवणानन्तरमाकाङ्क्षा-योग्यताभ्यामर्थान्तरे बुद्धि विपरिवृत्तिः ।
सा च न शब्दनिबन्धनैव केवलमन्विताभिधानव्युत्पत्तावुपलक्षणम् 1126 अध्याहृतेनापि लोके अन्विताभिधानदर्शनात् ।
न च वाच्यं---शब्द एवाध्याह्वियते, सचार्ऽथमुपस्थापयति---इति, अनुपयोगात्, अप्रमाणकत्वाच्च ।
यद्यप्यर्थापत्तिप्रमाणको ऽध्याहारः, तथापि शब्दकल्पनमनुपपन्नम् ।
येन हि विनानुपपत्तिः, तदेवार्ऽथापत्तिप्रमेयम् ।
न चार्ऽथानां शब्दमन्तरेणानुपपत्तिः ।
स्यान्मतम् ।
अर्थकल्पनायैवार्ऽथापत्तिः प्रवर्त्तमानां तस्यार्ऽथस्य सविकल्पकज्ञानवेद्यत्वात्, सविकल्पकज्ञानानाञ्च शब्दपुरस्सरत्वात् पुरोवर्तिति शब्द एव पर्यवस्यति---इति ।
तदसत् ।
यथैव शब्दपुरस्सरे ऽपि सविकल्पकज्ञाने लिङ्गस्य, इन्द्रियाणाञ्च निर्विकल्पकदशायामर्थ एवावधारितशक्तित्वान्न शब्दमात्रे पर्यवसानम्, तथा दृष्टार्थापत्तौ साक्षादुपपादकेर्ऽथ एवार्ऽथापत्तेः प्रामाण्याभ्युपगमात्, श्रुतार्थापत्तवपि तत्रैव तस्याः प्रामाण्यं युक्तम्, न शब्दे ।
तस्य साक्षादनुपपत्तिशमनासमर्थत्वात् ।
किञ्च सर्वत्र सविकल्पकज्ञाने शब्दस्स्मरणविपरिवर्ती न प्रमेयतां प्रतिपत्तुमर्हति ।
सविकल्पकल्पकज्ञानेषु पूर्वप्रतीयमानता च शब्दस्य नातीव प्रमाणवती, किन्त्वर्थप्रतीतावेव समानकालं शब्दस्मरणमिति प्रतीत्यारूढम् ।
तेन न श्रुतार्थापत्तिश्शब्दविषया ।
न च शब्दानुपपत्त्या शब्दकल्पनैवोचिता, तस्य स्वाते ऽनुपपत्त्यभावात् ।
अन्विताभिधानानुपपत्त्या तु कल्पना प्रसरन्ती योग्यप्रतियोग्यर्थविषयैवावतिष्ठते, तस्यैवाऽकाङ्क्षितत्वात्, 1127दशमाद्यन्यायेन पदार्थवत् पूर्वप्रतीतस्यापि शब्दस्योपेक्षणीयत्त्वात् ।
न च "द्वारमि"ति यत्राध्याहारः, तत्राप्याव्रियताम्, संव्रियतामिति वा कल्पयितुमर्थापत्तेः प्रभविष्णुता, सामान्यकल्पनामात्रहेतुत्वात् ।
तस्मादपरिपूर्णपरिपूरकतया लोकत एवाध्याहारस्याप्युपपत्तिः1128 ।
तत्र यौग्यतया, प्रकरणादिवशेन च विशेषावधारणादर्थ एव च परिपूरक इति, अनुपयोगी शब्दस्याध्याहारः ।
अतो विश्वजिदादौ नियोज्येन, सर्वत्र च करणोपकारेण, विकृतिषु च प्राकृतपदार्थैरशब्दोपस्थापितैरपि सिद्धमन्विताभिधानम् ।
आकाङ्क्षावच्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः, तदनुसारेण चान्विताभिधानमपितथैव---इति ।
सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम् ।
अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥
सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम् ।
सन्निधापकसामग्रीक्रमेण क्रमवानसौ ॥
यथा यथा सन्निधानं जायते प्रतियोगिनाम् ।
तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥
इति सङ्ग्रहश्लोकाः ।
अतो यथोक्ताकाङ्क्षा---सन्निधिप्राप्तमाकाङ्क्षितं सन्निहितं योग्यञ्च यत् पदार्थान्तरम्, तेन सङ्गतमित्यर्थः ।
योग्यतानिरूपणम् ।
किं पुररिदं योग्यत्वं नाम ? उच्यते--यत् 1129सम्बन्धार्हम् ।
सम्बन्धार्हमिदमिति कथमवगम्यते, सम्बन्धित्वेन दृष्टत्वात् ।
नन्वेवं तर्हि कथमपूर्वे कार्ये ऽन्विताभिधानं वेदे, तेन सह कस्य चित् सम्बन्धस्यादर्शनात् ।
उच्यते---सामान्यतो योग्यतावधारणं विशैषप्रतित्तावुपाय इत्यदोषः ।
यदपि तदपूर्वम्, तदपि कार्यमेवेति दृष्टचरकार्यसम्बन्धं यत्, तद्योग्यमित्यवसीयते ।
सामान्येनैव योग्यत्वं लोके यदवधारितम् ।
तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥
इति सङ्ग्रहश्लोकः ।
योग्यताविषये मतान्तरोपन्यास---निरासौ ।
अन्ये तु---यदयोग्यतया नावधारितम्, तद् योग्यम् ।
तेनालौकिकेनापि विध्यर्थेनान्विताभिधानं सिद्ध्यतीत्याहुः ।
तदिदमसारम् ।
यथाप्रमाणान्तरावेद्ये वस्तनि कस्यचिद् योग्यतावधारयितुं न शक्यते, तथैवायोग्यतापीति, सर्वस्याप्रतीतेनापि सर्वप्रकारेण तस्मिन्नन्वयस्स्यात् ।
भावार्थस्यैव विषयत्वेनान्वयः, अनुपादेयविशेषणविशिष्टस्यैव स्वर्गकामादेः नियोज्यतयान्वय इति नियमो नोपपद्यत इत्यलमतिप्रसङ्गेन
नन्वन्विताभिधानपक्षे व्युत्पत्तावुपलक्षणाश्रयणमेव गौरवमित्यत्राऽह---
पदार्थेष्वपि चैवैषा सामग्र्यन्वयबोधने
यस्यापि मते पदार्था एवान्योन्यान्वयमवगमयन्ति, तेनापि प्रतिनियतान्वयबोधसिद्ध्यर्थमिदमाश्रयणीयमेव--आकाङ्क्षा--सन्निधि--योग्यतावन्त एव पदार्था 1133वाकयार्थ बोधयन्ति, नान्य इति, एतदेव कथमिति पर्यनुयुक्तेन वृद्धव्यवहारे तथादर्शनादिति परिहारो वाच्यः ।
तस्मादुभयपक्षसाधारणत्वान्नेदं दूषणम्
नन्वेवमपि केन विशेषेणाभिहितान्वयं परित्यज्य, अन्विताभिधानमाश्रितमिति ।
1134अत्राऽह---
किन्तु तेषामदृष्टैषा शक्तिर्मानान्तराद्गतौ ।
कल्प्या विशिष्टार्थपरपदसंस्पर्शभाविता
पदार्थानां हि शब्दादन्यतः प्रमाणात् प्रतीयमानानामन्योन्यान्वयबोधकत्वं न प्रतीतमिति, शब्दाभिधेयानां तदवगमशक्तिः कल्पयितव्या ।
तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम् ।
शब्दो हि विशिष्टार्थप्रतिपत्तिपरतया लोकव्यवहारेषु प्रयुज्यमानो दृष्टः ।
न चो ऽसौ साक्षाद्वाक्यार्थप्रतिपादने समर्थ इति, पदार्थानवान्तरव्यापारीकरोति ।
ते च यद्यन्योन्यान्यान्वयबोधने समर्थास्स्युः, तदा तेषामवान्तरव्यापारता स्यान्नान्यथेति, विशिष्टार्थावबोधपरशब्दसंस्पर्शादेव तेषामेषा शक्तिराविर्भवतीति, शब्दस्यापि पदार्थगतान्वयबोधकत्व1135 शक्त्याधानशक्तिराश्रयणीया ।
स्यादेवम्---यदि मानान्तरावसेयानां पदार्थानामन्योन्यान्वयावगमे सामर्थ्यं न स्यात् ।
अस्ति तु तत् श्वैत्यस्यानवधारिताश्रयविशेषस्य प्रत्यक्षदृष्टस्य,अश्वस्याप्रतिपन्नगुणविशेषस्य प्रत्यक्षह्वेषाशब्दानुमितस्य पदनिक्षेपशब्दानुमितस्य, अज्ञातकर्तृभेदस्य धावनस्य, "श्वेतो ऽश्वो धावती"त्यन्वयबोधकत्वदर्शनात् ।
1136तदाहुर्वार्त्तिककारमिश्राः---
"पश्यतश्श्वेतमारूपं ह्वेषाशब्दञ्च शृण्वतः ।
खुरनिक्षेपशब्दञ्च श्वेतो ऽश्वो धावतीति धीः ॥
दृष्टावाक्यविनिर्मुक्ता" इति ।
[श्लो. वा. वा. अधि. श्लो. 358] आरूपम्---अव्यक्तरूपमित्यर्थः ।
तेन गुणविशेषो न प्रत्यक्षमवसीयत इत्यर्थः ।
अत्रोच्यते---किं येनैव पुरुषेण श्वैत्यसमानाश्रयौ ह्वेषाध्वनि-पदनिक्षेपशब्दाववगतौ, तस्यैवेयं "श्वेतो ऽश्वो धावती"ति धीः ? उत यस्यऽपादानानध्यवसायः, तस्यापि---इति ? किमतः ।
यदि तावदप्रत्याकलितह्वेषाध्वतिन-पदविहारनिर्धोषापादानस्येत्युच्यते, तदाप्रतीतिविरोधः ।
स ह्येवं प्रतिपद्यते---भवितव्यमस्मिन् देशे नूनमश्वेन, भवितव्यञ्च केनचिद्धावतेति ।
अथाश्वसंबन्धिनमेव सुरपुटटङ्काररवमभ्यासपाटववशादवैति, तदासावश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोतीति, न पुनः केवलामेवावगम्य, तस्यान्वयं पदार्थसामर्थ्येनावबुद्ध्यते ।
यो ऽपि तस्मिन् देशे नास्त्यन्यो ऽश्वादिति निश्चित्य, पारिशेष्यादपादानाध्यवसाये ऽपि ह्वेषाध्वनेश्श्वैत्यसमानाधिकरणमश्वत्वमप्यध्यवस्यति, ।
तस्यापि गृहाभावदर्शनमिव बहिर्भावावगतावर्थापत्तिः---"यो ऽयं श्वेतः, स एषो ऽश्वः" इत्यत्र प्रमाणम् ।
यस्तु श्वैत्यसमानाधिकरणौ ह्वेषाध्वनि-खुरपुटटङ्कारावध्यवस्यति,तस्याप्यश्वत्वे वेगवति च गमने श्वेतवर्तिन्येवानुमानम्, न स्वतन्त्रयोः ।
अतः प्रमाणान्तरेणासम्बद्धावभातानां पदार्थानां न क्वचिदन्योन्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण प्रतीतम् ।
अपि च यदि पदार्थावगतिमात्रादेव परस्परान्वयावगमः, तदा कस्मिन् प्रमाणे तस्यान्तर्भाव इति वाच्यम् ? न तावच्छाब्दे, शब्दाभावात् ।
पदाथाभिधानावान्तरव्यापारेण हि 1138यच्छब्दादन्वयज्ञानम्, तच्छाब्दमित्येष वो राद्धान्तः ।
1139तस्मान्नास्य शाब्दे ऽन्तर्भावः ।
प्रमाणान्तराभ्युपगमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थविषये ऽपि तस्यैव प्रामाण्यप्रसङ्गात् ।
तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थबोधनसामर्थ्यं कल्पयितव्यम् ।
तदाधानशक्तिश्च शब्दानामपीति कल्पनालाघवाच्छब्दानामेवान्वितस्वार्थावबोधनशक्तिमात्रं कल्पयितुं न्याय्यम् ।
तेन पारम्पर्येण पदानामन्वितेषु सामर्थ्यमिति निरस्तम् ।
1140नन्वनन्तप्रतियोग्यन्वितस्वार्थबोधनविषया अनन्ता एव शब्दस्य शक्तयः कल्पयितव्यास्स्युः ।
अभिहितान्वयवादे त्वेकस्मिन्नर्थे एकस्य शब्दस्यैकैव शक्तिरिति ।
1141तन्न---एकयैवाऽकाङ्क्षित-सन्निहित-1142योग्यार्थान्वितस्वार्थाभिधानशक्त्या प्रतियोगिभेदेन कार्यभेदोपपत्तेश्चक्षुरादीनामिव ।
चक्षुर्यथैवैकया दर्शनशक्त्या घटादिप्रतियोगिसहायभेदाज्ज्ञानानि भिन्नानि जनयति, तथा शब्दो ऽपि प्रतियोगिभेदादिति मन्तव्यम् ।
किञ्च पदार्थेष्वपि तुल्यमेतदिति न किञ्चिदेतत् ।
अन्ये त्वाहुः---आकाङ्क्षा-सन्निधि-योग्यतावन्तः पदार्था वाकयार्थीभवन्ति, न पुनर्वाक्यार्थमेव बोधयन्तीति ।
तदिदमतिमन्दम्---वाक्यार्थावगतेः कारणाभावप्रसङ्गात् ।
अनुपायत्वे पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणम्, अकारणिकैवा ।
द्यपद्येत ।
स्यान्मतम् ।
क्रियापदेन, कारकपदेन वा साकाङ्क्षेर्ऽथे ऽभिहिते, यदेव पदान्तरेण योग्यप्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदवे तस्य सम्बन्धित्वेनावतिष्ठते--इति ।
सत्यमेवम् ।
अवगतिस्तु तत्सम्बन्धस्य किन्निबन्धनेति वाच्यम् ।
अथ पूर्वपदार्थे साकाङ्क्षे अभिहिते, यत् पदान्तरमुच्चरितम्, तत् तत्सम्बन्धितयैव स्वार्थमुपनयति प्रत्ययवत् ।
यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्चार्यमाणस्स्वर्थं तद्विशिष्टमेवाभिधत्ते, तथा पदान्तरमपि ।
तदुक्तं, "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" [म. भा.] इति ।
प्रकृति स्वार्थं प्रत्ययार्थविशैषणत्वेनोपनयतीति, प्रत्ययेन तदर्थमाहेत्यर्थः ।
तथा चोक्तम्---
"नित्यं विशिष्ट एवार्ऽथे प्रत्ययो यत्प्रयुज्यते ।
तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात्" ॥
इति ।
अङ्गीकृतं तर्हि द्वितीयस्य पदस्यान्विताभिधानम्, प्रथमस्य तथापि नास्तीति चेन्न ।
वाक्ये पादानां प्रयोगक्रमनियमाभावात् ।
यदेव कदाचित् प्रथमम्, तदेव कदाचित् द्वितीयमिति, सर्वपदानामेवान्विताभिधानमापतितम् ।
अभिहितान्वयवादी च प्रकृति-प्रत्यययोरप्यन्वय-व्यतिरेकावधारितव्यतिरिक्तशक्तिकयोरभिहितान्वयमेव पदवदिच्छति ।
तथा च---
"प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति यत् ।
भेदेनैवाभिधाने ऽपि प्राधान्येन तथोच्यते" ॥
"पाकं तु पचिरेवाऽह कर्तारं प्रत्ययो ऽप्यकः ।
पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचिद्"
इत्याह ।
किञ्च प्रतययश्चेदन्विताभिधायी, तदा तदविशेषात् पदानामप्यन्विताभिधायिता किमिति नाभ्युपेयते, किमर्धवैशसेन ।
यदि प्रकृति-प्रत्यययोरप्यन्विताभिधानमस्ति, न तर्हि द्वारमित्यत्रान्विताभिधानानुपपत्तिनिबन्धयाऽकाङ्क्षया विव्रियतां, संव्रितयां वेत्यध्याहारः ।
उच्यते ।
द्वारमिति प्रथमेयं प्रातिपदिकार्थाव्यतिरिक्तार्थाभिधायिनी ।
तेनात्र केन सहान्वितस्याभिधानम् ।
व्यतिरिक्तार्थे प्रत्यये प्रविशेत्यादौ यो ऽध्याहारः, सो ऽभिहितार्थानुपपत्त्यैव विश्वजिदादिवदिति न दोषः ।
वाक्यार्थविषये भट्टपादमतम् ।
1144वार्तिककारमिश्रास्तु-लाक्षणिकान् सर्ववाक्यार्थानिच्छन्तः पदार्थानामन्वयावबोधशक्तिकल्पनां निराकुर्वन्ति ।
अनन्वितावस्थो हि पदार्थो ऽभिहितो ऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति ।
अवस्था-वस्थावतोर्हि सम्बन्धात्, अवस्थावत्यभिहिते, भवत्येवावस्थापि बुद्धिस्था ॥
सर्वत्र च सम्बन्धिनि दृष्टे, सम्बन्ध्यन्तरे बुद्धिर्भवतीति कॢप्तमेव ।
तेन नास्ति पदानामन्वितबोधने शक्तिकल्पनेति ।
तदाहुः---
"वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नस्स्थितिः ।
" अत्रापरे ब्रुवते---नेयं लक्षणा, स्वार्थापरित्यागात् ।
स्वार्थपरित्यागेन हि गङ्गादिषु लक्षणा दृष्टा-इति ।
ते तु मीमांसातन्त्रान्तःपातवैकल्येनैवमाहुः ।
लक्षणीयवशेन हि क्वचित् स्वार्थस्य त्यागः, संग्रहो वा ।
"सृष्टीरूपदधाती"ति 1145लक्षणायास्स्वीकारः, 1146गुणिनां तद्गणपठितानां सृष्टिशब्दरहितानामपि लक्ष्यमाणत्वात्, तदन्तर्गतत्वाच्च सृष्ट्यर्थस्रू ।
तथा "पौर्णमासीं यजते" इत्येकवचनानुपपत्त्या पौर्णमासीशब्दो यागवचनो यागसमुदायलक्षणार्थः1147 ।
न च समुदायपरिग्रहे समुदायित्यागः, तदाश्रयत्वात्तस्रू ।
तथैतरेतरयोगद्वन्द्वे द्विवचन-बहुवचनानुपपत्तेरर्थान्तरसहितावस्था लक्षणयाऽश्रीयते, न चावस्थावत्परित्यागः ।
तथा निषादस्थपत्यधिकरण [मी. द. 6. 1-10] पूर्वपक्षे षष्ठ्यर्थलक्षणा स्यादित्युच्यते, न तत्र प्रकृत्यर्थस्य त्यागो ऽप्यापद्यते ।
तथा 1148रथघोषेणेत्यत्र रथस्यापरित्यागः ।
तथा "मेधपतये 1149मेधमि"त्येकवचनान्तस्य मन्त्रस्य लक्षणया प्रकृतौ निवेशः ।
न च गुणिनोरग्नीषोमयोस्तत्र हानमिति, 1150स्वार्थापरित्यागे ऽपि युक्तैव लक्षणा ।
गुरुमतेन लक्षणानिरूपणम् ।
अत्रोच्यते ।
कथं पुनरियं लक्षणा ? ।
वाच्यस्यार्ऽथस्य वाक्यार्थे सम्बन्धानुपपत्तितः ।
तत्सम्बन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते
इति सङ्ग्रहश्लोकः1152 ।
"गङ्गायां घाषः," इत्यादिषु श्रौतस्य गङ्गापदार्थस्य वाक्यार्थे ऽन्वयासम्भवात्, तं परित्यज्य तत्सम्बन्धाल्लब्धबुद्धिसन्निधेः कूलाद्यर्थस्य वाक्यार्थान्वयिताध्यवसीयते ।
अत एवाऽहुः---
"अनुपपत्त्या, सम्बन्धेन च लक्षणा भवती"ति ।
इह च "गामानये"त्यादौ न श्रौतस्यार्ऽथस्यान्वयायोग्यत्वं, नाप्यन्वितावस्थस्याऽनयनसम्बन्धार्हता1153 ।
अन्वितार्थस्यान्वयान्तरासम्भवात् ।
अथ मा भूदेषा लक्षणा, किनतु क्रियावगत कारकान्वयिनीमात्मनो दशामवगमयति, अविनाभावादिति ।
उच्यते---शाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य, किन्तु सामान्यतोदृषानुमानगोचरताभ्युपगता भवति ।
तथा विशिष्टान्वयावगतिरनुपपद्यमाना 1154निर्मूलाऽपद्यते ।
अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोच्चारणमिति तदाश्रयणम्, एवमपि प्रेक्षापूर्वकारिणां1165 सार्थकवाक्यमात्रप्रयोगिणां वचनाद्विशेषान्वयावगमः ।
वेदे त्वानर्थक्येन न भवितव्यमिति, प्रमाणाभावान्न शक्यते विशेषान्वयो ऽवगन्तुम् ।
न च लोके ऽप्यानर्थक्यमापद्यत इत्येतावता कारणेनोपायाद्विनापि विशेषान्वयाध्यवसानं युक्तम् ।
न हि दग्धुकामस्योदकोपादानमनर्थकमिति, जलस्य दाहशक्तिराविर्भवति ।
काममानर्थक्यम् ।
न पुनस्सामान्यतोदृष्टस्य 1156विशेषान्वयावसायिता ।
अथाऽकाङ्क्षित-सन्निहित-योग्यान्यवपरता वृद्धव्यवहारे पदानामवगतेति, व्युत्पत्त्यनुसारेण विशेषान्वयावगमः ।
तन्न तत्र वृद्धव्यवहार एव तत्परता पदानाम्, पदार्थानां वा उपायाभावेन कथं नाम निर्वहति ?मे चिन्ता सा हि पदानाम्, पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे
सा च पदानामेवोचितेत्याह---
1157प्राथम्यादभिधातृत्वात् तात्पर्यावगमादपि1158 ।
पदानामेव सा शक्तिर्वरमभ्युपगम्यताम्
प्रथमभावीनि पदान्यतिलङ्घ्य, नार्ऽथेषु वाक्यार्थबोधनशक्तिराश्रयितुं युक्ता ।
किञ्च पदानि तावदभिधायकानीति निर्विवादम् ।
तेन तेषामभिधानशक्तिस्सम्प्रतिपन्नैवेति, तस्या एवान्वयपर्यन्ततया कल्पयितुं सुकरा ।
पदार्थानान्तु बोधनशक्तिरेव कल्प्या ।
तेन "धर्मिकल्पनातो वरं धर्मकल्पना 1159लघीयसी"त्यन्विताभिधानशक्तिः पदानामेव कल्पयितुमुचिता ।
किञ्च पदान्यभिधायकानीष्यन्ते, तत्र यदि स्वरूपमात्रविषयामेव पदार्थबुद्धिमादध्युः, तदाप्यभिधायकता हीयेत, तस्या बुद्धेस्सम्बन्धग्रहणसमयजातपदार्थबोधकसंस्कारोन्मेषप्रभवत्वात् ।
अवश्यं हि सम्बन्धस्मरणसिद्ध्यर्थं सम्बन्धिभूतार्थस्मरणसंस्कारोद्बोधो ऽङ्गीकरणीयः ।
तस्मात् सम्बन्धग्रहणसमयानधिगतान्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति, तामङ्गीकुर्वता पदानामन्विताभिधायकताऽश्रयणीया ।
यस्तु---
"पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते" ॥
[श्लो. वा. अधि. 6. 107.] इति ।
तथा---
"भावनावचनस्तावत् तां स्मारयति लोकवत्" ॥
[श्लो. वा. अधि. 7. श्लो. 248] इति चाऽचार्यवचनदर्शनात् स्मारकतामेव पदानामभिधायकत्वमाह, तं प्रत्याह---
"तात्पर्योपगमादपी"ति ।
येनापि वादिना पदानां स्मारकत्वमेव पदार्थेष्वङ्गीकृतम्1160, सो ऽपि वाक्याथप्रतिपत्तिपरतां पदानामभ्युपैत्येव, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गः ।
एवञ्चेत् पदानामेव साक्षाद्वाक्यार्थबोधनशक्तिरस्तु, किं परमपराश्रयणेन1161 ।
तेन पदार्थेषु पदानां स्मारकत्वातिरिक्तं ये ऽभिधायकत्वमाहुः, तेषां शक्तित्रयकल्पना ।
एका तावत्पदानामभिधायकत्वशक्तिः, अपरा च पदार्थगतान्वयबोधनशक्त्याधानशक्तिः, पदार्थानाञ्चान्वयज्ञापनशक्तिरिति ।
स्मारकत्ववादिनस्त्वभिधानशक्तिं हित्वा शक्तिद्वयकल्पनालाघवात्, उक्तेनैव न्यायेन पदानामेव शक्तिकल्पनाया 1162उचितत्वात्, अन्विताभिधायीनि पदानीति स्थापितम्
सम्प्रति पूर्वोक्तमितरेतराश्रयदोषं परिहर्तुम्, यथा पदेभ्यो वाक्यार्थप्रतिपत्तिः, तथा दर्शयति---
1163पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ।
1164न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम्
यस्तावदगृहीतसम्बन्धः, यस्य च सम्बन्धग्रहणसंस्कारो नोत्पन्नः, प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक्रियते ।
यस्त्वनपभ्रष्टसम्बन्धग्रहणसंस्कारः, स पदं श्रुत्वा नूनं तावदिदं स्मरति---इदमस्याकाङ्क्षित-सन्निहित-योग्य-प्रतियोग्यन्वितस्य वाचकमिति ।
एवञ्च स्मरता स्मृतमेव अनन्वितमपि1165 स्वरूपमनवयभाजाम् ।
न चैकपदश्रवणे वाक्यार्थावगतिरितिकश्चिन्मन्यते ।
अभिहितान्वयवादिनो ऽपि यावत् पदान्तरमर्थान्तरं नोपस्थापयति, तावदन्वयावगमो नास्ति ।
पदार्थस्यान्वयावबोधिनः पदार्थान्तरापेक्षत्वात्, प्रतियोगिसापेक्षत्वादन्वयस्य ।
अतस्तन्मते ऽपि सर्वदैरनन्वितस्वार्था 116अभिधानीयाः ।
पश्चात्तेभ्यस्सर्वेभ्यस्स्मृत्यारूढेभ्यो वाक्यार्थप्रतिपत्तिरङ्गीकरणीया ।
तदाहुर्वार्तिककारमिश्राः---
"ते ऽपि1165 नेवास्मृता यस्मादृ वाक्यार्थं गमयन्ति नः ।
तस्मात् तत्स्मरणेष्वेव 1167संहतेषु प्रमाणता" ॥
[ बृहट्टीका ] इति ।
अत एव तत्रभवत आचार्यस्य वाक्यलक्षणं "संहत्यार्ऽथमभिदधति पदानि वाक्यमि" [शा. भा. बला. अ. प. 824.] ति ।
नन्वन्विताभिधानवादिनां कथं वाक्यार्थपतिपत्तिः ।
श्रूयमाणेन हि पदेन योर्ऽथो नावबोधितः, स कथमन्तर्हिते तस्मिन्नवभासेत ।
उच्यते---अभिहितान्वयवादिनो ऽपि नायं नियमः---श्रूयमाण एव पूर्वपूर्ववर्णजनितसंस्कारसहितो ऽन्त्यो वर्णः पदार्थप्रतिपादक इति, बाल्यदशाधीतात् प्रागनवधृतार्थादङ्गपरिज्ञानसंस्कारात् पश्चात् स्मृतादपि वेदादर्थावगमदर्शनात् ।
तेन स्मृत्यारूढस्यावगमकत्वमदोषः ।
श्रूयमाणेन हि पदेन प्रतियोगिसापेक्षत्वादन्विताभिधानस्य प्राक् सहकारिविरहादर्थो नाभिहितः, पश्चादभिधीयत इति किमनुपपन्नम् ।
ये ऽपि वादिन एवमाहुः---एकमेव पदमन्विताभिधायकमस्तु, इतराणि च पदानि प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ताम् ।
न चागृह्यमाणविशेषता, प्राथम्येन, प्रधानपदत्वेन वा विशेषग्रहणात् ।
अत एव चाऽहुः---
"पदमाद्यं1168 वा वाक्यम्, प्रधानं पदं वा वाक्यमि" [वा. प. का. 2. श्लो. 2.] ति ।
तान्प्रत्याह-- "सर्वमि"ति ।
प्रथमस्यैव स्याद्वाक्यता यदि, सर्वपदार्थानां प्रथमपदार्थान्वितता स्यात् ।
न चायं नियमः ।
"अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै.सं. 6.1.9टति क्रयमात्रान्वयितवादारुण्यस्य ।
किञ्च1169 वाक्ये पदानामानुपूर्व्यनियमाभावात्, कदाचित्तदेव प्रथमं सदन्विताभिधायकम्, अन्यदा नेति न युक्तम् ।
तथा प्रधानपदस्यापि वाक्यत्वमयुक्तम्, सोमपदार्थेन1170 सह सर्वेषामनन्वयात् ।
यद्यप्यारुण्यादीनां सर्वेषां सोमं प्रत्यैदमर्थ्यमस्ति ।
तथाप्यस्मिन् वाक्ये क्रय एवाऽरुण्यादीनामैदमर्थ्येन, क्रिया-कारकभावेन चान्वयः ।
क्रयद्वादेण तु सोमं प्रत्यैदमर्थ्यमात्रम् ।
अथ यत्प्रतिपादनपरं वाक्यम्, तत् प्रधानमित्युच्यते ।
इह तु क्रय एव सर्वकर्मकरणावच्छिन्नः प्रतिपाद्यते ।
तेन क्रीणातीत्येतदेव1171 प्रधानं पदम्, तदन्वयिता च सर्वेषामारुण्यादीनामिति ।
अत्रोच्यते---वाक्यस्य यत् तावत् तात्पर्यं, 1172तन्न व्यवस्थितम् ।
क्वचिदाख्यातपरत्वमेव---"अग्निहोत्रं जुहोती"ति ।
क्वचिद् गुणविधिपरत्वं, दध्ना जुहोती"ति ।
तेन प्रधानपदत्वस्यापि सर्वेषां पदानां सम्भवात्, सर्वेषामेव पदानामन्विताभिधानशक्तिराश्रयणीया ।
तथा सति यत्रापि क्लॄप्तशक्तिकतया तदन्विताभिधायकत्वमविरुद्धम् ।
पदार्थेष्वपि चैतत् तुल्यमेव ।
नन्वेवं "गामानये"त्यादौ परस्परपर्यायता सर्वशब्दानां स्यात् ।
यथा "गामि"त्यनेनाऽनयत्यन्विताभिधानम्, तथा "ऽऽनये"त्यनेनापि गवान्विताभिधानमिति ।
उच्यते---द्वावेतावर्थौ, यदानयनान्वितं गोत्वम्, गवान्वितञ्चाऽनयनमिति ।
तेनैकैकेनैकैकस्यार्थस्याभिधानात् कुतः पर्यायत्वप्रसङ्गः ।
पदार्थेष्वपि चैतत्समानम् ।
ननु क्रीणात्यर्थस्याऽरुण्याद्यनेकार्थान्विताभिधानादावृत्तिलक्षणो वाक्यभेदस्स्यात् ।
न ।
तन्त्रोच्चारणात् ।
वैरूप्ये च तन्त्रतानुपपत्तेर्वाक्यभेदस्स्यात् ।
"न्यायसम्पादितव्यक्ती"ति किमिदम्, यावन्न्यायेन वचनव्यक्तिर्नसम्पाद्यते, तावत् पदजातं वाक्यार्थस्यावबोधके न भवति ।
लोकव्य1173वहारवर्तिभिर्न्यायैर्यावत्---इदं विधेयम्, इदमनुवाद्यम् ।
इदं प्रधानम्, इदं गुणभूतम् ।
इदं विवक्षितम्, इदविवक्षितमित्यादि न सम्प्रधार्यते, तावन्न क्वचिद्वेदवाक्यार्थो ऽवबुद्ध्यते ।
तदुक्तं वार्तिककारमिश्रैः---
"तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत् ।
यावन्न वचनव्यक्तिस्तस्य स्पष्टावधार्यते ॥
ज्ञात्वा तु वचनव्यक्तिं मीमांसान्यायकातराः ।
प्रतीयन्ते समस्ताश्च वेदवाक्यार्थसंशयाः" ॥
इति ।
अत एव मीमांसाया वेदवाकयार्थप्रतिपत्तावितिकर्त्तव्यतात्वम् ।
तदुक्तं तैरेव---
"धर्मे प्रमीयमाणे हि वेदिन करणात्मना ।
इतिकर्तव्यताभागं 1174मीमांसा पूरयिष्यति" ॥
[बृहट्टीका ] इति ।
ननु लोके द्रागेव वाक्यार्थावगतिर्नेयतीं सामग्रीमपेक्षते ।
उच्यते---अत्यन्ताभ्यस्तेषु वाक्येषु स्यादेवम्, अदृष्टार्थेषु स्मृत्यादिवाक्येषु, लोके ऽपि नानाविधविवादोत्थानात् कुतो द्रागेवार्ऽथनिश्चयः ।
अपि च कारणाभावेनापि लोकस्यायंविवेको नास्ति ।
तदुक्तम्---
"बहुजाति-गुण-द्रव्य-कर्मभेदावलम्बिनः ।
प्रत्ययान् सहसा जातान् श्रौत-लाक्षणिकात्मकान् ॥
न लोकः कारणाभावान्निर्धारयितुमर्हति ।
बला-बलादिसिद्ध्यर्थं वाक्यज्ञास्तु 1175विचिन्वते" ॥
[ तं. वा. पृ-] इति ।
यच्चेदं सर्वपदानामन्विताभिधायित्वमुच्यते, तत् सर्वेषु श्रौतार्थेषु पदेषु ।
लाक्षणिक-गौणार्थपदप्रयोगे तु यदेव तत्र श्रौतार्थ पदम् तदेवान्विताभिधायकम्, इतरत्तु पदं प्रतियोगिसन्निधापनपरमेव ।
तत्र वाचकत्वशक्त्यनवधारणात् स्वार्थस्यापि तत्तदानीमवाचकम्, अन्वयायोग्यत्वात् ।
किन्तु तदर्थेन स्मृतेन यत् स्वसम्बन्धि, स्वसदृशं वा स्वयमन्वययोग्यमुपस्थाप्यते, तेनान्वितं श्रौतार्थमेव पदं स्वार्थमभिधत्त इति दर्शनरहस्यमिदम् ।
न च सर्वपदान्येव लाक्षणिकानि, गौणानि वा वाक्ये सम्भवन्तीति निरवद्यम् ।
क्वचिदभिधानं निमित्तम्, क्वचिदभिहितोर्ऽथ इति च यदुक्तम्, तच्छब्दोपस्थापिततां दर्शयितुं गौणमभिहितत्वग्रहणम्
कथं पुनरन्विताभिधायिनां पदेन स्वरूपमात्रं स्मारयितुं शक्यमित्याह---
अन्वितस्याभिधाने ऽपि स्वरूपं विद्यते सदा ।
तेन स्वरूपमात्रे ऽपि शब्दो जनयति स्मृतिम्
एवं तावत् सम्बन्धग्रहणान्तर्गतं स्वरूपस्मरणमुक्तम् ।
सम्प्रति स्वरूपमात्रस्मरणमपि पदादेव नानुपपन्नमित्याह---
यथार्ऽथेनाप्रमाणेन स्वपदं स्मार्यते क्वचित् ।
पदेनाप्यप्रमाणेन तथार्ऽथस्स्मारयिष्यते
न हि यत्प्रमाणं, तदेव स्मरणकारणम्, अप्रमाणमेव हि तत् ।
यस्य तु येन सह कदाचित्प्रत्यासत्तिः प्रतीतपूर्वा, स तत्र संस्कारोद्बोधद्धारेण शक्नोत्येव स्मृतिं जनयितुम् ।
अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन प्रत्यासत्तिरिति, शाक्नोति तत्रापि शब्दस्स्मृतिं जनयितुम्, अर्थवत् ।
यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रमनभिधेमपि शब्दं स्मारयति, तथा शब्दो ऽप्यर्थमिति, किमनुपपन्नम् ।
एतेन---पदोच्चारणानन्तरं पदार्थस्वरूपप्रतीतिस्समर्थिता ।
अभिहितान्वयवादिनो ऽपि सा न प्रमाणम्, अभ्यधिकार्थपरिच्छेदाभावात् ।
"अनधिगतार्थगन्तृ प्रमाणमि"ति सिद्धान्ताभ्युपगमात् ।
तदुक्तम्---
"सर्वस्यानुपलब्धेर्ऽथे प्रामाण्यं स्मृतिरन्यथा" [श्लो. वा. औ. सू श्लो. 11.] इति ।
अत एव स्मृतिरियम्, यदि पुनस्स्मृतिरेषा नाभ्युपेयेत, तदा प्रमाण-स्मृति-संशय-विपर्ययेभ्यः प्रतिपत्त्यन्तरानभ्युपगमात् पदात् पदार्थप्रतीतिः क्वान्तर्भाव्यतामिति वाच्यम् ।
अत एवाभिहितान्वयवादे ऽपि स्मारकत्वमेवास्मभ्यं रोचते
इतरेतराश्रयमिदानीं परिहरति---
स्मृतिसन्निहितैरवमर्थैरन्वितमात्मनः1176 ।
अर्थमाह पदं सर्वमिति 1177नान्योन्यसंश्रयः
स्वार्थस्वरूपमात्रस्मरणे हि न पदं पदान्तरमपेक्षते ।
स्मृतिसन्निहितमपीदं भवत्येव सन्निहितम् ।
नास्ति तेनेतरेतराश्रयत्वम् ।
ननु वृद्धव्यवहारेण व्युत्पत्तिः, अन्वितार्थप्रतिपत्तिनिबन्धनश्च व्यवहारः, अतस्तद्दर्शनात् अन्वितप्रतिपत्तिरेवानुमातुं शक्या, न त्वनन्वितपदार्थमात्रस्मरणम् ।
उच्यते---व्यवहारानुमितान्वितप्रतिपत्त्यन्यथानुपपत्तिरेवानन्वितस्वार्थस्मरणसम्भवे प्रमाणम् ।
दर्शितं ह्येतत्---नानन्वितप्रतिपत्तिमन्तरेणान्वितप्रतिपत्तिरुपपद्यत इति ।
1178अत्र कश्चिदाह---यदि स्मृतिसन्निहितमाश्रित्यान्विताभिधानं परैः क्रियते, तदा स्मरणस्य प्रत्यासत्तिनिबन्धनत्वात्, अनेकेषाञ्चार्ऽथानां प्रत्यासत्तिसम्भवात्, तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वात्, "उरवायां पचती"ति नोखा पचतयर्थान्वितैव केवलाभिधीयेत ।
सा हि 1179कुलालाद्यन्वितापि प्रतिपन्नैवेति, स्मरणात् तदन्विताप्युरवाभिधीयेत ।
तथा पचत्यर्थो ऽपि पिष्टकादिकरणको ऽवगत1180 इति तत्स्मरणान्नौदनान्वित एवाभिधीयेत ।
अभिहितान्वयवादे तु नायं दोषः ।
एकैकस्यार्ऽथस्याभिधेयत्वादिति ।
1181अत्रोच्यते---पदात्तावत् पदार्थप्रतीतिस्स्मरणाद् भिन्ना वदितुं न शक्यते ।
तेन स्मृतानामेवान्वयबोधकत्वमित्याश्रयणीयम् ।
तथा च तुल्यो दोषः ।
अथ शब्दैस्स्मारितानामन्वयबोधकत्वं1182 वृद्धव्यवहारे तथादर्शनादित्यदोषः1183 ।
मतान्तरे ऽपि तुल्यमेतत् ।
न चायमेकान्तः, वृद्धव्यवहारे ऽध्याहृतेनाप्नयर्थेनाऽन्विताभिधानदर्शनादित्युक्तम् ।
अथ शब्दैर्बहवोर्ऽथास्स्मार्यन्ते, किन्तु तेषां कतमेनान्वयावबोधकत्वमिति न विद्मः1184 ।
अभिहितान्वयवादे त्वभिहितेनैवान्वयबोधकत्वं युक्तमेवेति ।
तदसत् ।
स्मारकत्वातिरेकिणी1185कान्याभिधायकता, या व्यवस्थानिबन्धनम् ।
अथोच्येत-स्मारकत्वं नाम प्रत्यासत्तिनिबन्धनम् ।
तेन तदतिरेकिण्यभिधेया---
भिधायकतालक्षणा प्रत्यासत्तिरङ्गीकरणीयेति ।
नैतदेवम् ।
स्मारकत्वेनैव वृद्धव्यवहारे दर्शनात् स्मारकत्वोपपत्तेः ।
1186प्रत्याय्य-प्रत्यायकता हि वाच्यवाचकता, सा च यद्यप्यग्नि---धूमादीनां सम्बन्धान्तरपूर्विका दृष्टा ।
तथापि शब्दे तथा नाऽश्रीयते, किन्तु वाचकत्वावगमादेव वाचकत्वम् ।
एवं स्मारकत्वावगमादेव स्मारकत्वमिति, किं प्रत्यासत्त्यन्तराश्रयणेन ।
अपि चान्वितार्थवादिन एवेदं प्रतिनियतान्वयित्वमुपपद्यते---यत्पदार्थान्तरान्विताभिधायकतया स्मार्यते, तदन्वितस्यैव वृद्धव्रूवह्वारे वाच्यत्वदर्शनात् ।
यत्राप्यध्याहारः, तत्रापि सन्निधापकवशेन विशेषान्विताभिधानलाभ इति लोकत एव ज्ञातमिति, न कश्चिद्दोषः ।
अपि च ज्ञातं तावदेतद् यदनेन पदेनायमर्थो ऽन्वितो वाच्य इति, तत्र यद्यन्येनाप्यन्विताभिधानं स्यात्, तदा वाक्यभेदो भवेत् ।
न चासावेकवाक्यत्वसम्भवे न्याय्यः ।
तदुक्तम्---
"सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते" [श्लो. वा. प्र. सू. श्लो. 9.] इति ।
अत एव यथाकथञ्चिदेकवाक्यत्वोपपत्तौ वाक्यभेदस्यान्याय्यत्वम् ।
लोके च लक्षणा, गौणी च वृत्तिर्वाक्यभेदभयादेव1187 ।
अन्यथा वाक्यं भित्वा किमित्यध्याहृत्य योग्यमर्थान्तरं सर्वपदान्येव मुख्यार्थानि नाऽश्रीयन्ते ।
वेदे ऽप्येकवाक्यत्वबलादेवार्1188ऽथवादेषु1189गुणवादाद्याश्रयणम्, 1190सम्मार्गाधिकरणे [मी. द. 2. 1. 4.] विभक्तिव्यत्ययवर्णनम् ।
औदुम्बराधिकरणपूर्वपक्षे च कथञ्चित् पशुफलकत्वाश्रयणम् ।
चित्राधिकरणे [मी. द. 1. 4. 2.] रूढिपरित्यागेन "पञ्चदशान्याज्यानि भवन्ती" [तां . व्रा. 20. 1. 1.] तिकथञ्चिन्नामधेयत्वाश्रयणम् ।
वाजपेयाधिकरणे [मी. द. 1. 4. 5.] च वाक्यभेदभयादेव नामधेयत्वाश्रयणम् ।
पौर्णमास्यधिकरणे [मी. द. 2. 2. 3.] चानेकगुणविधाने वाक्यभेदापत्तेस्स्मुदायानुवादकत्वसिद्धिः ।
प्रकरणान्तराधिकरणे [मी. द. 2. 3. 11.] च वाक्यभेददोषादेवाग्निहोत्रपदस्य गौणत्ववर्णनम् ।
ग्रहाधिकरणे [मी. द. 1. 3. 7.] चैकत्वस्याविवक्षितत्वम् ।
"अर्द्धमन्तर्वेदि मिनोति, अर्द्धं बहिर्वेदी" [मै. सं. 3. 9. 4.] त्यत्र [मी. द. 3. 7. 6.] देशलक्षणापरत्वम् ।
क्षौमाधिकरणै [मी. द. 6. 1. 5.] च पुन्द्वयविधानहानम् ।
हविरार्त्त्यधिकरणे [मी. द. 6. 4. 6.] चोभयपदस्याविवक्षा ।
"वारुण्या निष्कासेन तुषैश्चावभृथं यन्ती" [मी. द. 7. 3. 5.] त्यत्र निरपेक्षत्वत्यागः ।
पर्युदासाधिकरणे [मी. द. 10. 8. 7.] च नञर्थस्य लाक्षणिकत्वमित्याद बहुतरं दृश्यते ।
तत्र यदि समभिव्याह्वियमाणस्य पदस्याभिधेयं परित्यज्य, अन्येन सहान्वयो लक्ष्यते, 1191तदा तदेकवाक्यता हीयेत ।
1192तदर्थमेवेदमुक्तं, "न्यायसम्पादितव्यक्तीति" ।
एकवाक्यत्वं हि न्यायः1193 ।
तदनुसारेण योर्ऽथः, सो ऽत्र वाक्यस्याऽश्रयणीयः ।
वृद्धव्यवहारच्युत्पत्तिनियन्त्रितायां शब्दार्थावगतौ ये न्यायाः वृद्धव्यवहारे वाक्यार्थावगतिहेतुतया विदिताः, तानपरिजहता वाक्यार्था बोद्धव्या इति-सर्वासामेवानुपपत्तीनामनवकाशः ।
भवतु तर्हि पदार्थान्तरेण तावदन्विताभिधानमेकवाक्यत्वबलात् तत्स्मारितेन, स्वयं स्मारितेन च तदेकवाक्यत्वानुगुणेनार्ऽथान्तरेणापि किमित्यन्विताभिधानं न भवति ।
उच्यते---पदद्वयेनैवान्विताभिधानसिद्धेराकाङ्क्षोपशान्तेः ।
अथ नोपशान्ताऽकाङ्क्षा, तर्हि को नाम तत्रान्विताभिधानं वारयेत् ।
अत एवैकपदोच्चारणे तदर्थसम्बन्धमुखेन बहुष्वपि स्मृतिसन्निहितेषुयस्यार्ऽथस्य केनचित्प्रकारेण विशेषो गृह्यते, तेनैवान्विताभिधानम्, अगृह्यमाणे तु विशेषे ऽनध्यवसायादप्रतीतिरेव ।
अत एव विकृतिषु तत्सादृश्येन यदपूर्वं स्मर्यमाणं स्वोपकारकं स्मारयति, तदीयेनैवोपकारेण परिपूरण्म् ।
अतो यत्र बहुतरधर्मसाधरण्यनिबन्धनं सादृश्यमत्यन्तोद्मटम्1194, तत्रैव शीघ्रं स्मृत्युपपत्तेस्तदीयोपकारपरिग्रह एव ।
दर्विहोमेषु तु सर्वापूर्वाणामविशेषाद् विशेषो ग्रहीतुमशक्य इत्यनध्यवसाय एव प्राकृतस्योपकारस्यएति, तत्रैवोपकारकल्पना ।
1195अपि च यथावृद्धव्यवहारावगमं वाक्यार्थावबोधः ।
तत्र तदेव पदेन अनपभ्रष्टसम्बन्धग्रहणसंस्कारस्य पुरुषस्य नियमेन स्मार्यते, तेनैवान्विताभिधानं पदान्तरस्य दृश्यते, नान्येन ।
सर्वं पदं स्वार्थं हि नियमेन सम्बन्धग्रहणात्1196 स्मारयति, नार्ऽथान्तरम् ।
ततश्च 1197तेनैवान्वितस्वार्थबोधकतेति, न कश्चिद्दोषः ।
किञ्च यद्यभिहितेनैवान्वितस्वार्थबोधनाभ्युपगम एव प्रतिनियतान्वयबोधो घटते, नान्यथा, तर्हि कल्प्यतां पदानामन्विताभिधानशक्तिरपि ।
द्विरभिधानमापद्यत इति चेदापद्यताम्, न कश्चिद्दोषः ।
पूर्वं केवलं पदमनन्वितं स्वार्थमभिधत्ते, प्रतियोगिपदान्तराभिहितवस्त्वन्तरसहायप्राप्त्या तु तत्तदन्वितमर्थमाह, इति न कश्चिद्दोषः ।
इत्थमपि चास्मन्मते शक्तिकल्पनालाघवमस्ति, पदार्थगतान्वयबोधनशक्त्याधानशक्तिकल्पनात्यागात् ।
तुल्यायामपि शक्तिकल्पनायाम्, पदानामेवान्वितबोधनशक्तिराश्रयितुमुचिता,1198न पदार्थानाम्, प्रथमावगतत्वात्, वाक्यार्थे च 1199 तात्पर्यस्योपगमादिति
कथं तर्हीदं भाष्यम्---
"पदानि ही"त्यादि ।
तत्राऽह---
अन्वितेषु पदैरेवं बोध्यमानेषु शक्तिभिः ।
अन्वयार्थगृहीतत्वान्नान्यां शक्तिमपेक्षते
1200॥
आशङ्कितोत्तरमिदं भाष्यम् ।
किमाशङ्कितम् ? यद्यन्विताभिधायीनि पदानि, तर्हि नान्वयाभिधायीनि ।
तत्सिद्ध्यर्थं पदानां शक्त्यन्तरं कल्प्यमिति ।
अत्रेदमुत्तरम् ।
यत्पदमन्विताभिधायकम्, तदन्वयाभिधायकमेव ।
1201अन्यथान्वित एवासौ नाभिहितस्स्यादिति, अन्वितरूपेणार्ऽथेनान्वयस्स्वीकृतः ।
तं विना तदसम्भवादिति, नापरा तद्विषया पदानां शक्तिः कल्पनीया
कथं पुनरसावर्थगृहीत 1202इत्यत्राऽह---
प्रतीयन्नन्वयं यस्मात् प्रतीयादन्वितं पुमान् ।
व्यक्तिं 1203जातिमिवार्ऽथे ऽसाविति सम्परिकीर्त्यते
अन्वयवाने ह्यन्वितः ।
सो ऽन्वयाप्रतीतौ न प्रतीत एव स्यात्, किन्तु स्वरूपमात्रमेव ।
न च तदन्वितमुच्यते ।
तस्मादन्वयं प्रतिपद्यमान1204 एवाऽन्वितं प्रतिपद्यते ।
यथा व्यक्तिं प्रतिपद्यमान एव जातिम् ।
अयन्तु विशेषः ।
अन्वयवानेवान्वित उच्यत इति, अन्वयो ऽप्यभिधानानुप्रवष्टिः ।
व्यक्तिमत्तैव जातिस्वरूपं न भवति, किन्तु व्यक्तेराकारान्तरभूता जातिस्ततो भिन्ना ।
साचेदाकृतिश्शब्दाभिधेया, न व्यक्तिरप्यभिधानानुप्रवेशिनी, किन्त्वाकारभूता जातिर्व्यक्तेर्व्यतिरिक्तापि वस्तुस्वभावेन व्यक्तिमन्तरेण न प्रतीतिमनुभवति, एतावता च साम्येन दृष्टान्तः, न सर्वात्मना ।
नन्वेकविज्ञानारूढा कथं व्यक्तिरनभिधेया ।
शब्दोत्थापितविज्ञानविषयता ह्यभिधेयता, अस्ति च व्यक्तेरपि तथाभाव इति, कथमनमभिधेयतेति ।
1205श्रूयतामवधानेन सर्वस्वं प्राभाकराणाम् ।
सत्यमेकसंवित्तिविषयता जातिव्यक्त्योः ।
तथापि चिन्तनीयमिदम्---कथमेषा संवित्तिरुभयविषया जायत इति ।
किमस्योभयविषयत्वे शब्दमात्रस्यैव व्यापारः ? उत जातिमात्रविषयत्वे शब्दस्स्वरूपमात्रेण व्याप्रियते ।
व्यक्तिविषयत्वे जात्यनभिधायकतया जातेरन्यथा बोधयितुमशक्यत्वात्---इति ।
तत्र तावदनन्तासु व्यक्तिषु सम्बन्घग्रहणाशक्तेः, आकृत्युपलक्षितासु च यद्यपि सम्बन्धग्रहणं सुकरम्, तथापि तद्रूपवत्त्वेनैव शब्दाद्व्यक्त्यवगमात्, उपलक्षणत्वे कारणाभावात्, चिह्नाभावेन च क्रियान्वयासम्भवादाकृतिविषयत्वे शब्दव्यापार इति निश्चीयते ।
तेनाऽकृतिर्न व्यक्तिं गमयति, किन्तु शब्द एव तदभिधायकतयेत्याकृतितो व्यक्तिरुच्यते ।
अतो ऽन्विताभिधानायान्वयस्यार्ऽथग्रहीतत्वादसावन्वयो नाभिधीयते ।
तेन व्यतिषक्ताभिधानवन्न व्यतिषङ्गाभिधानं, निष्कृष्टामिधानन्तु न भवति ।
व्यतिषक्ततो ऽवगतेर्व्यतिषङ्गस्य, व्यतिषक्तस्य व्यतिषङ्गं विनाभिधानानुपपत्तेः ।
1206भाष्याक्षराणामयमर्थः---पदान्यन्वितमभिधाय निवृत्तव्यापाराणि नान्वयं पृथगभिदधति ।
अथेदानीमन्विताः प्रतिपन्ना अन्वयमपि प्रतीतं सम्पादयन्ति---इति ।
लोके च पदार्थानां सम्बन्धग्रहणसमय एव विदितत्वात्, वाक्यान्तरे चान्वयान्तरस्यैव प्रतिपन्नत्वात्, तत्परतैव वाक्यस्येति ।
वाक्यार्थशब्देन भाष्यकारो ऽन्वयमाह ।
वेदे त्वपूर्वात्मान्वितो वाक्यार्थ इति 1207वक्ष्यामः ।
तस्य च स्वरूपमनवगतमित्यस्यैव वाक्यार्थत्वम् ।
एवमुक्तेन न्यायेन विशेषेणैवान्विताभिधानं समर्थितम्
ये ऽन्विताभिधानवादिन एवमाहुः---वृद्धव्यवहारप्रसिद्धसम्बन्धश्शब्दोर्ऽथस्य वाचकः, अन्वय-व्यतिरेकाभ्यञ्च सम्बन्धावधारणम् ।
न च विशेषान्वयविषयौ तौ सम्भवतः ।
क्रियापदं हि कारकसामान्याव्यभिचारिण्या क्रियया सहान्वय---व्यतिरेकौ भजते ।
1208विशेषान्वयान्तरव्यभिचारात् ।
एवं कारकपदे ऽपि योज्यम् ।
तन्निराकरणायाऽ---
सामान्येनान्वितं वाच्यं पदानां ये प्रचक्षते ।
नियतेन विशेषेण तेषां स्यादन्वयः कथम्
दर्शितमिदं---विशेषान्वये ऽप्याकाङ्क्षा-सन्निधि-योग्यतोपाधिवशेन सम्बन्धग्रहणं सुकरमिति, तदभिधायकतैव युक्ता पदानाम् ।
यदि चासौ नेष्यते, तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, विशेषान्वयरूपत्वाद्वाक्यार्थस्रू
ननु च सामान्यान्वयो ऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्य 1209प्रत्येतुमशक्तेर्विशेषान्वयप्रतिपत्तिरुपपन्नैवेत्यत्राऽह---
यद्यप्याक्षिप्यते नाम विशेषो व्यक्तिजातिवत् ।
निर्धारितविशेषस्तु तद्वदेव न गम्यते
यथा---जातिर्व्यक्तिमाक्षिपन्त्यपि, न प्रतिनियतं विशैषमाक्षिपति, तथात्रापि प्रतिनियतविशेषालाभान्नियतविशेषात्मकवाक्यार्थप्रतिपथ्ततरनुपपन्ना
अथ विशेषमात्राक्षेपे ऽप्याकाङ्क्षितस्सन्निहितो योग्यश्च योगविशेषो यः पदान्तरेण समर्प्यते, स एव गृह्यते ।
1210 तदतिक्रमे प्रमाणाभावादित्यत्राऽह---
यद्यप्याकाङ्क्षितो योग्यो विशेषस्सन्निधौ श्रुतः ।
सम्बन्धबोधकाभावे1211 गृह्यते न तथाप्यसौ
सामान्यान्विताभिधानवादिनो मते पदानि तावत् तन्मात्र एव पर्यवसितशक्तीनि, पदार्थानामप्यन्वयबोधनशक्तिर्नाङ्गीक्रियते ।
न च सामान्याक्षेपो ऽपि 1212नियतं विशेषमास्कन्दति ।
तेनाऽकाङ्क्षिते योग्ये च विशेषे पदान्तरेण1213 सन्निधापिते ऽपि, तदन्वयबोधकप्रमाणाभावात् तदन्वयो न प्रतीयेतैव ।
अत आकाङ्क्षा-सन्निधि-योग्यत्वान्यनुपयोगीन्येव ।
विशेषान्वयवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेन प्रविष्टानि तानि 1214वाक्यार्थप्रतिपत्तावुपयुज्यन्ते
तदाह---
सम्बन्धबोधे व्युत्पत्तावुपाधित्वे1210 समविशत् ।
विशेषान्वयवादे तु योग्यत्वाद्युपकारकम्
पदानां पदार्थान्तरसम्बद्धस्स्वार्थो बोध्य इत्यस्यां व्युपत्तावुपाधित्वेन योग्यत्वादिकमनुप्रविष्टं1215 विशेषान्विताभिधानवादिपक्षे उपकारकम्, न सामान्यान्विताभिधाने-इति दर्शितं प्राक्
दूषणान्तरञ्चाऽह---
किञ्च वस्तुबलेनैव सिद्धे सामान्यसङ्गमे ।
तस्य वाच्यत्वमिच्छद्भिर्वृथा शब्दः प्रयासितः
क्रिया-कारकस्वभावालोचनयापि कारकमात्रेण, क्रियामात्रेण चान्वयावगमसिद्धेः, वृथा सामान्यान्वयाभिधायकता शब्दस्याङ्गीक्रियत इति
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0