भाषा

ENहिગુ
ग्रंथ पाठ

प्रकरणपञ्चिका (टीका सहित) · अध्याय 17

17.1

1216॥
वाक्यमेकं न निर्भाग्र वाक्यान्त्यो वर्ण एव वा ।
पदवृन्दं स्मृतिस्थं वा प्रथमं पदमेव वा ॥
आख्यातपदमात्रं वा पदार्था वाप्यनन्विताः ।
1217सामान्यान्वयबोधे वा हेतुर्वाक्यार्थबोधने ॥
पदान्येव समर्थानि वाक्यार्थस्यावबोधने ।
विशेषान्वयवादीनि भागशो भागशालिनः ।
इति सङ्ग्रहश्लोकाः ।
तथा चोक्तम् ।
अस्ति वा पदस्यार्ऽथः ? बाढमस्ति ।
कथं तर्हि वाक्य-वाक्यार्थयोरौत्पत्तिकत्वम्, वृद्धव्यवहारात् ।
सत्यम् ।
सत्ववयवश इत्युक्तम् ।
इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां सवृत्तिकाया वाक्यार्थमात्रृकाया उपोद्धातो नाम प्रथमः परिच्छेदस्समाप्तः ॥
11_2
परिच्छेद 2
अथ सवृत्तेर्वाक्यार्थमातृकाया द्वितीयः परिच्छेदः ।
कार्यविषये पूर्वपक्षः ।
1218उपोद्धातभूतमन्विताभिधानं प्रसाध्य, अपूर्वं कार्यं वेदवाक्यानामर्थ इति साधयितुकामः पूर्वपक्षं तावदाह---
ननु व्युत्पत्त्यपेक्षेषु शब्देष्वर्थाभिधायिषु ।
कथं मानान्तरावेद्यं कार्यमाहुर्लिङादयः

मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc