प्रदेशसंग्रह · भाग 2124
तथा च अशनाया एव अशना ताम् अशनां आ समन्ताद् राति ददाति यः स अशनारः ।
अस्मिन् प्रदेशे जलं यत् प्रवहति तस्य जलस्यात्यत पाचकतया भुक्तस्य चतुर्विधस्यान्नादेर् जीर्णयितृत्वं ।
सर्वे तत्रस्था यद् अङ्गीकुर्वन्ति ।
अत एव बुभुक्षोत्पादकत्वम् अशनारेत्य् अभिधाभिधास्य मानमत्वर्थतयैव प्रतिभाति ।
अयम् अशनाराख्यः प्रदेशो व्यूहाख्यपुरगणे तिष्ठति ।
तस्य च व्यूहाख्यपुरगणस्य विहीपर्गण इति ग्रामीणैः प्रख्यापितं नाम भवति ।
अस्यापि अदेशस्य शार् इति नामत एव सर्वतो ब्रुवाणा दरीदृश्यन्ते ।
अस्मिन् शार्ग्रामे लोहस्य खनिर् अपि वर्तते ।
येभ्यः पाषाणविशेषेभ्यः पाकादिना लोहम् उत्पद्यते तैर् एव पाषाणैर् उपलक्षित एकः पर्वतो ऽपि वर्तते ।
अतो ऽस्य ग्रामस्य यज् जलं लोहखनेर् उत्पन्नं वर्तते तद् अवश्यं पाचकतमं सर्वेषु स्थानेषु भवति ।
अतः सर्वथाशनारेति ग्रामस्य नामान्वर्थतयास्ति ।
अस्य शार्ग्रामस्य मण्डिख्पाल् इति ग्रामः प्रथितो निकटे ऽस्ति लुढव्ग्रामो ऽप्य् अन्यो ऽस्य निकटे भवति ॥
29. शुष्कलेत्रः
श्लोकसं 102 नम्ब 29 अशोकस्य राज्ञो वर्णने शुष्कलेत्रः ।
तत्र शुष्कलेत्रनिरुक्तिः ।
शुष्कानि शोषं प्राप्तानि तृणपर्णादीनि लाति आदत्ते इति शुष्कलो वायुः ।
ला आदाने इत्य् अस्य धातो रूपं ।
तथा च लक्ष्मीर् ईकार उच्यते इति कोशात् ।
ईर् लक्ष्मी शुष्कलस्य ईः सम्पत्तिः शुष्कले वायुसम्पत् ।
महान् वायुसमूह इति यावत् ।
तां शुष्कले वायुसम्पत्तिं त्रायते इति शुष्कलेत्रः त्रैङ् पालने धातुर् अत्र ।
यतो ऽयं प्रदेशो मरुभूमिस्थो ऽत एव महत्या वान्ययायुत इत्य् अर्थः ।
अयम् एव प्रदेशस् तेन राज्ञाशोकेन स्तूपपदवाच्यैर् बौद्धानां देवायतनैर् आच्छादितः ।
अस्य शुष्कलेत्राख्यप्रदेशस्याधुनिके काले ग्रामीणैः प्रख्यापितं हुखलितर् इति नाम भवति ।
अयं हुखलितराख्यो ग्रामः दैञ्छो इत्याख्ये पुरगणे विद्यमानो ऽस्ति ।
कश्मीरनगरात् क्रोशचतुष्टयदूरतायाम् एवायं पुरगणो वर्तते ।
अस्य च हुखलितर्ग्रामस्य शील्य् पूर् इत्य् आदयो ग्रामा निकटे सन्ति ।
अस्मिन् सर्वस्मिन्न् एव पुरगणे सर्वत्र मरुभूमिस्थे वायोः प्रचलतो ऽन्यभूमिभ्य उच्चैस्त्वेनाधिक्यं यतो भवत्य् अत एव शुष्कलेत्र इति वायोर् आधिक्यसद्भावोपलक्षितम् अन्वर्थम् एव नामेति शम् ॥
30. वितस्तात्रः
श्लोकसं 102 नम्ब 30 अशोकस्य राज्यकाले वितस्तात्रः ।
तत्र वितस्तात्रनिरुक्तिः ।
अंगुष्ठम् स कनिष्ठे स्याद् वितस्तिर् द्वादशाङ्गुल इत्य् अमरोक्तेः ।
सर्वस्यापि जनस्य स्वस्य परिमाणमिता द्वादश अङ्गुला वितस्तिशब्दाभिधेयाः ।
तेन वितस्तिमानेन परिमिता या नदी सा वितस्तापदवाच्या ।
तथा च नीलमतस्थे सतीदेव्या वितस्तारूपाविर्भाववर्णने बृहदश्वः इति तथ्यं विदित्वा सा क्षमया परयाधुता ।
उवाच देवी भर्तारं चारुचन्द्रनिभानना रसातले नदीरूपं करिष्यामि जगद्गुरो कुरुश् चलप्रहारं त्वं नीलवेश्मसमीपतः य चासील् लाङ्गलमुखं प्राक्प्रभोः शैलदारणे तेन शूलप्रहारेण निष्क्रम्याहं रसातलात् शूलमार्गेण यास्यामि यावत् सिन्धुमहानदम् ।
तथा कृते शर्वेण तथा चक्रे सती शुभा ।
तस्या नाम वितस्तेति कृतवाञ् शङ्करः स्वयम् ।
वितस्तिमात्रं गर्तं तु शूलेन कृतवान् हरः ।
रसातलगता येन निष्क्रान्ता सा सरिद्वरा तस्माद् वितस्तेति कृतं नाम तस्याः ।
स्वयम्भुवा ततो ऽपि सर्वदेशेषु वार्त्ताभूद् इयम् उत्थिता महेश्वरी मुनेः प्रीत्या पुनर् देशं व्यपीपवत् ।
तेषु तेषु च देशेषु लोकाः शुश्रुवुर् उत्कया सती देवी नदी भूत्वा कश्मीरेभ्यो विनिर्गता इति कथनेनास्या नद्या वितस्ताया वितलेति नामान्वर्थम् एवास्तीति सिद्धम् ।
किं त्व् अत्र वितस्तिपरिमितौ पञ्चविंशतिवर्षवयसः पुंस एते द्वादश अङ्गुलाग्रास्या इति बोध्यम् ।
एनाम् एव वर्णितां वितस्तां य आकरतयाधिष्वानतया च त्रायते ।
स्रोतोरूपेण जलपूरणेनाप्य् आययति सो वितस्तात्रः ।
अत्रापि पूर्वत् त्रैङ् एव धातुः ।
अस्मिन् वितस्तात्राख्ये प्रदेशे नद्याम् नाकरीभूते यद्यप्य् अल्पसंख्याकैः कियद्भिर् एव वर्षैर् अतीते काले वितस्तिपरिमितम् एव गर्तं दृष्टचरम् अभूत् तथाप्य् एतर्हि नाकस्थश्रीरणवीरसिंहाभिधकश्मीरदेशाधिपसम्पादितो महाञ् जलाशयो दृश्यते ।
परं तु अस्य राज्ञो नवीननिर्माणजीर्णोद्धारादिकालात् पूर्वं द्वादशाङ्गुलमितम् एव गर्तं बभूव ।
अतो नीलमतपुराणवितस्तामाहात्म्यादिवचनानि यानि नदीपरिमाणवाचकानि तानि संगतानि समीचीनानि च भान्ति ।
अस्य वितस्तात्राख्यस्य प्रदेशस्याधुनिके काले विथवतुर् इति नाम नागरीका ग्रामीणाश् च कथयन्ति ।
तत्र विथ् वितस्तायाः वतुर् आकरः इति कश्मीरभाषयाप्य् अर्थसंगतिः ।
अयं विथवतुराख्यो ग्रामः शाहूबाद् इति देवसरस इति चाख्ययो पुरगणयोः सन्ध्यौ वर्तते ।
तत्रास्य शाहूबाद्पुरगणस्य श्रीरणवीरसिंघपुर् इति अस्यापि देवसरसपुरगणस्य दिवसर्पर्गण इति नामद्वयं प्रख्यातम् अनयोर् आधुनिके काले सर्वे वदन्ति ।
केचन पारिसेकानुवादकर्तारो ऽस्य वितस्तात्राख्यस्य प्रदेशस्य वतरहेल् इति नाम स्वपुस्तकेषु लिखन्ति ।
सो वतरहेल् इति ग्रामः दैञ्छो इत्याख्ये पुरगणे वर्तते ।
अतो यो ऽयं शुष्कलेत्र ।
अथ वा हुखलितराख्यो ग्रामः पूर्वं वर्णितस् तेनास्य वितस्तात्र ।
अथ वा विथवतुर्ग्रामस्य सहोक्तत्वात् अथोभयोर् एव प्रदेशयोर् एकस्यैवाशोकाभिधस्य राज्ञो निर्माणकर्तृकत्वाच् चामुं वितस्तात्रम् अपि प्रदेशं शुष्कलेत्रवद्दैञ्छोपुरगणे स्थितम् उक्तभ्रमेण मन्यमाना वितस्तात्रं वतरहेल् इत्य् एव स्वमते स्थापयन्ति ।
तत्र दैञ्छोपुरगणे सर्वस्मिन् वितस्ताया नाम्नो ऽप्य् असत्त्वेन कथम् इव वितस्तात्रस्य वतरहेल् इति नाम कथयितुं शक्नुमः ।
अतस् तेषां तल् लिखनं स्वकपोलकल्पितम् एव भातीत्य् आस्ताम् ।
अन्ये केचन तन्मतानुयायिनो ऽमुं वितस्तात्राख्यं प्रदेशं विथनार् इति भ्रमेण मन्यमाना वतरहेल्प्रदेशाद् विभिन्नं विथनार् इत्य् एव वितस्तात्रस्यास्य नाम कथयन्तो दरीदृश्यन्ते ।
तत्र विथ् वितस्ताया नार् प्रणालीत्य् अर्थः ।
अस्ति चायं विथनाराख्यः प्रदेशः कश्मीरनगराद् एकक्रोशदूरवर्ती वितस्तानदीतीरस्थः ।
अत्र वृद्धाः कथयन्तीति पूर्वस्मिन् काले यदा प्रतिवर्षं जलसमूहैर् उदीपजन्मभिर् एषा वितस्ता नदी पूर्यमाणा सती सर्वम् एवामुं मण्डलं ब्रुडनोन्मुखं सम्पादयन्त्य् आसीत् तदा तत्कालीनैः कश्मीरात् पालयद्भिर् भूपैर् एकां कुल्यातुल्यां प्रणालीं सम्पादयितुं कारव ।
आदिष्टाः तैर् एव कारुभिर् या प्रणालीकुल्यारूपोदीपोत्थजलाप्लावनभयं निवारयन्ती सम्पादिता ।
तस्या एव कुल्याया विथनार् इति वर्णितरीत्या नाम संलग्नम् ।
अत्र कवेः कल्हणस्य शुष्कलेत्र-वितस्तात्रै तस्तार स्तूपमण्डलैर् इत्यादि कथनेन यो ऽयं वतरहेल्-आख्यः प्रदेशो यश् चायं विथनारभिधः प्रदेशश् चास्ति ।
ताव् उभाव् एव स्तूपपदवाच्यबौद्धायतनाच् छादनानर्हौ भातः ।
एकस्य वतरहेल् इत्य् अस्य वितस्तानद्या अनाश्रयत्वेन वितस्तात्र इति नाम कर्मणो ऽत्यनौचित्यात् ।
द्वितीयस्य विथनार् इत्य् अस्य कुल्यारूपप्रणालीमयत्वेन स्तूपाधिष्ठानर्हत्वाच् च ।
अतो ऽयं विथवतुर्ग्राम एव वितस्तात्र-शब्दाभिधेय इति सिद्धम् ।
यतस् तस्यैव स्तूपाधिष्ठानसम्भवत्वम् अस्ति न त्व् अन्यस्येति शम् ॥
31. धर्मारण्यं विहारः
श्लोक 103 नम्ब 31 पूर्ववर्णितस्यास्याशोकस्य राज्ये धर्मारण्यविहारान्तः वितस्तात्रपुरे यत्कृतं चैत्यं ।
तत्र पूर्वम् अस्य धर्मारण्यविहारशब्दस्य निरुक्तिः ।
रागद्वेषरहितैस् सद्विद्वद्भिर् [...] दयेनानुमतः स्वर्गापवर्गादिसाधकः क्रियाकलापोधर्मः ।
धर्मस्य अरण्यं धर्मारण्यम् ।
अटव्य्-अरण्यं विपिनं गहनं काननं वनम् इत्य् अमरोक्ते ।
यथा वने सर्वेषां वन्यानां पशुपक्षितरुगुल्मशष्यादीनां सम्भवः ।
तथैव यत्र सर्वेषां धर्मस्याङ्गभूतानां शौचस्नानादीनां सद्भावः अतो धर्मारण्यं धर्मवनम् इति यावत् ।
बौद्धोपयोगिगृहं बौद्धानां तु विहारो स्त्रीत्य् अमरः ।
एतादृशस्य धर्मारण्यविहारस्य अन्तर् मध्य इत्य् अर्थः ।
तथा च वितस्तात्रपुरे इति पूर्वं वर्णितो यो ऽयं वितस्तात्राख्यः प्रदेशः अस्मिन्न् एव वितस्तात्रपुरे तेन अशोकेन राज्ञा धर्मारण्याख्यो विहारः सम्पादित इति धर्मारण्यविहारस्य तथा तदाश्रयीभूतस्य वितस्तात्रपुरस्य च सिद्धौ संजातायां यत्कृतं चैत्यम् इति येनाशोकेनैव राज्ञा निर्मितं चैत्यं देवतायतनम् इति यावत् ।
चैत्यम् आयतनं तुल्ये वाजिशाला तु मन्दुरेत्य् अमरः ।ईदृशम् एव चैत्यं यस्य चैत्यस्यौत्रत्यावधिं पश्यतां लोकानाम् ईक्षणानि निस्सामर्थ्यानि सन्ति ।
यत्नेनापि न प्रायुः तथात्र पण्डितकल्हणस्यापि वृत्तम् धर्मारण्यविहारान्तर् वितस्तात्रपुरे ऽभवत् ।
यत्कृतं चैत्यम् उत्सेधावधिप्राप्त्यक्षमेक्षणम् इति कथनेन ।
वितस्तात्रपुरे धर्मारण्यविहाराभिधं बौद्धोपयोगिगृहं तद् अनुसम्पादयित्वा तत्रैव विहारे तादृशम् एकं चैत्यम् अत्युन्नतं स राजा निर्मितवान् ।
यस्य चैत्यस्योच्चैस् त्व् अदर्शनाभिलाषिणां जनानां नेत्राणि तदोन्नत्यं द्रष्टुं पर्याप्तानि न बभूवुः ।
अत्युन्नततया नेत्रमार्गदूरवर्ति तच् चैत्यम् अभूद् इत्य् अर्थः ।
परं त्व् आधुनिके काले ऽस्य निर्माणस्यातिचिरकालीनस्य नामापि क्वापि न लभ्यते ।
यतो ऽत्र वितस्तात्रपुरे दर्शदर्शम् अपि पूर्व-निमाणस्य चिह्नादिकम् अपि किंचित् नास्ति ।
यैः कैश् चन भ्रमेणास्य वितस्तात्र-प्रदेशस्य वतरहेल् इति यैश् चास्य प्रदेशस्य विथनार् इति च स्वपुस्तकेषु नाम लिखितम् ।
तयोर् उभयोः प्रदेशयोः सूक्ष्मेक्षिकयापि विहारचैत्यादि-नामापि नैव दृश्यते नैव श्रूयते च ।
अतो वितस्तात्रप्रदेशस्य विथवतुर्-नाम दानम् असंगतं नास्ति ।
प्रत्युतान्वर्थतथा समीचीनम् एव यद्धर्मारण्यविहाराख्यविहारतत्स्थचैत्यादिचिह्नाभावो ऽत्रास्ति तद्गतस्य बहुतिथस्य कालस्य बलवत्तयेति बोध्यम् ॥
32. श्रीनगरी
श्लोकसं 104 नम्ब 32 अस्यैवाशोकस्य राज्ये श्रीनगरीम् ।
तत्रादौ श्रीनगरीशब्दनिरुक्तिः ।
न गच्छन्ति क्वापि ये ते नगाः पर्वताः नगैः पर्वतैर् आतिशोभां ददाति ।
यत् तत् नगरं अल्पं नगरं नगरी यथाल्पो घटः घटीति ।
पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् इत्य् अमरोक्तेर् ।
नगरीशब्दो ऽपि नगरवाचकः श्रीमती चासौ नगरी श्रीनगरी ।
एतादृशीं श्रीनगर्यभिधां नगरीं सो ऽशोको राजा निर्मितवान् इत्य् अर्थः ।
तथा लक्ष्म्या शोभया सामग्र्यादिसम्पत्त्या च सम्पक्वेनोद्गतदीप्तिमन्ति तथानिपुणकारुकृतकार्यानि पुण्यगरीयस्त्वशालीनि यानि षडधिकनवतिलक्ष्यसंख्याकानि गेहानि तैर् एव गेहैः पूर्णा समुज्ज्वला च नगरी तन्निर्मिता बभूवेत्य् अर्थः ।
तथा चात्र पण्डितकल्हणो लिखितः
स षण्नवत्या गेहानां लक्ष्यैर् लक्ष्मीसमुज्ज्वलैः ।
गरीयसीं पुरी श्रीमांश् चक्रे श्रीनगरीं तृप ॥
इत्यादि ।
अत एवास्य राज्ञो ऽतिसंख्यायुतनगरनिर्माणकर्तृत्वं कव्युक्त्याज्ञायते ।
अस्य श्रीनगरीति ख्यातनगरस्याधुनिके काले ग्रामीणैर् नागरिकैश् च ख्यापितं ।
तथा सर्वान्यदेशविदितं श्रीनगर् इति प्रसिद्धतरं नाम सर्वथा वर्तते ।
अस्य श्रीनगर् इति नगरस्य नियमितः को ऽपि प्रदेशो न लभ्यते ।
अतो ज्ञायते अस्मात् कश्मीराख्यमण्डलाद् विभिन्नं तत् किम् अपि नगरं नास्ति ।
अस्यैवाशोकनिर्मितस्य नगरस्य नाम्नैव सर्वम् अपीदं मण्डलं प्रख्यातं सम्पन्नम् ।
अत एवास्य कश्मीरदेशस्य सर्वासु दिक्षु प्रथितताम् आप्तं सर्वादिग्देशनिवासिजनैः कथ्यमानं श्रीनगर् इति नाम स्फुटतया वर्तते ।
काश्मीरकैर् विना सर्वे ऽमुं मण्डलम् अनेनैव श्रीनगर् नाम्नाकारयन्ति च ये केचन पारिसेकानुवादकर्तारस् तन्मतानु-यायिनश् च ते स्वपुस्तकेषु ।
अस्य श्रीनगर्याख्यस्य देशस्याश्रयीभूतौ दक्षिणपार्श्ववामपार्श्वौ याव् आधुनिके काले दच्छुन्पोर्पर्गण तथा खोउर्पोर्पर्गण इत्याख्यौ पुरगणौ वर्तते ताव् एवाश्रयीभूतौ भवत इत्यादि लिखन्ति अर्थात् ।
याव् एतौ द्वौ पुरगणौ स्तस् तयोर् एव श्रीनगरीति नामास्ति ।
अथ वागतस्यातिकालस्य बलवतया तस्य श्रीनगर्याख्यदेशस्य चिह्नभूताव् इव पुरगणौ भवत इति तेषाम् अभिप्रायः ।
परं तु कल्हण-पण्डितः स्वपुस्तके दक्षिणपार्श्ववामपार्श्वाव् एव श्रीनगरीत्य् आख्याव् इत्यादि किंचिद् अपि न लिखति ।
अतस् तत् पारिसेकानुवादिनां स्वकपोलकल्पनैवेति भद्रम् ॥
33. अश्ममयः प्राकारः
श्लोकसं 105 नम्ब 33 अस्याशोकस्य राज्ये अश्ममयः प्राकारः ।
अस्य निरुक्तिः ।
अश्मानः प्राचुर्येणास्मिन् अथ वा अश्मानः प्रकृतिर् वास्येत्य् अश्ममयः ।
तद् अत्र प्रचुरं सास्य प्रकृतिर् वेत्य् अर्थे मयट् प्रत्ययो ऽत्र ।
अश्ममयः यः प्राकारः साल इत्य् अर्थः ।
प्राकारो वरणः साल इत्य् अमरः ।
एतादृशः प्राकारस् तेन राज्ञाशोकेन सम्पादितः ।
अत्र पूर्वं नम्बरपदाभिधेयो द्वादशसंख्याको विजयेश्वराभिधो यो ऽयं प्रदेशो वर्णितो ऽस्ति तस्मिन्न् एव विजयेश्वरे पूर्वकालीनै राजभिः सुधमयः प्राकारो निर्मित आसीत् ।
तं सुधामयं प्राकारं निवार्य स राजा नवीनम् अश्ममयं प्राकारं कारयाम् आस ।
तथा च पण्डितकल्हणः
जीर्णं श्रीविजयेशस्य विनिवार्य सुधामयम् ।
निष्कल्मषेणाश्ममयः प्राकारो येन कारित ॥
इति ।
अस्य प्राकारस्याधुनिके काले विनष्टतया नामापि न लभ्यते ।
चिह्नादिवार्त्ता दूरत एवास्ताम् ।
अतो ऽस्य कथ्यमाणं जनैर् एतत्कालीनं नामादिकं न लिखितम् अस्तीति ज्ञेयम् ।
किं त्व् अत्र कस्मिंश्चित् पुरातने काले ऽत्राश्ममयः प्राकारो ऽप्य् आसीद् इत्य् अत एवास्मिन् प्रदेशसंग्रहे ऽस्य परिगणनं कृतम् ।
यथाधुनिके काले श्रीरणवीरसिंहभूपनिर्मितं शिवस्य चैत्यम् आदैनाभूद् इति ॥
34. अशोकः ईश्वरश् च प्रासादः
श्लोकसं 106 नम्ब 34 अशोकस्य राज्ये अशोकः ईश्वरसंज्ञकश् च प्रासादः ।
अनयोर् निरुक्तिः ।
अविद्यमानः शोको मन्युर् यस्य सो ऽशोकः ।
मन्युशोकौ तु शुक् स्त्रियाम् इत्य् अमरः ।
ईशनशीलः ईशनधर्मा ईशनं साधु करोति यः स ईश्वरः ।
एतादृशाव् अशोकेश्वरसंज्ञकौ यौ प्रासादौ देवतायतने इति यावत् ।
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् इत्य् अमरः ।
अनेनैव पूर्वं वर्णितेन राज्ञाशोकेनैतन्मण्डलप्रख्याते विजयेश्वराख्यप्रदेशो ऽश्ममयं प्राकारं सम्पादयित्वा तस्यैव सभास्थाने वर्णितनाम द्वययुतं प्रासादद्वयं निर्मितं ।
यतस् तस्मिन् काले ये केचन तम् ईश्वराभिधं प्रासादं पश्यन्ति स्म ते तत्क्षणाद् एव तस्य मनोहारित्वगुणसम्पदां चमत्कारेण शोकरहिता बभूवुर् ।
अतस् तस्याशोकेति नामान्वर्थतया प्रतीयमानं भाति ।
तथा च कर्तुम् अकर्तुम् अन्यथा-कर्तुं सामर्थ्यशालिन ईश्वरस्यैव नाम्नाप्य् अयं द्वितीयः प्रासादः प्रख्यातिं यतः प्राप्तवान् अतो ऽयम् अपि सार्थकताम् एव प्राप्तो भाति ।
एतयोर् उभयोः प्रासादयोर् अतिचिरन्तनकालिकतया निर्माणस्य चिह्नादिकम् अपि किंचिद् यतो न भवत्य् अतः कश्मीरभाषायां जनैर् आधुनिके काले कथ्यमानं किम् अपि नामादिकम् अत्र न लिखितं ।
परं तु पण्डितकल्हणो यत्
सभायां विजयेशस्य समीपे च विनिर्ममे ।
शान्तावसादः प्रासादाव् अशोकेश्वरसंज्ञितौ ॥
इत्यादि लिखत्य् अनेनैवैतत् प्रासादद्वयं लभ्यते ।
अन्यथा कुत्रापि वार्त्तैतयोर् न लभ्यत इति भद्रम् ॥
मूल पाठ: Pradeśasaṃgraha · Edition: Katrin Züfle: Govind Kaul: Pradeśasaṃgraha - Erstedition eines unikalen Manuskripts zur historischen Toponymie Kaśmīrs. Halle-Wittenberg 2014: Martin-Luther-Universität (unpublished Magister Thesis) · Data entry Katrin Züfle · GRETIL (Göttingen) · CC BY-NC-SA 4.0