भाषा

ENहिગુ
ग्रंथ पाठ

प्रदेशसंग्रह · भाग 120

1. कश्मीरा मण्डलम्
ओं श्री गणेशाय नमः ।
पण्डितकल्हणकृतराजतरङ्गिण्यां प्रथमे तरङ्गे श्लोकसं 27 कश्मीरा ।
अस्याः सतीसर इति द्वितीयं नाम ।
अस्य निरुक्तिः ।
कं जलं श्मीरति चलत्य् अस्माद् इति श्मीर स्मीर चलने इति धातोर् औणादिकं रूपम् ।
तथा च नीलमते
कं वारि हलिना यस्माद् देशाद् अस्माद् अपाकृतम् ।
अतः सर्वजगत्ख्यातं कश्मीराख्यं भविष्यति ।
अन्यच् च चलनं सम्पादनम् इत्य् अपि तन्मतेनैवावगम्यते ।
तथा च कश्यपेन सम्पादितस्यापि मण्डलस्य कश्मीरा इति नाम ।
एतद् अपि नीलमताद् एवावबुध्यते ।
तथा हि
कः प्रजापतिर् उद्दिष्टः कश्यपश् च प्रजापतिः ।
अतस् तदाख्यया तीर्थं काश्मीराख्यं भविष्यति ॥ इति ।
अस्य कश्मीरापदस्य कशीर इति काश्मीरिकभाषायां नाम वर्तते ।
अत एव कश्मीरोत्पन्नस्य पुंसः कशुर् इति नामास्ति ।
पुनश् चान्यमतेन कश्मीरापदनिरुक्तौ बहवो विभेदाः सन्ति ।
तथा च पारिसेकानुवादविदः केचन कश्यपमर् इति कथयन्ति ।
तन्मतेन कश्मीरभाषायां मर्पदस्य गृहम् इत्य् अर्थः ।
तथा च कश्यपस्य गृहम् इति यावत् ।
अन्ये तु कशूर् इति कश्चिद् राक्षसः पूर्वस्मिन् काले बभूव ।
तस्यैव रक्षसस्य मर्पदवाच्या एका अप्सराः परीपदवाच्या तद्धस्तगताप्य् आसीत् ।
ताभ्याम् एव सर्वत्र बम्भ्रम्यमाणाभ्यां यद् अत्र मनोहरे मण्डले स्वनिवासार्थं स्थितिर् आसादिता ।
अतः कश्मर् इति तदाख्ययैव प्रथाम् आगत्यायं देशः सर्वजगत्प्रसिद्धः सम्पन्न इत्यादि स्वपुस्तकेषु लिखन्ति ।
परं तु अस्मिन् नामनि ग्रामीणानां नागरिकानां च क्वाप्य् उच्चारणादिविषये भेदो नास्तीति शम् ॥
2. नीलनागः वरनागो वा
श्लो 28 नम्बर 2 नागाधीशेन नीलेन ।
अयं नीलाभिधो नागः कश्यपर्षिपुत्रः ।
कश्मीरस्थाने क नागानाम् अधिपतिः ।
तेन कश्यपेन स्वकीयपित्रा कश्मीरासम्पादनकाल एव तेषाम् असंख्यानां नागानाम् आधिपत्ये सुकर्मशिक्षायै कुकर्मणो निवृत्तये चाभिषिक्तः ।
शाहूबाद् पुरगणो यो ऽधुना श्रीरणवीरसिंघपुरा इति नाम धारयति तस्मिन्न् एव पुरगणे पीर् पञ्चाल् इति ख्यातो यो ऽयं कश्मीरदेशस्य पञ्चनददेशस्य च मध्ये सीमैव गणनीयताम् आगतः पर्वतो ऽस्ति ।
तस्माद् एव पर्वताद् अर्धक्रोशमिते कश्मीरौन्मुख्यभाजिमार्गे महान् अष्टकोणो ऽगाधः शीतलजलश् च नीलनागनिवासस्थानं जलाशयो वर्तते ।
अस्य वरनागः नीलनागः वीरनागः इत्यादीनि नामानि सन्ति ।
तत्र वरनागः उत्तमनागः नीलनागः नीलनामानागः नीलवर्णजलवान् नागश् च वीरनागः वीरश् चासौ नाग इति ग्रामीणस् तु अस्य स्थानस्य वेर्नाग इति नाम कथयन्ति ।
एतो वेर्नाग् एवाधुना ग्रामनामाप्य् अस्ति ।
वरनागवेरनागयोश् च सादृश्यम् एवोच्चारणे ऽपि वर्तते ।
केचन भृङ्गीशसंहितामतामताश्रयिणो वीरी इति ग्रामस्य नामोक्ता वीरीविषयस्थितो नागः वीरीनाग इति नाम कथयन्ति ।
अस्मिञ् जलाशये मत्स्या असंख्याः सन्ति ।
पुनश् च अस्य जलाशयस्य पाश्चात्त्ये तट एका बृहच्छाला पुरातनकालीनेन ज्यहांगीरराज्ञा सम्पादिता यस्याम् आधुनिकराज्ञा जीर्णोद्धारादिकं निरमीयत ।

अत्रैक आरामो ऽपि पुरातनराजसम्पादितो भवति ॥
3. कपटेश्वरः
श्लो 32 नम्बर 3 काष्ठरूपम् उमापतिम् ।
काष्ठरूपं काष्ठाकृतिम् उमायाः पार्वत्याः पतिर् भर्ता शिवः ।
तं शिवं सम्यक् स्पर्शं कुर्वतां पुरुषाणां भोगप्राप्तिर् भवति ।
पुरा सर्वैर् मुनिभिः प्रार्थितेन शिवेन तेषाम् एवानुग्रहार्थं कपटेनैव स्वमूर्तिप्राकट्यकरणं मुनिभ्यो ऽङ्गीकृतम् ।
अथैतादृशं शिवाद् वरं लब्ध्वागत्य चास्मिन् स्थाने काष्ठा एव जले विवर्तमाना दृष्टाः ।
अतो ऽस्य तीर्थीभूतस्य जलाशयस्य कपटेश्वर इति नाम कृतम् ।
अधुनाप्य् अस्मिञ् जलाशय एको बृहत्काष्ठो दरीदृश्यते ।
नीलमते ऽपि कपटेश्वरमाहात्म्यवर्णने कपटेन दर्शनं दास्यामि भवद्भ्य इति मुनीन् प्रति शिवेनोक्तं यदा तदैवागत्य मुनिभिर् अस्मिञ् जले काष्ठाकृतेः शिवस्य दर्शनं कृतम् ।
अतो ऽस्य स्थानस्य कपटेश्वर इति नाम सम्पन्नम् ।
एतादृश्य् एव कथा विस्तरे सोक्तास्ति ।
ग्रामीणाः कश्मीरभाषया अस्य स्थानस्य कोट्य्हेर् इति नाम वदन्ति ।
अत एव कुटहारपुरगणो ऽपि अनेनैव नाम्ना प्रख्यातिं प्राप्तः यस्मिन्न् अयम् एको ग्रामः कोट्य्हेर् इति नाम्नाधुनापि कथ्यमानो ऽस्ति ।
अयं पुरगणः पूर्वोक्तात् शाहूबादपुरगणाद् अधस्तात् क्रोशचतुष्टयेन भवति ।
अस्मिन्न् एव अछ्यबल् इति स्थानं सर्वजनमते प्रियं सर्वतः प्रख्यातं च भवति ।
ग्रामीणा अस्य जलाशयस्य सङ्कर्षण् नाग् इति नामापि वदन्तो वर्तन्ते ॥
4. पापसूदनतीर्थम्
श्लो 32 नम्बर 4 पापसूदनं तीर्थान्तः ।
पापानि सूदयति नाशयति यत् तत् पापसूदनं पापनाशकं तीर्थम् ।
तस्मिंस् तीर्थसंस्पृशतां स्नानं कुर्वतां पुरुषाणां मुक्तिप्राप्तिर् भवति ।
अत्रापि महाञ् जलाशयो वर्तते ।
कश्मीरभाषायाम् अप्य् अस्य जलाशयस्य पापहरण् नाग् इति नाम सर्वत्र ग्रामीणाः कथयन्ति ।
अयं जलाशयः पूर्वोक्तात् कुटहारपर्गणाद् अल्पान्तरवर्तिनि वामपार्श्वपुरगणे आधुनिके काले खोउर्पोर् इति ख्यात पुरगणे ऽस्ति ।
तत्रापि सालीपांजमुल् इति ख्यातं ग्रामद्वयम् अस्ति ।
तयोर् एव मध्ये ऽयं पापहरण् नाग् इत्यभिधो जलाशयो वर्तते ।
अत्र पापसूदनपापहरणपदयोः सदृशार्थत्वेन संस्कृते कश्मीरभाषायाम् अपि अस्मिन् पदे तादृशो भेदो नास्ति ।
अयं जलाशयश् चतुष्कोणो नीलनागाद् अल्पतरो ऽपि वर्तते ।
कदाचन वारिपर्णीयस्य कश्मीरभाषायां मुङ्गोल् नामास्ति ।
तथाच्छादितो ऽपि दृश्यते ॥
5. त्रिसन्ध्या देवी
श्लो 33 नम्बर 5 सन्ध्या देवी ।
सम्यक् ध्यायते द्विजातिभिर् या सा सन्ध्या ।
सा चासौ देवी द्योतनशीला क्रीडनशीला चेति अस्य तीर्थवरस्य सर्वजगत्प्रसिद्धं त्रिसन्ध्या इति नाम सर्वे कथयन्ति ।
एतत् तीर्थं पर्वतस्य कुक्षौ वर्तते ।
अत्र जलाशयो वर्तुलाकारो ऽधस्तात् संकुचित उपरितने भागे विस्तृताकारो भवति ।
पुनश् चायं सदैव शुष्को वसन्तकाले परिपूर्णजलो ग्रीष्मकाले त्रिवारं दिने त्रिवारं रात्रौ च परिपूर्णजलः शुष्कजलो ऽपि भवति ।
अर्थात् चञ्चलतया जलवान् जलाभाववांश् च भवति ।
तथा चोक्तं भृङ्गीशसंहितादिशास्त्रभेदेषु
सदा शुष्का मधौ पूर्णा ग्रीष्मे चञ्चलवाहिनी ।

त्रिकालवाहिनी सन्ध्या सा सन्ध्या मोक्षादायिनीति
अतो ग्रीष्मकाले ज्यैष्ठे मासि यथा प्रभाते मध्याह्ने सायंकाले च सन्ध्योपासनं क्रियते ।
तथैवास्य तीर्थवरस्य यात्रा सन्ध्येव भवति ।
अयं जलाशयो मध्ये पार्श्वयोश् च वर्तुलाकारैः प्रस्तरैर् भरितो ऽस्ति ।
यस्मिन् काले सन्ध्यां विधाय जलं शुष्कतां गच्छति तस्मिन् काले तेभ्य एव पाषाणरन्ध्रेभ्य आखवो निर्गत्य भक्तैः पूजार्थं जलाशये पातितम् अक्षतादिकं भक्षयन्ति ।
अस्य तीर्थवरस्य समीपे सप्तर्षीणां सप्तजलाशया भवन्ति ।
तेभ्य एका कुल्यापि निर्गच्छति ।
साल्पा नद्य् अस्य पर्वतस्थतीर्थवरस्याधस्ताद् वर्तते ।
सन्ध्याकरणवेलायां तीर्थजलं जलाशयान् निर्गत्य नदीजलमध्ये पतति ।
तत्र संगमतीर्थे स्नानादिकं भवति ।
अयं जलाशयो भृङ्ग्पुरगणे पूर्वोक्तकुटहारपुरगणनिकटवर्तिनि यो दिवल्गासनामा ग्रामो ऽस्ति ।
तन्मध्ये ख्यातिमद् भवति ।
ग्रामीणाः काश्मीरिकाश् चास्य तीर्थस्य सुन्दभ्रार् इति नाम वदन्ति ।
तत्र भ्रार् कश्मीरभाषायां देवीनाम भवति ।
अतः सुन्दभ्रार् सुन्दरदेवीत्य् अर्थः ।
अस्य पुरगणस्य भृङ्ग्ग्रामस्य च दिवल्गोन् इति ग्रामीणानाम् उच्चरणविषये वर्तते ।
अस्य ग्रामस्याधस्तात् बिहू जलन् गाम् इति ख्यातं ग्रामद्वयं भवति ।
अस्य तीर्थवरस्य शिरसि एको वृक्षः पिप्पलवृक्ष इवोपलक्षणीभूतो ऽपि वर्तते ।
सन्ध्याकरणवेलायां जलप्रादुर्भावकाले पुष्पाक्षतनैवेद्यादिपातनेनाप्य् अन्तर्धानं जलम् आगच्छति ।
तदा जलाशयाद् एव जलं उद्धृत्य स्नानादिकं सर्वे कुर्वन्ति ।
अथ द्वितीयसन्ध्याकरणवेलायां विनीततया प्रतीक्षमाणैर् जनैर् यदा स्थीयते तदा जलं पूर्ववद् बहिर् निर्गत्य संगमजलेन मिलित्वा स्नानादिकं सिध्यति ।
ये केचन दण्डधारिणो राजपुरुषाः खड्गाद्यायुधादिभिस् सहैवाविनीतवत् सन्ध्याकरणवेलायां जलाशयस्यास्य तटे ऽशुचितयैवागच्छन्ति तान् अशुचीन् अविनीतांश् च दृष्ट्वा जलम् अदर्शनं याति ।
अतः सर्वथैवायं तीर्थवरो ऽद्भुतो मान्यः पूज्यश् चास्मिन् देशे ख्याततमो ऽपि वर्तते ।
अत एव
दर्शनं पुण्यपापानाम् अन्वयव्यतिरेकयोर्
इति कल्हणोक्तं सत्यतया भाति यतो ऽस्य पुण्यवन्त एव दर्शनं प्राप्नुवन्ति ।
पापिनस् तु तत्र गत्वापि दर्शनरहिता एव प्रत्यागच्छन्ति ॥
6. स्वयम्भूः अग्निः
श्लोक 34 नम्बर 6 स्वयम्भूर् ।
हुतभुक् स्वयम् एव न तु अन्येन केनापि प्रज्वाल्यमानो यो भवति स स्वयम्भूः ।
एतादृशो यो हुतभुक् अग्निः ।
अस्य माहात्म्यवर्णने पुरा किल मुनीनां भक्तानां च प्रार्थनया शिवेन स्वकीयायाः कालाग्निरूद्रमूर्तेः प्राकट्यम् अस्मिन् स्थाने सम्पादितम् इत्यादि लिखितम् अस्ति ।
अत्र सर्वत्र मरुभूमिर् यस्या भाषायां हिन्दीत्य् अभिधायां करेवा कश्मीरभाषायां च उडर्नाम वर्तते ।
सैव भूमिर् अनेकेषु स्थानेषु पक्वताम् आप्तादाधा च दरीदृश्यते ।
अतो ज्ञायते ऽग्निर् अयं सर्वदा एकस्माद् एव स्थानान् न समुन्मिषति ।
किं तु कदाप्य् एकत्र कदाप्य् अन्यत्र कदाचन ततो ऽप्य् अत्र समुदयं प्राप्नोति ।
वदन्ति च वृद्धाः सर्वदैवायम् अग्निर् अस्मिन् एव स्थाने द्वादशवर्षाधिके काले ततो ऽप्य् अधिके वा प्रादुर्भवति ।
अत्र यात्रिका आगत्य शुद्धतया स्वस्वभाण्डानि संशोध्य तेष्व् एव भाण्डेषु यथापरिमाणं तण्डुलं जलं च सम्पातय्य काष्ठोल्लिखितायां भूमौ गर्ताकारं कृत्वा तानि भाण्डानि तस्याम् एव तप्तायां भूमौ मुहूर्तार्धं स्थापयित्वा यावद् गर्तेभ्यो ऽस्वस्वभाण्डानि निष्कासयन्ति ।
तावद् एव तद् अन्नं तेष्व् अन्नभाण्डेषु सुपक्वं प्रत्युत सर्वजनैर् इन्धनादिपच्यमानान्नाच् छोभनं च पश्यन्ति ।
अथ ते यात्रिकास् तेनैवान्नेन स्वपितॄणां पिण्डदानपूर्वकं यथारुचि यथाविधि च श्राद्धादि कुर्वन्ति ।

ये केचन होमविध्यभिलाषिणस् ते तु तस्याम् एव तप्तायां भूमौ सर्वतः शुष्ककाष्ठानि पातयित्वा घृतादिना ज्वाला उद्भावयन्ति ।
तास्व् एव ज्वालासु स्वगृह्योक्तविधानेन होमं कुर्वन्ति ।
अतो
जुह्वतां प्रतिगृह्णाति ज्वालाभुजवनैर् हविर्
इत्यादि कल्हणोक्तम् अपि संगच्छते ।
यतः प्रज्वाल्यमानाग्नेर् अधिकज्वालावान् अयम् अग्निर् हविर् गृह्णाति ।
यस्मिन् भूभागे ऽस्याग्नेः प्रादुर्भावः स भूमिभाग अत्युष्णो हस्तादिस्पर्शेनापि लक्ष्यते ।
अस्य स्थानस्य स्वयम् इति सर्वजगत्प्रसिद्धं नाम ग्रामीणा नागरिकाश् च वदन्ति ।
एतत् स्थानं क्रमराज्यस्थे मच्छेपोर् इत्याख्ये पुरगणे वर्तते ।
ग्रामीणा एतस्मिन् काले क्रमराज्यपदस्य कम्राज् अस्य पुरगणस्य तपय् मच्छ्यपूर् इति वदन्ति ।
यस्मिन् ग्रामे ऽयम् अग्निस् तस्य ग्रामस्य निच्यहौम् इति वदमाना दृश्यन्ते ।
अस्य निच्यहौम्ग्रामस्य निकटे ऽन्यद् ग्रामद्वयम् अप्य् अस्ति ।
तत्रैकस्य निच्यहौम्समीपवर्तिनो ग्रामस्य राज्य्पौर् इति तस्याधस्ताद् वर्तिनो ऽन्यस्य ग्रामस्य जच्यलौर् इति ते एव ग्रामीणाः कथयन्ति ।
अस्मिन् ग्रामद्वये राज्यपदवाच्या जना म्लेच्छा निवसमाना भवन्ति ।
अयं निच्यहौम्ग्रामो ऽस्याग्नेर् आश्चर्यीभूतः सुय्यपुरस्थानाद् यस्य ग्रामीणोच्चरणेन सोपोर् इति नामाधुनिकं वर्तते ।
तस्मात् स्थानाद् विंशतिक्रोशदूरे प्रदेशो भवति ।
अस्मिन् ग्रामे ऽग्निसमाकलितस्थानादौ यद्य् अपि मरुभूमिर् एवास्ति तथापि तस्य निकट उभयोर् एव पार्श्वयोः सस्यक्षेत्रेषु सस्यादिसमुत्पत्तिर् भवत्य् एव ॥
7. हंसवागीश्वरी भेडा देवीत्य् अपरपर्याया
श्लोक 35 नम्बर् 7 हंसरूपा सरस्वती ।
देवी हंत्यविद्यालक्षणं तम इति हंसः परमात्मा ।
तद्रूपा तच्छक्तिर् इति यावत् ।
एतादृशी या सरस्वती वागधिष्ठात्री देवी वागीश्वरीत्यभिधा एषा हंसरूपा सरस्वती ।
भेडाख्यपर्वतो यो ऽतिशयेन गच्छत्या भृङ्गीत्यभिधाया नद्या उद्भावनेन पवित्रीभूतस् तस्य पर्वतस्य शृङ्गे शिरसि सर्वैर् दृश्यते ।
अत्र पर्वतस्योपरि सर एकम् अस्ति ।
तद् एव सरो हंसवागीश्वर्याः स्थानताम् आप्ततया विद्यमानं सर्वथैव वर्तते ।
भृङ्गाख्यपुरगणे या नदी वहति सा भृङ्गीत्यभिधास्य पूर्वोक्तस्य पर्वतस्य पादे वहन्ती भवति ।
ग्रामीणास् तु भृङ्ग् इति पुरगणस्य नाम वदमानाः ।
तस्य भेडपर्वताधस्ताद् वर्तिनो ग्रामस्य भेडशब्देनैव भिडर् इति नामापि वदन्ति ।
आधुनिकास् तु ग्रामे तस्मिन् वसमानास् तस्य भेडपर्वतस्थसरोवरस्य कात्यायनीतडाग इति नाम केचन कथयन्ति ।
तत्र कात्यायन्या देव्या अर्थात् ।
अस्या एव हंसवागीश्वर्यास् तडागः सरोवरम् इति यावत् ।
अस्य कात्यायनीतडागस्य स्वभाषायाम् अपभ्रंशदोषेन कान्त्राग् इति नाम वदमानाश् च भवन्ति ।
तत्र कान् इति कात्यायन्याः त्राग् तडाग इति ।
परं तु तस्मिन् पर्वते सरोवरः शिरसि पर्वतस्य पादे नद्य् अपि वहन्ती वर्तते ।
अतो
देवी भेडगिरेः शृङ्गे गङ्गोद्भेदशुचौ स्वयम् ।
सरो ऽन्तर् दृश्यते यत्र हंसरूपा सरस्वतीति
पण्डितकल्हणोक्तम् अपि संगच्छते ।
अस्मिन् भिडराख्यग्रामे एकाशिलामयी देवीमूर्तिर् जलमध्ये ऽस्या नद्या भवति ।
तत्रत्या ग्रामीणास् ताम् एव भेडदेवीं मन्यमाना भेडदेवीशब्देनाकारयन्तः पूजयन्ति ।

अस्य पुरगणस्य भृङ्ग् इति ख्यातस्य मध्ये येयं नदी वहत्य् अस्या नद्या भृङ्ग्शब्दव्यपदिष्टतयैव भृङ्गीति नाम यस्याः कल्हणेन स्वपुस्तके गङ्गाशब्देन नामोक्तम् ।
अन्यच् च भेडादेवीशब्देनैव ग्रामस्यापि भिडर् इति नाम सम्पन्नम् ।
वस्तुतस् तु पर्वते भिडर्ग्रामस्थिते यत् सरोवरं तत् हंसवागीश्वर्याः स्थानम् ।
या पर्वतस्याधस्तान् नदी भृङ्गीति वहमाना सापि पर्वताद् एवोद्गच्छति ।
तज्जलमध्ये या या शिलामूर्तिः सा भेडादेवीति ग्रामीणमतेनास्ति ।
अस्य सरोवरस्य जलं सर्वदैवैकाकारं भवति ।
न तु कदाप्य् अधिकं कदापि वा न्यूनं भवति ।
अस्य जलं अतिपाचकं शीतलं मधुरं च भवति ॥
8. नन्दिक्षेत्रम्
श्लोक 36 नम्बर 8 नन्दिक्षेत्रे ।
नन्दयति आनन्दयति सर्वान् स्वभक्तान् यः सो नन्दी शिवः ।
तस्य यत् क्षेत्रं तीर्थं तत् नन्दिक्षेत्रं ।
अथ वा नन्दीनामा शिवस्यानुचरो यो गणस् तत्प्रसादार्थं तीर्थीभूतं यत् स्थानं तद् एव नन्दिक्षेत्रं ।
पुरा किल हरमुकुटाख्ये पर्वते पार्वत्या रहःस्थितया तस्य पर्वतस्याधस्ताद् धारप्रदेशे नन्दीनामा स्वानुचरो गणमुख्यः स्थापितस् ।
तस्मात् कालाद् आरभ्यैव तत्र नन्दिक्षेत्रं सम्पन्नम् ।
तथा च भृङ्गीशसंहितायां हरमुकुटगङ्गायात्रामाहात्म्यवर्णने कदाचित् पार्वत्या शिवस्य शिरःस्थिते कपर्दाख्ये जटामुकुटे प्रोच्छलंती गङ्गा दृष्टा ।
अथ तां स्वसपत्नीभूतां शिवस्य दयितां दृष्ट्वा सपत्नीर्ष्यया क्रोधान्धकुटिलदृशा च तया पार्वत्या शिवं प्रति मुञ्चैनां मत्सपत्नीम् इत्य् उक्तम् ।
अथ शिवेन बहुशो ऽनुनाथ्यमानापि सा पार्वती यद्य् अहं भवतः प्रियतमा तदावश्यम् एव त्यजैताम् इत्याकारकम् आग्रहम् एव धारयाम् आस ।
पुनश् च पार्वतीभक्तिपरवशेन शिवेन सा गङ्गा स्वजटामुकुटाद् यस्मिन् काले त्यक्ता तस्मिन्न् एव काले हरमुकुटगङ्गा इति नाम तस्या गङ्गायाः सज्जातम् ।
यतो हरस्य शिवस्य मुकुटाद् या गङ्गा निर्गता सा हरमुकुटगङ्गेति ।
अथ वा हरस्य मुकुटाद् विभ्रष्टा सती भूमौ यतो ऽतिचञ्चलतया गता ततो ऽपि मुकुटगङ्गेति ।
अथ च शिवेन पार्वतीं प्रति बहुसम्मानपुरःसरम् इति प्रार्थना कृता हे देवी यैषा गङ्गा मया त्वदाज्ञया शिरस्तस् त्यक्ता एनां पुनर् अपि धारयिष्यामीतीदृशं शिवस्य वाक्यं श्रुत्वैवातिक्रोधयुता देवी शिवम् अपहाय स्वमानदर्शनाय स्वनिवसनास्पदीभूतं हरमुकुटाख्यं पर्वतम् आरुरोह ।
आरोहणकाले तत्पर्वतपालकं शिवस्य मुख्यानुचरं नन्दिनम् इत्यादिदेश हे नन्दिन् अत्र पर्वतशिखरे रहस्यम् एकाकिनी किंचित् कालं स्थास्यामि ।
अतो द्वारदेशे ऽस्य पर्वतस्याधस्तात् स्थितेन भवता तथा विधेयं यथा रहःस्थायिनी मां को ऽप्य् अन्यो न पश्येत् ।
पुनश् च यदि मत्समीपे प्रविष्टकामः कश्चनागच्छेत् अस्मै कस्मा अपि प्रवेशे ऽत्र न दातव्यः ।
अथैतादृशीं शिवस्याज्ञां लब्ध्वा शिलावन् निश्चलतया यावत् नन्दी प्रवेषं वारयमाणस् तिष्ठति तावद् एव देवीं सर्वत्र मृगयमाणः शिवो ऽपि हरमुकुटस्य पादं प्राप ।
तत्र शिवः शिलावत् स्थिरतया स्थितं नन्दिनं स्वानुचरं दृष्ट्वापि देवीसमीपं प्रवेशकामो यावत् पर्वतारोहणोन्मुखो बभूव तावद् एव नन्दिनात्रारोहणे रहःस्थिताया देव्या आज्ञा न वर्तते ।
अतो नारोहव्यम् इत्य् उक्त्वा रुद्धो निषिद्धश् च ततो यावच् छिवः स्वयं तं नन्दिनं बहुशः सम्बोधयन्न् अपि स्वस्माद् एवाग्रहात् मुहुर् मुहुर् अप्रचलन्तं पश्यति तावद् एवातिक्रोधकुटिलदृक् स देवस् तम् इति शशाप रे मूर्ख यस्मान् मां पर्वतस्यास्य पर्वतस्थाया देव्याश् च स्वामिनम् अप्य् अवजानास्य् अतो ऽत्र पर्वतस्याधस्तने भागे त्वं मच्छायेनातिकठिनेन जडबुद्धिर् जटरूपो ऽद्यप्रभृति भविष्यसि ।
अत्र संस्कृतवाण्यां लकारडकारयोर् एकतया समानार्थात् ।
त्वं जलरूपो भविष्यसि ।
एतच् छिवमुखपङ्कजात् निर्गतं शापवह्निं श्रुत्वा सो नन्द्य् अपि अहो शिवार्धायाः शिवाया आज्ञां परिपालयते कथम् इवानेन शिवेनाविचार्य वृथैव शापाम् अस्यां दत्त इति स्वमनसि विचार्य तं स्वस्वामिनं प्रतिशप्तुं समुद्यतमना इत्य् उवाच ।
यस्माद् भवता परवशस्यापि ममाविचार्यैव शापो दत्तो ऽतो भवान् अपि मच्छापेनाद्यप्रभृति कालरूपो ऽत्रैव मज्जलाशयसमीपे भविष्यसि ।
अर्थात् त्वं कालरूपजलवान् जलाशयो ऽत्रैव भविष्यसि ।
अतस् तस्मात् कालाद् आरभ्यैव हरमुकुटपर्वते ऽस्य निकटवर्ति जलाशयद्वयं शिवस्य वरप्रदानेन पावकतीर्थीभूतं च सम्पन्नम् ।
तत्रैकस्य नन्दिक्षेत्रं नाम अन्यस्य कालक्षेत्रं नाम वर्तते ।
आधुनिके काले ऽपि उक्तम् एतज् जलाशयद्वयम् ।
आभ्याम् एव नामभ्यां निर्दिश्यमानं श्वेतजलं कृष्णजलं च यात्रिकदृग्गोचरं भवति ।
किं तु
नन्दिक्षेत्रे सुरावासप्रासादे द्युचरार्पिताः ।
अद्यापि यत्र व्यज्यन्ते पूजाचन्दनबिन्दवः ॥

इति यत् पण्डितकल्हणेन स्वपुस्तके लिखितं ।
तदाधुनिके काले प्रासादादीनाम् अभावेन चन्दनबिन्दूनां दर्शनादि किम् अपि न संगच्छते ।
अतो ज्ञायते पुरताने काले तत् सर्वम् अभविष्यद् एव अस्योक्तजलाशयद्वयस्य काश्मीरिकग्रामीणभाषया नुन्द् कोल् इति नामद्वयं सर्वजनकथ्यमाणं भवति ।
एतत् तीर्थद्वयं लहराभिधपुरगणस्य पर्यन्तभूमौ हरमुकुटगङ्गानिकटे वर्तते ।
हरमुकुटगङ्गायात्रामार्गे पूर्वम् अस्यैव तीर्थद्वयस्य दर्शनं भवति ।
तदनु मुकुटगङ्गातीरं प्रतियात्रिकाः समागच्छन्ति ।
अस्य पुरगणस्य ग्रामीणभाषायां लार्पर्गण इति मुकुटगङ्गायाश् च गङ्गबल् इति नाम वर्तते ।
यतो बल् इति कश्मीरभाषायां स्थानस्य नाम भवति ।
अतो गङ्गबल् इति गङ्गास्थानम् इति यावत् ।
अस्यां हरमुकुटगङ्गाया यात्रायां नुनर्ग्रामो यः कश्मीरनगरात् सप्तभिः क्रोशैर् दूरे वर्तते ।
तत्र यात्रिकाः पूर्वस्मिन् दिने समागत्य द्वितीयस्मिन् दिने करङ्कनदी इति नाम्नाख्यातां नदीम् आश्रित्य तन्मार्गेनैव रामराधन् इति ग्रामं समागच्छन्ति ।
अमुं रामराधन्ग्रामं यावत् सस्यादिक्षेत्राणि ग्रामवर्तिनो वृक्षाश् च सर्वथा दृश्यन्ते ।
अस्मात् स्थानाद् आरभ्य पर्वता एव सर्वत्र भवति ।
तदग्रगण्यतायां भरताभिधो पर्वतो यस्य ग्रामीणमतेन भरुथ् इति नामास्ति ।
तम् आरुह्य यात्रिकाणां गमनं भवति ।
अस्माद् एव स्थानाद् आरभ्य ग्रामादिकं किम् अपि हरमुकुटगङ्गां यावन् न लभ्यते ।
अत्रत्या वृक्षा अपि वन्यवृक्षा एव सर्वत्र दरीदृश्यन्ते ।
भरतपर्वताद् आरभ्य हरमुकुटं यावत् क्वापि तादृशा वृक्षा नैव लभ्यन्ते येभ्यो ऽन्नपचनाद्यर्थे इन्धनं गृह्येत ।
किं तु एकं लताकृति काष्ठं तादृशं वर्तते यद् आर्द्रम् एव तस्मिन्न् एव काले समुन्मूलितं सद् दहति ।
तस्य काष्ठस्य संस्कृते वानरेन्धनम् इति नास्ति ।
तथा च कल्हणः न ज्वलत्य् अग्निसंगे ऽपि निवीर्यं वानरेन्धनम् ।
अयं काष्ठभेदो ज्वालारहितो ऽपि पाकादिक्रियं सम्पादयत्य् एव अस्य ग्रामीणानां भाषणे विठुर् वा विठर् काठ् नाम भवतीति ॥
9. शारदा देवी
श्लोक 37 नम्बर 9 शारदा देवी तत्र शारदापदनिरुक्तिः ।
शराणां बाणानां समूहः शारं दैत्यासु जालं द्यति खण्डयति या सा शारदा ।
अथ वा शारो वायौ स तु त्रिषु कर्बुरे इति कोशमतेन ।
शारं मायारूपं वायुं द्यति नाशयति या सा ।
अन्यच् च ।
शारं शवलं नानाविधं शास्त्रीयं शिल्पादिकं च ज्ञानं ददाति या सा ।
अथ च शकारसकारयोर् ऐक्येन शारदा सारदा च ।
तत्र सारं बलं योग्यं ज्ञानं वरादिकम् उत्तमं च या ददाति सा सारदा ।
एतादृशीं शारदां देवीं द्योतनशीलां ये पश्यंति ।
अर्थात् शारदातीर्थयात्रां ये जनाः कुर्वन्ति ।
ते ऽवश्यम् एव तस्याः प्रसादेन कविसेविता ।
कविभिर् अपि सदा पूज्यमाना ।
वैखरीरूपाया संस्कृतवाणीतां वाणीं प्राप्नुवन्ति ।
शारदावरप्रसादात् कविकर्मनिपुणाः काव्यशक्तिभाजः कवयो भवन्ति ।
अन्यच् च ।
ये तत्तीर्थयात्रासमुद्यतास् तत्र गच्छन्ति ते ऽवश्यं मधुमतीनामनदीम् अपि सम्प्राप्नुवन्ति ।
अर्थात् तद्यात्रामार्गमध्यस्थिता मधुमती नाम्ना प्रख्यातैका नद्य् अपि वर्तते ।

अतो मध्ये मार्गं ताम् अपि ते लभन्ते ।
अतस्
तरङ्गिणी मधुमती वाणी च कविसेविता
इत्यादि कल्हणोक्तं युक्ततमं भवति ।
अस्या एव शारदादेव्याः समाश्रयणेनास्य कश्मीरदेशस्यापि केचन जनाः शारदापीठम् इति नाम वदन्ति ।
तत्र शारदायाः पीठम् आसनम् इति व्युत्पत्त्या शारदाया अधिष्ठानीभूतो ऽयं देशः शारदापीठपदवाच्य इत्य् अपि समीचीनम् एव ।
अत्र शारदादेवीस्थान एको जलाशयः कुण्डाकृतिर् अस्ति ।
यस्योपरि तादृश्य् एका बृहच्छिला वर्तते ।
यया तत् कुण्डं सर्वम् अन्तर्हितं दरीदृश्यमानं सर्वथैवास्ति ।
अत्र भाद्रपदमासशुक्लाष्टम्यां यात्रा यात्रिकैः क्रियते ।
तथा च वपनपूर्वकं श्राद्धहोमादिक्रियाकलापस्य निष्पत्तिर् अप्य् अत्र भवति ।
कश्मीरनगराद् अष्टभिः प्रयाणकैः पडाव् इति ख्यातैः शारदातीर्थप्राप्तिर् अस्ति ।
मार्गे दुर्गमो ऽतिशयेन जलप्रायश् च सर्वथा यात्रिकैर् उल्लङ्घ्यते ।
एतच् छारदास्थानं सर्वम् एव क्रमराज्यमण्डलम् उल्लङ्घ्याग्रवर्तिनि द्रौव् इति ख्याते स्थाने वर्तते ।
कश्मीरभाषायां अस्य शारदास्थानस्य शारद् इति नामा कारयंति ।
अस्य द्रौव्पुरगणस्य करणाव् मुजफराबाद् गिल्गिथ् इत्याद्य् अनेकैः कश्मीरपर्यन्तभूस्थितप्रदेशैस् सह सम्बन्धो भूमैर् भवति ।
एतत्स्थाननिवसमाना जना गुज्जेर् इति नाम्ना ख्याता भवन्ति ।
एते पञ्चनददेशीयभाष्यमाणां भाषां वदन्तो दरीदृश्यन्ते ।
एतस्य स्थानस्य यात्रायां जनानां मार्गद्वयेन गमनं भवति ॥
10. चक्रधरः
श्लोक 38 नम्बर 10 चक्रभृत् ।
चक्रं बिभर्ति धारयति यः स चक्रभृत् विष्णुः ।
अत्र भृधातोर् भृंधातोश् च धारनार्थे समानत्वाच् चक्रभृद् एव चक्रधरः ।
पुरा किल देवोद्वेजकैर् नानाविधैर् दैत्यैस् तपोबलाद् आप्तवरोन्मत्तैर् नानोपद्रवकारकैश् चात एव या भूमेर् भारयमाणैर् यदा सर्वैव पृथ्वी दुर्व्यवस्थबाधिता तदैव सा देवान् समागत्य रुदन्तीत्य् उवाच ।
हे देवा एते वरदृप्ता दैत्या मां सर्वथैव वाधन् किं विधास्यामि ।
कथं वा स्थास्यामि ।
अथ ते देवास् तस्या भूदेव्याः करुणं परिदेवनं श्रुत्वा तां देवीं विश्वासाधायिभिर् वचनैः परिसान्त्वयित्वास्वेनो ऽप्य् उद्वेगं प्राप्ताः सन्तो ऽतितूर्णं सर्वजगच्छरण्यं तया भूदेव्या सह विष्णुं भगवन्तं शरनं समाजग्मुः ।
तत्र प्राप्त्वा ते देवास् तं प्रभुम् अर्थ्याभिर् बह्वीभिः स्तुतिभिर् ईडयित्वा च स्वागमनाभिलाषम् इति प्रोचुः ।
हे प्रभो वयं सर्वे तथैषा पृथ्व्य् अपि दुष्टदैत्यैर् बाधिताः सन्तो ऽतिविद्वलतयाधुना भवन्तं भगवं तं शरणं प्राप्ताः ।
अतो यथा वयम् अनया देव्या सह निर्वृतिं लभेम तथा दैत्यहननं भवान् विधातुम् अर्हति ।
अथ देवाभिमतं भगवान् समाकर्ण्य तान् देवांस् तां भूदेवीं चाग्रतः कृत्वा शिवस्य प्रसादनार्थं शिवलोकं समाजगाम ।
तत्र स भगवांस् तं स्वमूर्तिम् एव शिवं तैर् देवैस् सह स्तुत्यादि यथार्हपूजाभिः सम्प्रसाद्य स्वकीयागमनप्रयोजनं च शिवाय विनिवेद्य तस्माद् यथावत् सन्तोषितात् सुदर्शनाख्यं चक्रं दैत्यसमूहनाशकं तदैव प्राप्तवान् ।
तेनैव चक्रधरेण विष्णुना तदाप्रभृति सर्वत्रस्थायिदैत्यहननकर्मविधिर् आरब्धः ।
अत एव कश्मीरस्थदैत्यहननार्थं विष्णुनात्र विजयेश्वरनिकटवर्तिनि प्रदेशे स्थितिर् आसादिता ।
तस्यैव स्थानस्य पूर्वोक्तचक्रधरसमाश्रयणेन चक्रधर इति नाम सज्जातम् ।
ग्रामीणास् तु एतर्हि तस्य चक्रधरस्य चकधर् इति नाम कश्ंईरभाषायां कथयन्ति ।
तस्य च विजयेश्वरस्य यन्निकटे अयं चकधर् भवति तस्य विज्यभ्रोर् इति आधुनिकं नामास्ति ।
अयं विज्यभ्रोर् तथायं चकधर् अपि दक्षिणपार्श्वपुरगणे यस्याधुना ग्रामीणमतेन दच्छुन्पोर्पर्गण इति नाम भवति तन्मध्य एव वर्तते ।
अत्र लम्बोदरी नाम नदी यस्या अधुना ग्रामीणभाषायां लिदर् इति नामास्ति तस्या एव नद्या वामपार्श्वो दक्षिणश् च पार्श्वो यो ऽस्ति ।
ताव् एव दक्षिणपार्श्ववामपार्श्वाभिधेयौ स्तः ।

तत्र कश्मीरभाषया वामपार्श्वस्य खोउर्पोर्पर्गण दक्षिणपार्श्वस्य च दच्छुन्पोर्पर्गण इति नामद्वयं भवति ।
अस्य चकधरस्य समीपे ऽन्यो ग्रामो यस्य सिमथन् इत्यभिधास्ति ।
सो ऽपि वर्तते अत्र चकधर् अधुनाल्पः पर्वत इव दृश्यते ।
अयं चकधराख्यः प्रदेशो वितस्तानद्या दक्षिणपार्श्वस्थे तटे वर्तते ।
केचिद् वदन्ति ।
अत्र चकधरस्याधस्ताद् एको महाविधिर् अस्ति ।
पूर्वस्मिन् काले ये केचन तेन पथा गतागतं कुर्वाणा अभूवंस् ते ऽवश्यम् एव सर्वदैवानुसारेण प्राचीनरूपकनिष्कापरपर्यायदीन्नारादिलाभभाजो भवन्ति स्म ।
आधुनिके काले ऽपि यः को ऽप्य् अतिदुर्गततमः पुमान् दैत्यम् आश्रित्यातिभक्त्या चकधरम् अमुं प्रदेशं तम् एव चक्रधरम् मन्यमानो धनाशया गच्छति ।
सो ऽप्य् अवश्यं किम् अपि धनादिकं लभत एव ।
अयं प्रदेशः कश्मीरनगरात् पूर्वस्मिन् भागे चतुर्दशभिः क्रोशैर् दूरे भवति ।
अनन्तनागाद् ये कश्मीरनगरं समागच्छन्ति तेषां तु पूर्वम् एवायं प्रदेशस् त्रीन् एव क्रोशान् समुल्लङ्घ्य दृग्गोचरम् आगच्छति ।
विजयेश्वराद् अयम् एकेनैव क्रोशेन दूरो भवति ।
अस्य चक्रधरस्य पादभूमौ चिरा वृक्षाः काश्मीरिका अपि सन्तीति शम् ॥
11. विजयेश्वरः
श्लोकसं 38 नम्बर 11 विजयेशः ।
विशेषेण सर्वेषु देवगणेषु जयति सर्वोत्कर्षेण वर्तते यः स विजयः ।
अथ वा विविधान् दैत्यादिगणाञ् जयति पराभवति वा यः स विजयः ।
स चासाव् ईशः ईष्टे ऐश्वर्यं विदधाति यः स ईशः ।
विजय एव ईशः विजयेशः ।
अस्मिन् प्रदेशे स्थिता शिवस्य मूर्तिर् विजयेशपदवाच्या यत ईशपदाभिधेया सर्वत्र शिवस्यैव मूर्तिः परिपठ्यते ।
अयं विजयेश्वराख्यः प्रदेशो ऽतिचिरकालाद् अनेनैव नाम्ना सर्वदाख्याततमो ऽप्य् अनुमीयते ।
यतो ऽत्र जीर्णोद्धारादिकर्मकर्तार एव लभ्यन्ते ।
न तु साक्षात् कर्तुर् नाम प्रायशो निश्चीयते ।
यस्मात् कल्हणपण्डितो ऽपि स्वकीयराजतरङ्गिणीयाः प्रथमतरङ्गस्यैकशताधिके पञ्चमश्लोके लिखतीति ।
तथा हि
जीर्णं श्रीविजयेशस्य विनिवार्य सुधामयम् ।
निष्कल्मषेणाश्ममयः प्राकारो येन कारितः ॥
येन राज्ञा अशोकेनेत्य् अर्थः ।
अत्र सुधामयस्य प्राकारस्य विनिवारणकथनेन तथाश्ममयस्य प्राकारस्य सम्पादनकथनेनापि अशोकराजः पूर्वम् अप्य् अस्य प्रदेशस्य सद्भावेनातिप्राचीनत्वम् एवावगम्यते ।
पारिसेकपुस्तकेषु केचिद् अयं विजयेश्वराख्यः प्रदेशो राज्ञा सुरेन्द्रेण यो ऽशोकाद् राज्ञो ऽप्य् अतिपूर्वकालीनो ऽभूत् तेनैव सम्पादितो ऽस्त्य् इति लिखन्ति ।
अन्ये तु ईशानदेवीति ख्यातया सुरेन्द्राशोकयो राज्ञोर् उत्तरकालभाविनो भुवो भर्तुर् जलौकस्य राज्ञ्या निर्मितो ऽस्तीति कथयन्ति ।
केचन अशोकेनैव राज्ञा च प्रदेशे प्रथमतो निर्माणं कृतम् इति स्वपुस्तके लिखमाना दृश्यन्ते ।
परं तु उक्तमतत्रयात् किम् अपि संगततमं समीचीनं वा न भाति ।
तत्र राजतरङ्गिण्यां प्रथमतरङ्गस्यैकाधिकनवतितमश्लोकाद् वर्ण्यमाने सुरेन्द्रस्य राज्ञो वर्णने सर्वस्मिन्न् अपि विजयेश्वरस्य नामापि नास्ति ।
अतः सुरेन्द्रसम्पादितो ऽयम् इत्य् अप्य् असंयुक्तम् ।
ये तु वदन्ति जलौकराज्ञ ईशानदेवीति ख्यातया राज्ञ्यायं प्रदेशो निर्मित इति तत्र राजतरङ्गिण्यां प्रथमतरङ्गस्यैकशताधिकसप्तमश्लोकाद् वर्ण्यमाने जलौकस्य राज्ञश् चरित्रे तदन्तर्गत एव तद्राज्ञ्याः पूर्वोक्तायाश् चारित्रे ऽपि क्वापि विजयेश्वरख्यातां न लभ्यते ।
अतस् तद् अप्य् असंगतम् एव भाति ।
ये तु अशोकराजानम् एव विजयेश्वरसम्पादकम् मन्यमानाः स्वपुस्तकेषु अशोक एव विजयेश्वरसम्पादक इत्यादि लिखन्ति ते सुधामयजीर्णप्राकारं निवार्य नवीनम् अश्ममयप्राकारसम्पादनं राजतरङ्गिणीत एव लब्ध्वा तस्यैव जीर्णोद्धारादिकर्मणः साक्षात् सम्पादनं जानन्तस् तथा लिखन्ति ।
अतस् तेषां तद् अप्य् अविचारितम् एव भाति ।
यतः सम्पादकजीर्णोद्धारकर्त्रोः परस्परं महान् भेदो भवति ।

वस्तुतस् तु राजतरङ्गिण्याः प्रारम्भे ऽपि विजयेश्वरस्य नाम सर्वथादस् अदृश्यमानं यद् भवत्य् अतो ज्ञायते कल्हणपण्डितेनापि साक्षाद् अस्य प्रदेशस्य कर्ता न संज्ञातः यतस् तेनापि अशोकराज्ञः पूर्वम् अपि वर्ण्यमाने राजवृन्दे काप्य् एषा वार्ता नोक्तात एवास्यातिप्राचीनत्वं सम्यक्तया प्रतिभाति ।
अत्रानन्तनागाद् आगमनमार्गोपलक्ष्यमाणवितस्ताया वामपार्श्वे विजयेश्वराभिधम् एतद् एवागारं वर्तते ।
कथयन्ति च वृद्धाः ।
अस्मिन् प्रदेशे मन्दिराधिधं देवतागारं पाषाणनिर्मितं सदैवाभूद् इति ।
परं त्व् एतस्मिन् काले दृश्यमाणं पाषाणनिर्मितं यत् स्थानं प्रतिभाति तन् नाकलोके सद्गतिम् आप्तेन श्रीरणवीरसिंहराज्ञा कश्मीरजम्वाद्यनेकदेशाधिपतिना बहुभिर् वर्षैर् महतायासेनातिप्रभूतेन यत्नेनापि सहस्रसंख्याकान् रूपकान् व्ययीकृत्य सम्पादितं भवति ।
अस्मिन् मन्दिरे ऽधुना शिवस्य प्रतिमास्ति ।
तत्पूजादिनिर्वाहाय राज्ञा एको ग्रामो ऽप्य् अग्रहारव्यपदेशे नातिथिपूजायै च स्थापितो ऽस्ति ।
ग्रामीणास् तु अस्य मन्दिरस्य हरिचन्द्रकृतत्वम् अवगच्छन्तः स्वकीयकश्मीरभाषायां हरिचन्द्राजन् मन्दिर् तथास्य नदीतटाज् जलम् अन्ववतीर्यमाणस्य सोपानमार्गस्य च हरिचन्द्राजुन् यारबल् इति नामनी कथयन्ति ।
तत्र प्रथमनाम्नो हरिचन्द्रकृतं मन्दिरम् इत्य् अर्थः ।
द्वितीयनाम्नस् तु हरिचन्द्रसम्पादितो ऽयं सोपानमार्ग इत्य् अर्थः ।
यतः कश्मीरभाषायां सर्वेषां सोपानमार्गानां यारबल्शब्देनैव व्यपदेशः ।
तत्र कश्मीरभाषायां यार् इति सख्युर् नामास्ति ।
तेषाम् एव सखीनां बल् स्थानम् इति यतः कश्मीरदेशे प्रातःकाल एव सर्वे स्नानाय नदीतटम् आश्रयन्ते ।
अतो ये परस्परं सखायस् ते तत्र संगच्छन्ते ।
एतस्माद् एव कारणाद् अस्य नदीतटस्य यारबल् इति नाम सम्पन्नम् अत्र विजयेश्वराद् ऊर्ध्वं कतिचिद् एव पदानि गत्वा चिनार् इति भाषायां प्रसिद्धा ये शास्त्रीयभाषायां छायावृक्षपदाभिधेयास् ते बहवो वृक्षाः सन्ति ।
तथा वितस्ताया विजयेश्वरसम्मुखवर्तिनि पारे तटे ऽपि बहव उक्तवृक्षा भवन्ति ।
वदन्ति च जना एतत् वृक्षषण्डवलितं स्थानद्वयं प्राचीनराज्ञ उपवनद्वयम् अस्ति ।
अनयोर् उपवनयोः पादशाह्य् बाग् इति ग्रामीणोक्तं नामास्ति ।
तथास्य प्रदेशस्य तन्मतेन विज्यभ्रोर् इति नाम ।
अत्र विजयेश्वरनिकट एव नद्याः पारावारगमनाय एकः प्रतरो ऽपि भवति ।
यस्य विज्यभ्रोरि कदल् इति वदन्ति ।
अत्रोक्तोपवनभूमौ पुराचीने राजकृतनिर्माणस्य ऐक्वष्टकादिकम् अद्यापि दरीदृश्यत इति शम् ॥
12. आदिकेशवः
श्लोकसं 38 नम्बर 12 आदिकेशवः अस्य केशवस्य निरुक्तिः ।
कं ब्रह्माणं अं विष्णुं ईशं शिवम् अपि यो व्याप्नोति स्वस्मिन्न् अवभासकत्वेन तान् अवभास्यमानाच् छादयति स केशवः ।
तथा च अस्य सर्वस्य जगतः सृष्ट्यादेर् आदाव् अपि वर्तमानो यस् स आदिकेशवः ।
अर्थाज् जगत्सर्जनपालनान्तकरणादिकर्मकारी ।
आद्यः सनातनः परमात्मा विष्णुर् यो ऽयं स एवादिकेशवपदाभिधेयः ।
सर्वासाम् अस्मिन् कश्मीरमण्डले स्थितानां नानाविधदेवमूर्तीनां मध्या यस्माद् एषैव विष्णोर् भगवतो मूर्तिर् अत्रस्थाद्या भवति ।
अत एवादिकेशवपदवाच्या सम्पन्ना ।
अस्यैवादिकेशवस्य सद्भावेनामुष्य पुरगणस्याप्य् आद्यावनिर् इति नाम संलग्नम् ।
तत्राद्यादौ भवा अवनिर् भूमिर् इत्य् अर्थः ।
आदिकेशवस्य स्थित्या यत एषैव भूमिस् सर्वाभ्यो भूमिभ्यो ऽग्रगण्यताथास्पदीभूतात एवाद्यावनिर् इति सम्पन्ना ।
केषांचिन् मते तु पुरास्या भुवः सतीसरोरूपावस्थायां यदाम्भोभिर् एव सर्वतः प्रोच्छलद्भिर् आवर्तपुटभेदादिजलविकृतिशालिभिस् सदैव नदीमातृकत्वदेशगुणसम्पत्त्या सरः-परिपूरयद्भिर् एवायं भागः समाक्रांत आसीत् तदा कश्यपर्षितपोविभूतिसन्तुष्टदेवगणप्रसादेन जलस्य देशनिवसन-मण्डलस्थापनाद्यर्थं स्थलरूपतासम्पादनकाले भूमित्वप्रकटीभावे ऽत्रैवाद्यावनौ भूमित्वं यदृग्गोचरीभूतम् ।
अत एवास्य पुरगणस्याद्यावनित्वेन व्यपदेश इत्याद्य् अप्य् अस्ति ।
तत्राद्यावनिपदस्य आदौ भवाद् या सा चासौ भूमिर् आद्यभूमिर् इत्य् अर्थः ।
वर्तते चात्राद्यावनिपुरगणे ऽनेन नाम्नाख्यात एको जलाशयः यस्य केशवपदवाच्यस्याकृतिर् अधुनेत्थं दृश्यते ।
उपरितने भागे विस्तृताकृतिस् तथाधस्तने भागे संकोचमुक्तं भवति ।
अयं जलाशयः पूर्ववर्णितसन्ध्यादेवीजलाशय इव वर्तुलाकारो भवति ।
ग्रामीणास् त्व् एतर्ह्य् अस्य ग्रामस्य घटायम् आदिकेशवमूर्तिर् जलाशयो वर्तते तस्य ग्रामस्य फ्रसल् इति नाम ब्रुवाणा भवन्ति ।

पुनश् चास्य पुरगणस्य यत्रायं ग्रामस् तस्य पुरगणस्य आड्विन् इति नाम वदन्ति ।
अस्य जलाशयस्यापि केशवनाग् इति तद्भाषया ख्यातं नामास्ति ।
तत्र केशवस्यास्यैवादिकेशवस्य नाग् जलाशय इत्य् अर्थः ।
यतः कश्मीरदेशे ये ये सर्वे जलाशयास् ते ते नाग्पदाभिधेया एव भवन्ति ।
अस्य फ्रसल् इति ख्यातस्य ग्रामस्य निकटे ऽन्यो ऽपि ग्रामो भवति ।
तस्य आर्वञ् इति नामास्ति ।
अतः केचन ग्रामीणाः फ्रसल् आर्वञ् इति समस्तम् अपि कथयन्ति नाम ।
अस्य जलाशयस्यास्पदीभूत आड्विन्पुरगणो देवसर्पुरगणाद् अधस्तने भूभागे वर्तमानो भवतीति ॥
13. ईशानः
श्लोकसं 38 नम्बर 13 ईशानः ।
सर्वस्मिञ् जगति ईष्टे ऐश्वर्यं यः करोति स ईशानः ।
सर्वदेवगणाधिपति लोकवर्ति सम्पच्छालि ऐश्वर्यम् ईहमानो यः शिवः सर्वर्द्धीनां भूतीनां समस्तानां प्रभुश् च स ईशानपदाभिधेयः ।
शिवेशानयोः पदयोर् एकपर्यायत्वेन वर्ण्यमानप्रदेशस्थैषा शिवमूर्तिर् इत्य् अर्थः ।
अथ वा कल्हणपण्डितकृतराजतरङ्गिणीद्वितीयतरङ्गवर्ण्यमानसन्धिमान् सन्धिमतिश् चेत्य् आख्यस्य राज्ञो यो गुरुर् यस्य प्रसादात् तेन मृतेनापि राज्ञा सन्धिमतिना पुनर्जीवितं समाकलितं स एव ईशाननामा यतस् तदाख्ययाप्य् अत्रस्थैषा शिवमूर्तिर् ईशानपदवाच्या संजाता ।
तथा च कल्हणराजतरङ्गिणीद्वितीयतरङ्गस्यैकशताधिके सप्तत्रिंशत्तमे श्लोके
कृत्वा सन्धीश्वरं देहसन्धानपितृकानने ।
ईशानस्य गुरोर् नाम्ना व्यधाद् ईशेश्वरं हरम् ॥
ईशेश्वर इति नाम्नाख्यातो ऽपि भक्तस्य तस्यैवेशानस्य नाम्ना प्रख्यातिम् आगतः ।
यदि अप्य् ए[...] शानकालात् पूर्वम् अपि शिवमूर्तिप्राकट्येनात्र प्रदेशे ऽतिपूतत्वातिमाहात्म्यवत्त्वं चासीद् एव तथापि ईशानस्येवातिचित्रीयमाणचरित्रप्राकट्यकरणवशतः सर्वथैव ख्यातिमत्त्वं सम्पन्नम् ।
अत्र द्वितीयतरङ्गे पञ्चाधिकं षष्टितमं श्लोकम् आरभ्य वर्णनीयो यो जयेन्द्राख्यो राज्ञो विजयस्य पुत्रस् तस्यैवायं सन्धिमतिर् नामा ईशानस्य शिष्यो मन्त्री मतिमदुत्तमो पूर्वं बभूव ।
अथ भूतं पुरुषास् तं चपलकर्णं मत्तकरिणम् इव राजानम् अयं सन्धिमतिर् भवन्मन्त्र्य् अत्यद्भुतम् अतिवैभववान् सर्वथैवास्त्य् अतो ऽस्माद् राज्यहरणादिशंकावश्यं विधेयेत्यादि कथयाम् आसुः ।
अस्माद् एव हेतोर् अनेन भूतं वञ्चितेन राज्ञा तस्मिन् बुद्धिमन्त्रिण्य् अपि वैरबुद्धिः कोपेन सम्यक्तम् आकलिता ।
अथ तद्वैरविस्मारिततत्प्रीतिस् स राजा स्वसभाप्रवेशनिवारणपूर्वकं तत्सर्वस्वापहरणपूर्वकं च तं मन्त्रिणम् अहेतुकम् एव यावज्जीवं दरिद्रताम् अनयत् ।
एतादृशीं दुरवस्थाम् आप्तो ऽपि स मन्त्री तत् स्वस्य राज्यकार्यादिभ्रंशं प्रत्यूहरहितशिवपूजावसरलाभेन व्यथाकारि नाज्ञासीत् ।
अथ भाविनो ऽर्थस्य बलवत्तया सन्धिमतेर् एव राज्यं भविष्यतीदृश्य् एव वाणी प्रतिवेश्माकस्मात् प्रख्यातिं प्राप्ता ।
तथा च द्वितीयतरङ्गस्य चतुस्सप्ततितमे श्लोके
अथ भाव्यर्थमाहात्म्यात् पप्रथे प्रतिमन्दिरम् ।
राज्यं सन्धिमतेर् भावीत्य् अश्रुतापि सरस्वती ॥
ततश् च स राजा पूर्वोक्ताया एतादृश्या वाण्याः श्रवणेनाकस्माद् ईदृशी वाणी नव प्रचरत्य् अतो देवादिप्रेरितैवावश्यं भवतीति ज्ञात्वा च समुत्पन्नमहाभीतिस् तं मंत्रिणं कारागृहे स्थापयाम् आस ।
तत्र तस्योग्रनिगडपीडितपादस्यात एव शोषं प्राप्तस्य दशवर्षाणि पूर्णताम् ईयुः ।
तान्य् एव दशवर्षाणि सन्धिमतिस्वामिनो ऽस्य जयेन्द्रस्य राज्ञ आयुः शेषस्यावधि भूतान्य् अथासनथापुत्रमररोगकृतपीडस् तस्य मात्रेण श्चिन्तया च कृतातिपीडाते एव मुमूर्षरन्तर् एव महान्तं दाहम् आससाद ।
इत्थम् एव तेन मन्त्रिविद्वेषज्वलनेनाहर्निशं ज्वलता ताप्यमानस् स भूपो तस्य मन्त्रिणो वधं विना भवितव्यप्रतीकारं किम् अपि न मेने ।
अहो पण्डितम् मन्याः पुमांसो अस्य भाविनो ऽर्थस्य गोपनाय यं कंचनोपायं विदधति स एवोपाय निवारितं हारं दैवेन तस्यार्थस्य कल्पते ।
यथा दैवं स्वाज्ञया काष्ठवृन्दस्थस्य स्तोकतेजसो ऽप्य् अग्निकणस्य निरुपमां शक्तिम् आधातुं इच्छति ।
तदा तस्य महतीम् एव शक्तिम् आधास्यमानस्योक्ताग्निकणस्य निर्वापणं यः कश्चन दैवबलम् अजानतः कर्तुम् ईहेत तस्य तद् दैवं तापगलितघृतयुते घृतकुम्भे वारिकुम्भभ्रमं करोति ।
अथ यदैव राज्ञा मन्त्रिघाताय वधकर्माधिकारिणः समादिष्टाः तदैव स सन्धिमतिस् तैः शूलं समारोप्य हन्यते स्म ।
ततो ऽपि तस्मिन् मन्त्रिणि शूलं प्रोते सति तस्य राज्ञ आदौ स मन्त्रिचिन्ताद् दुःखशङ्कुर् निरगच्छत् ।
पश्चाज् जीवितम् अपि निर्जगाम ।
अथ तथाहतस्य स्वकीयशिष्यस्य वधं श्रुत्वा वशिनो ऽपीशानाभिधस्य तद्गुरोर् मनो ऽन्तस्तप्तं बभूव ।
अथ एव तस्य विनीतस्य शिष्यस्यान्तकालीनो चितसत्क्रियाकर्मणे स ईशानो यस्यां भुवि सन्धिमति मृत्युर् अभूत् ताम् एव श्मशानभुवम् आजगाम ।

तत्र स ईशानस् तं स्वशिष्यं तस्मिन्न् एव शूलमूले ऽवष्टब्ध्वास्थिशकलम् अधस्ताद् वृकैर् बलात् कृष्यमाणाम् अस्थिशेषम् एव ददर्श ।
दृष्टा च समहतातिशोकेन हा वत्सेदृशीं त्वद् अवस्थाम् एव द्रष्टुं जीवामीत्य् उक्ता तस्मिञ् शूले प्रोतं कङ्कालं वाशतो वृकात् निवारयन् स निनाय ।
अथोचितं संस्कारम् अन्तिमं कर्तुं यावत् स ईशानः समुद्यतस् तावत् अस्य स्वशिष्यस्य ललाटपट्टे दैवलिखितम् इदं श्लोकं पपाठ ।
तद्यथा ।
यावज्जीवं दरिद्रत्वं दश वर्षाणि बन्धनम् ।
शूलस्य पृष्टे मरणं पुना राज्यं भविष्यति ॥
इति ।
ततश् च स गुरुर् अस्योक्तश्लोकपादत्रयस्य यथार्थतया ज्ञातार्थो ऽतश् चतुर्थपादार्थे ऽवश्यद्रष्टव्ये कौतुकान्वितो भूत्वा मनसि कथम् इवैतद् भविष्यतीत्य् अचिन्तयत् ।
अथ सदैव शक्तिम् अचिन्त्यप्रभावां यया पूर्वम् अर्जुनपरीक्षित्कचादयो मृताः सन्तः पुनर्जीवितं प्राप्तास् ताम् एवाघट्यमानघटकां विचार्य देवं सर्वसिद्धिषु निर्निरोधम् अतिप्रगल्भं स्तुत्वा भाविनो ऽर्थस्य सिद्धिदर्शनायोद्यतस् तस्मिन्न् एव श्मशाने कृतवसतिस् तं तस्य कङ्कालं ररक्ष ।
अथैकदा निशीथे तयैवाश्चर्यचिन्तया जाग्रन् स ईशानः पूर्वं दिव्यधूपगन्धम् अकस्माद् आघ्राय डमरुघराटादिनानावाद्यानां ध्वनिं शुश्राव ।
ततः स शब्दं श्रुत्वैव यावत् तमो ऽरिम् उद्घट्यमानः पश्यति तावद् एव तेन तेजोमण्डलविराजमानं योगिनीचक्रं तस्यां पितृवनभूमौ समागतं दृष्टम् ।
अथ ताभिर् योगिनीभिर् यावद् एव तत् अस्य कङ्कालम् अपवास्यते तावद् एव भीतस्य तस्य गुरुर् धृतखड्गस् तां श्मशनभूमिम् आगच्छत् ।
आगत्य स वृक्षच्छन्नस् तैर् योगिनीगणैस् संपुज्यमानसमस्तावयवम् अत एव मण्डले शायितं तं कङ्कालं पश्यति स्म ।
ताभिर् मदिरापापिदेवताभिर् योगिनीभिर् उत्तमवरसंयोगकामिनीभिर् यदान्यो वरः को ऽपि न लब्धस् तदा स एव कङ्कालो त्विष्यापस्यतः ।
अथ ताः स्वम् एकम् एकम् अङ्गं क्षणाद् एव तस्मिन् संस्थाप्य कुतो ऽपि पुरुषलक्ष्म्याप्य् आनीय तं पूर्णाङ्गं चक्रुः ।
पुनश् च योगिन्यो यद् अनाक्रान्तान्यविग्रहं पुर्यष्टकम् अत एव भ्राम्यत् तद् एव योगबलेन कुतोऽप्य् आकृष्य तस्य सन्धिमतेः कंकस्य स्थापयाम् आसुः ।
ततः स सन्धिमतिः सुप्तप्रबुद्ध इव ताभिर् दत्तदिव्याङ्गरागश् चक्रनायकत्वम् आदधानस् ताभिस् सह यथेष्टसम्भोगादिलाभवान् बभूव ।
अथ प्रभातीभूतायां रात्रौ स ईशानस् तद्योगिनीदत्ताङ्गादिविभागं पुनर् अपि नीयमानम् आशङ्कभीतः संस् तद्रक्षार्थं धीरस् सन्न् अत एव नदश् च तद् एव स्थानं यावद् एव समागच्छति तावद् एव तद्योगिनीवृन्दं क्षिप्रम् एव ऽतिरोहितम् ।
तासां चान्तर्हितानां योगिनीनां तेनेत्थं वाण्य् अपि श्रुता हे ईशान तव भयं मास्तु ।
यतो ऽस्माकम् अनेन कर्मणाम् अङ्गहानिर् नास्ति ।
अस्मिन् बते वञ्चनापि नास्ति ।
प्रत्युतायम् अस्मद् वराद् दिव्यशरीरेण सन्धीयमानो ऽतः सन्धिमन्नामा राजा पुनश् चार्यतया आर्यराजाख्यया भुवि ख्यतो भविष्यति ।
ततश् च स सन्धिमतिर् दिव्यांशुको दिव्यभूषणः स्रग्वी लब्धपूर्वस्मृतिश् च प्रह्वीभूय तं स्वगुरुं ववन्दे ।
अथ स राजा तेन गुरुणा सह संसारस्यासारतायाश् चित्ततायाश् च कथां कृत्वा तद् अनुमन्यैव कथम् अपि कृच्छेण निःस्पृहो राज्यपालनम् अनुमतवान् इतीत्थं वर्णितो यो गुरोस् तस्यानिर्वाच्योपकारस्य वास्य वर्ण्यमानेशेश्वरेति ख्यातप्रदेशस्य निर्मित्यादौ मुख्यो हेतुः ।
यद्य् अपि पूर्वम् अत्रस्थो ऽपि महादेवाभिधः शिवो ऽभूत् तथापि तस्येशानस्यैव नाम्नाद्यापि ख्यातिमत्वं भजते ।
अस्य प्रदेशस्याधुना गुप्तगङ्गा इति नाम सर्वजगत्ख्यातं भवति ।
तत्र महादेवेन गङ्गा यतो गुप्तागोपितेति यावत् अतस् सार्थकं गुप्तगङ्गेति नाम एतत् ।
प्रदेशनिकटस्थमहादेवाख्यगिरिम् आरूढेन महादेवेन गोपिता गङ्गा प्रतिवत्सरं वैशाख्यां संक्रानौ गुप्तगङ्गाम् अत्रस्थां गङ्गाम् एव मन्यमानाः सर्व एव काश्मीरिकाः सबालवृद्धाः स्नातुं समायान्ति ।
अस्य प्रदेशस्याधुना ईशभ्रार इति नामापि वदन्ति ।
तत्र ईशस्य ईशानस्य भ्रार् देवता इति यतः कश्मीरभाषायां भ्रोर् भ्रार् इति ख्यातं पदद्वयं देवदेव्योर् अर्थे विद्यमानं दृश्यते ।
तत्रापि भ्रोर् देवः भ्रार् देवीति ।
पुनश् च देवताशब्दस्य शास्त्रे स्त्रियां वर्तमानस्य भ्रार् इति भाषायाम् अपि स्त्रीत्वेनैव व्यपदेशः ।
ग्रामीणास् तु अस्य इशभ्रार् पदस्यापभ्रंशवशात् इशवर् इति कथयन्ति ।
पुनश् चायं प्रदेशो यस्मिन् पुरगणो वर्तते तस्य पुरगणस्य फाक्पर्गण इति नाम ब्रुवाणाः सन्ति ।
अयं पुरगणः कश्मीरनगरात् क्रोशत्रयेण दूरे वर्तते ।
अत्र गमागमौ जलमार्गेण नौकाभिस् तथा स्थलमार्गेणाप्य् अश्वादिना भवतः ।
अयं प्रदेशो निशात् वागाख्यो पवनात् पादोनक्रोशदूरतायां भवति ।
अत्रैको जलाशयश् शीतलजश् चतुष्कोणाकारो ऽन्तर् अस्ति ।
पुनश् चैतादृश एवान्यो ऽपि जलाशयस् तस्यान्तःस्थजलाशयस्य वार्ये प्रदेशे वर्तते ।
उभयोर् एव जलाशययोर् मध्ये ऽल्पः प्राकार इष्टकापाषाणादिनिर्मितो ऽधुनाप्य् अवशिष्टो भाति ।

परं तु स्नानादिव्यवहारो वार्य एव जलाशये भवति ।
आन्तरे तु केवलं पूजनादिकम् एव सर्वैः क्रियते ।
अस्य जलाशयस्योपरितने भागे पुरातनराजनिर्मितम् एकं मन्दिरम् अपि सर्वथाविनष्टम् आकृत्यैवोपलक्ष्यमाणं आद्यापि दृश्यते ।
कथयन्ति तत्रत्या अन्याश् च वृद्धाः ।
अयं देवालयो रज्ञा सन्धिमतिना स्वस्य गुरोर् अर्थे सम्पादितो ऽस्तीति मन्दिरसंग्रहादाव् अपि सन्धिमतिर् एवास्य प्रदेशस्य कर्ता ज्ञातो भवति ।
अस्मात् प्रदेशाद् ऊर्ध्वं पर्वतो ऽप्य् अन्यो ऽस्ति ।
अत एवेदं स्थानं पर्वतस्य पाददेशे भाति ।
अस्मिन् पर्वते कियन्मात्रदूरतायां गोपीतीर्थाभिधं तीर्थम् अपि भवति ।
ग्रामीणा अपभ्रंशात् तस्य गुपत्रथ् इति नाम वदन्ति ।
अत्रेशानतीर्थात् कतिचित् पदानि गत्वाधस्तने भागे गुहाप्य् अस्ति ।
तस्या गुहाया निकटे साहिबपदवाच्यानां वैष्णवब्राह्मणानां गृहम् अप्य् अस्ति ।
ते ब्राह्मणाः कदापि मांसादि न भक्षयन्ति ।
अत्राधुनिकराजकृतारम्भमन्दिरम् अर्धसम्पन्नम् अप्य् अस्ति ।
एतज् जलाशयद्वयं चतुर्भिर् एव दिग्भिः प्राकारवेष्टितम् अधुना वर्तते ॥
14. लोलोरं लोलरं वा
श्लोकसं 86 नम्बर 14 चतुरशीति श्लोकाद् आरभ्य वर्ण्यमाने लवराज्ञश् चरित्रे लोलोरं लोलरं वा ।
तत्र लोलोरनिरुक्तिः ।
लोलाश् चञ्चलमनसः रान्ति ददति ये ते राः दातार इति यावत् ।
न राः अरा अदातारः ।
लोलाश् च अराश् च जना यस्मिन् स्थाने निवसन्तो भवन्ति स लोलोरः ।
अथ वा लः शेषे च भये ख्यातः शास्त्रतः पूर्वसूरिभिर् इत्य् एकाक्षरकोशोक्तेर् लः शेषं भयं च तत्रास्य मण्डलस्य शेषतया प्रान्तस्थितिरूपया यद् अयं प्रदेशः स्थितो यतश् चातिप्रान्तरकान्तारगह्वरादिमार्गैर् भययुतश् च ।
किं तु केवलं स्थानमनोहरत्वादिनैव रः सुखदो यः सो ऽपि लोलोरः ।
अथ द्वितीयस्य लोलरनाम्नो निरुक्तिः ।
नानाविधवृक्षलतागुल्मजलं स्थलादिभंगीभिश् चञ्चलो यः स लोलः ।
अतिमनोहरत्वेन रतिसुखं ददाति यस् स रः ।
लोलश् चासौ रः लोलरः ।
यद् अत्र प्रदेशे तेन लवनाम्ना राज्ञात्यद्भुतं नगरं निर्मितम् अतो ऽत्र लोलरं लवपुरम् इत्य् अर्थप्रतीतिर् अपि समीचीना ।
तथा च पण्डितकल्हणस्य राजतरङ्गिण्याः प्रथमतरङ्गस्य पञ्चाशीतितमे श्लोके
तेन षोडशभिर् लक्ष्यैर् विहीनाम् अश्मवेश्मनाम् ।
कोटिं निष्पाद्य नगरं लोलरं निरमीयतेति ॥
लवपुरशब्दस्यैवापभ्रंशवशतो ऽयं लोलरेति नामानुमीयते ।
केचित् पारिसेकभाषानिर्मितराजतरङ्गिण्यनुवादकर्तारः ।
सो लवाभिधो राजा सर्वदैव गीतिप्रियो ऽतिशयेनाभूत् ।
अतस् तद्राज्यकाले ये तत्कृतलोलरनाम्नि नगरे निवसमाना जनपदा आसंस् ते तृप्तस्य राज्ञो गानप्रियत्वम् एव सर्वथा समाकलय्य गायनशिक्षायाम् एवानिश्चयं कुर्वाणास् सर्व एव गीतिविद्याकुशला बभूवुः ।
अत एव कश्मीरभाषागानविषये तस्यैव राज्ञो लवलवेति नाम प्रथमं गानारम्भ एवाकरयमाणास् तस्थुः ।
यस्य लवलवेति भूपनाम्नः कालेन महता लोलो इति शब्दो ऽपभ्रंशवशात् स्फुटीभूतः तेनैव लोलोशब्देन देशो ऽपि सः ख्यातिं प्राप्तः ।
अतो लोलव् इति नामास्य स्थानस्य इत्यादि स्वपुस्तकेषु लिखन्ति ।
वर्तते चाधुनिके काले ऽपि कश्मीरभाषायां अयं लुःलुःशब्दो गानमध्ये पादपूरणार्थो गाने वर्णनीयस्य प्रियस्य सम्बोधनार्थश् चेति सर्वजनविदितं भवति ।
अस्मिन् पुरगणे एको ग्रामस् तादृशो ऽपि भवति ।
यस्याधुनिके काले सर्वे जना लुलुर् इति नाम वदन्ति ।

अतो हेतोर् अपि ग्रामस्यास्य नाम्नैवायं सर्वः पुरगणो ऽपि लोलव्शब्दाभिधेयः सज्जात इत्य् अपि ।
केचिद् ग्रामीणा नागरिकाश् च स्वमतं स्थापयन्ति ।
एकेन मध्यस्थितेन ग्रामेणापि पुरगणः सर्वस् तच्छब्दाभिधेयो भवतीत्य् अन्येषु स्थानेष्व् अपि ज्ञायते ।
तथा हि नागाम् इत्याख्यपुरगण एकेनैव मध्यस्थितेन कसवनागाम् इत्य् आख्येन ग्रामेनैव नागाम्पदवाच्यो भवति ।
ग्रामीणास् तु एतर्हि अस्य लोलराख्यप्रदेशस्य लोलव्पर्गण इति नामैव प्रख्यापयन्तो भवन्ति ।
अपरं च अस्य ग्रामस्य लुलुर् इति ख्यातस्य यत् नाम पुरगणो ऽपि सर्वो बिभर्ति ।
तस्य लाल्पोर् इति नाम कथयन्ति ।
अस्मिंल् लोलरप्रदेश-गमनागमने मध्य एकः पर्वतो ऽपि भवति ।
यम् आरुह्यैव सर्वदा जनानां गमागमौ भवतः ।
अयं पुरगणः क्रमराज्यस्थपुरगणयोर् उतर् खुयहोम् इत्याख्ययोर् मध्ये भवति ।
यत उक्तपुरगणद्वय-मार्गेणापि यियासूनां मार्गलाभो भवति ।
अयं प्रदेशः क्रमराज्यस्यापि प्रान्तभूमौ यतः स्थितो ऽस्त्य् अतो ऽस्य निरुक्तौ शेषतया स्थित्यादिकथनम् अपि समीचीनम् एव संगच्छते ।
परं तु षोडशलक्ष्यविहीना या कोटिर् अर्थाच् चतुरशीतिलक्ष्याण्य् अश्ममयगृहाणां सम्पाद्य नगरं लवेन राज्ञा निरमायीत्यादि कल्हणेन यत् स्वपुस्तके लिखितम् अस्तीति ।
तानि गृहाण्य् आधुनिके काले ऽतियातचिरकालवशाद् विनष्टान्य् अतो नैव दृश्यन्ते ।
किं तु पाषाणगणाः सर्वत्र बहवो दरीदृश्यन्ते ऽतो ज्ञायते ते पाषाणास् तेषाम् एव गृहाणां शेषीभूतोपलक्षणीभूताश् च स्युः ।
अस्य लोलव्पुरगणस्याद्यो यो ग्रामः सः खुमरियाल् इत्याख्यया यश् चास्यान्ते ग्रामः स लाल्पोराख्यया प्रख्यातो भवति ।
अस्य खुमरियाल्ग्रामस्य मध्ये ऽतिशीतलजलो जलाशयो वर्तते ।
पुनश् चास्य निकट एव चण्डीग्रामश् चण्डीदेव्यास्पदीभूतजलाशययुतो भवति ।
तस्य चण्डीग्रामस्य ग्रामीणभाषायां चणागोम् इति नाम ।
ईदृशा एवान्ये बहवो ग्रामा देवतास्पदीभूताः सतीति शम् ॥
15. लेदरी
श्लोकसं 87 नम्बर 15 लवस्यैव राज्ञश् चरित्रे लेदरी ।
अत्र निरुक्तिः ।
लः शेषे च भये ख्यात इति शिवप्रोक्तैकाक्षरकोशोक्त्या लो भयं तस्मिन् ले भये भयोत्पादनवेलायाम् इति यावत् दरी गुहा वदति ।
गभीरा गहना दुस्तरा च या दृश्यते सा लेदरी ।
अथ वा दः कलत्त्रेबुधैः प्रोक्तो दानच्छेदनदातृषु इत्य् एकाक्षरकोशमतेन ।
ले भये दं छेदनं भयच्छेदनं राति ददाति या सारी ।
अर्थात् भये संजाते तच्छेदनदात्री भयच्छेत्त्रीत्य् अर्थः ।
एतादृशी या नदी ।
अस्या लेदरीनद्या भृङ्गीशसंहिताम् अतावलम्बनेन लम्बोदरीति नामापि केचिद् वदन्ति ।
तत्र लम्बम् उदं रयस्य स लम्बोदरो गणेशस् तन्मुखात् निःसृताया नदी तस्या लम्बोदरीशब्देन व्यपदेशः वर्तते ।
चामरेश्वरयात्रामार्गे गणेशबलाभिधे प्रदेशे महत्य् एका नदीमध्यस्थिता गणेशस्याश्ममयी पूज्यतमा प्रख्यातमूर्तिः ।
यस्या मूर्तेस् साक्षाद् गजीकृतित्वं धारयन्त्याः पुष्करात् निर्गच्छन्ती पीतोज्झितेवैषा नदी भाति ।
परं तु लेदरीति नाम्नाप्य् अस्या नद्याः सोपपत्तिकं संहितासंगतं चाप्य् अस्ति ।
यतो ऽस्मिन् दक्षिणपार्श्वाख्यपुरगणे यस्मिन्न् एषा नदी प्रवहति तत्र लिदर् इत्याख्यो ग्रामो ऽस्या नद्यास् तटप्रदेशस्थितो ऽस्त्य् अतस् तदाख्ययाप्य् एषा नदी प्रख्यातिं प्राप्ता ।
यतो लिदरे ग्रामे या प्रवहति सा लेदरी नदी ।
भृङ्गीशसंहितायां मार्ताण्डमाहात्म्यवर्णने ऽप्य् अनेनैव नाम्नास्या नद्या नामग्रहणम् ।
तथा हि यावच् चाका प्रवहति नदी लेदरी तोयपूर्णा यावन् नागौ यमलकमलौ तिष्ठतो मत्स्यम् उक्तौ यावद् भास्वांस् तपति गगने नित्यशः कालशक्त्या तावत् स्वर्गे वसति ।
सततं श्राद्धकृत्सूर्यक्षेत्रे इतीदॄंशि स्थलानि लेदरीनामद्योतकानि भवन्त्य् एव अस्या एव नद्या दक्षिणपार्श्वौ यो द्वौ प्रदेशो तयोर् मध्ये नद्य् एषा प्रवहति ।
ग्रामीणास् तु आधुनिके काले ऽस्या लम्बोदरी लेदरीनद्या वा लिदर् आर इति नाम वदन्ति ।

तत्र या नदी बृहत्पाषाणैर् मध्ये पूर्णातिवेगेन चलन्ती दुस्तरा च भवेत् ।
तस्याः कश्मीरभाषायां आर् इति नाम वदन्ति ।
अयं च लिदराख्यो ग्रामो ऽस्या नद्या आस्पदीभूतो यो ऽस्ति तस्य ग्रामीणभाषायाम् अपि लिदर् इत्य् एव नाम वर्तते ।
अयं ग्रामो ऽस्य दक्षिणपार्श्वस्य दच्छुन्पोर्पर्गण इति प्रसिद्धस्य मध्ये लेदरीनद्यास् तटे वर्तमानः कथ्यते ।
अस्या लम्बोदर्या अपि ग्रामीणमतेन लिदर् इत्य् एव नाम भवति यस्माद् गणेशबलाख्यप्रदेशाद् आगच्छन्ती नद्य् एषास्ति ।
तस्य कश्मीरभाषायां गणिशबल् इति नाम ख्यातं वर्तते ।
तत्र गणिशस्य गणेशस्य बल् स्थानम् इत्य् अर्थः ।
अयं गणेशबलाख्यः प्रदेशो ऽमरेश्वरयात्रायां प्रथमः प्रयाणकः ।
अस्मात् त्रिभिः क्रोशैर् दूरस्थम् अध्वानम् उल्लङ्घ्य पहल्गामाख्यः प्रदेशो द्वितीयः प्रयाणको ऽमरेश्वरयात्रा भवति यः समायाति ।
अयं लिदराख्यो ग्रामो ऽनन्तनागात् पाश्चिमे स्थाने द्वादशक्रोशदूरतायाम् अस्ति ।
अत्र मन्दिराख्यं देवागारं विनष्टप्रायं बृहत्पाषाणनिर्मितं भवति ।
तत् स्थानं विक्रमादित्यस्य नवतितमे वर्षे मेघवाहनराज्ञा तृतीयतरङ्गे वर्ण्यमानेन निर्मितम् इत्यादि ।
मन्दिरसंग्रहाल् लब्धम् अत्र स्थापितम् ॥
16. लेवारः
श्लोकसं 87 नम्बर 16 लवस्य चरित्रे लेवारं ।
यस्य लेवारस्य निरुक्तिः ।
लः शेषे च भये ख्यात इति ।
तथा वः सान्त्वने रसेवाते इत्य् एकाक्षरकोशोक्तेश् च लेविघ्नादे भये वं सान्त्वनं तत्निवारणरूपमासम् अन्तात् राति ददाति यः स लेवारः ।
विघ्ननिवारको गणेशः ।
तथा च नीलमतवर्ण्यं मानदेवायतनकीर्तनाख्ये प्रस्तावे
भूर्जस्वामी हिडम्बेशो लेवारः श्रीविनायकः ।
उतङ्केशो गुहावासी भीमेशः सौमुखस् तथा ॥
भद्रेश्वरो महास्यश् च महाशनगवेषणौ ।
पौलस्त्यो गिरिवासी च जयेश्वरमहेश्वरौ ॥
एकैकम् एभ्यो दृष्ट्वा तु गणेशं सुसमाहितः ।
कार्यसिद्धिम् अवाप्नोति पुण्यं फलम् उपाश्नुते ॥
इत्य् आदौ ।
अस्य लेवाराख्यगणेशस्य कश्मीरस्थगणेशमूर्तिषु वर्ण्यमानत्वं स्फुटतया भवति ।
एषा गणेशमूर्तिः पूर्वोक्तलेदरीनद्या वामपार्श्वे यो ऽधुना ग्रामीणभाषाव्यवहृतौ खोउर्पोर्पर्गण इति नाम धारयति तस्मिन्न् एव प्रदेशे सर्वविदिता वर्तते ।
अस्य गणेशस्य नाम्नेवायं गणेशमूर्त्याश्रयवान् ग्रामो लेवर् इति नाम्नैव प्रख्यात[...]ः सम्पन्नः वर्तते ।
चायं ग्रामो ऽस्मिन् पुरगणे लेवर्शब्दाभिधेयो ग्रामीणैः कथ्यमानः ।
अस्य ग्रामस्य निकटे ऽन्यो ऽपि ग्रामः सर्वविदितः सीर् इत्याख्यो भवति ।
तस्यैवं किंचिद् दूरतायाम् अयं ग्रामः पूर्वम् एव लेवाराख्यस्य गणपतेर् आश्रयतयैव तादृशनामयुत एव तेन वर्ण्यमानेन लवराज्ञा अग्रहारत्वव्यपदेशवान् समपादि ।
अत एव पण्डितकल्हणेनापि प्रथमे तरङ्गे
दत्त्वाग्रहारं लेदर्यां लेवारं द्विजपर्षदे ।
स द्यामनिन्द्यशौर्यश्रीर् आरुरोह महाभुजः ॥
इत्य् आद्युक्तम् ।
अनयैव विधया यो ऽयं ग्रामो लेवाराख्यः पूर्वम् एव बभूव ।
स एव राज्ञापि ब्राह्मणेभ्यो ऽग्रहारसमर्पणकाले च पूर्वप्रख्यातनाम्नैव संस्थापितः ।
दानवेलायाम् अपि गणेशमूर्त्याश्रयत्वव्यपदिष्टं लेवाराख्यं नामैव राज्ञाप्य् अस्यापि तमस्येति बुध्यते ।

कथयन्ति च तत्रत्याः ।
अस्मिन् ग्रामे एको महावृक्षो यं वृक्षं काश्मीरिका ब्रण् इति शब्देनाकारयन्ति ।
तेनाप्य् उपलक्षणीभूतो भवति स एव वृक्षो ऽप्य् अस्योक्तगणेशस्याधिष्ठानीभूतो भवति ।
यतो बहवो वृक्षाः अनेन ब्रण्वृक्षेन कथ्यमानाः कश्मीरदेशे देवतामूर्तीनाम् अधिष्ठानीभूताः सर्वतो दरीदृश्यन्ते इति शम् ॥
17. कुरुहारः
श्लोकसं 88 नम्बर 17 कुशस्य राज्णो वर्णने कुरुहार् ।
अस्य निर्वचनम् ।
कश् चात्मापि समाख्यातः कः प्रदेश उदाहृत इति कोशमतेन ।
कैर् नानाविधजलस्थलादिप्रदेशैः उरुर् महान् अत एव हारो मनोहरश् च यः स कुरुहारः ।
नानाविधप्रदेशमत्तयान्त्या लेदरीनद्या हारो मुक्ताहार इव यः सो ऽपि कुरुहारः ।
अथ वा कुरुनामकैर् जनपदैर् एतद्देशनिवासिभिर् ह्रियते यो ऽग्रहारतयाग्र एव सो ऽपि कुरुहारः ।
पूर्वम् एतन् नाम्नि प्रदेशे कुरु इत्याख्यां बिभ्राणा वास्तव्या बभूवुः ।
तैर् यतो ऽस्य ग्रामस्य सस्यादिसम्पत्तिर् आदाव् एव ह्रियते स्मातो ऽपि कुरुहारः ।
अत एव पण्डितकल्हणेनापि
कुरुहाराग्रहारस्य दाताभूत् तदनन्तरम् ।
इति कथनवशाद् अस्य कुरुहाराग्रहार इति समस्तं नाम लिखितम् ।
यतः सर्वेषाम् एवाग्रहाराणां सस्यादिसम्पत्ते राजग्राह्य भागात् पूर्वम् एव नयनेनाग्रहारत्वेन व्यपदेशः ।
अस्य कुरुहारप्रदेशस्याधुनिके काले सर्वे ग्रामीणाः स्वभाषायां कुलर् इति सर्वकाश्मीरकविदितं नाम कथयन्ति ।
अयं कुरुहार वा कुलराख्यो ग्रामो दक्षिणपार्श्वे दच्छुन्पोर्पर्गण इत्याख्यया जनैः सर्वतः कथ्यमानो वर्तते ।
अस्य कुलर् ग्रामस्य निकटे अन्यो ऽपि ग्रामो ऽतिप्रसिद्धो भवति ऽयम् अधुना सलर् इत्याख्यया जनाः समस्तपुरगणप्रसिद्धं नाम वदन्तो दृश्यन्ते ।
उभाव् एवैतौ कुलर्सलर् इत्याख्यौ ग्रामौ यात्रिकाणाम् अमरेश्वरयात्रायां मध्ये मार्गं दृग्गोचरम् आगच्छतः ।
प्रत्युतोभयोर् एव तीर्थिभूतयोर् ग्रामयोस् तेषां स्नानपूजादिकर्तव्यताप्य् अमरेश्वरयात्राम् अताश्रयणेनास्ति ।
अस्यैव कुरुहारप्रदेशस्यापभ्रंशवशाच् चिरकालागतात् कुलर् इति नाम सज्जातम् ।
केचित् तु अस्य कुरुहाराख्यस्य प्रदेशस्य काठुस् इति नाम कथयन्ति ।
तन्मतेन काठुस् इति कुलर् इत्य् अस्यैव चिरकालागतम् अपभ्रंशदोषोत्थं नाम भवति ।
वस्तुतस् तु कुरुहारशब्दस्य काठुस्शब्देन तादृश्यं साम्यम् उच्चरणेन ज्ञायते यादृशं तस्य कुलर्शब्दे न भाति ।
अतस् समीचीनं कुलर् इत्य् एवास्य कुरुहारस्यापभ्रंशदोषोत्थं नाम परं तु अयं काठुसाख्यो ग्रामो ऽप्य् अस्मिन्न् एव दच्छुन्पोर्पर्गणे ऽमरेश्वरयात्रामार्गमध्ये भवति ।
यात्रिकाणां तत्राप्य् उक्तग्रामद्वयरवस्नानादिकर्तव्यता भवति ।
अतः सलर्कुलराख्यग्रामद्वयनैकट्यभाग् अयं तृतीयो ग्रामः कुरुहार् इति व्यपदिष्टो भ्रमेणैवास्ति ॥
18. खागि
श्लोकसं 90 नम्ब 18 खगेन्द्रस्य राज्यवर्णने खागिनिर्वचनम् ।
अत्र खे आकाशे गच्छतीति खगः ।
खग ए[...]गः ।
अथ वा खे आकाशे आसमन्ताद् गच्छतीति खागः ।
गरुडाभिधो विष्णोर् यानं पक्षी खागो विद्यते यस्य सः खागी विष्णुः ।
अयं प्रदेशो विष्णोर् मुर्तेर् अधिष्ठनित्वं यतो बिभार्ति ।
अत एव खागीति तस्य विष्णोर् एव नाम्ना प्रख्यातिं समागतः ।
अन्यच् च एतत् प्रदेशनिकटवर्तिनो गरुडनामाङ्कितस्य गरुडाश्रमाभिधस्य स्थानस्य सामीप्येन गरुडस्य सदैव विष्णोर् वाहनत्वेन च तत्नाम्नाप्य् अयं प्रथां प्राप्तो ऽतः खागीति नामास्य प्रदेशस्य युक्ततमं भाति ।
अस्मिन् खागीति प्रथिते ग्रामे विष्णोः प्रतिमाया अधिष्ठानं नारायणकुण्डेति सर्वजनविदितो मध्यम् अपरीमाण एको जलाशयो भवति ।
काश्मीरकास् तु तस्य नारायणकुण्डस्याधुनिके काले स्वभाषया नाराण् नाग् इति प्रथितं नाम कथयन्ति ।

पुनश् च यस्योक्तगरुडाश्रमस्य नैकट्यसत्तयाप्य् अयं प्रदेश एनां खाग् इत्याख्यां धारयति ।
तस्य गरुडाश्रमस्यापि यथा खागीति प्रदेशस्यापभ्रंशदोषोत्थं खाग् इति नामधेयं समुद्भूतं तथैव तेन दोषेण गणिश्रम् इति नाम ग्रामीणाः सर्वतो ब्रुवाणा भवन्ति ।
अतो वर्णितम् एतत् स्थानद्वयं बहुरूप इत्याख्ये पुरगणे तीर्थीभूतम् अधुनाप्य् अस्ति ।
अस्यापि बहुरूपपुरगणस्य ग्रामीणैः प्रख्यापितं बीरूपर्गण इति नामाधुनिके काले संलग्नम् ।
अस्मिन् बहुरूपाख्ये पुरगणे नारायणकुण्डादीनाम् एतादृशानां तीर्थानां सद्भावेनैवातिमाहात्म्यवत्त्वं सर्वत्र प्रसिद्धम् अस्ति ।
तथा च नीलमते बहुरूपे नरः स्नात्वा विष्णुलोके महीयते ।
बहुरूपे च कथितं फलम् एतन् नरोत्तम ॥
इत्यादि ।
अयं नारायण् नागाख्यो जलाशयश् चतुष्कोणाकारो ऽतिशयेन शीतलस्पर्शजलवास् तथामधुरास्वादश् च भवति ।
अस्य जलाशयस्य मुखं बृहत्पाषाणैश् चतसृष्व् एव दिक्षु घटितम् अस्ति ।
अयं प्रदेशः स्वल्पैर् मरुभूमिसदृशैः पर्वतैः प्राप्तभूमौ परिवृतो दृश्यते ।
अयम् अपि खागिति प्राचीनम् एव नाम बिभ्राणो राज्ञाग्रहारेति व्यपदेशयुतः समपादित इत्य् अनुमीयते ॥
19. खोनमुषः
श्लोकसं 90 नम्ब 19 खगेन्द्रस्य वर्णने खोनमुषः ।
अस्य निरुक्तिः ।
खम् इन्द्रियं समाख्यातं खम् आकाशे निगद्यते ।
तथांशुके च खं प्रोक्तं खं शून्यं च प्रकीर्तितं इति कोशमतेन ।
खैर् वस्त्रैर् ऊनो रहितो दिगम्बरः शिव इति यावत् ।
तं खोनं शिवं पर्वतस्थगुहायां मुष्णाति चोरयति यः सः खोनमुषः ।
अथ वा खेन शून्यो नोनो रहितः परिपूर्णः पूर्णिमाचन्द्रस् तं स्वकीयया शीतलया मनोहारिण्या च शोभया मुष्णाति यः सो ऽपि खोनमुषः ।
अयं खोनमुषाख्यः प्रदेशः पर्वतस्य पादभूमाव् खम् इन्द्रियं समाख्यातं खम् आकाशम् उदाहृतम् ॥ खं स्वर्गे च समाख्यातं खं सर्पे च प्रकीर्तितम् ।
तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्तितम् ॥ अधस्ताद् वर्तते ।
अस्मिन्न् एवास्य पर्वतस्योपरितने शिखरे बृहत्य् एकान्तः प्रकाशरहिता गुहा वर्तते ।
तस्या गुहाया भित्तिभूमिषु परितो देवतानां वद्ध्यो मूर्तयः संलक्ष्यन्ते ।
तासां मूर्तीनां मुख्यतमा एका महती लिङ्गा कारवती शिवस्य मूर्तिर् हर्षेश्वर इत्याख्यां सर्वमण्डलप्रख्यातां धारयन्ती भूमौ निषराणा दृश्यते ।
अस्या गुहाया अन्तरे ऽन्याल्पाप्य् एका गुहास्ति ।
तस्यां गुहायां शिवस्य स्वच्छन्दाख्या पञ्चभिर् मुखैर् उपशोभिता मूर्तिर् बहिर् एव दर्शनम् आगच्छति यतस् तस्याम् अल्पायां गुहायां प्रवेशो ऽपि सर्वथा दुष्करो भवति ।
पूर्वं भस्मासुराभिधस्यासुरस्य विनाशनवेलायां शिवेन तस्योक्तदुर्जातासुरस्य वञ्चनायै किंचित् कालं स्वकीया मूर्तिर् अस्यां गुहायां गुप्ततया स्थापिता ।
अथ तं दुष्टम् असुरं विनाश्य यदातेन महान् हर्षभरः समाकलितस् तदैव तेन देवेन हर्षेश्वर इत्याख्या समासादिता ।
अतो ऽस्य प्रदेशस्य गुहया शिवमोषणं सार्थकम् एवावगम्यते ।
ग्रामीणा आधुनिके काले ऽस्य खोनमुषाख्यप्रदेशस्य खुनमोह् इत्याख्य शिवमूर्तिभेदस्य हरिमुर् इति नामापि वदन्तः सन्ति ।
अस्य हर्षेश्वरस्य कथा हर्षेश्वरमाहात्म्ये भृङ्गीशसंहितासङ्कलिते विस्तरेणोक्ता भवति ।
अस्य खोनमोषस्य समीपे जयवनं यस्य कश्मीरभाषायां जिवन् इति नाम प्रसिद्धम् अस्ति ।
सो ऽपि ग्रामस् तथान्यो माबुर् इत्याख्यो ग्रामश् च निकटे वर्तते ।
अयं खुनमुह् आख्यो ग्रामः विही इत्याख्ये पुरगणे प्रसिद्धिं धार्यमाणो भवति ।
कश्मीरनगरात् पञ्चक्रोशदूरतायां ग्रामो ऽयं पुरगणश् चास्तीति शम् ॥
20. दरद्देशः
श्लोकसं 93 नम्ब 20 सुरेन्द्रस्य राज्ञो वर्णने दरद्देशन्तिके ।
तत्र दरद्देशनिर्वचनम् ।
दरदां दरज्जातीयानां जनपदानां यो निवासस्थानं देश इत्य् अस्ति च ।

कश्मीरनगरप्रान्तभूमौ पर्वतादिषु निवासिनो दरत् इत्याख्या बहवो जनपदाः ।
येषां आश्रयीभूता बहवो देशाः कश्मीराद् बहिः प्रान्तभूमिषु दरदां नाम्नैव प्रख्यातिम् आगताः सन्ति ।
तस्य च तैर् दरज्जातीयैर् आश्रितस्य देशस्याधुनिके काले कश्मीरभाषायां दारदिन् हुनु देश् इति नाम वदन्ति ।
तेषां च तद्देशनिवासिनां जनानां दारद्य् इति नाम ख्यातं सर्वत्रैवास्ति ।
तथा नीलमते ऽपि
दार्वाभिसारगान्धारजुहुण्डरशकान् खशान् ।
तङ्गनान् माण्डवान् मद्रान् अन्तर्गिरिबहिर्गिरीन् ॥
इत्य् उक्त्या य एते देशा जनपदाश्रयीभूता गणितास् ते दरज्जातीया एवानुमीयन्ते ।
एतेषाम् अन्येषां चाश्रयस्थानानि सर्वाणि दरद्देशशब्देनैवाभिधीयन्ते ।
अतो ऽयं देशः कश्मीरकराज्ञाम् आज्ञासु सर्वदैव विधेयतया तिष्ठति ।
अनेनैव हेतुना काश्मीरको राजैव दरद्देशाज्ञाकृत् सर्वदैवास्तीत्य् अवगम्यते ॥
21. सौरकं नगरः
श्लोकसं 93 नम्ब 21 सुरेन्द्रस्य राज्ये सौरकाख्यं पत्तनम् ।
तत्र सौरकशब्दस्य निरुक्तिः ।
सः कोपे वारणे चैव औं कारः स्यात् तथाब्रह्म और् अप्य् आनन्द उच्यते ।
कश् चात्मापि समाख्यातः कः प्रदेश उदाहृत इति कोशवाक्यावलम्बनेन सः वारको दुःखात् य औ आनन्दस् तम् आनन्दं राति ददाति यः स सोरः ।
एतादृश एव यः कः प्रदेशः स सौरकः ।
अर्थात् दुःखवारक आनन्ददायकश् च देशः ।
अथ वा सूरस्यापत्यं सौरोपमः शनिर् वा सोपम इव यः प्रान्तरतया दुर्दर्शः कान्तारकुञ्जादिमत्तया च भूमापमानो त एव श्यामायमानो मलीमसश् च शनिर् इव यः कः प्रदेशः इति वा एनम् एवैतादृशं पत्तनं नगरम् ।
पत्तनं पुटभेदनम् इत्य् अमरः ।
पूर्ववर्णितस्य दरद्देशस्यालिके विरेचितवान् स सुरेन्द्र इत्य् आर्थः ।
सौरकाख्यं नगरं कश्मीरमण्डलवार्यस्थलवर्तिनि दरद्देशे राज्ञा पृथक् सम्पादिनम् इति कल्हणपण्डितवचनेनैवावगम्यते ।
तथा हि
दरद्देशान्तिके कृत्वा सौरकाख्यं सपत्तनम् ।
श्रीमात्विहारं विदधे नरेन्द्रभवताभिधम् ॥
अन्यच् च
तेन स्वमण्डले खण्डयशसा पुण्यकर्मणा ।
विहारः सुकृतोदारो निर्मितः सोरसाभिध ॥
इत्य् आद्य् उक्तेः स्वमण्डले कश्मीराख्ये स्वमण्डलाद् अन्यत्र दरद्देशे च राज्ञो ऽस्य निर्माणादिकम् अभूत् ।
अस्य सौरकाख्यस्य नगरस्य कश्मीरभाषायां हसौर् इति प्रथिततमं नाम सर्वे कथयन्ति ।
वर्तते च हसौराख्यं नगरं दरद्देशे ।
दरद्देशस्याप्य् अस्य दारद्यन् हुन्द्रदेश् वा दारद्यन् हुन्द्र मुलक् इति नाम प्रसिद्धम् अस्ति ।
पुनश् च ते ये हणेर् गिल्गिथ् हौज कर्णाह इत्य् आदयो देशाः कश्मीरमण्डलात् पृथक्स्था अपि कश्मीरराज्यान्तर् गणिता एव तथैतत्मण्डलपालकस्याज्ञापालयमानाः सर्वदैव भवन्ति ।
अतस् तस्य राज्ञो ऽपि दरद्देशे नगरनिर्माणम् उचिततमं भवति ।
केचित् तु पारिसेकानुवादविदः सौरकाख्यम् अमुं पत्तनम् अजानन्तो बुद्धिभ्रमेण स्वकपोलकल्पितकल्पनया च वृथोत्थया सिन्धषुरथ् इत्याख्यं कम् अपि प्रदेशं सौरकशब्दाभिधेयं परिकल्प्य राज्ञो सिन्धुषुरथाख्यो देशो निर्मित इत्यादि लिखन्ति ।
तत् सर्वं तेषां लिखनम् असत्यतमम् अस्ति ।
यतो राजतरङ्गिण्युक्ते सुरेन्द्रस्य वर्णने किम् अप्य् एतादृशं देशनिर्माणं क्वापि न दृष्टम् ।
अतो ऽत्र प्रयोजनम् अज्ञात्वैव तन्मतम् अस्तीति बुध्यते ॥
22. नरेन्द्रभवनाभिधो विहारः
श्लोक 93 नम्बर 22 सुरेन्द्रराज्ये नरेन्द्रभवनाभिधं विहारं ।

अत्र नरेन्द्रभवनशब्दस्य निरुक्तिः ।
नराणां मनुष्याणाम् इन्द्रो राजा नरेन्द्रः ।
नरेन्द्रस्य भवनं गृहं नरेन्द्रभवनं राजगृहम् इत्य् अर्थः ।
यथा राजभिः स्वकीयानि वेश्मानि स्वर्णरजतरत्नातादिभिः खचितानि शुद्धतमरीत्या कारुभिर् निर्मीयन्ते तथैव राज्ञा सुरेन्द्रेण दरद्देशस्य निकटे हसौराभिधं नगरं निर्माय तत्रैव नरेन्द्रभवनाख्यं विहारं बौद्धजननिवसनाद्युपयोगिगृहम् इत्य् अर्थः ।
बौद्धानां तु विहारो स्त्री ।
गंजा तु मदिरागृहम् इत्य् अमरः ।
तादृशं बौद्धमन्दिरम् अपि निर्मितम् ।
वर्तते चास्य दरद्देशमध्यवर्तिनो हसौराख्यस्य नगरस्य निकटे नरेन्द्रभवनाख्यं स्थानम् ।
तस्य च नरेन्द्रभवनस्याधुनिके काले काश्मीरकमतेन नगूर् इति प्रथितं नामास्ति ।
सो नगूराख्यः प्रदेशो हसौर्निकट एव यतो वर्तते ऽत एव नरेन्द्रभवनशब्दाभिधेयः स एव प्रदेशो भाति ।
इत्थम् एव राज्ञो दरद्देशमध्ये हसौर्नगूराख्ययोः प्रदेशयोः स्वमण्डलाद् वार्यस्थले निर्माणम् स्वमण्डले निर्मितप्रदेशनिर्माणम् अग्रे लिखिष्यति ॥
23. सोरसः विहारः
श्लोक 94 नम्ब 23 सुरेन्द्रस्य राज्ये सोरसाभिधः विहारः ।
तत्र पूर्वं सोरसशब्दनिरुक्तिः ।
सः कोपे वारणे चैवेति कोशोक्तेः ।
सोवारक ऊष्पादेः पिपासादेश् च तथा उकारः शङ्करे प्रोक्त ऊकारश् चैव रक्षके इति कोशोक्तेश् च ।
ऊ रक्षको जीवनम् इति यावत् ।
तथा च रसो गन्धरसे जले शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः देहधातुप्रभेदे च पारदस्वादयोः पुमान् इति मेदिनीकोशमतावलम्बनेन ।
रसो जलं यस्य सः सोरसः ।
अत्र रसशब्दस्य जीवनं भुवनं वनम् इत्य् अमरमतेन ।
जलपर्यायेण जीवनशब्देन सह समानार्थत्वाद् रक्षकजीवनशब्दयोश् च तुल्यार्थतया रक्षकत्वविशेषणं समीचीनम् एवास्ति ।
अतो घर्मादिवारकजलवानयविहारसंज्ञबौद्धमन्दिरयुतः प्रदेश इत्य् अर्थः ।
आधुनिके काले ऽस्य सोरसाख्यस्य प्रदेशस्य कश्मीरभाषया सुरस् यार् इति नाम ग्रामीणाः कथयन्ति ।
अस्मिन् प्रदेशे दुग्धगङ्गाख्या नदी शीतलस्पर्शा मधुरास्वादजला पार्वायत्री च प्रवहति ।
अतः सोरसेति सार्थकं नामास्य एषा या दुग्धगङ्गाख्या नदी धारयति ।
अस्याः काश्मीरका दूद्गङ्गा इति प्रथितं नामास्ति ।
अन्यद् अयं सोरसाख्यः प्रदेशो नागोम् इत्याख्ये पुरगणे वर्तते ।
तत्रापि पर्वतस्य पाददेशो भवति ।
अस्य सोरसस्य निकटे डाड उम् पूर् तथा मिचि उम् पूर् इत्याख्यं ग्रामद्वयं भवति ॥
24. हस्तिशालाख्यः अग्रहारः
श्लोकसं 96 नम्ब 24 राज्ञो गोधरस्य वर्णने हस्तिशालाख्यं अग्रहारम् ।
तत्र हस्तिशालाख्यशब्दनिर्वचनम् ।
हस्तिनो शालन्ते शोभन्ते ऽत्रेति गजाः हस्तिशालम् ।
शालन्ते इति शाल्यश्लाघायाम् इति धातो रूपम् ।
अथ वा हस्तिनां शाला हस्तिशाला हस्तिनां गृहं निवसनस्थानम् इति यावत् ।
एतादृशम् अग्रहारं गोधरेण राज्ञा निर्मितं निर्माय च विप्रेभ्यो दत्तम् इत्य् अर्थः ।
अत्रायम् आशयः राज्ञो ऽस्य गृहे ये मदोत्कटा मतङ्गजाः करिण्यः कलभाश् च बभूवुस् तेषां पालनाम् उपयोगिस्थानं यस्माद् अस्मिन्न् एव प्रदेशे नियमितं तेनातो ऽस्य प्रदेशस्य हस्तिशालम् इत्य् एतादृशं नाम संलग्नम् ।
वर्तते च देवसरसाख्ये पुरगणे हस्तिशालाख्यो ग्रामः ।
तस्य च देवसरसाख्यपुरगणस्याधुनिके काले ग्रामीणभाषायां देवसर्पर्गण इत्य् आकारकनामास्ति ।
तथा चास्य हस्तिशालाख्यग्रामस्य हस्त्य् हेल् इति सर्व विदितं नामाप्य् अस्ति ।

अस्य हस्त्य् हेल् ग्रामस्य समीपे कुलग्रामाख्यो ग्रामः ।
सर्वस्यास्य देवसर्पर्गणस्य मूलग्रामताम् अधिष्ठानतां च धारयन्यं जनाः सम्प्रति कुल्गोम् इति नाम्नाकारयन्ति ।
स ग्रामः समीपे भवति ।
केचन अस्य हस्तिशालाख्यग्रामस्य डल् इत्याख्यो ऽत्यन्तप्रथितो महाजलाशयो ऽयं फाक्पुरगणे सर्वकाश्मीरकाविदितस् तथा यस्य तटभूमिषु निशात्बाग् शालबाग् इत्य् आदयो महाप्रसिद्धा आरामा बहवो ऽधुनापि दरीदृश्यन्ते ।
तस्यैव जलाशयस्यैकस्यां तटभूमाव् अनया हस्त्य् हेल् आख्यया कथ्यमान एकः प्रदेशो भवतीति ब्रुवन्ति ।
परं तु यद्य् अप्य् अयं हस्तिशालाख्यप्रदेशो ऽप्य् अवश्यं लिखित डल् इत्याख्यजलाशयस्य तटभूमौ हज् रतबल् इति तत्तटस्य प्रदेशप्रथिताग्रगण्यप्रदेशस्य किंचिद् दूरतायां तथा तत्रत्यस्य आशियबाग् इति स्थानस्य निकटतायाम् अस्त्य् एव तथापि अत्रत्यस्यास्य हस्तिशालस्य जलप्रायतयायर्थार्हावकाशाभावादिदर्शनेन च हस्तिशालोपयोगित्वासम्भवाच् च जलप्रायस्य विप्रेषु प्रतिपादनानर्हतयापि गोधरभूपनिर्मितः स एव देवसरसपुरगणमध्यवर्ती हस्तिशालाख्यो ऽग्रहारो भाति ।
न त्व् अयं जलप्रायो ऽग्रहारत्वव्यपदेशसम्पादनानर्हो ऽन्यो हस्तिशालाख्यप्रदेश इति ।
अपरं च पारिसेकानुवादिमते ऽपि देवसरसोद्भवस्यैव हस्तिशालस्य गोधारभूपाग्रहारनिर्माणं लिखितम् अस्ति ।
न त्व् अस्यान्यस्य फाक्पुरगणीयस्येति भद्रम् ॥
25. सुवर्णमणिकुल्या
श्लोकसं 97 नम्ब 25 सुवर्णस्य राज्यवर्णने सुवर्णमणिकुल्या ।
तत्र सुवर्णमणिकुल्याशब्दनिरुक्तिः ।
शोभनो वर्णो यस्य तत् सुवर्णं कांचनं स्वर्णं सुवर्णं कनकम् इति मणीरत्नम् ।
रत्नं मणिर् द्वयोर् अश्मजातौ मुक्तादिके ऽपि चेत्य् अमरः ।
सुवर्णस्य मणीनां च या कुल्याल्पा नदी कृत्रिमा च ।
कुल्याल्पाकृत्रिमा सरित् इत्य् अमरः ।
अर्थात् सुवर्णमणिकुल्याख्या नदी तेन सुवर्णाभिधेन राज्ञा सम्पादितेत्य् अर्थः ।
अत्र सुवर्णेन मणिभिश् च यस्यास् तटौ तलस्य भूमिश् च शोभिता निर्मिता चाभूद् एतादृशी नदी तेन प्रवर्तिता ।
अथ वा सुवर्णतुल्यशुद्धवर्णामणितुल्यनिर्मलमनोहारिजला च सा नदी सम्पन्नेति सार्थकम् एव नामास्या नद्याः सूक्ष्मेक्षिकया अवगम्यते ।
अत्र
तस्य सूनुः सुवर्णाख्यस् ततो ऽभूत् स्वर्णदो ऽर्थिनाम् ।
सुवर्णमणिकुल्यायाः कराले यः प्रवर्तक ॥
इति पण्डितकल्हणः ।
सुवर्णस्य राज्यवर्णने सुवर्णमणिकुल्यां व्यपदिश्य यल् लिखति ।
तत्रावश्यम् एवास्याः कुल्यायाः करालाभिधे प्रदेशे प्रवर्तनम् इतीदृश्य् एवार्थप्रतीतिर् बुद्धावारोहति ।
परं तु यस्मिन् पुरगणे नद्य् एषाधुनापि प्रवहति तस्मिन् सर्वस्मिन्न् एव पुरगणे महता यत्नेनायासेनाप्य् अन्विष्टायं को ऽपि करालाभिधः प्रदेशो ग्रामो वा कुत्रापि न मिलति ।
अतः करालाभिधे प्रदेशे सुवर्णमणिकुल्याप्रवर्तनम् इत्य् अर्थप्रतीतिर् भ्रमोत्थातोपार्थकैव प्रतिभाति ।
तत्त्वदृशा तु कवेर् अयं कल्हणस्याशयो ऽनुमीयते ।
तत्र करालो दन्तुरं तुरो इत्य् अमरमतेन ।
अतितुङ्गो यः को ऽपि प्रदेशः स एव करालशब्दाभिधेयो भवति ।
तथा त्व् एव कराले तुङ्गप्रदेशे राज्ञा नदी प्रवर्तितेत्य् अर्थप्रतीतिः समीचीनतमाभाति ।
यत एषा नदी सर्व कश्मीरकभूमिभ्यो ऽतितुङ्गायाम् आद्यावनिभूमौ वर्तते ऽतो ऽपि करालपर्यायतुङ्गभूमिप्रवर्तनं नद्या कव्युक्तं सर्वथा संगच्छते ।
अस्यां कश्मीरायां पूर्वम् अतीते काले सरोवररूपत्वेनावस्थितायां यदा क्वापि भूमिर् एव न बभूव तदा कश्यपर्षिप्रसादितदेवत्रय्यनुकम्पयादौ यत्रैव भूमिः सज्जाता तस्या एव भूमेर् अद्यावनीत्य् अन्वर्थं नाम संलग्नम् ।
यत आदौ भवा आद्या सा चासाव् अवनिर् अवनी वा भूमिर् इत्य् अर्थः ।
क्ष्मावनिर् मेदिनी महीत्य् अमरः ।
अवनी मेदिनी महीति मेदिनिश् च ।
अतस् सर्वथास्य पुरगणस्यायसार्थक आद्यावनीत्याह्वयः ।
अस्या चाद्यावनिपुरगणस्याधुनिके काले नागरिकैर् ग्रामीणैश् च प्रख्यापितं आडविन्पर्गण इति नामापभ्रंशदोषमूलं भवति ।
यैषा सुवर्णमणिकुल्याख्या नदी सुवर्णभूपराज्ये सुवर्णितास्याश् च नद्याः सुनमण् कुल् अथ वा सुनमण् नोर् इति नाम सर्वप्रसिद्धम् अस्ति ।
तत्र पूर्वपक्षे सुनमणाख्या कुल् नदीत्य् अर्थः ।

द्वितीये तु सुनमणाख्या नोर् प्रणालीत्य् अर्थः ।
द्वयोः प्रणाली पयसः पदव्याम् इत्य् अमरः ।
किं तु एषा सुवर्णमणिकुल्याख्या नदी यतो ऽस्य पुरगणस्यैकस्मिन् एव ग्रामे न प्रवहत्य् अतो ऽस्य नियमितः प्रदेशः को ऽपि नास्ति ।
अस्य पुरगणस्यानेकेषु ग्रामेषु वर्णिताया सुनमणाख्याया नद्या जलेनैव सस्यादिनिष्पत्तिः सम्भवति ।
पारिसेकानुवादेष्व् अपि ते वर्णिते ऽस्मिन्न् आद्यावनिपुरगण एव सुनमण्-नद्याः प्रवर्तनं राज्ञा तत्स्थानेकग्रामसस्यफलश्रीः सर्वदास्माद् इत्य् अभिप्रायेण कृतम् इत्यादि वर्णयन्ति ।
अतो ऽपि हेतोः करालाभिधे प्रदेशे नद्याः प्रवहनं सम्यक्तयैवापार्थकं प्रतिभाति यतस् तैर् अपि स्वस्ववर्णनवेलायाम् अयं करालाभिधः को ऽपि प्रदेशो न लब्धो ऽस्ति ।
अतो यथा तथा करालशब्देनात्राद्यावनिभूमिर् एव कथितुं तस्य व्यङ्ग्यज्ञस्य कल्हणस्य कवेर् अभिप्राय इति शम् ॥
26. जालोरः विहारो ऽग्रहारश् च
श्लोकसं 98 नम्ब 26 सुवर्णजस्य जनकस्य वर्णने जालोराख्यं विहारं अग्रहारं च ।
अत्र जालोरशब्दनिर्वचनम् ।
जालैः पुष्पजालैर् ऊः रक्षकः पूतिगन्धादेर् इति जालो ऽत एव रस् सुखदायको यः सुजालोरः ऊकारश् चैव रक्षके इति कोशः ।
अथ वा जलानं समूहो जालं तेन जालेन ऊ रक्षको रस् सुखप्रदातेति ।
अत्रैव जालोराख्ये प्रदेशे तेन राज्ञा विहाराभिधेयं बौद्धमन्दिरं निर्मितम् अयम् एव जालोराग्रहारत्वेन प्रख्यापितश् च ।
अस्य जालोरग्रामस्याधुनिके काले प्रख्यातं जालुर् इति नाम ग्रामीणाः कथयन्ति ।
अयं जालुर्ग्रामः शमालापुरगणे वर्तते ।
तस्य च शमालाख्यपुरगणस्य हमल्पर्गण इति नाम तैर् एवापभ्रंशदोषवशात् स्थापितम् अस्ति ।
अयं जालुर्ग्रामः कदापि महापद्मसरस उल्लोलस्य वा नागस्य वारिभिः पूर्यमाणो ऽपि दृश्यते ऽतो जलसमूहसत्तया जलानां समूहो जालम् इति वर्णितान्वर्थतास्य प्रदेशस्य युक्ततमैव ।
अस्य जालुर्ग्रामस्य निकटे उच्छ कुण्डल् मर्कुण्डल् इत्य् आदयो बहवो ग्रामाः सामीप्यभाजस् सन्तीति भद्रम् ॥
27. शमाङ्गासः
श्लोकसं 100 नम्ब 27 शचीनरस्य जनकजस्य वर्णने शमाङ्गासः ।
अत्र शमाङ्गासशब्दनिरुक्तिः ।
नानाविधसङ्कल्पविकल्पादिभ्यश् चित्तस्योपरमः शमः शमु उपशमे इत्य् अस्य धातोर् उपरतिवाचकत्वात् ।
तथा शमवन्ति अङ्गानि येषां ते शान्ता मुनयः शमाङ्गशब्दाभिधेयाः त एव शमाङ्गा आसन्ते ।
यत्र स शमाङ्गासः शान्तानां मुनीनां च निवासस्थानम् इति यावत् ।
वर्तते चायं प्रदेशो वन्यैर् एव सरलादिवृक्षैर् उपशोभितो ऽत एव वनप्रायस् तपोपलक्षितश् च तपश्चर्याक्षमः ।
यस्मिन् कुटहाराख्ये पुरगणे ऽयं प्रदेशस् तिष्ठति सः सर्वः पुरगणो ऽपि सर्वदा प्रायशः काननप्रदेशैर् एव समावृतो भाति ।
अत एव कूटैः पर्वतशृङ्गैर् हारो मानोहर इति सार्थकम् एव नामास्य पुरगणस्य अस्याधुनिके काले सर्व एव कुटहार्पर्गण इति प्रथितं नाम ब्रुवन्ति ।
अस्यापि शमाङ्गासप्रदेशस्यैतर्हि शाङ्गास् इति प्रख्यापितम् अपभ्रंशदोषोत्थं नाम सर्वविदितं भवति ।
अयं शाङ्गासाख्यो ग्रामः पर्वतस्याल्पोच्छायस्याधस्ताद् धरातल एव वर्तते ।
अन्येषाम् अस्यां कश्मीरायां स्थितानां काननानां यादृशी शोभाकृतिश् चास्ति तादृश्य् एवास्य प्रदेशस्याकृतिः शोभा च यतो ऽस्ति तत एव मुनिजननिवासस्थानम् इत्य् आकारकं सार्थकं नामास्य ।
अस्मिन् प्रदेशे सर्वदैव सर्वे साहिबेति शोभननामानपुरुपदेशनिवासिन आखेटकाद्यर्थे गतागतं कुर्वाणा मृगयां विदधतो दरीदृश्यन्ते ऽतः प्रथिततमो ऽयं प्रदेश इति बोध्यम् ।
अस्य शाङ्गसाख्यप्रदेशस्य निकटवर्तिनो बहवो ग्रामा नव्गाम् उतरुस् चेरपोर् इत्य् आदयः प्रख्यातास् सन्ति ।
पुनश् चायं शमाङ्गासाख्यो ग्रामः पूर्वम् एव मुनिजनैस् तपश्चर्याकरणयोग्यतया स्वनिवसनास्य दत्त्वम् आकलितो ऽपि तेन राज्ञो जनकजेन मुख्याग्रहारत्वाभिधया संयोजितः ।
अर्थात् तेभ्यस् तत्प्रदेशस्थेभ्यस् तपस्विभ्यः समर्पितः सर्वो ऽप्य् अयं पुरगणस् तपस्विप्रियस् तपश्चर्यास्थानम् इति वर्तन्ते वाधुनापि उतरुस् इत्यादि ग्रामेषु तेषां पूर्वेषां तपस्विनां शिष्या नन्द् जान्यङ्कितास् तपस्विनो येषां शिष्यप्रशिष्यद्वारा अधुनापि सन्ततिः प्रचलतीति शम् ॥
28. अशनारः
श्लोक 100 नम्ब 28 अस्यैव शचीनरस्य वर्णने अशनारः ।
तत्रास्य निरुक्तिः ।
अश्यते भुज्यते यत् तद् अशनं भोजनम् अशभोजने इत्य् अस्य धातोर् ल्युटि रूपम् ।
अशनस्य इच्छा अशनाया क्षुद् इत्य् अर्थः ।
अशनाया बुभुक्षा क्षुद् इत्य् अमरः ।

मूल पाठ: Pradeśasaṃgraha · Edition: Katrin Züfle: Govind Kaul: Pradeśasaṃgraha - Erstedition eines unikalen Manuskripts zur historischen Toponymie Kaśmīrs. Halle-Wittenberg 2014: Martin-Luther-Universität (unpublished Magister Thesis) · Data entry Katrin Züfle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc