भाषा

ENहिગુ
ग्रंथ पाठ

पिण्डीक्रम · श्लोक 81-103

81

स्वनायकेन संयुक्तां पाण्डरां सहसैव तु ।
जिह्वाप्रविष्टां सञ्चिन्त्य वागधिष्ठानमारभेत्

82

यदेव वज्रधर्मस्य वाचा निरुक्तिसम्पदा ।
ममापि तादृशी वाचा भवेद् धर्मधरोपमा

83

ओं सर्वतथागतवाग्वज्रस्वभावात्मको ऽहम् ।
विन्यस्य हृदये मन्त्री शशिबिम्बं समुज्ज्वलम् ।
राजावर्तनिभं तत्र हूंकारं पञ्चरश्मिकम्

84

ततो निश्चारयेद् देवीं मामकीं सगणां ततः ।
चित्तवज्रं तथा ध्यात्वा प्रार्थयेत यथा पुरः
चित्तवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मे ऽद्य करोतु चित्तवज्रिणः
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मे ऽद्य कुर्वन्तु चित्तवज्रिणः

87

चित्तवज्रसमायुक्तं हृदये सम्प्रवेश्य च ।
मामकीव्यूहमखिलं चित्ताधिष्ठानमारभेत्

88

यच्चित्तं समन्तभद्रस्य गुह्यकेन्द्रस्य धीमतः ।
ममापि तादृशं चित्तं भवेद् वज्रधरोपमम्

89

पिक्_
ओं सर्वतथागतचित्तवज्रस्वभावात्मको ऽहम् ।
एवं पृथगधिष्ठाय कुलत्रयविभागतः ।
पुनः सर्वात्मकं कुर्यान्मन्त्रेणानेन बुद्धिमान्

90

ओं सर्वतथागतकायवाक्चित्तवज्रस्वभावात्मको ऽहम् ।
अधिष्ठायैवमात्मानं शशिमण्डलमध्यगम् ।
षड्भिश्चिह्नैः समायुक्तं चिन्तेत् समयसत्त्वकम्

91

हृन्मध्यसंस्थितं सूक्ष्मं ज्ञानसत्त्वं विभावयेत् ।
समाधिसत्त्वसंज्ञं च हूंकारं तद्दृढी न्यसेत्

92

निष्पाद्यैवं महायोगं त्रिसत्त्वात्मकमात्मवान् ।
अनेन विधियोगेन महासाधानमारभेत्

93

प्राप्य कन्यां विशालाक्षीं रूपयौवनमण्डिताम् ।
नीलोत्पलदलश्यामां रजकस्य महात्मनः

94

सुशिक्षितां समादाय साधके भक्तिवत्सलाम् ।
ओंकारं शिरसि ध्यात्वा आःकारं वाक्यथे न्यसेत्

15

हूंकारं हृदये ध्यात्वा स्वा नाभौ हा द्विपादयोः ।
लोचनां मामकीं चापि तथा पाण्डरवासिनीम्

97

तारां चापि तथा मन्त्री पृथिव्यादिषु सन्न्यसेत् ।
रूपवज्रादिका देवीस्तस्यामेव विभावयेत् ॥ पिक्_ 96 ॥
क्षितिगर्भादिभिस्तासां समापत्तिं विभावयेत् ।
दक्षिणे वज्रवेतालीं भुजे वामे ऽपराजिताम्

98

भृकुटिं च मुखे तस्या एकजटां च गुह्यके ।
भूयो दक्षिणपार्श्वस्थां विश्ववज्रीं तथागतीम्

99

विश्वरत्नां च वामे तु मुद्रायाः प्रविभावयेत् ।
पुर्नदक्षिणजानुस्थां विश्वपद्मां तथागतीम्

100

विश्वकर्मां च वामे तु मूर्ध्नि गगनवज्रिणीम् । पिक्_
पादान्तद्वयविन्यस्तां धरणीन्धरदेवतीम्

101

एवं संस्कृत्य तां योगी वज्रपद्मथारभेत् ।
मन्त्री हूंकारजं वज्रं ध्यायाद् वै पञ्चसूचिकम्

102

मध्यसूचौ तथा तस्य प्रणवं व विभावयेत् ।
तथैवाष्टदलं पद्मम् आःकारेण तु भावयेत् ।
पञ्चरश्मिसमाकीर्णं ततः साधनमारभेत्

103

ओं सर्वतथागतानुरागणवज्रस्वभावात्मको ऽहम् ।
हूंकारगीतेन तु चालयेत समुद्वहन् वज्रधरस्य गर्वम् ।
स्वबोधिचित्तोदयकाल एव फट्कारमन्त्रं समुदीरयेत् सः

मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc