पिण्डीक्रम · श्लोक 104-123
विसर्गान्ते पुनर्मन्त्री बोधिचित्तेन पूजयेत् ।
दशदिक्संस्थितान् बुद्धान् मन्त्रमेतदुदीरयेत्
ओं सर्वतथागतपूजाज्रस्वभावात्मको ऽहम् ।
स्वमन्त्राक्षरनिष्पन्नं त्रिवज्राधिष्ठितस्वकम् ।
पद्ममध्ये तु निष्पाद्य द्वेषवज्रो भवेत् पुनः
वज्रधृग्-मन्त्रनिष्पन्नं पश्येदक्षोभ्यवज्रिणम् ।
जटामुकुटधरं नाथम् अक्षोभ्यकृतशेखरम्
नृपावर्तकसङ्काशं कृष्णरक्तसिताननम् । पिक्_
सर्वालङ्कारसम्पूर्णं षड्भुजं तु विभावयेत्
वज्रं चक्रं तथा पद्मं सव्यहस्तेषु धारयेत् ।
घण्टां चिन्तामणिं खड्गं तस्य वामेषु भावयेत्
निष्क्रम्य हृदयादेष व्यवलोक्य दिशो दश ।
बुद्धर्द्धिमखिलां कृत्वा धर्मचक्रं प्रवर्त्य च
संशोध्य निखिलान् सत्त्वान् द्वेषवज्रपदे स्थितान् ।
आगत्य वज्रनाथस्य पुरतो ऽभिनिषीदति
अनुप्रवेश्य तन्मन्त्री हृद्यात्मानं विभावयेत् ।
पूर्वरूपं परावृत्त्य द्वेषवज्रपदे स्थितः
इन्द्रनीलप्रभं दीप्तं सूर्यमण्डलमध्यगम् ।
स्वमुद्रालिङ्गितं वीरं सर्वालङ्कारभूषितम्
रौद्रशान्तमहारागं मुखत्रयविराजितम् ।
द्वेषवज्रसमाधिस्थः प्रोत्सृजेत् सर्वमण्डलम्
जिनजिग्-मन्त्रनिष्पन्नं सृजेद् वैरोचनं विभुम् ।
शरच्चन्द्रांशुसङ्काशं जटामुकुटमण्डितम्
सितरक्तकृष्णवदनं षड्भुजं शान्तरूपिणम् ।
चक्रवज्रसिताम्भोजं दक्षिणेषु विचिन्तयेत्
घण्टां चिन्तामणिं खड्गं वामेष्वस्य विभावयेत् ।
हृदयात् तथैव निर्गत्य मोहचर्यास्थिताः प्रजाः
संशोध्य पुनरागत्य पुनश्चके निषीदति ।
रत्नधृग्-मन्त्रनिष्पन्नं रत्नकेतुं सृजेद् बुधः
जटाजूटधरं सौम्यमक्षोभ्यकृतशेखरम् ।
पीतकृष्णसितास्यं च षड्भुजं चापि चिन्तयेत्
तस्य चिन्तामणिं वज्रं चक्रं सव्येषु भावयेत् ।
घण्टां च पीतकमलं खड्गं वामेषु भावयेत्
हृदयात् तथैव निर्गत्य अहङ्कारपदे स्थितान् ।
संशोध्य दक्षिणे भागे रत्नमध्ये निषीदति
आरोलिग्-मन्त्रनिष्पन्नं सृजेदमितवज्रिणम् ।
पद्मरागप्रभं सौम्यमक्षोभ्यकृतशेखरम्
जटामुकुटधरं नाथं रक्तकृष्णसिताननम् ।
शृङ्गाररससंयुक्तं षड्भुजं तु विभावयेत्
पद्मनालं गृहीत्वा तु वामेन सह घण्टया ।
हृत्प्रदेशस्थितं पद्मं दक्षिणेन विकाशयेत्
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0