पिण्डीक्रम · श्लोक 61-80
थ्लींकारं चक्षुषि न्यस्य क्षितिगर्भं विभावयेत् ।
ओंकारं कर्णयोर्न्यस्य वज्रपाणिं विभावयेत्
ओंकारं विन्यसेद् घ्राणे खगर्भं तु विभावयेत् ।
ओंकारं रसने ध्यात्वा लोकेशं च विकल्पयेत्
हूंकारं मनसि ध्यात्वा मञ्जुघोषं प्रभावयेत् ।
ओंकारं सर्वकाये च ध्यात्वा विष्कम्भिणं स्मरेत्
मैं-कारेण शिरःसंस्थं मैत्रेयं परिकल्पयेत् ।
भद्रं समन्ततो ध्यात्वा सर्वसन्धिषु सन्न्यसेत्
यमान्तकः सव्यभुजे अपसव्ये ऽपराजितः ।
हयग्रीवो मुखे भाव्यो वज्रे चामृतकुण्डलिः
अचलं दक्षिणे भागे वामे च टक्किराजकम् ।
जानौ च दक्षिणे चिन्तेन्नीलदण्डं महोज्जवलम्
वामजानौ महाबलं मूर्ध्नि चोष्णीषज्रिणम् ।
पादान्तद्वयविन्यस्तं सुम्भराजं विचिन्तयेत्
न्यासं कृत्वा ततो मन्त्री स्कन्धादीनां यथाविधि ।
कायमण्डलमापन्नो महायोगं समारभेत्
मूर्ध्नि मध्यगतं चिन्तेत् सम्पूर्णं चन्द्रमण्डलम् ।
तत्र ओंकारं शुक्लाभं प्रस्फुरत्-पञ्चरश्मिकम्
ततो देवीं विनिश्चार्य आधिपत्यप्रयोगतः ।
लोचनां विविधां चिन्तेत् सर्वव्योम्नि प्रपूरिताम्
कायवज्रं विचिन्त्याथ व्योमापूर्य व्यवस्थितम् ।
तन्मध्ये ऽधिपतिं चिन्तेदात्मनश्च पुरःस्थितम्
द्वात्रिंशल्लक्षणधरं व्यञ्चनाशीतिभूषितम् ।
प्रार्थयेत् तु ततो मन्त्री गाथाद्वयमुदाहरन्
बुद्धकायधरः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मे ऽद्य करोतु कायवज्रिणः
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मे ऽद्य कुर्वन्तु कायवज्रिणः
लोचनासहसंयुक्तं शाश्चतं च विभावयेत् ।
तत्प्रवेश्याधितिष्ठेत पञ्चुस्कन्धप्रपूरितम्
यत्कायं सर्वबुद्धानां पञ्चस्कन्धप्रपूरितम् ।
बुद्धाकायस्वभावेन ममापि तादृशं भवेत्
ओं सर्वतथागतकायवज्रस्वभावात्मको ऽहम् ।
जिह्वाब्जमध्यगतं चिन्तेद् आःकारं रक्तवर्णकम् ।
पाण्डराख्यां च सगणां संस्फरेत् व्योमपूरिताम्
वाग्वज्रं च तथा मन्त्री व्योमापूर्य व्यवस्थितम् ।
प्रार्थयेत् तु ततो मन्त्री गाथाद्वयमुदाहरन्
धर्मो वै वाक्पथः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मे ऽद्य करोतु वाग्वज्रिणः
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मे ऽद्य कुर्वन्तु वाग्वज्रिणः
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0