पिण्डीक्रम · श्लोक 41-60
संस्कारः कृत्यानुष्टानं मारुतो रसनेन्द्रियम् ।
रसश्च पञ्चमं याति क्रोधद्वयसमन्वितम्
उर्ध्वाधः क्रोधसंयुक्तं प्रकृत्याभासमेव च ।
विज्ञानस्कन्धमायाति विज्ञानं च प्रभास्वरम्
निर्वाणं सर्वशून्यं च धर्मकायश्च गद्यते ।
दृढीकरणहेतुत्वान् मन्त्रमेतदुदाहरेत्
ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम् ।
परमार्थमण्डलं ह्येतन्निराभासमलक्षणम् ।
परमार्थसत्यनामापि सर्वताथागतालयः
प्रभास्वरप्रविष्टस्य व्युत्थानं च प्रदर्शते ।
मन्त्रमूर्तिप्रयोगेण देवतालम्बनं प्रति
आकाशधातुमध्यस्थं भावयेत् सूर्यमण्डलम् ।
तस्योपरि पुनर्मन्त्री चन्द्रबिम्बं विभावयेत्
तत्र चाष्टदलं पद्मं रक्तवर्णं विभावयेत् ।
पद्मोपरि महामन्त्रं त्र्यक्षरं भावयेत् पुनः
मन्त्रं पद्मं तथा सूर्यं प्रविष्टं चन्द्रमण्डले ।
चन्द्रमण्डलमापूर्णं बोधिचित्तं विभावयेत्
स्थावरं जङ्गमं सर्वं तत्रैव प्रविचिन्तयेत् ।
दृढीकरणहेतुत्वान्मन्त्रमेतदुदाहरेत्
ओं धर्मधातुस्वभावात्मको ऽहम् ।
योगमेवं समालम्ब्य अनुयोगं समाचरेत् ।
पुनश्च त्र्यक्षरं योगी चन्द्रमध्ये विचिन्तयेत्
ततस्त्र्यक्षरसम्भूतं सितकुन्देन्दुसन्निभम् ।
आदिनाथं विचिन्त्याथ अतियोगं समारभेत्
अक्षोभ्यानुप्रवेशेन त्रिमुखं षड्भुजोज्ज्वलम् ।
इन्द्रनीलप्रभं दीप्तं वज्रसत्त्वं विभावयेत्
वज्रं चक्रं तथा पद्मं सव्यहस्तेषु भावयेत् ।
घण्टां रत्नं तथा खङ्गं वामहस्तेषु भावयेत्
ततो न्यासं प्रकुर्वीत स्कन्धादीनां विभागवित् ।
वैरोचनादिसुम्भान्तं बीजन्यासेन तत्त्वतः
वैरोचनीयबीजं तु ओंकारं शुक्लवर्णकम् ।
रूपस्कन्धस्वभावेन न्यसेन् मूर्धनि मन्त्रवित्
आःकारममित्ताभस्य संज्ञास्कन्धस्वभावकम् ।
रक्तवर्णं मुखे ध्यात्वा वागैश्वर्यमवाप्नुयात्
अक्षोभ्यस्य तु हूकारं राजावर्तकसुप्रभम् ।
विन्यसेद्धृदये मन्त्री विज्ञानस्कन्धरूपतः
स्वाकारं रत्ननाथस्य वेदनास्कन्धरूपतः ।
पीतवर्णं न्यसेन्नाभौ वेदनाशुद्धिहेतुकम्
पादद्वये तु हाःकारं संस्काअस्कन्धभावतः ।
हरिताभं न्यसेन्मन्त्री कर्मनाथस्य तत्त्वतः
मोहरत्यादिकैर्मन्त्री पृथिव्यादीन् प्रवेशयेत् ।
खरत्वं द्रवता औष्ण्यमीरणत्वं च ते क्रमात्
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0