पिण्डीक्रम · श्लोक 29-40
पृथ्वीमण्डलकं चापि तस्मोपरि विभावयेत् ।
द्वि-हूं लं बीजनिष्पन्नं वज्रद्वयसमन्वितम्
चतुर्मण्डलसंहारे वज्रभूभागमण्डलम् ।
तत्र भ्रूंकारनिष्पत्रं कूटागारं विभावयेत्
चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम् ।
चतुःसूत्रसमायुक्तमष्टम्भोपशोभितम्
हारार्द्धहाररचितं मणिवज्रार्धचन्द्रकम् ।
खचितं वज्ररत्नैस्तु द्वारनिर्यूहसन्धिषु
कुम्भस्तम्भमहावज्रं क्रमशीर्षस्तु पक्षिणी ।
घण्टापताकसंशोभं चामरादिविभूषितम्
मध्यमण्डलके ध्यायादात्मानं मुद्रया युतम् ।
त्रिमुखं षड्भुजाकारमिन्द्रनीलसमप्रथम्
श्रीवैरोचन-रत्नौ च अमिताभश्च कर्मराट् ।
पूर्वादिदिक्षु सञ्चिन्त्यास्त्रिमुखाकारषड्भुजाः
मोहरत्यादिका देव्यस्त्रिमुखाकारषड्भुजाः ।
आग्नेयीं दिशामारभ्य सन्निवेश्या यथाक्रमम्
रूपवज्रादिकास्तद्वद् बाह्यकोणचतुष्टये ।
स्थितैव स्पर्शवज्रा तु वज्रसत्त्वसमायुता
पट्टिकायां न्यसेत् पूर्वे मैत्रेयं क्षितिगर्भकम् ।
वज्रपाणिं खगर्भं च न्यसेद् दक्षिणतो व्रती
लोकेशं मञ्चुघोषं च पश्चिमायां न्यसेत् पुनः ।
सर्वावरणविष्कम्भिं समन्तभद्रञ्चोत्तरे
यमान्तकश्च प्राग्द्वारे दक्षिणे त्वपराजितः ।
पश्चिमे तु हयग्रीव उत्तरे ऽमृतकुण्डलिः
अचलष्टक्किराजश्च नीलदण्डो महाबलः ।
पूर्वादिकोणमारभ्य प्रविचिन्त्या यथायथम्
सुम्भराजमहाक्रोधमधस्तात् प्रविचिन्तयेत् ।
उष्णीषचक्रवर्ती च प्रविचिन्त्यस्तथोपरि
ध्यात्वैवमधिमुक्तया वै माण्डलेयान् यथाविधि ।
पुनः सम्पुटयोगेन स्वकाये तान् प्रवेशयेत्
कायचक्रगतान् बुद्धान् सञ्चिन्त्यैवं यथायथम् ।
पारमार्थिकचक्रेण तथतायां प्रवेशयेत्
मारयेत् त्वागतं व्यूहं सुतरां सिद्धिमाप्नुयात् ।
अस्यार्थो वज्रमालायां विस्तृतो विस्फुटं यथा
रूपस्कन्धगतादर्शो भूधातुर्नयनेन्द्रियम् ।
रूपं च पञ्चमं याति क्रोधमैत्रेयसंयुतम्
वेदना स्कन्धसमता अब्धातुः श्रवणेन्द्रियम् ।
शब्दश्च पञ्चमं याति क्रोधद्वयसमन्वितम्
संज्ञा च प्रत्यवैक्षण्यं हुतभुग् नासिकेन्द्रियम् ।
गन्धश्च पञ्चं याति क्रोधद्वयसमन्वितम्
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0