पिण्डीक्रम · श्लोक 1-20
पिण्डीक्रमः
आचार्यनागार्जुनप्रणीतः
पिण्डीक्रमः
नमः सर्वज्ञाय
त्रैलोक्याचारमुक्तं गगनसमगतं सर्वभावस्वभावम्,
शुद्धं शान्तं विविक्तं परमशिवमयं योगिनामेव गम्यम् ।
दुर्बोधं दुर्विचारं स्वपरहिततमं व्यापिनं निर्निमित्तम्,
वन्दे कायं जिनानां सुखमसमसमं निर्विकल्पैकमूर्तिम्
श्रीमत्समाजतन्त्रस्य षट्कोट्यर्थावबोधतः ।
पिण्डीक्रममहं वक्ष्ये सर्वसत्त्वहितोदयम्
विकल्पवासनादोषान् जगत्त्रयविमोहकान् ।
समभिवीक्ष्य तान् धीमान् योगतन्त्रेण शोधयेत्
पञ्च कामान् परित्यज्य तपोभिर्न च पीडयेत् । पिक्_
सुखेन धारयेद् वोधिं योगतन्त्रानुसारतः
तेनेह संवरस्थो ऽयमभेदस्तु सदा व्रती ।
कायवाक्चित्तवज्रस्य साधनं तु समारभेत्
महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते ।
पर्वते विजते साध्यं सर्वसिद्धिसमुच्चयम्
मृद्वासनसमासीनः सत्त्वपर्यङ्कसंस्थितः ।
द्वेषवज्रसमाधिस्थः स्थानरक्षां विचिन्तयेत्
दशक्रोधान् समुत्सृज्य ज्वालाभासुरभीषणान् ।
हूंकारोद्भूतभानुस्थान् प्रत्यालीढपदे स्थितान्
दशदिग्मण्डलाग्रे तु सञ्चिन्त्यैवं यथाक्रमम् ।
सर्वविध्नविनाशार्थं सुम्भमाज्ञाय कीलयेत्
अं सुम्भ निसुम्भ हूं गृह्ण गृह्ण हूं गृह्णापय गृह्णापय हूं आनय हो भगवन् विद्याराज हूं फट् ।
अनेन क्रोधरूपेण आकृष्यैवं विनायकान् ।
कीलयेद् विधिवत् सर्वान् प्रयोगेण तु बुद्धिमान्
वज्रामृतमहाराजं व्रजकीलं विभावयेत् ।
नीलोत्पलदलश्यामं ज्वालामालाकुलप्रथम्
नाभिदेशादधोओभागं शूलाकारं विभावयेत् ।
ऊर्ध्वं क्रोधाकृतिं चैव त्रिमुखाकारषड्भुजम्
अधो विघ्नगणान् वीक्ष्य तान् मन्त्रं समुदाहरन् ।
निखनेत् वज्रकीलं तु विघ्नदेहेषु निश्चलम्
ओं घ घ घातय घातय सर्वदुष्टान् फट् फट् कीलय कीलय सर्वपापान् फट् फट् हूं हूं हूं वज्रकील वज्रधर आज्ञापयति सर्वविघ्नानां कायवाक्चित्तवज्रं कीलय हूं हूं हूं फट् ।
वज्रमुद्गरहस्तं च सुम्भराजं विभावयेत् ।
वज्रवह्निं समन्ताच्च विस्फरन्तं विचिन्त्य वै ।
दुष्टान् प्रलपितांश्चिन्तेद् दह्यमानानितस्ततः
दशदिक् कीलयित्वा तु अध ऊर्ध्वमधिष्य च ।
भावयेत् परमार्थेन निःस्वभावभवत्रयम्
अभावे भावनाभावो भावना नैव भावना ।
इति भावो न भावः स्याद् भावना नोपलभ्यते
अनया गाथया शून्यं ध्यात्वा स्थिरचरात्मकम् ।
अनेन विधियोगेन ज्ञानभूमिरधिष्यते
आकाशधातुमध्यस्थं भावयेद् वायुमण्डलम् ।
द्वि-हूं यं बीजनिष्पन्नं वज्रद्वयसमायुतम्
अग्निमण्डलकं चापि तस्योपरि विभावयेत् ।
द्वि-हूं रं बीजनिष्पन्नं वज्रद्वयसमाङ्कितम्
वारिमण्डलकं चापि तस्योपरि विभावयेत् ।
द्वि-हूं वं बीजनिष्पन्नं वज्रद्वयसमायुतम्
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0