भाषा

ENहिગુ
ग्रंथ पाठ

पिण्डीक्रम · श्लोक 185-206

185

नागभूषितसर्वाङ्गं बृहत्कुक्षिं भयानकम् ।
दण्डं खड्गं तथा चक्रं सव्यहस्तेषु धारयन्

186

हृद्देशे तर्जनीपाशं पद्मं परशुं च वामतः ।
डाकिन्यादिभयध्वंसी प्रत्यालीढपदेन सः

187

पद्मसूर्यं समारुह्य ऐशान्यां दिशि तिष्ठति ।
स्वमन्त्राक्षरनिष्पन्नं सृजेदुष्णीषचक्रिणम्

188

आकाशश्यामकं घोरमक्षोभ्यकृतशेखरम् ।
कृष्णरक्तसितास्यं च त्र्यक्षं लम्बोदरं विभुम्

189

वामदक्षिणहस्ताभ्यामुष्णीषं मूर्ध्निं धारयन् ।
वज्रं पद्मं च सव्याभ्यां तर्जनीखड्गमन्यतः

190

सर्वोपद्रवविध्वंसी प्रत्यालीढपदोद्यतः ।
पद्मसूर्यं समारुह्य ब्रह्मस्थाने स तिष्ठति

191

स्वमन्त्राक्षरनिष्पन्नं सुम्भराजं सृजेद् व्रती ।
आकाशसुप्रभं त्र्यक्षं कृष्नरक्तसिताननम्

192

बृहत्कुक्षिं करालास्यमक्षोभ्यकृतशेखरम् ।
वज्रं चक्रं तथा रत्नं सव्यहस्तेषु धारयन्

193

हृद्देशे तर्जनीपाशं पद्मखड्गं च वामतः ।
कालकूटादिकं सर्वविषं स्थावरजङ्गमम्

194

हत्वा विनायकान् सर्वान् शान्तिं कृत्वा तु सर्वतः ।
आज्ञां सम्पाद्य निखिलां प्रत्यालीढपदे स्थितः ।
पद्मसूर्यं समारुह्य भुवो ऽधस्तात् स तिष्ठति
उत्सृज्य मण्डलं सर्वं द्वात्रिंशद्देवतामयम् ।
चक्रमध्यस्थितो भूत्वा सूक्ष्मयोगमथारभेत्

196

नासग्रे सर्षपं चिन्तेत् सर्षपे सचराचरम् ।
भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम्

197

स्थिरं तु स्फारयेद् रत्नमस्थिरं नैव स्फारयेत् ।
स्फारयेत् प्रवरैर्मेघैबुद्धज्वालासमप्रभैः

198

भिक्षाशिना न जप्तप्यं न च भैक्षरतो भवेत् ।
जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत्

200

उच्चार्य संस्फरेद् वज्रं समाप्तौ संहारमादिशेत् ।
इदं तत् सर्वबुद्धानां जपोक्तं परमार्थतः ॥ पिक्_इति । पिक्_ 199 ॥
सूक्ष्मयोगजपं चापि द्विधा कृत्वा यथारुचि ।
आत्मानं च पुनर्मन्त्री तथतायां प्रवेशयेत्

201

मण्डलस्थाश्चतुर्देव्यो न पश्यन्त्यस्ततः पतिम् ।
गाथाचतुष्टयेनेत्थं बोधयन्ति महासुखम्

202

त्वं वज्रसत्त्व भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिनोज्ञमहार्थकामैः ।
कामाहि मां जनक सत्त्वमहाग्रबन्धो यदीच्छसे जीवतु मह्य नाथ

203

त्वं वज्रकाय बहुसत्त्वप्रियाग्रचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शीं ।
रागेण रागसमयां मम कामयस्व यदीच्छसे जीवतु मह्य नाथ

204

त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सद सम्प्रवृत्तः ।
कामाहि मां सुगतचर्य समन्तभद्र यदीच्छसे जीवतु मह्य नाथ

205

त्वं वज्रकाम समयाग्र महाहितार्थ संबुद्धवंशतिलकः समतानुकम्पी ।
कामाहि माम् गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवतु मह्य नाथ

206

एवमुत्थापितं नाथं सद्भूतगुणकीर्तनैः ।
अक्षोभ्यादिस्वभावेन संस्तुवन्ति तथागताः

मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc