पिण्डीक्रम · श्लोक 165-184
यमान्तकृन्मन्त्रभवं हयग्रीवं सृजेद् व्रती ।
पद्मरागनिभं त्र्यक्षं रक्तकृष्णसिताननम्
करालास्यं बृहत्कुक्षिममिताभकिरीटिनम् ।
प्रत्यालीढपदं वीरं स्फुलिङ्गगहनाकुलम्
पद्मं खङ्गं च मुसलं सव्यहस्तेषु भावयेत् ।
घण्टां सगर्वपरशुं पाशं सव्येतरेषु च
पद्मसूर्यं समारुह्य व्यवलोक्य दिशो दश ।
विध्नसन्त्रासनं कृत्वा वारुण्यां दिशि तिष्ठति
विध्नान्तकृन्मन्त्रभवं दुन्दुभिस्वरमौलिकम् ।
नीलोत्पलदलश्यामं सृजेदमृतकुण्डलिम्
नीलरक्तसितास्यं च करालमुखविभ्रमम् ।
बृहत्कुक्षिं त्रिनयनं रक्तज्वालाविभूषितम्
विश्ववज्रं तथा वक्रं मुसलं चापि सव्यतः ।
धारयंस्तर्जनीपाशं घण्टां परशुं च वामतः
विध्नसन्त्रासनं कृत्वा प्रत्यालीढपदेन तु ।
पद्मसूर्यं समारुह्य कौबेर्यां दिशि तिष्ठति
स्वमन्त्राक्षरनिष्पन्नमचलं च सृजेत् पुनः ।
इन्द्रनीलप्रभं त्र्यक्षं श्रीवैरोचनमौलिकम्
दंष्ट्राकरालवदनं कृष्णरक्तसिताननम् ।
अट्टहासरवं घोरं बृहत्कुक्षिं महाबलम्
खङ्कं वज्रं तथा चक्रं सव्यहस्तेषु धारयेत् ।
तर्जनीं चापि परशुं पाशं वामेषु पाणिषु
विघ्नान् ज्वरादिकान् हत्वा प्रत्यालीढपदेन तु ।
पद्मसूर्यं समारुह्य वह्निस्थाने स तिष्ठति
स्वमन्त्राक्षरनिष्पन्नं टक्किराजं सृजेद् व्रती ।
इन्द्रनीलप्रभं वीरं रत्नसम्भमौलिकम्
कृष्णरक्तसितास्यं च बृहत्कुक्षिं भयानकम् । पिक्_
दधानं वज्रं हूंकारमुद्रां पणिद्वयेन तु
वज्रं खड्गं च सव्याभ्यां वामतः पाशमङ्कुशम् ।
प्रत्यालीढेन सूर्यस्थो नैरृत्यां विध्ननाशकः
स्वमन्त्राक्षरनिस्पन्नं नीलद्ण्डं सृजेद् व्रती ।
नीलमेघनिभं त्र्यक्षममिताभकिरीटिनम्
नीलरक्तसितास्यं च बृहत्कुक्षिं भयावहम् ।
दण्डं खङ्गं तथा सव्यहस्तेषु धारयन्
हृदेशे तर्जनीपाशं पद्मं परशुं च वामतः ।
हत्वेत्युपद्रवभयं प्रत्यालीढपदे स्थितः
पद्मसूर्यं समारुह्य वायव्यां दिशि तिष्ठति ।
स्वमन्त्राक्षरनिष्पन्नं दुन्दुभिस्वरमौलिकम्
महाबलं सृजेन्मन्त्री नीलोत्पलदलप्रभम् ।
कृण्णरक्तसितास्यं च त्र्यक्षं भैरवनादितम्
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0