भाषा

ENहिગુ
ग्रंथ पाठ

पिण्डीक्रम · श्लोक 207-226

207

अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध ।
त्रिमण्डल त्रिवज्राग्र भाष गुह्यं नमो ऽस्तु ते

208

वैरोचन महाशुद्ध वज्रशान्त महारते ।
प्रकृतिप्रभास्वरान् धर्मान् देश वज्र नमो ऽस्तु ते

209

रत्नराज सुगम्भीर खवज्राकाशनिर्मल ।
स्वभावशुद्ध निर्लेप भाष गुह्यं नमो ऽस्तु ते

210

वज्रामितमहाराज निर्विकल्प खवज्रिण ।
राजपारमिताप्राप्त भाष वज्र नमो ऽस्तु ते

211

अमोघवज्र संबुद्ध सर्वाशापरिपूरक ।
शुद्धस्वभावसम्भूत वज्रसत्त्व नमो ऽस्तु ते

212

नुत्वाथ बुद्धैअरनुराग्य चक्रम् प्रकाश्य गुह्यं परमं यथायथम् ।
स्वकायचक्रे विनिवेश्य चक्रम् महासुखस्तिष्ठति नाथ एकः

213

एवं चतुर्योगकरस्तु योगी हूंकारगर्भं प्रविचिन्त्य लोकम् ।
दृष्ट्वा जपत् तद्भववज्रसत्त्वं व्युत्थाय तद्धीर्विचरेद् यथावद् ॥ इति

214

समाधिमालम्बयन् मन्त्री शुष्कमूर्तिर्यदा भवेत् ।
विचिन्तयेदिमं योगं कायवाक्चित्तप्रीणनम्

215

वितस्तिमात्रमाक्रम्य मूर्ध्नि मण्डलकल्पना ।
ओंकारं तत्रगं ध्वात्वा पञ्चामृतनिपातनम्

216

अनेन वज्रयोगेन तेजस्वी भवति क्षणात् ।
कायवाक्चित्तसौस्थित्यं लभते नात्र संशयः

217

एवमभ्यासतो मन्त्री शोधयेद् बोधयेत् यथा ।
हृत्कण्ठं चैव संशोध्यं प्रीणयेच्च तथागतान्

218

हूंकारेण च संशोध्य आःकारेण तु बोधयेत् ।
ज्वालयेत् प्रणवाक्रान्तम् इयमाहारशोधना

219

कण्ठे शङ्खं विचिन्त्यादौ तस्मिन् ह्रीःकारसम्भवम् ।
पद्ममष्टदलं चिन्तेद् हूंकारं कर्णिकोपरि

220

हूंकारजं महावज्रं पञ्चशूकं विभावयेत् ।
मध्यशूकाग्रे सञ्चिन्तेद् ओंकारं कण्ठशोधनम्

221

मेघनादं हृदि ध्यात्वा त्रिशिखाग्निं ततः स्फरेत् ।
तत्राहारं च जुहुयाद् होममाध्यात्मिकं त्विदम्

222

वायव्यं दीपयेद् अग्निं वारुणं पचते तु सः ।
माहेन्द्रमण्डलं स्थानं यत्र सञ्चरते हविः

223

अन्नं पानं च यत् किञ्चित् तत् सर्वं वारुणेन तु ।
अशनं मुखपद्मेन हृत्पद्यं सम्प्रवेशयेत्

224

नाभिपद्मगतं पश्चात् सम्पुटीकरणयोगतः ।
गुदपद्माद् विनिर्गत्य भश्मान्तं च विनिर्दिशेत्

226

न जरा नापि रोगश्च न मृत्युर्न विषादिकम् ।
नाकालमरणं तस्य सर्वोपद्रवनाशनम् ॥ पिक्_इति । पिक्_ 225 ॥
श्रीवज्रमालावरमन्थनेन गूढं समाजाम्बुनिधिं मथित्वा ।
यत् सादनाङ्गामृतमापि तेन लोकः समस्तो ऽमरतामुपैतु

मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc