पिण्डीक्रम · श्लोक 145-164
अग्निकोणे सृजेद् देवीं रूपवज्रां मनोरमाम् ।
त्रिमुखां षड्भुजां श्वेतां श्रीवैरोचनमौलिकाम्
गृहीतदर्पणां द्वाभ्यां शेषं मोहरतेरिव ।
नैरृत्यां विन्यसेद् देवीं शब्दवज्रां तु षड्भुजाम्
पीतवर्णां त्रिवक्त्रां च रत्नसम्भवमौलिकाम् ।
वीणाव्यग्रद्विहस्तां च शेषं मामकीवद् भवेत्
वायुस्थाने न्यसेद् देवीं गन्धवज्रां तु षड्भुजाम् ।
रक्तवर्णां त्रिवक्त्रां च अमिताभजटाधराम्
शङ्खव्यग्रद्विहस्तां च शेषैः पाण्डरवासिनीम् ।
ऐशान्यां विन्यसेद् देवीं रसवज्रां तु षड्भुजाम्
त्रिमुखां श्यामवर्णा च दन्दुभिस्वरमौलिकाम् ।
हस्तस्थरसभाण्डां च शेषैस्तारासमाकृतिम्
वज्रसत्त्वं समालिङ्ग्य चक्रमध्ये व्यवस्थिताम् ।
चिन्तयेत् स्पर्शवज्रां तु पतितुल्यां मुखादिभिः
तृतीये तु पुटे पूर्वे पट्टिकायां सृजेद् व्रती ।
मैं-थ्लीं बीजविनिष्पनौ मैत्रेयक्षितिगर्भकौ
प्रणवेन समुत्पन्नौ वज्रपाणिखगर्भकौ ।
पट्टिकायां सृजेन्मन्त्रीं दक्षिणायां यथाक्रमम्
ओ-हूंकारविनिष्पन्नं लोकेशं मञ्चुघोषकम् ।
पश्चिमायां सृजेदेतावुत्तरस्यां पुनः सृजेत्
ओं-सं-बीजविनिष्पन्नं सविष्कम्भिसमन्तकम् ।
एते स्वनाथमुकुटा वर्नाद्यैस्तत्समाः पुनः
भुजैः प्रहरणैश्चापि स्वस्वाधिपतिभिः समाः ।
मैत्रेयः केवलं सव्ये नागपुष्पं बिभर्ति च
संशोध्यायतनान्येते दिव्यनेत्रादिदायकाः ।
सत्त्वानां पुनरागत्य निषीदन्त्यासनेषु वै
यमान्तकृन्मन्त्रभवं कृष्णरक्तसिताननम् ।
यमान्तकं सृजेन्मन्त्री सुलिङ्गगहनाकुलम्
दण्डं चक्रं तथा वज्रं सव्यहस्तेषु धारयन् ।
हृद्देशे तर्जनीपाशं घण्टा परशुं च वामतः
विघ्नान् सन्त्रासयन् घोरान् इन्द्रादीन् सगणानपि ।
पद्मसूर्यं समाक्रम्य पूर्वस्यां दिशि तिष्ठति
प्रज्ञान्तकृन्मन्त्रभवं रत्नसम्भवमौलिकम् ।
अपराजितं सृजेन्मन्त्री श्वेताभमहिभूषणम्
सितकृष्णरक्तवदनं बृहत्कुक्षिं त्रिलोचनम् ।
दंष्ट्राकरालविकटं स्फुलिङ्गगहनाकुलम्
वज्रं दण्डं तथा खड्गं सव्यहस्तेषु धारयन् ।
हृद्देशे तर्जनीपाशं घण्टां परशुं च वामतः
विघ्नान् सन्त्रासयन् घोरान् प्रत्यालीढपदेन तु ।
पद्मसूर्यं समाक्रम्य याम्यां दिशि स तिष्ठतिओ
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0