पिण्डीक्रम · श्लोक 124-144
सव्ययोर्वज्रचक्रे तु वामयोः रत्नखड्गकौ । पिक्_
पूर्ववद् रागिणः शोध्य पृष्ठतो ऽब्जे निषीदती
अमोघवज्रिणं मन्त्री प्रज्ञाधृग्-मन्त्रनिर्मितम् ।
हरिताभं सृजेन्नाथं जटामुकुटमण्डितम्
हरितकृष्णसितास्यं च षड्भुजं रश्मिभासुरम् ।
खड्गं च विश्ववज्रं च चक्रं सव्येषु भावयेत्
घण्टामपसव्यहस्तेषु हरितपद्मं मणिं तथा ।
अभूतवचसः सत्त्वान् विशोध्य पुनरागतः
उत्तरस्यां दिशि तथा विश्ववज्रे निषीदति ।
द्वेषो मोहस्तथा रागश्चिन्तामणिः समयस्तथा
कुला ह्येते तु वै पञ्च काममोक्षप्रसाधकाः ।
मन्त्रान्मोहरतेर्जातां सृजेद् देवीं तु लोचनाम्
श्वेतां शान्तरसोपेतां मूर्ध्नि वैरोचनाङ्किताम् ।
सितरक्तकृष्णवदनां षड्भुजां तु विभावयेत्
सव्ये चक्रं व वज्रं च तथैव सितमुत्पलम् ।
वामे घण्टां तथा रत्नं खड्गं चापि विभावयेत्
हृदयात् तु विनिर्गत्य व्यवलोक्य दिशो दश ।
ग्रहव्याध्यातुरे लोके शान्तिं कृत्वा महाकृपा
आगत्य चक्रमध्ये तु पूर्वकोणे निषीदति ।
मन्त्राद् द्वेषरतेर्जाता सृजेद् देवीं तु मामकीम् ।
नीलोत्पलदलश्यामां चारुवक्त्रां मनोरमाम् । पिक्_
कृष्णरक्तसितास्यां च अक्षोभ्यकृतशेखराम्
सव्येषु वज्रं चक्रं च नीलरक्तोत्पलं तथा ।
घण्टां रत्नं च खड्गं च वाहस्तेषु धारयेत्
महाविघ्नभयार्तानां रक्षां कृत्वा महाकृपा ।
निष्क्रम्य पुनरागत्य नैरृत्यां सा निषीदति
मन्त्राद् रागरतेर्जाता सृजेत् पाण्डरवासिनीम् ।
रक्तकृस्णसितास्यां वै पद्मरागमणिप्रभाम्
सामिताभजटाजूटां षड्भुजां तु विभावयेत् ।
गृहीत्वोल्पलनालं तु वामेन सह घण्टया
उत्पलं हृत्प्रदेशस्थं रक्त सव्येन बोधयेत् ।
वज्रं चक्रं च सव्याभ्यां मणिं खड्गं च वामतः
धारयन्ती विनिर्गत्य शान्तिं कृत्वा महातुरे ।
आगत्य पद्ममध्ये वै वायुकोणे निषीदति
मन्त्राद् वज्ररतेर्जातां सृजेत् तारां मनोरमाम् ।
हरितकृष्णसितास्यां च दूर्वापत्रसमप्रभाम्
अमोघेन कृतोस्णीषां षड्भुजां तु विभावयेत् ।
विश्ववज्रं च चक्रं च सव्यतो ऽसितमुत्पलम्
वामेषु विन्यसेद् घण्टां रत्नं खड्गं तथा व्रती ।
सर्वसत्त्वान् वशीकृत्य विश्ववज्रासना पुनः
निर्गतासौ समागम्य शिवस्थाने निषीदति ।
द्वितीये तु पुटे योगी रूपवज्रादिकं सृजेत्
मूल पाठ: Piṇḍīkrama (transmitted as the first krama of Nāgārjuna's Pañcakrama) · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0