पाशुपतसूत्र · अध्याय 1
अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥
भस्मना त्रिषवणं स्नायीत ॥
भस्मनि शयीत ॥
अनुस्नानं ॥
निर्माल्यं ॥
लिङ्गधारी ॥
आयतनवासी ॥
हसितगीतनृत्तदुंदुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥
महादेवस्य दक्षिणामूर्तेः ॥
एकवासाः ॥
अवासा वा ॥
मूत्रपुरीषं नावेक्षेत् ॥
स्त्रीशूद्रं नाभिभाषेत् ॥
यद्य् अवेक्षेद् यद्य् अभिभाषेत् ॥
उपस्पृश्य ॥
प्राणायामं कृत्वा ॥
रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥
अकलुषमतेः ॥
चरतः ॥
ततो ऽस्य योगः प्रवर्तते ॥
दूरदर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥
सर्वज्ञाता ॥
मनोजवित्वम् ॥
कामरूपित्वम् ॥
विकरणः ॥
धर्मित्वं च ॥
सर्वे चास्य वश्या भवन्ति ॥
सर्वेषां चावश्यो भवति ॥
सर्वांश् चाविशति ॥
सर्वेषां चानावेश्यो भवति ॥
सर्वे चास्य वध्या भवन्ति ॥
सर्वेषां चावध्यो भवति ॥
अभीतः ॥
अक्षयः ॥
अजरः ॥
अमरः ॥
सर्वत्र चाप्रतिहतगतिर् भवति ॥
इत्य् एतैर् गुणयुक्तो [गुणैर् युक्तो] भगवतो महादेवस्य महागणपतिर् भवति ॥
अत्रेदं ब्रह्म जपेत् ॥
सद्योजातं प्रपद्यामि ॥
सद्योजाताय वै नमः ॥
भवे भवे नातिभवे ॥
भजस्व माम् ॥
भवोद्भवः ॥
मूल पाठ: Pāśupatasūtra · Edition: Krishnanda Sagar, Varanasi 1987 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0