पाशुपतसूत्र · अध्याय 2
वामः ॥
देवस्य ॥
ज्येष्ठस्य ॥
रुद्रस्य ॥
कलितासनम् ॥
सार्वकामिक इत्य् आचक्षते ॥
अमङ्गलं चात्र मङ्गलं भवति ॥
अपसव्यं च प्रदक्षिणम् ॥
तस्माद् उभयथा यष्टव्यः ॥
देववत् पितृवच् च ॥
उभयं तु रुद्रे देवाः पितरश् च ॥
हर्षाप्रमादी ॥
चर्यायां चर्यायाम् ॥
माहात्म्यम् अवाप्नोति ॥
अतिदत्तम् अतीष्टम् ॥
अतितप्तं तपस् तथा ॥
अत्यागतिं गमयते ॥
तस्मात् ॥
भूयस् तपश् चरेत् ॥
नान्यभक्तिस् तु शंकरे ॥
अत्रेदं ब्रह्म जपेत् ॥
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥
कालाय नमः ॥
कलविकरणाय नमः ॥
बलप्रथमनाय नमः ॥
सर्वभूतदमनाय नमः ॥
मनोऽमनाय नमः ॥
मूल पाठ: Pāśupatasūtra · Edition: Krishnanda Sagar, Varanasi 1987 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0