भाषा

ENहिગુ
ग्रंथ पाठ

परात्रिंशिका (टीका सहित) · श्लोक 8-16

8

क्रमपूजनमात्रं च कुलपर्वपवित्रकैः ।
सहात्र पूजने प्रोक्तं सम्यक्त्वं त्रिकशासने ॥

33

आद्यन्तरहितं बीजं विकसत् तिथिमध्यगम्
हृत्पद्मान्तर्गतं ध्यायेत् सोमांशं नित्यम् अभ्यस्येत् ॥

34

यान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् ।
अस्मात् प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः ॥

35

एवं मन्त्रफलावाप्तिर् इत्य् एतद् रुद्रयामलम्
एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते ॥

1

इत्थं प्रपन्नजनतोद्धरणप्रवृत्त-श्रीमन्महेश्वरपदाम्बुजचञ्चुरीकः ।
वृत्तिं व्यधात् त्रिकरहस्यविमर्शगर्भां काश्मीरिकाच् चुखलकाद् अधिगम्य जन्म ॥

2

एतावद् एतद् इति कस् तुलयेत् प्रसह्य श्रीशांभवं मतम् अनर्गलिताश् च वाचः ।
एतत् तु तावद् अखिलात्मनि भाति यन् मे भातं ततो ऽत्र सुधियो न पराङ्मुखाः स्युः ॥

3

अज्ञस्य संशयविपर्ययभागिनो वा ज्ञानं प्रकम्परहितं प्रकरोति सम्यक् ।
रूढस्य निश्चयवतो हृदयप्रतिष्ठां संवादिनीं प्रकुरुते कृतिर् ईदृशीयम् ॥

4

एतावदर्थरससंकलनाधिरूढो धाराधिरूधहृदयो विमृशेद् अतो ऽपि ।
यद्य् उत्तरं तद् अपि नैव सहेत नेदं सोपानम् एतद् अमलं पदम् आरुरुक्षोः ॥

5

कस्मीरेषु यशस्करस्य नृपतेर् आसीद् अमात्याग्रणीः श्रीमान् वल्लभ इत्य् उदाहृततनुर् यः प्राग्र्यजन्मा द्विजः ।
तस्य स्वाङ्गभवः प्रसिद्धिपदवीपात्रं समग्रैर् गुणैः श्रीशौरिः शिशुचन्द्रचूडचरणध्यानैकरत्नाकरः ॥

6

शीलस्यायतनं परस्य यससो जृम्भास्पदं नर्मभूर् वात्सल्यस्य समग्रलोककरुणाधर्मस्य जन्मस्थितिः ।
श्रीमद्वत्सलिकाभिधा सहचरी तस्यैव भक्त्युल्लसत्-प्रोद्रिक्तान्तरवृत्ति शङ्करनुतौ यस्या मनो जृम्भते ॥

7

तस्यैवात्मभवो विभावितजगत्सर्गस्थितिः शङ्कर-ध्यानार्चापरिचिन्तनैकरसिकः कर्णाभिधानो द्विजः ।
यो बाल्ये ऽप्य् अथ यौवने ऽपि विषयासक्तिं विहाय स्थिराम् एनाम् आश्रयते विमर्शपदवीं संसारनिर्मूलिनीम् ॥

8

भ्राता ममैव शिवशासनरूढचित्तः प्रेप्सुः परात्मनि मनोरथगुप्तनामा ।
यः शास्त्रतन्त्रम् अखिलं प्रविवेक्तुकामः प्राप्तुं परं शिवपदं भवभेदनाय ॥

9

शिवशास्त्रैकरसिकः पदवाक्यप्रमाणवित् ।
रामदेवाभिधानश् च भूषितोत्तमजन्मकः ॥

10

एतत्प्रियहितकरण-प्ररूढहृदयेन यन्मया रचितम् ।
मार्गप्रदर्शनं तत् सर्वस्य शिवाप्तये भूयात् ॥

11

अन्तर्वेद्याम् अत्रिगुप्ताभिधानः प्राप्योत्पत्तिं प्राविशत् प्राग्र्यजन्मा ।
श्रीकाश्मीरांश् चन्द्रचूडावतावैर् निःसंख्याकैः पावितोपान्तभागान् ॥

12

तस्यान्ववाये महति प्रसूताद् वराहगुप्तात् प्रतिलब्धजन्मा ।
संसारवृत्तान्तपराङ्मुखो यः शिवैकचित्तश् चुखलाभिधानः ॥

13

तस्माद् विवेचितसमस्तपदार्थजाताल् लब्ध्वापि देहपदवीं परमेशपूताम् ।
प्राप्ताभयो ऽभिनवगुप्तपदाभिधानः प्रावेसयत् त्रिकसतत्त्वम् इदं निगूढम् ॥

14

ये तावत् प्रविवेकवन्ध्यहृदयास् तेभ्यः प्रणामो वरः के ऽप्य् अन्ये प्रविविञ्चते न च गताः पारं धिग् एताञ् जडान् ।
यस् त्व् अन्यः प्रविमर्शसारपदवीसंभावनासुस्थितो लक्षैको ऽपि स कश्चिद् एव सफलीकुर्वीत यत्नं मम ॥

15

स्वात्मानां प्रविवेक्तुम् अप्य् अलसतां ये बिभ्रति प्रार्थना तान् प्रत्य् आत्मकदर्थनान् न परतः किंचित् फलं सोष्यते ।
विश्वस्यास्य विविक्तये स्थिरधियो ये संरभन्ते पुनः तान् अभ्यर्थयितुं मयैष विहितो मूर्ध्ना प्रणामादरः ॥

16

भ्राम्यन्तो भ्रमयन्ति मन्दधिषणास् ते जन्तुचक्रं जडं स्वात्मीकृत्य गुणाभिधानवसतो बद्ध्वा दृढं बन्धनैः ।
दृष्ट्वेत्थं गुरुभारवाहविधये यातानुयातान् पसून् तत्पाशप्रविकर्तनाय घटितं ज्ञानत्रिशूलं मया ॥

मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc