भाषा

ENहिગુ
ग्रंथ पाठ

परात्रिंशिका (टीका सहित) · श्लोक 17-21

17

बहुभिर् अपि सो ऽहम् एव भ्रमितस् तत्त्वोपदेशकंमन्यैः ।
तत्त्वम् इति वर्णयुगम् अपि येषां रसना न पस्पर्श ॥

18

परमेश्वरः प्रपन्न-प्रोद्धरणकृपाप्रयुक्तगुरुहृदयः ।
श्रीमान् देवः शंभुर् माम् इयति नियुक्तवांस् तत्त्वे ॥

19

तत्तत्त्वनिर्मलस्थिति विभागिहृदये स्वयं प्रविष्टम् इव ।
श्रीसोमानन्दमतं विमृश्य मया निबद्धम् इदम् ॥

20

हंहो हृच्चक्रचारप्रविचरणलसन्निर्भरानन्दपूर्णा देव्यो ऽस्मत्पाशकोटिप्रविघटनपटुज्ञानशूलोर्ध्वधाराः ।
चेतोवाक्कायम् एतद् विगतभवभयोत्पत्ति युष्मासु सम्यक् प्रोतं यत् तेन मह्यं व्रजत किल हृदि द्राक् प्रसादं प्रसह्य ॥

21

व्याख्यादिकर्मपरिपाटिपदे नियुक्तो युष्माभिर् अस्मि गुरुभावम् अनुप्रविश्य ।
वाक्चित्तचापलम् इदं मम तेन देव्यास् तच्चक्रचारचतुरस्थितयः क्षमध्वम् ॥

मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc