भाषा

ENहिગુ
ग्रंथ पाठ

परात्रिंशिका (टीका सहित) · श्लोक 21 -7

21

कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम्
शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् ॥

22

तदन्तर् वर्ति यत् किंचिच् छुद्धमार्गे व्यवस्थितम्
अणुर् विशुद्धम् अचिराद् ऐश्वरं ज्ञानम् अश्नुते ॥

23

तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः
सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः ॥

24

यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः
तथा हृदयबीजस्थं जगद् एतच् चराचरम् ॥

25

एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी
दीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता ॥

26

मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च
न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् ॥

27

एकैकं तु दिशां बन्धं दशानाम् अपि योजयेत्
तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये ॥

28

शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः
पुष्पादिकं क्रमात् सर्वं लिङ्गे वा स्थण्डिले ऽथवा ॥

29

चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना
तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः ॥

30

सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत्
सर्वतत्त्वसुसम्पूर्णाम् सर्वाभरणभूषिताम् ॥

31

यजेद् देवीं महेशानीं सप्तविंशतिमन्त्रिताम्
ततः सुगन्धिपुष्पैस् तु यथाशक्त्या समर्चयेत् ॥

32

पूजयेत् परया भक्त्या आत्मनं च निवेदयेत्
एवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः ॥

33ab

कृतपूजाविधिः सम्यक् स्मरन् बीजं प्रसिद्ध्यति

1

यत्रान्तर् अखिलं भाति यच् च सर्वत्र भासते ।
स्फुरत्तैव हि सा ह्य् एका हृदयं परमं बुधा ॥

2

रासभी वडवा वापि स्वं जगज् जन्मधाम यत् ।
समकालं विकास्यैव संकोच्य हृदि हृष्यति ॥

3

तथोभयमहानन्दसौषुम्नहृदयान्तरे ।
स्पन्दमानम् उपासीत हृदयं सृष्टिलक्षणम् ॥

4

ध्यायन् स्मरन् प्रविमृशन् कुर्वन् वा यत्र कुत्रचित् ।
विश्रान्तिम् एति यस्माच् च प्रोल्लसेद् धृदयं तु तत् ॥

5

तद् एकम् एव यत्रैतज् ज्ञानं वैकल्पिकं परम् ।
तत्त्वानि भुवनाभोगाः शिवादिपशुमातरः ॥

6

स्वं स्वं विचित्रम् एवान्तःस्वरूपं पारमार्थिकम् ।
चित्रीकुर्वन्त एषन्ति तां चित्रं संविदं पराम् ॥

7

दशाद्रव्यक्रियास्थानज्ञानादिष्व् अपि सर्वशः ।
अशङ्कयैव संक्रामः पूजास्य सततोदिता ॥

मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc