परात्रिंशिका (टीका सहित) · श्लोक 25 -20
एनां संविदम् आलम्ब्य यत् स्यात् तत् पृच्छ्यतां स्ववित् ।
नैतावतैव तुलितं मार्गांशस् तु प्रदर्शितः ॥
इयतीति व्यवच्छिन्द्याद् भैरवीं संविदं हि कः ।
एतावाञ् छक्तिपातो ऽयम् अस्मासु प्रविजृम्भितः ॥
येनाधिकारितैर् एतद् अस्माभिः प्रकटीकृतम् ।
अस्माकम् अन्यमात्ःणाम् अद्य कालान्तरे ऽपि वा ॥
भवत्य् अभूत्वा भविता तर्कः सूक्ष्मतमो ऽप्य् अतः ।
यः सर्वयोगावयवप्रकाशेषु गभस्तिमान् ॥
श्रीपूर्वशास्त्रे निर्णीतो येन मुक्तश् च मोचकः ।
एतत् तु सर्वथा ग्राह्यं विमृश्यं च परेप्सुभिः ॥
क्षणं मर्त्यत्वसुलभां हित्वासूयां विचक्षणैः ।
आलोचनक्षणाद् ऊर्ध्वं यद् भवेद् आत्मनि स्थितिः ।
चिदर्काभ्रलवास् तेन संशाम्यन्ते स्वतो रसात् ॥
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् ॥
तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः
एतन् नायोगिनीजातो नारुद्रो लभते स्फुटम् ॥
हृदयं देवदेवस्य सद्यो योगविमोक्षदम्
अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् ॥
सद्यस् तन्मुखताम् एति स्वदेहावेशलक्षणम्
मुहूर्तं स्मरते यस् तु चुम्बकेनाभिमुद्रितः ॥
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः
अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि ॥
प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन्
सक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रशक्तिभिः ॥
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन्
त्रयेण मातरः सर्वा योगेश्वर्यो महाबलाः ॥
वीरा वीरेश्वराः सिद्धा बलवाञ् छाकिनीगणः
आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः ॥
यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम्
अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः ॥
यत् किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिद्ध्यति
अदृष्टमण्दलो ऽप्य् एवं यः कश्चिद् वेत्ति तत्त्वतः
स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षितः ॥
अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः
शाकिनीकुलसामान्यो भवेद् योगं विनापि हि ॥
अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥
मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0