भाषा

ENहिગુ
ग्रंथ पाठ

परात्रिंशिका (टीका सहित) · श्लोक 5 -24

5

इन्द्रियाणि त्रिरूपं च लिङ्गं परवचःक्रमः ।
सारूप्यम् अन्यथायोगः प्रतीत्यनुदयो यमः ॥

6

इत्यादिको यस्य सर्वं द्वारमात्रे निरूप्यते ।
तत् स्वसंवेदनं प्रोक्तम् अविच्छेदप्रथामयम् ॥

7

येषां नाक्षत्रिरूपादिनाममात्रे ऽप्य् अभिज्ञता ।
तेषाम् अपि तिरश्चां हि समा संवित् प्रकाशते ॥

8

एवं भासा स्वभावेन स्वरूपामर्शनात्मिका ।
स्वरूपामर्शनं यच् च तद् एव परवाग्वपुः ॥

9

तद्विचित्रस्वभावत्वाद् विचित्रप्रथनामयम् ।
प्रथने पारतन्त्र्यं हि न जातु भजते क्व चित् ॥

10

अपारतन्त्र्यात् संकेतप्रत्यूहादेः कथं स्थितिः ।
अतः संकेतरहितं स्वस्वरूपविमर्शनम् ॥

11

देशकालकलामायास्थानघातक्रियोत्तरम् ।
परिपूर्णं स्वतः सर्वं सर्वाकारविलक्षणम् ॥

12

स्वाभाविकमहासंवित्सत्संस्कारैकलक्षणम् ।
शुद्धविद्यात्मकं रूपम् अहम् इत्य् उभयात्मकम् ॥

13

तद् एव मातृकारूपं धरादीनां निजं वपुः ।
तत् पारमार्थिकाकरं द्रुत्याश्यानस्वरूपतः ॥

14

बीजयोन्यात्मकं प्रोक्तं शिवशक्तिस्वरूपकम् ।
शिवशक्त्योस् तु संघट्टाद् अन्योन्योच्छलितत्वतः ॥

15

परस्परसमापत्तिर् जगदानन्ददायिनी ।
अन्तःस्थविश्वपर्यन्तपारमार्थिकसद्वपुः ॥

16

यद् वीर्यम् इति निर्णीतं तद् विस्लेषणयोजनात् ।
विसर्ग इति तत् प्रोक्तं ध्रुवधाम तद् उच्यते ॥

17

अनुत्तरपदावाप्तौ स एष सुघटो विधिः।
अस्माद् एव त्व् अमायीयाद् वर्णपुञ्जान् निरूपिता ॥

18

मायाम् आलम्ब्य भिन्नैव श्रीपूर्वे सृष्टिर् आक्षरी ।
पञ्चाशद्भेदसंभिन्नप्रत्ययप्रसवात्मिका ॥

19

बन्धरूपा स्वभावेन स्वरूपावरणात्मिका ।
अत्रैवान्तर्गतास् तास् ताः खेचर्यो विषयात्मिकाः ॥

20

तन्वते संसृतिं चित्रां कर्ममायाणुतामयीम् ।
अस्याः साम्यां स्वभावेन शुद्धभैरवतामयम् ॥

21

प्रोक्तं प्राग् एव जीवत्वे मुक्तत्वं पारामार्थिकम् ।
भिन्नाया वर्णसृष्टेश् च तद् अभिन्नं वपुः परम् ॥

22

वीर्यम् इत्य् उक्तम् अत्रैव यद् गुप्त्या मन्त्रगुप्तता ।
तद् एतद् अहम् इत्य् एव विसर्गानुत्तरात्मकम् ॥

23

स्वस्वभावं परं जानञ् जीवन्मुक्तः सकृद् बुधः ।
सिद्ध्यादिप्रेप्सवस् तेन कॢप्तसंकोचसूत्रितम् ॥

24

नाभिकुण्डलहृद्व्योम्नोर् योगिनो ऽहम् उपासते ।
तद् एतत् किल निर्णीतं यथागुर्वागमं मनाक् ॥

मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc