भाषा

ENहिગુ
ग्रंथ पाठ

परात्रिंशिका (टीका सहित) · श्लोक 0.1 -4

1

अनुत्तरं कथं देव सद्यःकौलिकसिद्धिदम्
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥

2ab

एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो

2

हृदयस्था तु या शक्तिः कौलिनी कुलनायिका ॥

3ab

तां मे कथय देवेश येन तृप्तिं लभाम्य् अहम्

3

शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् ॥

4

यद् अयं कौलिको विधिर् मम हृद्व्योम्न्य् अवस्थितः
कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् ॥

5

अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥

6

पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु
क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥

7

वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम्
तदूर्ध्वे शादिविख्यातं पुरस्ताद् ब्रह्मपञ्चकम् ॥

8

अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥

8

इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा

1

स्वातन्त्र्यैकरसावेशचमत्कारैकलक्षणा ।
परा भगवती नित्यं भासते भैरवी स्वयम् ॥

2

तस्याः स्वभासायोगो यः सो ऽनिरुद्धः सदोदितः ।
सदाशिवधरातिर्यङ्नीलपीतसुखादिभिः ॥

3

भासमानैः स्वस्वभावैः स्वयंप्रथनशालिभिः ।
प्रथते संविदाकारः स्वसंवेदनसारकः ॥

4

स्वस्वसंवेदनं नाम प्रमाणम् इति वर्ण्यते ।
बालतिर्यक्सर्वविदां यत् साम्येनैव भासते ॥

मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc