भाषा

ENहिગુ
ग्रंथ पाठ

परात्रिंशिका (टीका सहित) · अध्याय 0

0.1

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश् च पञ्चमुखगुप्तरुचिर् जनकः ।
तद् उभययामलस्फुरितभावविसर्गमयं हृदयम् अनुत्तरामृतकुलं मम संस्फुरतात् ॥

0.2

यस्याम् अन्तर् विश्वम् एतद् विभाति बाह्याभासं भासमानं विसृष्टौ ।
क्षोभे क्षीणे ऽनुत्तरायां स्थितौ तां वन्दे देवीं स्वात्मसंवित्तिम् एकाम् ॥

0.3

नरशक्तिशिवात्मकं त्रिकं हृदये या विनिधाय भासयेत् ।
प्रणमामि पराम् अनुत्तरां निजभासां प्रतिभाचमत्कृतिम् ॥

0.4

जयत्य् अनर्घमहिमा विपाशितपशुव्रजः ।
श्रीमान् आद्यगुरुः शम्भुः श्रीकण्ठः परमेश्वरः ॥

0.5

निजशिष्यविबोधाय प्रबुद्धस्मरणाय च ।
मयाभिनवगुप्तेन श्रमो ऽयं क्रियते मनाक् ॥

मूल पाठ: Parātriṃśikā with Abhinavagupta's Parātriṃśikāvivaraṇa (lacks the Apabhramsa passages) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc