भाषा

ENहिગુ
ग्रंथ पाठ

पराशरधर्मसंहिता · अध्याय 4

4.1

अतिमानाद् अतिक्रोधात् स्नेहाद् वा यदि वा भयात् ।
उद्बध्नीयात् स्त्री पुमान् वा गतिर् एषा विधीयते ॥

4.2

पूयशोणितसंपूर्णे त्व् अन्धे तमसि मज्जति ।
षष्ठीर् वर्षसहस्राणि नरकं प्रतिपद्यते ॥

4.3

नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् ।
वोढारो ऽग्निप्रदातारः पाशच्छेदकरास् तथा ॥

4.4

तप्तकृच्छ्रेण शुध्यन्तीत्य् एवम् आह प्रजापतिः ।
गोभिर् हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् ॥

4.5

संस्पृशन्ति तु ये विप्रा वोढारश् चाग्निदाश् च ये ।
अन्ये ये वानुगन्तारः पाशच्छेदकराश् च ये ॥

4.6

तप्तकृच्छ्रेण शुद्धास् ते कुर्युर् ब्राह्मणभोजनम् ।
अनडुत्सहितां गां च दद्युर् विप्राय दक्षिणाम् ॥

4.7

त्र्यहम् उष्णं पिबेद् वारि त्र्यहम् उष्णं पयः पिबेत् ।
त्र्यहम् उष्णं पिबेत् सर्पिर् वायुभक्षो दिनत्रयम् ॥

4.8

षट्पलं तु पिबेद् अम्भस् त्रिपलं तु पयः पिबेत् ।
पलम् एकं पिबेत् सर्पिस् तप्तकृच्छ्रं विधीयते ॥

4.9

यो वै समाचरेद् विप्रः पतितादिष्व् अकामतः ।
पञ्चाहं वा दशाहं वा द्वादशाहम् अथापि वा ॥

4.10

मासार्धं मासम् एकं वा मासद्वयम् अथापि वा ।
अब्दार्धम् अब्दम् एकं वा तद् ऊर्ध्वं चैव तत्समः ॥

4.11

त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रम् आचरेत् ।
तृतीये चैव पक्षे तु कृच्छ्रं सांतपनं चरेत् ॥

4.12

चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे मतः ।
कुर्याच् चान्द्रायणं षष्ठे सप्तमे त्व् ऐन्दवद्वयम् ॥

4.13

शुद्ध्यर्थम् अष्टमे चैव षण् मासान् कृच्छ्रम् आचरेत् ।
पक्षसंख्याप्रमाणेन सुवर्णान्य् अपि दक्षिणा ॥

4.14

ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति ।
सा मृता नरकं याति विधवा च पुनः पुनः ॥

4.15

ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥

4.16

दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते ।
सा शुनी जायते मृत्वा सूकरी च पुनः पुनः ॥

4.17

पत्यौ जीवति या नारी उपोष्य व्रतम् आचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥

4.18

अपृष्ट्वा चैव भर्तारं या नारी कुरुते व्रतम् ।
सर्वं तद् राक्षसान् गच्छेद् इत्य् एवं मनुर् अब्रवीत् ॥

4.19

बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या ।
गर्भपातं च या कुर्यान् न तां संभाषयेत् क्वचित् ॥

4.20

यत् पापं ब्रह्महत्यायां द्विगुणं गर्भपातने ।
प्रायश्चित्तं न तस्याः स्यात् तस्यास् त्यागो विधीयते ॥

4.21

न कार्यम् आवसथ्येन नाग्निहोत्रेण वा पुनः ।
स भवेत् कर्मचाण्डालो यस् तु धर्मपराङ्मुखः ॥

4.22

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
स क्षेत्री लभते बीजं न बीजी भागम् अर्हति ॥

4.23

तद्वत् परस्त्रियाः पुत्रौ द्वौ स्मृतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यात् मृते भर्तरि गोलकः ॥

4.24

औरसः क्षेत्रजश् चैव दत्तः कृत्रिमकः सुतः ।
दद्यान् माता पिता वापि स पुत्रो दत्तको भवेत् ॥

4.25

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥

4.26

द्वौ कृच्छ्रौ परिवित्तेस् तु कन्यायाः कृच्छ्र एव च ।
कृच्छ्रातिकृच्छ्रौ दातुस् तु होता चान्द्रायणं चरेत् ॥

4.27

कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च ।
जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥

4.28

पितृव्यपुत्रः सापत्नः परनारीसुतस् तथा ।
दाराग्निहोत्रसम्योगे न दोषः परिवेदने ॥

4.29

ज्येष्ठो भ्राता यदा तिष्ठेद् आधानं नैव कारयेत् ।
अनुज्ञातस् तु कुर्वीत शङ्खस्य वचनं यथा ॥

4.30

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥

4.31

मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता ।
सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥

4.32

तिस्रः कोट्यो ऽर्धकोटी च यानि रोमाणि मानुषे ।
तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥

4.33

व्यालग्राही यथा व्यालं बलाद् उद्धरते बिलात् ।
एवं स्त्री पतिम् उद्धृत्य तेनैव सह मोदते ॥

मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc