भाषा

ENहिગુ
ग्रंथ पाठ

पराशरधर्मसंहिता · अध्याय 3

3.1

अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा ।
दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके ॥

3.2

क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः ।
शूद्रः शुध्यति मासेन पराशरवचो यथा ॥

3.3

उपासने तु विप्राणाम् अङ्गशुद्धिश् च जायते ।
ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते ॥

3.4

जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥

3.5

एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः ।
त्र्यहात् केवलवेदस् तु द्विहीनो दशभिर् दिनैः ॥

3.6

जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः ।
नामधारकविप्रस् तु दशाहं सूतकी भवेत् ॥

3.7

एकपिण्डास् तु दायादाः पृथग्दारनिकेतनाः ।
जन्मन्य् अपि विपत्तौ च तेषां तत् सूतकं भवेत् ॥

3.8

तावत् तत् सूतकं गोत्रे चतुर्थपुरुषेण तु ।
दायाद् विच्छेदम् आप्नोति पञ्चमो वात्मवंशजः ॥

3.9

चतुर्थे दशरात्रं स्यात् षण्णिशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच् छुद्धिः सप्तमे तु दिनत्रयात् ॥

3.10

भृग्वग्निमरणे चैव देशान्तरमृते तथा ।
बाले प्रेते च संन्यस्ते सद्यः शौचं विधीयते ॥

3.11

देशान्तरमृतः कश्चित् सगोत्रः श्रूयते यदि ।
न त्रिरात्रम् अहोरात्रं सद्यः स्नात्वा शुचिर् भवेत् ॥

3.12

देशान्तरगतो विप्रः प्रयासात् कालकारितात् ।
देहनाशम् अनुप्राप्तस् तिथिर् न ज्ञायते यदि ॥

3.13

कृष्णाष्टमी त्व् अमावास्या कृष्णा चैकादशी च या ।
उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥

3.14

अजातदन्ता ये बाला ये च गर्भाद् विनिःसृताः ।
न तेषाम् अग्निसंस्कारो नाशौचं नोदकक्रिया ॥

3.15

यदि गर्भो विपद्येत स्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भो दिनं तावत् तु सूतकम् ॥

3.161

आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं प्रसूतिः स्याद् दशाहं सूतकं भवेत् ॥

3.162

दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते ।
अग्निसंस्करणे तेषां त्रिरात्रम् अशुचिर् भवेत् ॥

3.17

आ दन्तजन्मनः सद्य आ चूडान् नैषिकी स्मृता ।
त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥

3.18

ब्रह्मचारी गृहे येषां हूयते च हुताशनः ।
संपर्कं न च कुर्वन्ति न तेषां सूतकं भवेत् ॥

3.19

संपर्काद् दुष्यते विप्रो जनने मरणे तथा ।
संपर्काच् च निवृत्तस्य न प्रेतं नैव सूतकम् ॥

3.20

शिल्पिनः कारुका वैद्या दासीदासाश् च नापिताः ।
राजानः श्रोत्रियाश् चैव सद्यः शौचाः प्रकीर्तिताः ॥

3.21

सव्रतः सत्रपूतश् च आहिताग्निश् च यो द्विजः ।
राज्ञश् च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥

3.22

उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः ।
तदैव ऋषिभिर् दृष्टं यथा कालेन शुध्यति ॥

3.23

प्रसवे गृहमेधी तु न कुर्यात् संकरं यदि ।
दशाहाच् छुध्यते माता त्व् अवगाह्य पिता शुचिः ॥

3.24

सर्वेषां शावम् आशौचं माता पित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥

3.25

यदि पत्न्यां प्रसूतायां संपर्कं कुरुते द्विजः ।
सूतकं तु भवेत् तस्य यदि विप्रः षडङ्गवित् ॥

3.26

संपर्काज् जायते दोषो नान्यो दोषो ऽस्ति वै द्विजे ।
तस्मात् सर्वप्रयत्नेन संपर्कं वर्जयेद् बुधः ॥

3.27

विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ॥

3.28

अन्तरा दशाहस्य पुनर् मरणजन्मनी ।
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥

3.29

ब्राह्मणार्थे विपन्नानां बन्दिगोग्रहणे तथा ।
आहवेषु विपन्नानाम् एकरात्रम् अशौचकम् ॥

3.30

द्वाव् इमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड् योगयुक्तश् च रणे चाभिमुखो हतः ॥

3.31

यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयांल् लभते लोकान् यदि क्लीबं न भाषते ॥

3.32

संन्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच् चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ॥

3.33

यस् तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः ।
परित्राता यदा गच्छेत् स च क्रतुफलं लभेत् ॥

3.34

यस्य च्छेदक्षतं गात्रं शरमुद्गरयष्टिभिः ।
देवकन्यास् तु तं वीरं हरन्ति रमयन्ति च ॥

3.35

देवाङ्गनासहस्राणि शूरम् आयोधने हतम् ।
त्वरमाणाः प्रधावन्ति मम भर्ता ममेति च ॥

3.36

यं यज्ञसंघैस् तपसा च विप्राः स्वर्गैषिणो वात्र यथा यान्ति ।
क्षणेन यान्त्य् एव हि तत्र वीराः प्राणान् सुयुद्धेन परित्यजन्तः ॥

3.37

जितेन लभ्यते लक्ष्मीर् मृतेनापि सुराङ्गनाः ।
क्षणध्वंसिनि काये ऽस्मिन् का चिन्ता मरणे रणे ॥

3.38

ललाटदेशे रुधिरं स्रवच् च यस्याहवे तु प्रविशेच् च वक्त्रम् ।
तत् सोमपानेन किलास्य तुल्यं संग्रामयज्ञे विधिवच् च दृष्टम् ॥

3.39

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् आनुपूर्व्यांल् लभन्ति ते ॥

3.40

न तेषाम् अशुभं किंचित् पापं वा शुभकर्मणाम् ।
जलावगाहनात् तेषां सद्यःशौचं विधीयते ॥

3.41

असगोत्रम् अबन्धुं च प्रेतीभूतं द्विजोत्तमम् ।
वहित्वा च दहित्वा च प्राणायामेन शुध्यति ॥

3.42

अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव वा ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥

3.43

क्षत्रियं मृतम् अज्ञानाद् ब्राह्मणो यो ऽनुगच्छति ।
एकाहम् अशुचिर् भूत्वा पञ्चगव्येन शुध्यति ॥

3.44

शवं च वैश्यम् अज्ञानाद् ब्राह्मणो यो ऽनुगच्छति ।
कृत्वाशौचं द्विरात्रं च प्राणायामान् षड् आचरेत् ॥

3.45

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन् नीयमानं त्रिरात्रम् अशुचिर् भवेत् ॥

3.46

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥

3.47

विनिर्वर्त्य यदा शूद्रा उदकान्तम् उपस्थिताः ।
द्विजैस् तदानुगन्तव्या एष धर्मः सनातनः ॥

मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc