भाषा

ENहिગુ
ग्रंथ पाठ

पारमितासमास · अध्याय 6

6.1

॥ ध्यानपारमितासमासः ॥
6. प्रज्ञापारमितासमासः
पुण्यानि दानप्रभृतीन्यमूनि प्रज्ञासनाथान्यधिकं विभान्ति ।
हिरण्मयानीव विभूषणानि प्रत्युप्तरत्नद्युतिभास्वराणि

6.2

क्रियासु सामर्थ्यगुणं हि तेषां प्रज्ञैव विस्तारिणमादधाति ।
स्वार्थप्रवृत्तौ विशदक्रमाणां यथा मनःसंततिरिन्द्रियाणां

6.3

क्रियास्वयोग्यानि शरीरयन्त्राण्यायुर्वियुक्तानि यथा न भान्ति ।
तथैव कार्याणि न भान्ति लोके प्रज्ञावियोगेन जदीकृतानि

6.4

श्रद्धादिकानामपि चेन्द्रियाणां प्रज्ञाग्रणी बुद्धिरिवेन्द्रियाणाम् ।
गुणागुणान् वेत्ति हि तत्सनाथः क्लेशक्षये नैपुणमेत्यतश्च

6.5

प्रज्ञावियोगात् फललालसानां नैव स्वतोदानविशुद्धिरस्ति ।
त्यागं परार्थं हि वदन्ति दानं शेषस्तु वृद्ध्यार्थमिव प्रयोगः

6.6

प्रज्ञासमुन्मीलितचक्षुषस्तु दत्त्वा स्वमांसान्यपि बोधिसत्त्वाः ।
नैवोन्नतिं नावनतिं प्रयान्ति भैषज्यवृक्षा इव निर्विक्लपाः

6.7

एवं स भूमिं प्रथमामुपैति लोकोत्तरस्यार्थविधिप्रतिष्ठाम् ।
अक्रोधनः प्रीतिसमृद्धचेता दानैर्महद्भिर्जगदर्थचेताः

6.8

प्रायेण यस्यां बलचक्रवर्ती भवत्यसंहार्यमतिश्च बोधेः ।
प्रज्ञागुणादेशितसत्पथो ऽथ कर्मेण भूमिं विमलामुपैति

6.9

यस्यां प्रकृत्यैव विशुद्धशीलश्चतुर्महाद्वीपपतिः स भूत्वा ।
नरेन्द्रचूडामणिसत्कृताज्ञः सूर्यार्हतामेति यथा मुनीन्द्रः

6.10

ततः परं कामिषु दैवतेषु लोके ऽपि च द्वित्रिसहस्रसंख्ये ।
ऐश्वर्यमाप्नोति ततः परं च भूमिं विशोध्य प्रभवां प्रभायाः

6.11

शीलस्य शुद्धिः कुत एव तस्य यः प्रज्ञया नापहृतान्धकारः ।
प्रायेण शीलानि हि तद्वियोगाद् आमर्षदोषैः कलुषीक्रियन्ते

6.12

नात्मार्थमप्यस्ति तु यस्य शीलं प्राज्ञस्य तस्यास्ति कथं परार्थम् ।
यो दृष्टदोषो भवबन्धनानां लोकान् समस्तांस्तत उज्जिहीर्षुः

6.13

प्रज्ञाविपक्षैर्हृदि सोपरागे क्षमागुणः केन धृतिं लभेत ।
गुणागुणाअवेक्षणकातराक्षे ख्यातो गुणैर्वीरा इव क्षितीशे

6.14

प्रज्ञान्वितानां तु परापकाराः क्षमागुणाः स्थैर्यकरा भवन्ति ।
भद्रात्मकानामिव वारणानां करमाश्रया नैकविधा विषेषाः

6.15

निष्केवलं वीर्यमपि श्रमाय प्रज्ञासनाथस्य तु तस्य कार्ये ।
अनुत्तरः सिद्धिगुणो ऽभ्युदेति हर्ता तदुत्थस्य परिश्रमस्य

6.16

यस्मात् परं सूक्षमतरं न किं चिद् यन्नैपुणानां परमः प्रकर्षः ।
यत्कामदोषादिभिरावृतानां मनःपथं नैव कदा चिदेति

6.17

तद् ध्यानमेकान्तसुखाभिरामं कथं प्रवेक्ष्यन्त्यस्तां मनांसि ।
स्थूलानि दोषोपचयैर्महद्भिः प्रज्ञोत्पथं न्यायमिवाश्रितानी

6.18

प्रज्ञानिरुद्योगमतेर्हि दृष्टिर्नायाति शुद्धिं तदृते न शीलम् ।
सम्यकस्माधिस् तदृते न लभ्यो दुःखक्षयस्तद्विरहात्तथैव

6.19

प्राज्ञस्तु दोषाद्भयमीक्षमाणः सुखानुबद्धं च सुखं गुणेभ्यः ।
विहाय दोषाञ्जगदर्थकामो गुणाभिरामेण पथा प्रयाति

6.20

समुद्यतस्तेन समाधिमेत्य प्राप्नोति वाक्कायमनोविशुद्धीः ।
अतो ऽनवद्येन बलेन युक्तः प्रवर्तते लोकहितोदयेषु

6.21

दानेन चाभीप्सितभूयसैव प्रियैरदीनैर्वचनामृतैश्च ।
नैष्कारणोर्जस्वलया च वृत्त्या परार्थचर्यासु समं समन्तात्

6.22

सामान्यमर्थेषु च दर्शयित्वा प्रेम्णा वशीकृत्य मनांसि तेषाम् ।
करोति निर्वाणसुखे प्रतिष्ठां प्रज्ञागुणाव्याहतधर्मचक्रः

6.23

प्रज्ञाद्यरोगैश्च बलैरमीभिरध्यासितं नाभ्युपयातुमीसा ।
अजीविकादुर्गतिमृत्युनिन्दाशारद्यदोषाश्रयणी भयार्तिः

6.24

भयानि सर्वाणि हि दोषजानि प्रज्ञा न दोषैः सहवासमेति ।
शरद्व्यपोढाभ्रगवाक्षपक्षा भा भास्करस्येव तमःप्रतानैः

6.25

सहस्ररश्मेरुदये ऽपि यानि तमांसि रुन्धन्ति जगद्गतानि ।
नामैकशेषाणि करोति तानि प्रज्ञाप्रभायाः प्रसरप्रभावः

6.26

न तत्र भूयः करणीयम् अस्ति यत्र प्रभा सा बलतामुपैति ।
युगान्तकालानलसंहृते हि लोके न दग्धव्यकथाः प्रथन्ते

6.27

ज्योतींषि सर्वाण्यपि संहितानि प्रज्ञाप्रभां नालमथोपयातुम् ।
अतस्तया नास्ति परातिवृद्धिर्गरीयसी वापरिहाणिजातिः

6.28

संपूर्णतां याति सुखेन शिक्षा शीलाय चित्तप्रशमाय चैव ।
प्रज्ञाभियुक्तस्य यतस्ततो ऽस्यां सर्वाभिसारेण पराक्रमेत

6.29

या स्कन्धधात्वायतनप्रवृत्तौ सत्याश्रया प्रत्ययिता परीक्षा ।
कालत्रये ऽप्येष समासयुक्त्या प्रज्ञावदातैर्विषयप्रवेशः

6.30

कीर्तिं वितन्वन्ति जिनात्मजानां प्रज्ञावदाताश्चरितप्रदेशाः ।
गुणद्वीषामप्यतिदुष्कुहाणां रोमाञ्चिता विस्मयपारतन्त्र्यात्

6.31

प्रज्ञाबलं दीप्ततरप्रभावं नालं प्रसोढुं सबलो ऽपि मारः ।
प्रज्ञांशवो विभ्रमयान्ति चक्षुर्न द्रष्टुम् ईशो हि यतः स एव

6.32

कन्दर्पनाराचनिपातसाही प्रज्ञामयं वर्म वितत्य चित्ते ।
व्यूढानि रूपप्रभृतीन्यनेकान्येको ऽपि निर्भीरभिभूय याति

6.33

अधीरसात्म्यं भयविक्लवं वा मूढोचितं शोकपरिग्रहं वा ।
स्वल्पात्मचित्तेष्ववगाढमूलं रोषोपरागं परिजिह्मितं वा

6.34

दीनेषु कार्पण्यमलीमसत्वं कृतास्पदं रागिषु चापलं वा ।
तेजोविहीनेष्वलसत्वसत्त्वं समुद्धतेष्वप्रशमात्मकत्वम्

6.35

तांस्तांश्च लीनानपि दोषलेशान् पृथग्विधिष्वाश्रयगह्वरेषु ।
समुद्भवन्त्येव पराकरोति प्रज्ञा प्रतिज्ञेव जगद्धितार्था

6.36

निवेश्य दोषक्षयधीरसौम्यां भवस्य तस्योपरि दृष्टिलक्ष्मीम् ।
स्वयं मुनीन्द्रैरभिषिच्यते यत् प्रह्लादिना व्याकरणामृतेन

6.37

ऊर्णाप्रभाभिश्च महामुनीनां निशीथचन्द्रद्युतिहासिनीभिः ।
यदाज्यधाराभिरिवाध्वरग्निर्विभाति मूर्धन्यभिषिच्यमानः

6.38

अवाप्य यस्मान् मुनियौवराज्यं समं समन्ताद् विसृतात्मभावः ।
लोकस्य दुःखं प्रशमत्ययत्नाद् रजो महामेघ इव प्रवृष्टः

6.39

प्रज्ञाप्रभावोपनतः स सर्वः प्रभाविसारः सुगतात्मजानाम् ।
को विस्मयो वात्र सुतप्रियाया मातुः समीयाद्यदियं विभूतिः

6.40

दशप्रकारो ऽपि यदा मुनीनां तदाश्रयादेव बलप्रकर्षः ।
उदेत्यसाधारणसुन्दरश्च शेषो ऽप्यसंख्यो गुणरत्नराशिः

6.41

शास्त्राणि चक्षुःप्रतिमानि लोके निधानभूतांश्च कलाविशेषान् ।
मन्त्रान् परित्राणकृतो विचित्रान् धर्मव्यवस्थाश्च पृथग्विशेषाः

6.42

पर्यायचित्रं च विमोक्षमार्गं तत्तच्च लोकस्य हितोपपादि ।
यद्बोधिसत्त्वाः प्रविदर्शयन्ति प्रज्ञाप्रभावाभ्युदयः स सर्वः

6.43

दिव्यप्रतिस्पर्धिभिरिन्द्रियार्थैर्नरेन्द्रभावे ऽपि हि बोधिसत्त्वाः ।
न यद्विरूपां प्रकृतिं व्रजन्ति प्रज्ञा गुणामात्यसनाथता सा

6.44

परोपकारैकरसा च मैत्री रागोपरागप्रतिवर्जिता च ।
परस्य दुःखेषु परा दया च न शोकभारालसतां गता च

6.45

अनुद्धातत्वं मुदिते ऽपि चित्ते तमोनिरारम्भमुपेक्षितं च ।
ते ते गुणा<;श्>;चाभ्यधिकं विभान्ति प्रज्ञानिरुद्धप्रतिपक्षमार्गाः

6.46

को नाम लोकस्य परार्थसाधुर्दुःखैकहेतूनि तमांसि हन्यात् ।
अव्याहता ज्ञानशयाशयेषु प्रज्ञा न चेत् स्यादतिसूर्यादीप्तिः

6.47

तत्प्राप्तये श्रुतम् अशीतिविकल्पचित्रं संचेयम् आश्रयसहं गुरुमभ्युपेत्य ।
द्वात्रिंशता तदधिगम्य विवर्धयेत सम्यङ्मनः समवधानकृतैर्विशेषैः

6.48

अल्पश्रुतो ऽन्ध इव वेत्ति न भावनाया मार्गं विचिन्तयति कानि च तद्विहीनः ।
तस्माच्छ्रुतं प्रति यतेत तदाश्रया हि प्रज्ञा समुद्भवति चिन्तनभावनाभ्याम्

6.49

प्रश्नैरविग्रहमुखैश्च कथाविशेषैर्मीमांसयार्थगतिवीक्षणया स्वयं च ।
प्रज्ञाविवृद्धिमभितः प्रयतेत नित्यं ध्यानेन तद्गुणविवृद्धिकरेण चैव

6.50

प्रज्ञाभ्युपायविधिरेष समासतस्तु ध्यानं तदर्थनियतः श्रुतिविस्तरश्च ।
ताभ्यां समुद्भवति हि प्रभवो गुणानां प्रज्ञाप्रभासमुदयो ऽग्निरिवारणीभ्यां

6.51

विद्वज्जनाचरितमार्गसमाश्रयाच्च संमोहहेतुगहनानि विवर्जयेत ।
तैरावृतो न हि विभात्युदयस्थितो ऽपि तोयावलम्बिजलदान्तरितः शशीव

6.52

आलस्यजृम्भितमतित्वम् असत्सहाया निद्रानिवृत्तिरविनिश्चयशीलता च ।
ज्ञाने मुनेरिव कुतूहलितानिवृत्तिर्मिथ्याभिमानपरिसंकुचिताश्च पृच्छाः

6.53

दैन्येन चात्मपरितापसमुद्भवेन विद्वज्जनाभिगमनादरकातरत्वम् ।
मिथ्याविकल्पपटुता वितथा च दृष्टिर्मोहाय तत्प्रशमनाय तु तद्विपक्षाः

6.54

स्कन्धेषु सायतनधातुषु सत्ययुक्त्यो<;र्>; हेतुद्भवेषु शुचयानविनिर्णये च ।
धर्मेषु कौशलमशेषत एव यच्च प्रज्ञाप्रयोगविषयो ऽष्टविकल्प एषः

6.55

निःसारफेननिचयैरविशेषि रूपं तिस्रो ऽपि बुद्बुदलवा इव वेदनाश्च ।
संज्ञापि कामगुणविप्रसृतान् सतृष्णान् बालान् मृगानिव विलोभयते मरीचिः

6.56

संस्कारजातिरपि तुल्यगुणा कदल्या विज्ञानतो ऽपि न च युक्ततरास्ति माया ।
यन्निश्रयाद्भ्रमति नैकविकल्पचेष्टं भूताभिभूतकुणपप्रतिमं शरीरम्

6.57

नात्मा तदीयमपि चात्र न किं चिद् अस्ति संघात एष विविधाशूचिसंनिधानः ।
बालान् प्रलम्भयत एव च सत्त्वसंज्ञा स्वच्छन्दचेष्ट इव यन्त्रविधौ सुयुक्ते

6.58

आत्मा न चक्षुरपि च क्षणभङ्गुरत्वात् तद्वन् न चक्षुषि न चात्र यथैव चक्षुः ।
आध्यात्मिकायतनशेषम् अशेषम् एवम् आत्मीयवस्तुविषयो ऽपि च तद्विवेकी

6.59

बाह्येषु धातुषु शरीरसमाश्रितानां नाल्पो ऽपि लक्षणविरोधकृतो ऽस्ति भेदः ।
विज्ञानधातुरपि च क्षणिकः स नात्मा तस्मात्परो ऽपि च नभःकुसुमैः समानः

6.60

इत्येतदुद्भवति केवलमेव दुःखं तृष्णाविमूढमनसो विग्मात्तु तस्याः ।
शान्तिः परा भवति तर्षहरस्तु मार्गः शीलं समाधिपरिशुद्धतया च दृष्टिः

6.61

तत्तत्प्रतीत्य भवतीति विशुद्धदृष्टिर्नास्त्यस्ति वेति समुपैति स नैव किं चित् ।
मायामयं जगदिदं प्रतिभाति तस्य तस्मात् सुखादिषु भवत्यविकारधीरः

6.62

आसीद्भविष्यति च यत् तद् अपीदृगेव कः संभवो यदसुखं न भवेद् भवेभ्यः ।
एवं व्यतीतविषयेष्वपि वीतरागो नैवाभिनन्दति भवांश्च भविष्यतो ऽपि

6.63

आकारभेदपरुषे पुरुषो ऽपराधी को नाम गूढनखरस्फुटदृष्टिचिह्ने ।
तत्प्रैष्यवृत्तिकपटान्यनुचिन्त्य रज्येद् विश्वासमेव च यथोचितमत्र यायात्

6.64

एवं विमुक्तमतिरप्यनुकम्पकस्तु क्लेशान्तरं जगदनाथमवेक्षमाणः ।
हीनेषु निष्प्रणयबुद्धिरुदारभावान् निर्वातुमिच्छति न बुद्धगुणानलब्ध्वा

6.65

लोकार्थसाधनविधावसमर्थरूपं यानद्वयं समवाधूय स पूर्वमेव ।
कारुण्यदेशितपथो मुनिराजयानम् आतस्थिवान् परहितैकरसस्वभावम्

6.66

हीनोचितेषु न मतिर्नमति प्रणीता संतिष्ठते महति नामहती कदा चित् ।
संस्यन्दते शुचिभिरेव शुचिस्वभावं तुल्यैस्तथान्यदपि शास्वत एष योगः

6.67

स्वप्नोपमानि विगणय्य सुखासुखानि संमोहदोषकृपणां जनतां च तेषु ।
आत्मार्थ एव गुरुतां कथम् अस्य यायाद् व्यापारभारमवधूय परार्थरम्यम्

6.68

यः सर्वलोकहितकारणसर्वचेष्टस्त्यक्त्वात्मदृष्टिविषयं वितथाभिमानम् ।
सर्वत्र शान्तमतिरद्वयमार्गचारी सो ऽत्यद्भुतश्चरितनिर्वृत एव लोके

6.69

प्रज्ञाविशुद्धिकरमुत्तमयानमेतत् सर्वज्ञता तदुदया हि महामुनीनाम् ।
लोकस्य या नयनतामिव संप्रयाति दीप्तांशुमण्डलतलोत्पतिता प्रभेव

6.70

संसारदोषभरनिर्मथितो ऽपि नैव प्रज्ञाविवेचनतया परिखीद्यते यः ।
नात्माभिखेदपरिविक्लवतां स याति यानस्य बुद्धगुणसंजननस्य लोके

6.71

पश्यन्ति चाभुतमयं सुगतप्रभावं रोमाञ्चकञ्चुकितसर्वशरीरदेशाः ।
तद्गामिनं परिहरन्ति च यानमार्गं किं नाम कारणमृते शठचेष्टितेभ्यः

6.72

को नाम मारकलिनानभिभूतचेताः संबुद्धधर्मगुणरत्ननिधानभूतम् ।
सर्वज्ञयानमपयानम् अनर्थपङ्काद् आक्रोष्टुमर्हति न चेज्जगतो ऽस्य वैरम्

6.73

लोकार्थसाधनपरे जिनराजवंशे प्रज्ञानिमीलितनयेषु परिस्खलत्सु ।
चित्तं नरस्य करुणामृदु कस्य न स्यात् तन्मोहदोषशमनाय दृढं च वीर्यम्

6.74

प्रज्ञाया जनयति यः परां विशुद्धिं निर्मोक्षः कथमिव तस्य दूरतः स्यात् ।
नैवास्मात्परतरमस्ति शीलम् अन्यत् तत्तस्माद् भजत विमोक्षकाङ्क्षिणो हि

मूल पाठ: Pāramitāsamāsa · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc