भाषा

ENहिગુ
ग्रंथ पाठ

पारमितासमास · अध्याय 5

5.1

॥ वीर्यपारमितासमासः ॥
5. ध्यानपारमितासमासः
अथ ध्यानविधौ योगं कुर्याज् ज्ञानविवृद्धये ।
सुखं हि कर्तुं लोकानां ज्ञानालोकादनुग्रहम्

5.2

प्रसीदत्यधिकं ज्ञानं ध्यानान्मनसि निर्मले ।
शरदुत्सारितघने नभसीवेन्दुमण्डलम्

5.3

विशुद्धशीलः कल्याणैः सहायैः सहितैर्हितैः ।
अल्पकृत्यः प्रशान्तात्म स्मृत्यधिष्ठानवेष्टितः

5.4

निवसन् वृक्षमूलेषु शाद्वलास्तीर्णभूमिषु ।
अनुपस्कृतरम्येषु वनपुष्पसुगन्धिषु

5.5

ध्यानसाचिव्यधीरेषु संतुष्टजनवेश्मसु ।
जननिर्घोषमूकत्वाद् गम्भीरावस्थितेष्विव

5.6

प्रत्यरण्यनिविष्टेषु शून्येष्वायतनेषु वा ।
कुञ्जेषु च महीध्राणां सिंहनादानुनादिषु

5.7

यत्र क्व चन वा देशे संसर्गक्लेशवर्जिते ।
पर्यङ्केन सुखासीनः शरीरम् ऋजु धारयन्

5.8

उपस्थाप्य स्मृतिमयीं रक्षां अभिमुखीं हृदि ।
कृपया कुवितर्काणां कृत्वेवाक्षणघोषणाम्

5.9

प्रज्ञापरिचयस्यायां कालो मे न तु निर्वृतेः ।
न हि सत्त्वान् अनिर्वाप्य स्वयं निर्वातुम् उत्सहे

5.10

इति लोकहितावेक्षी बुद्धभावगतस्पृहः ।
कुर्यात् सातत्ययोगेन ध्यानारम्भसमुद्यमम्

5.11

न हि विश्रम्य विश्रम्य मथ्नन्नग्निमवाप्नुयात् ।
स एव योगो योगे ऽपि विशेषाधिगमादृते

5.12

एकत्रैव च बध्नीयाद् दृढम् आलम्बने मनः ।
अन्यान्यालम्बनग्राहः क्लिश्नात्येवाकुलं मनः

5.13

विदर्शनाद् वीर्यबलाल्लीयमानं समुद्धरेत् ।
उद्धन्यमानं च मनः प्रशमेन निवारयेत्

5.14

सम्यग्गतमुपेक्षितं समाधिबलनिश्चलम् ।
तत्रापि वा तन्मयः स्यात् सुगतज्ञानलब्धये

5.15

न च ध्यानसुखास्वादः पारतन्त्र्यमनुक्रमेत् ।
न हि स्वसुखमात्रार्थमयम् आरम्भविस्तरः

5.16

शरीरजीवितापेक्षी दैन्योपहतमानसः ।
न कुर्याद् वीर्यशैथिल्यमप्यादीप्ते स्वमूर्धनि

5.17

लक्षयित्वा निमित्तानि मनस्तस्य समाधये ।
भ्रश्यमानं प्रयुञ्जीत स्मृत्यावहितया पुनः

5.18

मनो निवरणेभ्यश्च विपक्षैर्विनिवर्तयेत् ।
स्वेच्छाप्रयातं द्विरदम् अङ्कुशाकर्षणैरिव

5.19

अथ नीवरणव्याधिनाशप्रस्वस्थमानसः ।
दारिद्र्यादिव निर्मुक्तो महतो व्यसनादिव

5.20

प्रीतियुक्तेन मनसा कामदोषान् विचारयेत् ।
तद्वियोगोपलभ्यां च परां सुखपरम्पराम्

5.21

विद्युदुद्द्योतचपलाः फेनांशुकनिभात्मकाः ।
स्वप्नवत् पेलवास्वादा वञ्चनार्थमिवोदिताः

5.22

पितृणामपि पुत्रेषु पुत्राणां च पितृष्वपि ।
प्रीतिसर्वस्वभूतेषु सुहृत्सु सुहृदामपि

5.23

गुणप्रचयबद्धस्य व्यूढेसु समरेष्वपि ।
दर्शितस्थैर्यसारस्य स्नेहसेतोर्विदारिणः

5.24

इह पर्येष्टिदुःखस्य परत्र नरकस्य च ।
हेतुभूता यतः कामाः कामयेत न तान् अतः

5.25

यदाश्रयो वितर्को ऽपि प्रज्ञाचक्षुर्निमीलनः ।
आत्मनो ऽपि परस्यापि विघाताय प्रवर्तते

5.26

आत्मकामैरपि च ये सर्वथापि विवर्जिताः ।
परार्थकामस्तान् कामांस्त्यक्त्वा कथमनुस्मरेत्

5.27

तृप्तिरेषां न संप्राप्त्या नाहन्यहनि सेवया ।
नैव संनिचयेनापि को ऽन्यो व्याधिरतः परः

5.28

यदास्वादहतो नैव स्वार्थमप्यवबुध्यते ।
उन्मत्तपानप्रतिमान् कस्तान् सहृदयः स्मरेत्

5.29

इत्येवं सर्वतो दुष्टान् कामांस्तस्यानुपश्यतः ।
ततः संकुचितं चित्तं नैष्क्रम्ये ऽभिप्रसीदति

5.30

विवेकजं प्रीतिसुखं ततः प्रस्रब्धिलब्धिजम् ।
प्राप्नोति चित्तस्यैकाग्र्यं प्रथमध्यानसंज्ञितम्

5.31

स वितर्कविचाराणां कामानामिव दुष्टताम् ।
पुष्यांस्तत्प्रशमान्वेषी समाधिप्रीतिजं सुखम्

5.32

अध्यात्मसंप्रसादाच्च चित्तैकाग्रतया च तत् ।
द्वितीयं ध्यानमित्याहुरद्वितीया महर्षयः

5.33

उत्प्लवं मनसो दृष्ट्वा प्रीतेरथ विरज्य सः ।
तृतीयं ध्यानमाप्नोति स्मृत्युपेक्षासमन्वितम्

5.34

सुखभोगमपि त्यक्त्वा सुखदुःखनिराकृतम् ।
विशुद्धं स्मृत्युपेक्षाभ्यां चतुर्थं ध्यानमश्नुते

5.35

अभिज्ञा लभते पञ्च स च तत्रानुगामिनीः ।
राज्यस्थ इव धर्मात्मा ह्रीकीर्तिश्रीमतिद्युतीः

5.36

प्रत्येकजिनलब्धाश्च श्रावकीया व्यतीत्य च ।
ता भवन्त्यधिका दूरं परार्थसमुदागमात्

5.37

स हि मत्सरिणस्त्यागे शीले तद्विकलानपि ।
कोपनान् क्षान्तिसौरत्ये कुसीदान् वीर्यसंपदि

5.38

विक्षिप्तचेतसो ध्याने प्रज्ञायां तन्निराकृतान् ।
नियोजयति कारुण्यादश्रान्ताचारविक्रमः

5.39

अतो ऽच्युताभिर्दीप्ताभिर्भाभिर्लोकावभासनम् ।
मरीचिभिरिवादित्याः कुरुते ऽनन्तगोचरम्

5.40

अथ पापकृतः सत्त्वान् पततो नरकादिषु ।
क्षीणपुण्यायुषश्चैव देवाञ्छाश्वतमानिनः

5.41

तैस्तैर्दुःखविशेषैश्च लोकं कारणयाहतम् ।
तत्र दिव्यप्रभावेण चक्षुषा सा विलोकयन्

5.42

तीव्रमायाति कारुण्यं कारुण्यान् न प्रमाद्यति ।
परार्थेष्वप्रमत्तश्च यात्यचिन्त्यप्रभावताम्

5.43

अथान्यलोकधातुस्थान् सम्पश्यति तथागतान् ।
बुद्धक्षेत्रगुणव्यूहान् संघस्यैव च संपदः

5.44

बोधिसत्त्वर्षभाणां च विशुद्धाचारगोचरम् ।
सर्वलोकहितोदर्कं श्रीमच्चरितमीक्षते

5.45

तत्र च प्रणिधिस्तस्य सुखेनैव समृध्यति ।
परार्थपरिणामाच्च शीलस्यैव च संपदः

5.46

अतिमानुषया श्रुत्या दिव्ययार्थविशुद्धया ।
शृण्वन्नुच्चावचा वाचो विदूरे ऽप्यविदूरवत्

5.47

कृपादूरचरैरुक्ताः पारुष्यविरसाक्षराः ।
अन्तर्दीप्तस्य कोपाग्नेर्निश्चरन्तीरिवार्चिषः

5.48

अप्सरोगीतसचिवान् भूषणस्वनशीभरान् ।
दिव्यतूर्यनिनादांश्च विनाशैकरसानपि

5.49

निषेव्यमाणान् रागान्धैरमित्रान्मित्रारूपिणः ।
वीक्ष्य व्रजति कारुण्यं तेषां वाञ्चनया तया

5.50

भयाद्दुःखविशेषाच्च सो ऽविस्पष्टपदाक्षरैः ।
नारकैरार्तरसितैर्हृदीवाभिहतस्ततः

5.51

परमालम्बते वीर्यं मज्जागतमहाकृपः ।
तीक्ष्णाग्रेण प्रतोदेन सदश्व इव चोदितः

5.52

नानालोकस्थितेभ्यो ऽथ जिनेभ्यो धर्मदेशनाः ।
शृणोति सर्वसत्त्वानां निर्वाणकाङ्क्षयाक्षयाः

5.53

ततः स परचित्तेषु विज्ञायानुशयाशयान् ।
पुण्याङ्कुरान् रोपयति ज्ञानसाधनवान्नवान्

5.54

स्मृत्वा पूर्वनिवासं च कल्पकोटिसहस्रशः ।
पश्यन् पुण्यानि लोकानां तथेन्द्रियबलाबलम्

5.55

तदाश्रयवशादृद्ध्या सो ऽनेकीकृतविग्रहः ।
अवन्ध्यकथनं याति यथाभाजनदेशनात्

5.56

क्व चिद् अर्कसहस्रदीप्तिनाप्यविसंवादितकान्तिसंपदा ।
वपुषा मुनिराजलक्षणः स्फुटचित्रेण समन्तलक्ष्मणा

5.57

जनयन्नयनोत्सवं नृणां वचसा ह्लादविशेषमाचरन् ।
स करोत्यमृतप्रकाशनं जिनभावाय जिनाधिमुक्तिषु

5.58

प्रशमोत्तरया मुनिश्रिया क्व चिद् अत्यार्थविशिष्टचेष्टया ।
कुरुते मुनिशिष्यरूपभृद्विनयं तद्विनयार्हचेतसाम्

5.59

अभिसारितपादपङ्कजः सुरचूडामणिभिर्महेन्द्रवत् ।
धनदो धनदो यथा क्व चित् कुह चिद्ब्रह्मवदद्भुतद्युतिः

5.60

क्व चिद् उन्मिषितत्रिलोचनः शशीलेखामलमौलिभूषणः ।
अमराधिपभासुरद्युतिर्बुजगेन्द्रश्रियमुद्वहन् क्व चित्

5.61

कुलिशानलपिङ्गलाङ्गुलिः कुह चिद् गुह्यकराजराजवत् ।
अमिताजिनलक्ष्मवान् क्व चिद् गुणरश्मिर्मुनिचन्द्रमा इव

5.62

स्फुटकौस्तुभरत्नरश्मिभिर्विपुलोरःस्थलभासुरद्युतिः ।
गरुडध्वजराजदृक् क्व चित् कुह चिच्चैव हलायुधद्युतिः

5.63

सितशक्तिरचिन्त्यशक्तिमान् कुह चिच्चारुशिखण्डिवाहनः ।
उदयास्तनगेन्द्रभूषणः शशिसूर्यामलरूपवान् क्व चित्

5.64

कुह चिद् धुतभुङ्मरुत्वतां वपुषान्यत्र नराश्रयाशिनाम् ।
वारुणद्युतिम् उद्वहन् क्व चित् कुह चिन्मन्मथचारुविग्रहः

5.65

ललितां प्रमदानराकृतिं नरनारीरतिसंगलालसः ।
क्व चिद् एव तपोधनश्रियं विदधत् कामविरक्तमानसः

5.66

हृदयानि हरन्नृणां क्व चिद् गुरुशिष्यक्षितिपालवृत्तिभिः ।
नरकेष्वपि च परभावतो विदधद्दुःखविमोक्षणक्षणम्

5.67

जगताम् अधिमुक्तिविस्तरैरथ सो ऽनेकविधैर्विचेष्टितैः ।
करुणागुणसंततस्ततः कुरुते लोकहितं ततस्ततः

5.68

समवाप्य विशेषसंपदं विपुलां ध्यानगुणश्रयादिमाम् ।
प्रयतेत विशेषवत्तरं निधिचिह्नेष्वविसंवदत्स्विव

5.69

कुशले स्थितिरप्यनूर्जिता किम् अहानिः शिथिलव्रतोचिता ।
प्रयतेत विवृद्धये ततः परिहाणिस्तु विपर्ययादतः

5.70

सुलभश्च समाधिरुद्यमाद् अनुरक्षा पुनरस्य दुष्करा ।
सहसा विजिगीषुणा यथा विजितस्य प्रशमप्रतिक्रिया

5.71

मनसः परिवृत्तिलाघवं परमं तत्र न विश्वसेदतः ।
अनवाप्य महीमिवाचलाम् अचलां भूमिमभीरदुर्गमाम्

5.72

अभिसंस्कृत[मार्गचारिणः] पतनान्ता हि समाधिविस्तराः ।
अत उत्तममार्गभावनाम् अवलम्बेत विकल्पवर्जनात्

5.73

सुचिनित्यसुखात्मकल्पनं कपटम् संस्कृतदम्भसंभवाम् ।
समवेक्ष्य न भावकल्पनाप्रणयव्यापृतमानसो भवेत्

5.74

विशदे ऽप्युपलम्भसंभवे व्रजति क्लेशशरव्यताम् अतः ।
व्यतियाति तु मारगोचरं तमनर्थं प्रशमय्य सर्वथा

5.75

न हि निश्रयदोशदुषितो भवति ध्यानविधिर्विशुद्धये ।
चलतानुगतो हि निश्रयः सखटुङ्कस्तत एव कथ्यते

5.76

व्यवहारविधिप्रसिद्धये प्रतिपत्तद्भवतीति कथ्यते ।
न हि किं चिद् उदेति कुत्र चित् सदसत्संभवयुक्त्यसंभवात्

5.77

गगनेन समानमानसस्त्रिभवादप्यु अथ वीतनिश्रयः ।
अविकल्पितधीरचेष्टितो वचनेनाप्रतियत्नशोभिना

5.78

कुरुते स च लौकिकीं क्रियां जगदेकान्तहितानुवर्तिनीम् ।
न समाधिबलाच्च हीयते वशवर्तित्वमवाप्य चेतसः

5.79

ततः परं परहिततत्परोद्यतैः समाधिभिर्विधिविहितप्रयोजनैः ।
विवर्धते घनसमये यथोदधिः सरिद्वधूसमुपहृतैर्नवाम्बुभिः

मूल पाठ: Pāramitāsamāsa · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc