भाषा

ENहिગુ
ग्रंथ पाठ

पाणिनीयशिक्षा · अध्याय p10

p10.26

यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते ।
एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया

p10.27

रङ्गवर्णान् प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् ।
दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत्

p10.28

हृदये चैकमात्रस्त्वर्द्धमात्रस्तु मूर्धनि ।
नासिकायां तथार्द्धं च रङ्गस्यैवं द्विमात्रता

p10.29

हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन् ।
मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम्

p10.30

मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् ।
सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम्

p10.31

एवं रंगाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः ।
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

मूल पाठ: pāṇinīyaśikṣā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc