ग्रंथ पाठ
पाणिनीयशिक्षा · अध्याय p9
p9.1
अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः
p9.2
प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम्
p9.3
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा
p9.4
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः
p9.5
अनुस्वारो विसर्गश्च एक एपौ चापि पराश्रितौ ॥
दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च
मूल पाठ: pāṇinīyaśikṣā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0