पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 2140
04215 क्षत्रियमहाशालकुलानि प्रज्ञायन्ते ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते
04216 गृहपतिमहाशालकुलानि प्रज्ञायन्ते चातुर्महाराजकायिका देवाः प्रज्ञा-
04217 यन्ते। त्रयस्त्रिंशा देवाः प्रज्ञायन्ते। यामा देवाः प्रज्ञायन्ते। {{निर्माणरतयो देवाः प्रज्ञायन्ते। परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते। ब्रह्मकायिका देवाः प्रज्ञायन्ते। ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते। महाब्रह्माणा देवाः प्रज्ञायन्ते। ब्रह्मपारिषद्या देवाः प्रज्ञायन्ते। परीत्ताभा देवाः प्रज्ञायन्ते। अप्रमाणाभा देवाः प्रज्ञायन्ते। आभास्वरा देवाः प्रज्ञायन्ते। परीत्तशुभा देवाः प्रज्ञायन्ते। अप्रमाणशुभा देवाः प्रज्ञायन्ते। शुभकृत्स्ना देवाः प्रज्ञायन्ते। अनभ्रका देवाः प्रज्ञायन्ते। पुण्यप्रसवा देवाः प्रज्ञायन्ते। बृहत्फला देवाः प्रज्ञायन्ते। असंज्ञिसत्त्वा देवाः प्रज्ञायन्ते। शुद्धावासा देवाः प्रज्ञायन्ते। अस्पृहा देवाः प्रज्ञायन्ते। अतपाः देवाः प्रज्ञायन्ते। सदृशा देवाः प्रज्ञायन्ते। सुदर्शना देवाः प्रज्ञायन्ते।}}
04218 अकनिष्ठा देवाः
04219 प्रज्ञायन्ते। आकाशानन्त्यायतना देवाः प्रज्ञायन्ते। विज्ञानानन्त्या-
04301 यतना {देवाः प्रज्ञायन्ते।} आकिञ्चन्यायतना {देवाः प्रज्ञायन्ते।} नैवसंज्ञानासंज्ञायतना {देवाः प्रज्ञायन्ते।}
04302 स्रोतआपन्ना लोके उत्पद्यन्ते। सकृदागामिनो {लोके उत्पद्यन्ते।} अनागमिनो
04303 {लोके उत्पद्यन्ते।} अर्हन्तो {लोके उत्पद्यन्ते।} प्रत्येकबुद्धा {लोके उत्पद्यन्ते।} बोधिसत्त्वा {लोके उत्पद्यन्ते।} तथा-
04304 गता अर्हन्तः सम्यक्संबुद्धा {लोके उत्पद्यन्ते।}
04305 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। किं पुनर् भगवन्
04306 बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति। भगवान् आह। न हि
04307 शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति। तत् कस्य हेतोः।
04308 अत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य। तत् कस्य हेतोः। दायकः
04309 शारिपुत्र बोधिसत्त्वो महासत्त्वः। कस्य दायकः। कुशलानां धर्माणां
04310 दायकः। कतमेषां कुशलानां धर्माणां दायकः। यद् उत दशानां कुश-
04311 लानां कर्मपथानां {{पञ्चानां शिक्षाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य}} मार्गस्य चतुर्णां वैशारद्यानां चतसृणां
04312 प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशाना-
04313 म् आवेणिकानां बुद्धधर्माणां दायकः॥ [इति प्रतिपत्त्यववादः॥]
04314 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। कथं युज्य-
04315 मानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति
04316 वक्तव्यः। एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्। इह शारि-
04317 पुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः।
04401 वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः। संज्ञा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04402 विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04403 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश् चक्षुः{शून्यतायां युक्तो युक्त इति वक्तव्यः।} श्रोत्र{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04404 घ्राण{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जिह्वा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} काय{शून्यतायां युक्तो युक्त इति वक्तव्यः।} मनः{शून्यतायां युक्तो युक्त इति वक्तव्यः।} रूप{शून्यतायां युक्तो युक्त इति वक्तव्यः।} शब्द{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04405 गन्ध{शून्यतायां युक्तो युक्त इति वक्तव्यः।} रस{शून्यतायां युक्तो युक्त इति वक्तव्यः।} स्प्रष्टव्य{शून्यतायां युक्तो युक्त इति वक्तव्यः।} धर्म{शून्यतायां युक्तो युक्त इति वक्तव्यः।} चक्षुर्विज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04406 श्रोत्रविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} घ्राणविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जिह्वाविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04407 कायविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} मनोविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} दुःख{शून्यतायां युक्तो युक्त इति वक्तव्यः।} समुदय{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04408 निरोध{शून्यतायां युक्तो युक्त इति वक्तव्यः।} मार्ग{शून्यतायां युक्तो युक्त इति वक्तव्यः।} अविद्या{शून्यतायां युक्तो युक्त इति वक्तव्यः।} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः।} विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04409 नामरूप{शून्यतायां युक्तो युक्त इति वक्तव्यः।} षडायतन{शून्यतायां युक्तो युक्त इति वक्तव्यः।} स्पर्श{शून्यतायां युक्तो युक्त इति वक्तव्यः।} वेदना{शून्यतायां युक्तो युक्त इति वक्तव्यः।} तृष्णा{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
04410 उपादान{शून्यतायां युक्तो युक्त इति वक्तव्यः।} भव{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जाति{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जरामरणशोकपरिदेवदुःख-
04411 दौर्मनस्योपायास{शून्यतायां युक्तो युक्त इति वक्तव्यः}॥
04412 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अ-
04413 ध्यात्म{शून्यतायां युक्तो युक्त इति वक्तव्यः।} बहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} अध्यात्मबहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} यावत् परभावशून्य-
04414 तायां युक्तो युक्त इति वक्तव्यः। एवं हि शारिपुत्र बोधिसत्त्वो महा-
04415 सत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति
04416 वक्तव्यः। स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधि-
04417 सत्त्वो महासत्त्वो युक्त इति वक्तव्यो ऽयुक्त इति। तत् कस्य हेतोः। तथा
04418 हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा
04419 अयुक्तम् इति वा समनुपश्यति॥ [इति दुःखसत्याववादः॥]
04420 स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति। न
04501 वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पाद-
04502 धर्मिणीं {वा निरोधधर्मिणीं वा समनुपश्यति}। न संस्कारानुत्पादधर्मिणो {वा निरोधधर्मिणिणो वा समनुपश्यति}। न विज्ञानम् उत्पाद-
04503 धर्मि {वा निरोधधर्मि वा समनुपश्यति}। न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति।
04504 न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति। न
04505 संज्ञां {संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति}। न संस्कारान् {संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति}। न विज्ञानम् {संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति}।
04506 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समव-
04507 सरतीति समनुपश्यति। न वेदना संज्ञायां {समवसरतीति समनुपश्यति}। न संज्ञा संस्कारेषु
04508 {समवसरतीति समनुपश्यति}। न संस्कारा विज्ञाने {समवसरन्तीति समनुपश्यति}। न विज्ञानं धर्मे {समवसरतीति समनुपश्यति}। न धर्मः
04509 क्वचिद् धर्मे समवसरतीति समनुपश्यति। तत् कस्य हेतोः। न हि कश्चि-
04510 द् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय। तत् कस्य हेतोः।
04511 तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्। या वेदनायाः शून्यता
04512 न सा वेदना। या संज्ञायाः शून्यता न सा संज्ञा। या संस्काराणां
04513 शून्यता न ते संस्काराः। या विज्ञानस्य शून्यता न तद् विज्ञानम्। तत् कस्य
04514 हेतोः। तथा हि या रूपशून्यता न सा रूपयति। या वेदनाशून्यता न
04515 सा वेदयति। या संज्ञाशून्यता न सा संजानीते। या संस्कारशून्यता
04601 न साभिसंस्कारोति। या विज्ञानशून्यता न सा विजानाति। तत् कस्य
04602 हेतोः। तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता। नान्या शून्यता अन्य-
04603 द् रूपम्। रूपम् एव शून्यता शून्यतैव रूपम्। नान्या वेदना अन्या शून्यता।
04604 नान्या शून्यता अन्या वेदना। वेदनैव शून्यता शून्यतैव वेदना। नान्या
04605 संज्ञा अन्या शून्यता। नान्या शून्यता अन्या संज्ञा। संज्ञैव शून्यता
04606 शून्यतैव संज्ञा। नान्ये संस्कारा अन्या शून्यता। नान्या शून्यता
04607 अन्ये संस्काराः। संस्कारा एव शून्यता शून्यतैव संस्काराः। नान्यद्
04608 विज्ञानम् अन्या शून्यता। नान्या शून्यता अन्यद् विज्ञानम्। विज्ञानम् एव
04609 शून्यता शून्यतैव विज्ञानम्। [इति समुदयसत्याववादः॥]
04610 शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते। न संक्लिश्यते न व्यव-
04611 दायते। न हीयते न वर्धते। नातीता नागता न प्रत्युत्पन्ना। या च
04612 ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न पृथिवी-
04613 धातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षु-
04614 र् आयतनं न रूपायतनं न श्रोत्रायतनं न शब्दायतनं न घ्राणायतनं न
04615 गन्धायतनं न जिह्वायतनं न रसायतनं न कायायतनं न स्प्रष्टव्यायतनं न
04616 मनआयतनं न धर्मायतनम्। न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञान-
04617 धातुः। न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः। न घ्राणधातुर् न
04618 गन्धधातुर् न घ्राणविज्ञानधातुः। न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान-
04619 धातुः। न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः। न मनोधातुर् न
04620 धर्मधातुर् न मनोविज्ञानधतुः। नाविद्योत्पादो नाविद्यानिरोधः। न
04621 संस्कारोत्पादो न संस्कारनिरोधः।
04622 {{न विज्ञानोत्पादो न विज्ञाननिरोधः। न नामरूपोत्पादो न नामरूपनिरोधः। न षडायतनोत्पादो न षडायतननिरोधः। न स्पर्शोत्पादो न स्पर्शनिरोधः। न वेदनोत्पादो न वेदनानिरोधः। न तृष्णोत्पादो न तृष्णानिरोधः। नोपादानोत्पादो नोपादाननिरोधः। न भवोत्पादो न भवनिरोधः। न जात्युत्पादो न जातिनिरोधः।}}
04701 न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरा-
04702 मरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः न दुःखं न समुदयो
04703 न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्ना न स्रोत-
04704 आपत्तिफलम् न सकृदागामी न सकृदागामिफलम्। नानागामी
04705 नानागामिफलं नार्हत्त्वं नार्हत्त्वफलम् न प्रत्येकबुद्धा न प्रत्येकबोधिः
04706 न बुद्धो न बोधिः। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार-
04707 मितायां चरन् युत्को युक्त इति वक्तव्यः। [इति निरोधसत्याववादः॥]
04708 स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त
04709 इति वा आत्मानं समनुपश्यति। न शीलपारमितायां युक्त इति वा
04710 अयुक्त इति वा समनुपश्यति। न क्षान्ति{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न वीर्य{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न
04711 ध्यान{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न प्रज्ञा{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न रूपे युक्त इति वा अयुक्त इति वा
04712 समनुपश्यति। न वेदनायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न संज्ञायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न
04713 संस्कारेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न विज्ञाने युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चक्षुषि युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न
04714 श्रोत्रे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न घ्राणे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न जिह्वायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न काये
04715 युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न मनसि युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न रूपे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न शब्दे युक्त {इति वा अयुक्त इति वा समनुपश्यति}।
04716 न गन्धे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न रसे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न स्प्रष्टव्ये युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न धर्मे
04717 युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न स्मृत्युपस्ह्तानेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न सम्यक्प्रहाणेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न ऋद्धि-
04718 पादेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। नेन्द्रियेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न बलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न बोध्यङ्गे
04719 युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न मार्गेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चस्तुर्षु सत्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चतुर्षु
04720 वैशारद्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चतसृषु प्रतिसंवित्सु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। नाभिज्ञासु
04721 युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न दशसु तथागतबलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। नाष्टादशस्व् आवेणिकेषु
04801 बुद्धधर्मेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। यावन् न सर्वाकारज्ञतायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न सर्वज्ञज्ञाने
04802 युक्त इति वा अयुक्त इति वा समनुपश्यति। तद् अनेनापि ते शारि-
04803 पुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां
04804 युक्तो युक्त इति वक्तव्यः॥
04805 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
04806 शून्यतां शून्यतया योजयति न शून्यतायोगम्। नानिमित्तम् अनि-
04807 मित्तेन योजयति नानिमित्तयोगम्। नाप्रणिहितम् अप्रणिहितेन
04808 योजयति नाप्रणिहितयोगम्। तत् कस्य हेतोः। तथा हि शून्यता न
04809 योगो नायोगः एवम् अनिमित्तम् अप्रणिहितं न योगो नायोगः। एवं
04810 युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त
04811 इति वक्तव्यः।
04812 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्
04813 धर्माणां स्वलक्षणशून्यताम् अवतरति। एवम् अवतरन् न रूपं योजयति
04814 न वियोजयति न वेदनां योजयति न वियोजयति। न संज्ञां {योजयति न वियोजयति}।
04815 न संस्कारान् {योजयति न वियोजयति}। न विज्ञानं {योजयति न वियोजयति}। न रूपं पूर्वान्तेन {योजयति न वियोजयति}। पूर्वा-
04816 न्तम् एव न समनुपश्यति। न रूपम् अपरान्तेन {योजयति न वियोजयति}। अपरान्तम् एव न
04817 समनुपश्यति। न रूपं प्रत्युत्पन्नेन {योजयति न वियोजयति}। प्रत्युत्पन्नम् एव न समनुपश्यति।
04818 न वेदनां पूर्वान्तेन {योजयति न वियोजयति}। पूर्वान्तम् एव न समनुपश्यति। न वेदना-
04901 म् अपरान्तेन {योजयति न वियोजयति} अपरान्तम् एव न समनुपश्यति। न वेदनां प्रत्युत्पन्नेन
04902 योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति।
04903 {{न संज्ञां पूर्वान्तेन योजयति न वियोजयति। पूर्वान्तम् एव न समनुपश्यति। न संज्ञां अपरान्तेन योजयति न वियोजयति। अपरान्तम् एव न समनुपश्यति। न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति। न संस्कारान् पूर्वान्तेन योजयति न वियोजयति। पूर्वान्तम् एव न समनुपश्यति। न संस्कारान् अपरान्तेन योजयति न वियोजयति। अपरान्तम् एव न समनुपश्यति। न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति।
04904 न विज्ञानं पूर्वान्तेन योजयति न वियोजयति। पूर्वान्तम् एव न समनुपश्यति। न विज्ञानं अपरान्तेन योजयति न वियोजयति। अपरान्तम् एव न समनुपश्यति। न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति।}}
04905 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
04906 पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति। न
04907 प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति। नापरान्तं पूर्वा-
04908 न्तेन वा प्रत्युत्पन्नेन वा योजयति। न पूर्वान्तम् अपरान्तेन वा प्रत्युत्प-
04909 न्नेन वा योजयति। अध्वशून्यताम् उपादाय एवं युज्यमानः शारि-
04910 पुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः।
04911 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं
04912 युज्यते यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति।
04913 अनीतम् एव न समनुपश्यति कथम् अतीतेन सर्वाकारज्ञतां योजयति।
04914 न सर्वाकारज्ञताम् अनागतेन योजयति। अनागतम् एव न समनुपश्यति
04915 कथम् अनागतेन सर्वाकारज्ञतां योजयति। न सर्वाकारज्ञतां प्रत्युत्पन्नेन
04916 योजयति। प्रत्युत्पन्नम् एव न समनुपश्यति कथं प्रत्युत्पन्नेन सर्वाकार-
04917 ज्ञतां योजयति। एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा-
04918 पारमितायां युक्त इति वक्तव्यः॥
04919 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
05001 रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति। न वेदनां
05002 सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति। न संज्ञां
05003 {सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति}। न संस्काराण् {सर्वाकारज्ञतया योजयति संस्काराण् एव न समनुपश्यति}। न विज्ञानं {सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति}। न चक्षुः {सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति}। न
05004 श्रोत्रं {सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति}। न घ्राणं {सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति}। न जिह्वां {सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति}। न कायं {सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति}। न मनः {सर्वाकारज्ञतया योजयति मनो एव न समनुपश्यति}।
05005 न रूपं {सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति}। न शब्दान् {सर्वाकारज्ञतया योजयति शब्दान् एव न समनुपश्यति}। न गन्धान् {सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति}। न रसान् {सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति}। न स्प्रष्टव्यं
05006 {सर्वाकारज्ञतया योजयति स्प्रष्टव्यम् एव न समनुपश्यति}। न धर्मान् {सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति}। एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः
05007 प्रज्ञापारमितायां युक्त इति वक्तव्यः।
05008 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
05009 दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न
05010 समनुपश्यति। न शीलपारमितां सर्वाकारज्ञतया योजयति शील-
05011 पारमिताम् एव न समनुपश्यति।
05012 {{न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति। न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति। न ध्यानपारमितां सर्वाकारज्ञतया योजयति ध्यानपारमिताम् एव न समनुपश्यति। न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति। न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति। न सम्यक्प्रहाणानि सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति। न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति। न इन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति। न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति। न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति। न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति। न प्रतिसंविदः सर्वाकारज्ञतया योजयति प्रतिसंविदो एव न समनुपश्यति। न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति। न अभिज्ञाः सर्वाकारज्ञतया योजयति अभिज्ञा एव न समनुपश्यति। न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति।}}
05013 नाष्टादशावेणिकान् बुद्ध-
05014 धर्मान् सर्वाकारज्ञतया योजयति अष्टाअदशावेणिकान् बुद्धधर्मान् एव
05015 न समनुपश्यति। एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा-
05016 पारमितायां युक्त इति वक्तव्यः।
05101 पुनर् अपरं शाइपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
05102 बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति। न सर्वा-
05103 कारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति।
05104 न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति। न
05105 सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति।
05106 तत् कस्य हेतोः। बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः।
05107 बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः। एवं युज्यमानः
05108 शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः।
05109 [इति बुद्धरत्नाववादः॥]
05110 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
05111 रूपं भवतीति योजयति न रूपं विभवतीति योजयति। न वेदना
05112 भवतीति योजयति न वेदना विभवतीति योजयति।
05113 {{न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति। न संस्कारा भवन्तीति योजयति न संस्कारा विभवन्तीति योजयति। न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति}}। न रूपं नित्यम् इति योज-
05114 यति न रूपम् अनित्यम् इति योजयति। न रूपं सुखम् इति योजयति न
05115 रूपं दुःखम् इति योजयति। न रूपम् आत्मेति योअजयति न रूपम् अनात्मेति
05116 योजयति। न रूपं शान्तम् इति योजयति न रूपम् अशान्तम् इति
05117 योजयति। न वेदना नित्येति योजयति न वेदना अनित्येति
05118 योजयति। न वेदना सुखेति योजयति न वेदना दुःखेति
05201 योजयति। न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति।
05202 न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति।
05203 न संज्ञा {{नित्येति योजयति न संज्ञा अनित्येति योजयति। न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति। न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति। न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति}}। न संस्कारा नित्या इति योजयति न संस्कारा अनित्या
05204 इति योजयति। न संस्काराः सुखा इति योजयति न संस्कारा दुःखा
05205 इति योजयति। न संस्कारा आत्मान इति योजयति न संस्कारा
05206 अनात्मान इति योजयति। न संस्काराः शान्ता इति योजयति
05207 न संस्कारा अशान्ता इति योजयति। न विज्ञानं {{नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति। न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति। न विज्ञानम् आत्मेति योअजयति न विज्ञानम् अनात्मेति योजयति। न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति}}।
05208 न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति।
05209 न रूपं सनिमित्तम् इति वा चरति न रूपम् अनिमित्तम् इति वा
05210 चरति। न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहित-
05211 म् इति वा चरति। न वेदना शून्येति वा चरति न वेदना
05212 अशून्येति वा चरति। न वेदना सनिमित्तेति वा चरति न वेदना
05213 अनिमित्तेति वा चरति। न वेदना सप्रणिहितेति वा चरति न
05214 वेदना अप्रणिहितेति वा चरति। न संज्ञा {{शून्येति वा चरति न संज्ञा अशून्येति वा चरति। न संज्ञा सनिमित्तेति वा चरति न संज्ञा अनिमित्तेति वा चरति। न संज्ञा सप्रणिहितेति वा चरति न संज्ञा अप्रणिहितेति वा चरति}}। न संस्काराः
05215 शून्या {{इति वा चरति न संस्कारा अशून्या इति वा चरति। न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति वा चरति। न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति}}। न विज्ञानं शून्यम् {{इति योजयति न विज्ञानम् अशून्यम् इति योजयति। न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति। न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति।}}। य एवं चरति स प्रज्ञा-
05216 पारमितायां चरतीति नोपैति न चरतीति नोपैति चरति च न
05217 चरति चेति नोपैति नैव चरति न न चरतीति नोपैति। एवं
05218 चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः।
05301 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
05302 दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति। न शीलपार-
05303 मितायाः कृतशः प्रज्ञापारमितायां चरति। न क्षान्तिपारमितायाः
05304 {कृतशः प्रज्ञापारमितायां चरति}। न वीर्यपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}। न ध्यानपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}। न
05305 प्रज्ञापारमितायाः {कृतशः प्रज्ञापारमितायां चरति}। नाविनिवर्तनीयभूमेः {कृतशः प्रज्ञापारमितायां चरति}। न सत्त्वपरि-
05306 पाकहेतोः {कृतशः प्रज्ञापारमितायां चरति}। न बुद्धक्षेत्रपरिशुद्धिहेतोः {कृतशः प्रज्ञापारमितायां चरति}। न दशानां तथा-
05307 गतबलानां {कृतशः प्रज्ञापारमितायां चरति}। न चतुर्णां वैशारद्यानां {कृतशः प्रज्ञापारमितायां चरति}। न चतसृणां प्रति-
05308 संविदां {कृतशः प्रज्ञापारमितायां चरति}। नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां {कृतशः प्रज्ञापारमितायां चरति}। नाध्यात्म-
05309 शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न बहिर्धाशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नाध्यात्मबहिर्धाशून्य-
05310 तायाः {कृतशः प्रज्ञापारमितायां चरति}। न शून्यताशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न महाशून्यतायाः
05311 {कृतशः प्रज्ञापारमितायां चरति}। न परमार्थशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न संस्कृतशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}।
05312 नात्यन्तशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नानवराग्रशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नानव-
05313 कारशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न प्रकृतिशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न सर्वधर्म-
05314 शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न स्वलक्षणशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नानुपलम्भशून्य-
05315 तायाः {कृतशः प्रज्ञापारमितायां चरति}। नाभावस्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न भावशून्यतायाः
05316 {कृतशः प्रज्ञापारमितायां चरति}। नाभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न स्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न पर-
05317 भावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न तथतायाः {कृतशः प्रज्ञापारमितायां चरति}। न धर्मधातोः {कृतशः प्रज्ञापारमितायां चरति}। न
05318 भूतकोटेः {कृतशः प्रज्ञापारमितायां चरति}। तत् कस्य हेतोः। न हि बोधिसत्त्वो महासत्त्वः प्रज्ञा-
05319 पारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति। एवं शारिपुत्र
05320 बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः
05321 प्रज्ञापारमितायां चरति। न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापार-
05322 मितायां चरति। न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति।
05401 न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति। न ऋद्धिविधेः
05402 कृतशः प्रज्ञापारमितायां चरति। तत् कस्य हेतोः। तथा हि प्रज्ञा-
05403 पारमितायां चरन् प्रज्ञापारमिताम् एव न समनुपश्यति। कुत एव
05404 बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः। एवं हि शारिप्तुर बोधि-
05405 सत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः।
05406 पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो
05407 नैवं भवति। अहं दिव्येन चक्षुषा पूर्वस्यं दिशि गङ्गानदीवालुकोपमेषु
05408 लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान्
05409 श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवास-
05410 म् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र {बोधिसत्त्वस्य}
05411 महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा दक्षिणस्यां दिशि
05412 {{गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा}}
05413 ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं
05414 ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति तेषाम् एव च
05415 चित्तानि ज्ञास्यामीति। तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या
05416 गत्वा धर्मं देशयिष्यामीति।
05501 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अप्रमेयान् अ-
05502 संख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः।
05503 एवं हि शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः
05504 पापीयान् अवतारं न लभते। सर्वे चास्यान्ये ऽपि लौकिका ये केचित्
05505 क्लेशास् ते सर्वे दलिता भवन्ति। ये ऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा
05506 भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते याप-
05507 यन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च
05508 चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः
05509 परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा
05510 अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना
05511 अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा
05512 अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं {बोधिसत्त्वं} महासत्त्वं
05513 रक्षन्ति। मा खल्व् अस्य {बोधिसत्त्वस्य} महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्। ये ऽप्य् अस्य
05514 केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति। तत् कस्य हेतोः।
05515 तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति। ये ऽपि ते शारिपुत्र दक्षिणस्यां दिशि
05516 {{बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्। ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति। तत् कस्य हेतोः। तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति।}}आ@
05601 {{ये ऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्। ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति। तत् कस्य हेतोः। तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति। ये ऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्। ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति। तत् कस्य हेतोः। तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति।}} येऽपि ते शारिपुत्र
05602 उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त-
05603 स् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका
05604 ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा
05605 देवास् ते ऽपि तस्य {बोधिसत्त्वस्य} महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्व् अस्य
05606 {बोधिसत्त्वस्य} महासत्त्वस्यान्तरायो भूद् इति।
05607 {{येऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति। येऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति। येऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति। येऽपि ते शारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति।}}
05608 {{येऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति।}}
05609 पुनर् अपरं शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतः अल्प-
05610 कृच्छ्रेण धारणीमुखानि समाधिमुखानि चामुखीभवन्ति सर्वोपपत्त्याय-
05611 तनेषु च तथागतान् अर्हतः सम्य्कसंबुद्धान् आरागयति ननु कदाचिद् बुद्धै-
05612 र् भगवद्भिर् विरहितो भवति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति।
05613 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति
05614 वक्तव्यः।
05615 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो
05616 नैवं भवति। अस्ति स कश्चिद् धर्मो यो धर्मैः सह संयुज्यते वा विसं-
05617 युज्यते वा।
05618 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं
05619 भवति। कश्चिद् अहं क्षिप्रतरं धर्मधातुम् अभिसंबुध्येयं वा न वाभि-
05701 संबुध्येयम्। तत् कस्य हेतोः। न हि धर्मधातुर् धर्मधातुनाभिसंबुध्यते।
05702 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति
05703 वक्तव्यः।
05704 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् न
05705 किञ्चिद् धर्मधातोर् व्यतिरिक्तं समनुपश्यति नापि धर्मधातोर् धर्मनाना-
05706 करणं करोति। नाप्य् अस्यैवं भवति अयं धर्मधातुर् एवं प्रतिविध्यते न वा
05707 प्रतिविध्यत इति। तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन
05708 धर्मेण तां धर्मतां प्रतिविध्येद् इति। तथा हि स न धर्मधतुं शून्यम् इति
05709 योजयति नाशून्यम् इति योजयति। एवं हि शारिपुत्र {बोधिसत्त्वो} महा-
05710 सत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः।
05711 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षु-
05712 र्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति। न
05713 रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति। न
05714 चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना
05715 योजयति।
05801 न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति।
05802 न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयति।
05803 न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां श्रोत्रविज्ञानधातुना योजयति।
05804 न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयति।
05805 न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति।
05806 न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति।
05807 न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयति।
05808 न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति।
05809 न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति।
05810 न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति।
05811 न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति।
05812 न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति।
05813 न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयति।
05814 न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति।
05815 न मनोविञानधातुं शून्यतया योजयति न शून्यतां मनोविञानधातुना योजयति।
05816 तत् कस्य हेतोः। एष हि शारिपुत्र परमयोगो {बोधिसत्त्वस्य} महासत्त्वस्य
05817 यद् उत शून्यतायोगः। शून्यतायां शारिपुत्र चरन् {बोधिसत्त्वो} महासत्त्वो
05818 न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान्
05819 परिपाचयति क्षिप्रं चानुत्तरां सम्य्कसंबोधिम् अभिसंबुध्यते।
05820 ये केचिच् छारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य योगास् तेषां प्रज्ञापारमिता-
05821 योगो ऽग्र आख्यायते श्रेष्ठ आख्यायते वरः प्रवर उत्तमो ऽनुत्तरो ऽसमो-
05822 ऽसमसमः प्रणीत आख्यायते। तत् कस्य हेतोः। निरुत्तरो ह्य् एषः शारिपुत्र
05901 योगो यद् उत प्रज्ञापारमितायोगः शून्यतायोगः अनिमित्तयोगः अप्र-
05902 णिहितयोगः। एवं युज्यमानः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो व्याकृत इति
05903 धारयितव्यः। आसन्नीभूतो व्याकरणस्य। एवं युज्यमानः शारिपुत्र
05904 {बोधिसत्त्वो} महासत्त्वः अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं करिष्यति न
05905 चास्यैवं भविष्यति मां बुद्धा भगवन्तो व्याकरिष्यन्तीति। अहम् आसन्नी-
05906 भूतो व्याकरणस्येति। अहं बुद्धक्षेत्रं परिशोधयिष्यामीति। अहं
05907 सत्त्वान् परिपाचयिष्यामीति। अहम् अनुत्तरां सम्यक्संबोदिम् अभिसंबुध्य
05908 धर्मचक्रं प्रवर्तयिष्यामीति। तत् कस्य हेतोः। तथा हि स धर्मधातुं न
05909 विविक्तीकरोति न च धर्मधातोर् अन्यधर्मं समनुपश्यति यः प्रज्ञापार-
05910 मितायां चरेत् यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत अनुत्तरायां सम्यक्-
05911 संबोधौ। तत् कस्य हेतोः। तथा हि {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापार-
05912 मितायां चरतो न सत्त्वसंज्ञोत्पद्यते। तत् कस्य हेतोः। तथा ह्य् अत्यन्ततया
05913 सत्त्वो नोत्पद्यते न निरुध्यते अनुत्पादानिरोधधर्मत्वात्। यस्य
05914 च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति। एवं चरन्
05915 {बोधिसत्त्वो} महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति। सत्त्वशून्य-
05916 तया प्रज्ञापारमितायां चरति। सत्त्वानुपलब्ध्या प्रज्ञापारमितायां
05917 चरति। सत्त्वविविक्ततया प्रज्ञापारमितायां चरति। एवं हि शारिपुत्र
05918 {बोधिसत्त्वानां} महासत्त्वानां परमयोगो यद् उत शून्यतायोगः सर्वान् अन्यान् योगा-
05919 न् अभिभूयावतिष्ठते। अत्र हि शारिपुत्र योगे चरन् {बोधिसत्त्वो} महासत्त्वो
06001 महामैत्रीम् अभिनिर्हरति न च मात्सर्यचित्तम् उत्पादयति। न दौःशौल्य-
06002 चित्तम् {उत्पादयति}। न व्यापादचित्तम् {उत्पादयति}। न कुशीदचित्तम् {उत्पादयति}। न विक्षिप्त-
06003 चित्तम् {उत्पादयति}। न दौष्प्रज्ञचित्तम् {उत्पादयति}॥ [इति धर्म्मरत्नाववादः॥]
06004 एवम् उक्ते आयुस्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। यो भगवन्
06005 {बोधिसत्त्वो} महासत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश् च्युत
06006 इहोपपद्यते। इतो वा च्युतः कुत्रोपपत्स्यते। एवम् उक्ते भगवान् आ-
06007 युष्मन्तं शारिपुत्रम् एतद् अवोचत्। यः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो ऽनेन
06008 प्रज्ञापारमिताविहारेण विहरति स इतश् च्युत इहैव बुद्धक्षेत्रे उपपद्यते
06009 अन्येभ्यो वा बुद्धक्षेत्रेभ्यश् च्युतस् तुषितेभ्यो वा देवेभ्यश् च्युत इहोपपद्यते॥
06010 [इति बोधिसत्वाष्टमकः॥]
06011 तत्र शारिपुत्र यो ऽयं {बोधिसत्त्वो} महासत्त्वो मनुष्येभ्य एव च्युत्वा
06012 मनुष्याणाम् एव सभागतायाम् उपपद्यते तस्य {बोधिसत्त्वस्य} महासत्त्वस्या-
06013 विनिवर्तनीयान् {बोधिसत्त्वान्} महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि
06014 भवन्ति। न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यते। न चास्य
06015 धारणीमुखम् अभिमुखीभवति न च समाधिमुखम्। यत् पुनः शारिपुत्र
06016 एवं वदसि यो भगवन् {बोधिसत्त्वो} महासत्त्व इमं प्रज्ञापारमिता-
06017 योगं समापद्यते स इतश् च्युतः कुत्रोपपत्स्यत इति। यः शारिपुत्र {बोधिसत्त्वो}
06018 महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते स इतो बुद्धक्षेत्राच् च्युतः
06101 बुद्धक्षेताद् बुद्धक्षेत्रं संक्रमिष्यति। तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरा-
06102 गयिष्यति। न कदाचिद् बुद्धविरहितो भविष्यति॥ [इति बोधिसत्त्व-
06103 श्रद्धानुसारी॥]
06104 यः पुनः शारिपुत्रायं {बोधिसत्त्वो} महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत
06105 इहोपपद्यते तस्य तीक्ष्णानीन्द्रियाणि भवन्ति। स क्षिप्रम् इमं
06106 योगम् आपद्यते यद् उत प्रज्ञापारमितायोगम्। तस्य जातिव्यतिवृत्तस्याप्य् अमी
06107 गम्भीरगम्भीरा धर्मा अभिमुखीभवन्ति। स पश्चात् प्रज्ञापारमितायोगं
06108 समाअपद्यते। यत्र यत्र बुद्धक्षेत्रे उपपद्यते तत्र तत्र तथागतान् अर्हतः
06109 सम्यक्संबुद्धान् आरागयिष्यति। यः पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः तुषि-
06110 तेभ्यो देवेभ्यश् च्युत्वा इहोपपन्नो भवति तस्यापि पटुतराणीन्द्रियाणि
06111 भवन्ति। अविप्रमुषिताः षट् पारमिताः सर्वधारणीसमाधिमुखानि
06112 चाभिमुखीभवन्ति॥ [इति बोधिसत्त्वधर्मानुसारी॥]
06113 सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां चरन्तो घटमाना
06114 व्यायच्छन्तः सत्त्वपरिपाकायोपायकौशल्यबलेन स्रोतआपत्तिफलं साक्षात्-
06115 कुर्वन्ति। न च ते न मन्यन्ते इति स्रोतआपन्नः। सन्ति {शारिपुत्र बोधिसत्त्वा} महा-
06116 सत्त्वा अनुपायकुशला ये चत्वारि ध्यानानि निष्पादयन्ति पारमितासु
06117 च चरन्ति। तेन च ध्यानलाभेन दीर्घायुष्केषु देवेषूपपद्यन्ते सचेत्
06118 ततश् च्युत्वा मनुष्येषु देवेषु वा उपपद्यन्ते बुद्धांश् च भगवत आरागयि-
06201 ष्यन्ति तेषाम् अपि धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि। सन्ति {शारिपुत्र बोधिसत्त्वा}
06202 महासत्त्वा ध्यानानि च समापद्यन्ते प्रज्ञापारमितायां च चरन्ति। ते
06203 चानुपायकौशल्येन ध्यानान्य् उत्सृज्य कामधाताव् उपपद्यन्ते तेषाम् अपि शारि-
06204 पुत्र {बोधिसत्त्वानां} महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि॥ [इति
06205 द्वितीयतृतीयफलप्रतिपन्नकः श्रद्धाधिमुक्तः॥]
06206 सन्ति {शारिपुत्र बोधिसत्त्वा} महसत्त्वाश् चत्वारि ध्यानान्य् उत्पाद्य चत्वार्यप्रमाणानि समा-
06207 पद्यन्ते। चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणऋद्धि-
06208 पादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यन्ते। महाकारुणिका उपाय-
06209 कौशल्येन चोपपद्यन्ते न ध्यानवशेन नाप्रमाणवशेन नारूप्यसमा-
06210 पत्तिवशेन तत्र चोपपद्यन्ते यत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयि-
06211 ष्यन्ति। ते पुनः प्रज्ञापारमिताविहारेणाविरहिता इहैव भद्रकल्पे
06212 अनुत्तरां सम्य्कसंबोधिम् अभिसंभोत्स्यन्ते॥ [इति द्वितीयतृतीयफलप्रति-
06213 पन्नको दृष्टिप्राप्तः॥]
06214 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा एकजातिप्रतिबद्धा ये प्रज्ञापारमितायां
06215 चरन्त उपायकौशल्येन चत्वारि ध्यानानि समापद्यन्ते। चत्वार्य् अ-
06216 प्रमाणानि चतस्र आरुप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादे-
06217 न्द्रियबलबोध्यङ्गमार्गान् भावयन्ति। शून्यतासमाधिं समापद्यन्ते।
06218 अनिमित्तसमाधिं समापद्यन्ते। अप्रणिहितसमाधिं समापद्यन्ते।
06301 न च तेषां वशेन गच्छन्ति संमुखीभूतांश् च बुद्धान् भगवत आरागयित्वा
06302 तत्र ब्रह्मचर्यं चरित्वा पुनर् एव तुषितानां देवानां सभागगतायै उपपद्यन्ते।
06303 ते तत्र यावद् आयुस् तिष्ठन्ति। ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः
06304 स्मृतिमन्तः संप्रजानन्तो अनेकैर् देवकोटीनियुतशतसहस्रैः परिवृताः पुर-
06305 स्कृता इहोपपत्तिं सर्शयित्वा नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसं-
06306 बुद्ध्यन्ते॥ [इति सकृदागामी॥]
06307 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनो ये न कामधातौ
06308 न रूपधातौ नारूप्यधाताव् उपपद्यन्ते। अपि तु बुद्धक्षेत्रेण बुद्धक्षेत्रं
06309 संक्रामन्ति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरूकुर्वन्तो
06310 मानयन्तः पूजयन्तः। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां
06311 लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं
06312 संक्रामन्ति येषु बुद्धक्षेत्रेषु न श्रावकप्रत्येकबुद्धयानस्य प्रज्ञप्ति-
06313 र् अप्य् अस्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभि-
06314 ज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेष्व् अ-
06401 मितम् आयुः। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनः ये
06402 लोकधातोर् लोकधातुं संक्रामन्ति ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो
06403 न धर्मशब्दो न सङ्घशब्दस् तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं च सङ्घशब्दं च
06404 सत्त्वानां संश्रावयन्ति। त्रयाणां च रत्नानां वर्णं भाषन्ते। ते तेन
06405 बुद्धशब्देन धर्मशब्देन सङ्घशब्देन ततश् च्युता यत्र यत्र बुद्धा भगवन्तो
06406 भवन्ति ते तत्र तत्रोपपद्यन्ते॥ [इति अनागामी॥]
06407 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश् चत्वारि ध्यानानि उत्पाद्य चत्वार्य् अप्रमाणानि
06408 चतस्र आरूप्यसमापत्तीः समापद्यन्ते ते चोपायकौशल्येन समन्वा-
06409 गताः समाधिसमापत्तिभ्यो निवृत्य कामधाताव् उपपद्यन्ते क्षत्रियमहा-
06410 शालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा
06411 उपपद्यन्ते सत्त्वपरिपाकाय॥ [इति अयं मनुष्यकुलं कुलः॥]
06412 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश् चत्वारि ध्यानानि समापद्यन्ते चत्वार्य् अप्रमा-
06413 णानि चतस्र आरूप्यसमापत्तीः समापद्यन्ते। ते ऽप्य् उपायकौशल्य-
06414 बलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकाना-
06415 म् अपि देवानां सभागतायै उपपद्यन्ते। त्रयस्त्रिंशानां यामानां तुषितानां
06416 निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्ते। ते
06501 तत्र स्थित्वा सत्त्वान् परिपाचयन्ति बुद्धक्षेत्रं च परिशोधयन्ति
06502 बुद्धांश् च भगवत आरागयन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश् चत्वारि
06503 ध्यानानि उत्पाद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः समा-
06504 पद्यन्ते। ते ततश् च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावद् अकनिष्ठे
06505 उपपद्यन्ते। ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस् तेषु ब्रह्मभवनेषु
06506 तिष्ठन्ति। ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति। ये च
06507 तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तांस् तथागतान्
06508 धर्मचक्रप्रवर्तनायाध्येषयन्ति॥ [इति देवकुलं कुलः॥]
06509 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावद् अष्टादशाना-
06510 म् आवेणिकानां बुद्धधर्माणां लाभिनस् तेषां चानुरोधाय चरन्ति। चतुर्णा-
06511 म् आर्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति। ते पुनर् बोधि-
06512 सत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः॥ [इत्य् अकवीचिकः॥]
06513 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय चतुर्णां ध्यानानां
06514 लाभिनो भवन्ति। चतुर्णाम् अप्रमाणानां लाभिनो भवन्ति। चतसृणा-
06515 म् आरूप्यसमापत्तीनां लाभिनो भवन्ति। स्मृत्युपस्थानसम्यक्प्रहाण-
06516 र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति। बलवैशारद्यप्रतिसंविदा-
06601 वेणिकबुद्धधर्मान् प्रतिलभन्ते। उपायकौशल्येन ब्रह्मकायिकेषु देवेषु
06602 यावद् अकनिष्ठेषु देवेषूपपद्यन्ते। तत्र चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य
06603 सत्त्वानाम् अर्थं कुर्वन्ति॥ [इत्य् अन्तरापरिनिर्वायी॥]
06604 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैवानुत्तरां सम्यक्संबोधिम् अभि-
06605 संबुध्यन्ते। धर्मचक्रं प्रवर्तयन्त्य् अप्रमेयाणाम् असंख्येयानां सत्त्वानां चार्थं
06606 कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति तेषां परिनिर्वृतानां
06607 कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति॥ [इत्य् उपपद्यपरिनिर्वायी॥]
06608 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्पारमितासु चरन्तो लोकधातोर् लोक-
06609 धातुं संक्रामन्ति। तत्र च सत्त्वान् बोधये प्रतिष्ठापयिष्यन्ति।
06610 ते नित्यम् उद्युक्ताः सत्त्वानां कृतशो न कदाचिद् अनर्थसंहितां वाचं
06611 भाषन्ते। सत्त्वानां कृतशो नित्यम् उद्युक्ता बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रा-
06612 मन्ति। ते ऽपि {बोधिसत्त्वा} महासत्त्वाः सत्त्वानां कृतशो ऽसंख्येयैर् अप्रमेयैः
06613 कल्पैर् जानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अ-
06614 भिसंस्कारपरिनिर्वायी॥]
06615 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यासम् अव-
06616 क्रामन्ति। अविनिवर्तनीयभूमौ वा अवतिष्ठन्ते। सर्वबुद्धधर्मान्
06701 वा समुदानयन्ति॥ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैव
06702 प्रज्ञापारमितायां योगम् आपद्यन्ते। ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशत-
06703 सहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं स्वबुद्धक्षेत्रपरिशोधनाय संक्रामन्ति।
06704 नानाबुद्धक्षेत्रेषु चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अनभि-
06705 संस्कारपरिनिर्वायी॥]
06706 सन्ति {शारिपुत्र बोधिसत्त्वा} महसत्त्वा ये षट्सु परिमितासु चरन्तश् चक्रवर्तिनो भूत्वा
06707 दानपारमितां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानान्य् उपसंहरिष्यन्ति
06708 अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः। एवं गन्धमाल्यविलेपनचूर्णधूप-
06709 शयनासनोपाश्रयगृहधनधान्यमणिमुक्तासुवर्णरूप्यप्रवाडाभरणानि
06710 जीवितोपकरणानि उपसंहरिष्यन्ति। यावद् दशकुशलकर्मपथेषु सत्त्वान्
06711 प्रतिष्ठाप्य ब्रह्मकायिकेषु यावद् अकनिष्ठेषु देवेषूपपद्यमाना नानाबुद्ध-
06712 क्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अकनिष्ठपरमः॥]
06713 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये चत्वारि ध्यानानि निष्पाद्य ध्यानेभ्यः परि-
06714 हीणाः प्रथमं ध्यानम् आसाद्य ब्रह्मकायिकेषु देवेषूपपद्यन्ते। ते पुन-
06715 र् ध्यानानि निष्पाद्याकनिष्ठेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां
06716 सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति प्लुतः॥]
06801 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ब्रह्मलोकाच् च्युत्वा शुद्धावासेषूपपद्यन्ते। ते
06802 शुद्धावासानाम् एकं वा द्वे वा स्थाने विलंध्याकनिष्ठेषु देवेषूपपद्य
06803 नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अर्धप्लुतः॥]
06804 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये तथागतसदृशम् आत्मभावम् अभिनिर्माय तुषितभवनं
06805 परिशोध्य ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्योपायकौशल्येन
06806 नैरयिकाणां सत्त्वानां धर्मं देशयन्ति तिर्यग्योनिगतानां सत्त्वानां धर्मं
06807 देशयन्ति यमलौकिकानां सत्त्वानां धर्मं देशयन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महा-
06808 सत्त्वा ये षट्सु परिमितासु स्थित्वा यादृशस् तथागतकायस् तादृशम् आत्म-
06809 भावम् अभिनिर्माय गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वानां
06810 धर्मं देशयन्ति तथागतांश् च पर्युपासते बुद्धक्षेत्रं च निष्पा-
06811 दयन्ति धर्मं च शृण्वन्ति। एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया-
06812 म् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तर्स्या-
06813 म् ऊर्ध्वम् अधः सर्वासु दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु
06814 लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति बुद्धक्षेत्राणि च निष्पादयन्ति
06815 बुद्धांश् च पर्युपासते धर्मं च शृण्वन्ति। ते तेभ्यो बुद्धक्षेत्रेभ्यो
06816 निर्मितानि निर्माय श्रेष्ठानि विशिष्ठानि अनुत्तराणि बुद्धक्षेत्राणि
06901 निष्पादयन्ति। एकजातिप्रतिबद्धाश् च {बोधिसत्त्वा} महासत्त्वास् तत्र बुद्ध-
06902 क्षेत्रेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति
06903 सर्वस्थानच्युतः॥]
06904 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ध्यानारूप्यसमापत्तीर् आसादयन्तो ब्रह्मकायि-
06905 केषु यावच् छुभकृत्स्नेषु देवेषूपपद्यन्ते। तत्र आकाशानन्त्यायतने याव-
06906 द् भवाग्रे उपपद्यन्ते। ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते॥ [इति भवाग्रपरमः॥]
06907 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ध्यानारूप्यसमापत्तीनां लाभिनस् त आकाशा-
06908 नन्त्यायतने यावद् भवाग्रे उपपद्यन्ते। ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते॥
06909 [इति रूपवीतरागः॥]
06910 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्पारमितासु चरन्तो द्वात्रिंशन्महा-
06911 पुरुषलक्षणालङ्कृतमूर्तयो निरुत्तरैः परिशुद्धैर् इन्द्रियैः समन्वागता
06912 भवन्ति। ते तैः परिशुद्धैर् इन्द्रियैः समन्वागता बहुजनस्य प्रियाश् च
06913 भवन्ति मनआपाश् च। ये पुनः सत्त्वास् तान् {बोधिसत्त्वान्} महासत्त्वान् पश्यन्ति
06914 ते तेनैव चित्तप्रसादेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति। एवं हि
06915 शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन कायपरिशुद्धये शिक्षितव्यम् वाक्परिशुद्धये
06916 शिक्षितव्यम् मनःपरिशुद्धये शिक्षितव्यम्। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु
06917 पारमितासु चरन्त उत्तप्तानीन्द्रियाणि प्रतिलभन्ते। ते तैर् उत्तप्तैर् इन्द्रियै-
07001 र् नात्मानम् उत्कर्षयन्ति न परान् पेषयन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथम-
07002 चित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायां स्थित्वा नैवं कदा-
07003 चिद् अपायदुर्गतिविनिपातेषूपपद्यन्ते यावद् अविनिवर्तनीयभूमिम् अनुप्राप्नु-
07004 वन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय न जातु दश-
07005 कुशलान् कर्मपथान् उत्सृजन्ति यावद् अविनिवर्तनीयां भूमिम् अनुप्राप्नुवन्ति।
07006 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये दानपारमितायां स्थित्वा राजानश् चक्रवर्तिनो
07007 भूत्वा दानं सत्त्वेभ्यो दत्त्वा तान् एव दशकुशलकर्मपथेषु पतिष्ठापयन्ति।
07008 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा अने-
07009 कानि चक्रवर्तिराज्यशतानि परिगृह्णन्ति अनेकानि चक्रवर्तिराज्य-
07010 शतसहस्राणि परिगृह्णन्ति। तत्र स्थित्वा अनेकानि च बुद्धकोटी-
07011 नियुतशतसहस्राणि आरागयन्ति। तांश् च बुद्धान् भगवतः सत्कुर्वन्ति
07012 गुरूकुर्वन्ति मानयन्ति पूजयन्ति। ततो ऽनुत्तरां सम्यक्संबोधिम् अभि-
07013 संबुध्यन्ते॥ [इति दृष्टधर्मपरिनिर्वायी॥]
07014 सन्ति {शारिपुत्र बोधिसत्वा} महासत्त्वा ये प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां
07015 लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते ताभिर् विक्रीडन्तः प्रथमं
07016 ध्यानं समापद्यन्ते। ततो व्युत्थाय निरोधसमापत्तिं समापाद्यन्ते।
07017 ततो व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते। {ततो व्युत्थाय} निरोधसमाधिं
07018 {समापद्यन्ते}। {ततो व्युत्थाय} तृतीयं ध्यानं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय}
07101 चतुर्थं ध्यानं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय} आकाशानन्त्या-
07102 यतनं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}।{ततो व्युत्थाय} विज्ञानानन्त्यायतनं {समापद्यन्ते}।
07103 {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय} आकिञ्चन्यायतनं {समापद्यन्ते}। {ततो व्युत्थाय} निरोध-
07104 समापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय} नैवसंज्ञानासंज्ञायतनं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमा-
07105 पत्तिं {समापद्यन्ते}। एवं हि शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां
07106 चरन्त उपायकौशल्येनावस्कन्दकेन समाधिं समापद्य नानाबुद्ध-
07107 क्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति कायसाक्षी॥]
07108 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु पारमितासु स्थित्वा सत्त्वानां बुद्धधर्मा-
07109 वभासं कुर्वन्ति। आत्मनापि बुद्धधर्मावभासेना विरहिता भवन्ति।
07110 यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति अर्हत्त्वप्रतिपन्नकः॥]
07111 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ऽबुद्धकेषु लोकधातुषु अपगतश्रावकेषु प्रत्येक-
07112 बोधिम् अभिसंबुध्यन्ते। त उपायकौशल्येन बह्वनि प्राणिकोटीनियुत-
07113 शतसहस्राणि त्रिषु यानेषु परिपाच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥
07114 [इति प्रत्येकबुद्धः॥]
07115 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबल-
07116 बोध्यङ्गमार्गाणां लाभिनो दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्ध-
07117 धर्माणां लाभिनः। न च स्रोतआअत्तिफलं प्राप्नुवन्ति न सकृदा-
07201 गामिफलं नानागामिफलं नार्हत्त्वं प्राप्नुवन्ति न प्रत्येकबुद्धत्वं प्राप्नु-
07202 वन्ति। ते प्रज्ञापारमितायां चरन्त उपायकौशल्येन सर्वसत्त्वान्
07203 मार्गे ऽवतार्य विशोध्य स्रोतआपत्तिफलं प्रापयन्ति। सकृदागामि-
07204 फलं प्रापयन्ति अनागामिफलं प्रापयन्ति अर्हत्त्वं प्रापयन्ति प्रत्येकां
07205 बोधिं प्रापयन्ति। स्वयम् असाक्षात्कुर्वन्तः परांस् तत्र प्रतिष्ठापयन्ति॥
07206 [इति श्रावकप्रत्येकबुद्धमार्गलभ्यानि फलानि॥]
07207 यच् छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां ज्ञानं च प्रकाशं च सानुत्-
07208 पत्तिकधर्मक्षान्तिप्रतिलब्धस्य {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिः। इति
07209 स्वयम् अप्राप्ते धर्मे परप्रतिष्ठापनम्। अमी शारिपुत्र {बोधिसत्त्वा} महा-
07210 सत्त्वा अविनिवर्तनीया वेदितव्याः ये अनया प्रज्ञापारमितया विह-
07211 रन्ति॥ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु पारमितासु स्थित्वा तुषित-
07212 भवनं विशोधयन्ति। ते खलु पुनर् बोधिसत्त्वा महासत्त्वा भाद्रकल्पिका
07213 वेदितव्याः। अमी शारिपुत्र वैवर्तिका {बोधिसत्त्वा} महासत्त्वा येषाम् अयम् उदयो
07214 बुद्धधर्मेषु तस्मात् तर्हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता
07215 सावद्यस्य कायवाङ्मनस्कर्मनो ऽवकाशो न दातव्यः कायवाङ्मन-
07216 स्कर्मपरिशुद्धये च शिक्षितव्यम्। [इतीदम् अवैवर्तिकबोधिसत्त्वसंघपरि-
07217 दीपनम्।] [इति संघरत्नाववादः॥]
07301 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। कतमद् भगवन्
07302 सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनस्कर्म। एवम् उक्ते भगवा-
07303 न् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्। इह शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्यैवं
07304 भवति। कतमः स कायः येन कायेन कायकर्म समारभेय। कतमा
07305 सा वाग् यया वाक्कर्म समारभेय। कतमत् तन् मनः येन मनस्कर्म
07306 समारभेय। एवम् उपपरीक्षमाणः कायम् उपलभते वाचम् उपलभते मन
07307 उपलभते। अयं शारिप्तुर {बोधिसत्त्वस्य} महासत्त्वस्य कायवाङ्मनस्कर्मसमारम्भः
07308 सावद्यः। न खलु पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
07309 चरन् कायम् उपलभते न वाचम् उपलभते न मन उपलभते। येन कायेन
07310 वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्य विक्षेपदौष्प्रज्ञचित्त-
07311 म् उत्पादयेत्। अस्थानम् एतच् छारिपुत्रान् अवकाशो यद् {बोधिसत्त्वो} महासत्त्वः
07312 प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यम् उत्पादयेत्। नैतत्
07313 स्थानं विद्यते। तत् कस्य हेतोः। तथा हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः षट्सु
07314 पारमितासु चरन् कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनो-
07315 दौष्ठुल्यं शोधयति। शारिपुत्र आह। कथं भगवन् {बोधिसत्त्वो} महासत्त्वः
07316 कायवाङ्मनोदौष्ठुल्यं शोधयति। भगवान् आह। यतः शारिपुत्र {बोधिसत्त्वो}
07317 महासत्त्वो न कायम् उपलभते न वाचम् उपलभते न मन उपलभते।
07401 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति। सचेत्
07402 पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दश कुशला
07403 कर्मपथा अनुवर्तन्ते। न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति।
07404 सततसमितं चास्य सर्वसत्त्वेषु महाकरुणाचित्तं प्रत्युपस्थितं भवति।
07405 एवं हि शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धम् इति
07406 वदामि।
07407 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां चरन्तो बोधिमार्गं परि-
07408 शोधयन्तो दानपारमितायां चरन्ति। शील{पारमितायां चरन्ति}। क्षान्ति{पारमितायां चरन्ति}।
07409 वीर्य{पारमितायां चरन्ति}। ध्यान{पारमितायां चरन्ति}। प्रज्ञा{पारमितायां चरन्ति}। शारिपुत्र आह। कतमो भग-
07410 वन् {बोधिसत्त्वानां} महासत्त्वानां बोधिमार्गः। भगवान् आह। यदा शारिपुत्र
07411 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते। न वाच-
07412 म् उपलभते। न मन उपलभते। न दानपारमिताम् {उपलभते}। न शील-
07413 पारमित्ताम् {उपलभते}। न क्षान्तिपारमिताम् {उपलभते}। न वीर्यपारमिताम् {उपलभते}। न
07414 ध्यानपारमिताम् {उपलभते}। न प्रज्ञापारमिताम् {उपलभते}। न श्रावकम् {उपलभते}। न प्रत्येक-
07415 बुद्धम् {उपलभते}। न बोधिसत्त्वम् {उपलभते}। न बुद्धम् {उपलभते}। अयं शारिपुत्र {बोधिसत्त्वस्य}
07416 महासत्त्वस्य बोधिमार्गो यद् उत सर्वधर्मानुपलम्भो ऽनेन मार्गेण गच्छन्
07417 {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् न शक्यो ऽवमर्दितुम्॥
07418 [इत्य् अशक्त्यववादः॥]
07419 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन्
07501 न रूपम् मन्यते। न वेदनां {मन्यते}। न संज्ञां {मन्यते}। न संस्कारान् {मन्यते}। न विज्ञानं {मन्यते}।
07502 न पृथिवीधातुं {मन्यते}। नाब्धातुं {मन्यते}। न तेजोधातुं {मन्यते}॥ न वायुधातुं {मन्यते}।
07503 नाकाशधातुं {मन्यते}। न विज्ञानधातुं {मन्यते}। न चक्षुर्धातुं {मन्यते}। न रूपधातुं {मन्यते}।
07504 न चक्षुर्विज्ञानधातुं {मन्यते}। न श्रोत्रधातुं {मन्यते}। न शब्दधातुं {मन्यते}। न श्रोत्र-
07505 विज्ञानधातुं {मन्यते}। {{न घ्राणधातुं मन्यते। न गन्धधातुं मन्यते। न घ्राणविज्ञानधातुं मन्यते। न जिह्वाधातुं मन्यते। न रसधातुं मन्यते। न जिह्वाविज्ञानधातुं मन्यते। न कायधातुं मन्यते। न स्प्रष्टव्यधातुं मन्यते। न कायविज्ञानधातुं मन्यते। न मनोधातुं मन्यते। न धर्मधातुं मन्यते। न मनोविञानधातुं मन्यते।}}
07506 न स्मृत्युपस्थानानि {मन्यते}। न
07507 सम्यक्प्रहाणानि {मन्यते}। न ऋद्धिपादान् {मन्यते}। नेन्द्रियाणि। न बलानि {मन्यते}। न
07508 बोध्यङ्गानि {मन्यते}। न मार्गं {मन्यते}। न दानपारमितां {मन्यते}।{{न शीलपारमितां मन्यते। न क्षान्तिपारमितां मन्यते। न वीर्यपारमितां मन्यते। न ध्यानपारमितां मन्यते।}} न प्रज्ञापार-
07509 मितां {मन्यते}। न वैशारद्यानि {मन्यते}। न पतिसंविदः {मन्यते}। न दशतथागतबलानि {मन्यते}।
07510 नाष्टादशावेणिकान् बुद्धधर्मान् {मन्यते}। न स्रोतआपत्तिफलं। न सकृदा-
07511 गामिफलं। नानागामिफलं {मन्यते}। नार्हत्त्वं {मन्यते}। न प्रत्येकबोधिं {मन्यते}। न {बोधिसत्त्वं}
07512 महासत्त्वं {मन्यते}। नानुत्तरां सम्यक्संबोधिं मन्यते। एवं हि शारिपुत्र
07513 {बोधिसत्त्वो} महासत्त्वः षट्भिः पारमिताभिर् वर्धते। न च केनचिद् अव-
07514 मृद्यते। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञानं
07515 परिपूरयन्ति। येन ज्ञानेन समन्वागतानां सर्वाण्य् अपायद्वाराणि पिथि-
07601 तानि भवन्ति। नापि मनुष्यदारिद्र्यविपत्तिम् अनुभवन्ति। नापि
07602 तादृशम् आत्मभावं परिगृह्णन्ति। येन निन्दनीया भवन्ति सदेवकस्य
07603 लोकस्य॥ [इत्य् अपरिश्रान्त्यववादः॥]
07604 शारिपुत्र आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य सर्वज्ञज्ञानम्।
07605 भगवान् आह। येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः पूर्वस्यां दिशि
07606 गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां
07607 धर्मदेशनां शृणोति संघं च पर्युपास्ते। बुद्धक्षेत्रविशुद्धिं च पश्यति।
07608 एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि {{गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां धर्मदेशनां शृणोति संघं च पर्युपास्ते। बुद्धक्षेत्रविशुद्धिं च पश्यति}}।
07609 येन ज्ञानेन समन्वागतानां {बोधिसत्त्वानां} महासत्त्वानां न बुद्ध-
07610 संज्ञा भवति। न बोधि{संज्ञा भवति} । न श्रावक{संज्ञा भवति} । न प्रत्येकबुद्ध{संज्ञा भवति} । नात्म{संज्ञा भवति}
07611 न पर{संज्ञा भवति} । न बुद्धक्षेत्र{संज्ञा भवति} । येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वो
07612 दानपारमितायां चरति। {{शीलपारमितायां चरति। क्षान्तिपारमितायां चरति। वीर्यपारमितायां चरति। ध्यानपारमितायां चरति।}} प्रज्ञापारमितायां चरति।
07613 न च पारमिताम् उपलभते। येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः
07614 स्मृत्युपस्ह्तानानि भावयति न च स्मृत्युपस्थानान्य् उपलभते। सम्यक्-
07615 प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च सम्यक्प्रहाणर्द्धि-
07616 पादेन्द्रियबलबोध्यंगमार्गान् उपलभते। बलवैशारद्यावेणिकान् बुद्धधर्मान्
07617 समुदानयति न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते। इदं
07618 शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य ज्ञानं येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महा-
07619 सत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति। न च सर्वबुद्धधर्मांश् च मन्यते॥
07620 [इति प्रतिपत्संपरिग्रहाववादः॥]
07701 सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वा ये पञ्चचक्षूंषि प्रतिलभन्ते परि-
07702 शोधयन्ति। कतमानि पञ्च यद् उत मांसचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः
07703 धर्मचक्षुः बुद्धचक्षुः।
07704 शारिपुत्र आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं मांस-
07705 चक्षुः। भगवान् आह। अस्ति शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य मांसचक्षुः
07706 यत् योजनशतं पश्यति। अस्ति शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य मांस-
07707 चक्षुर् यत् योजनशतद्वयं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} जम्बुद्वीपं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्}
07708 चातुर्द्वीपकं लोकधातुं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} सहस्रं लोकधातुं पश्यति।
07709 अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} द्विसहस्रं लोकधातुं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} त्रिसहस्रमहा-
07710 साहस्रं लोकधातुं पश्यति। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं
07711 मांसचक्षुः।
07712 शारिपुत्र आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं दिव्य-
07713 चक्षुः। भगवान् आह। यच् छारिपुत्र चातुर्महाराजकायिकानां देवानां
07714 दिव्यचक्षुस् तद् बोधिसत्त्वः प्रजानीते। यत् त्रयस्त्रिंशानां देवानां
07715 दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते यद् यामानां देवानां दिव्यचक्षुः तद्
07716 बोधिसत्त्वः प्रजानीते। {{यद् तुषितानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् निर्माणरतीनां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् परनिर्मितवशवर्तिनां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् ब्रह्मकायिकाणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् ब्रह्मपुरोहितानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् ब्रह्मपारिषद्यानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् परीत्ताभानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् अप्रमाणाभानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् आभास्वराणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् शुभकृत्स्नानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् अनभ्रकाणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् पुण्यप्रसवानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् बृहत्फलानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् असंज्ञिसत्त्वानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् शुद्धावासानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् अस्पृहाणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् अतपानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् सदृशानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् सुदर्शनानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते। यद् अकनिष्ठानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते।}}
07801 यत् पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य दिव्यचक्षुः तच् चातुर्महाराज-
07802 कायिका देवा न प्रजानन्ति। न त्रयस्त्रिंशा देवाः प्रजानन्ति। न यामा
07803 देवाः प्रजानन्ति। {{न तुषिता देवाः प्रजानन्ति। न निर्माणरतयो देवाः प्रजानन्ति। न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति। न ब्रह्मकायिका देवाः प्रजानन्ति। न ब्रह्मपुरोहिता देवाः प्रजानन्ति। न ब्रह्मपारिषद्या देवाः प्रजानन्ति। न परीत्ताभा देवाः प्रजानन्ति। न अप्रमाणाभा देवाः प्रजानन्ति। न आभास्वरा देवाः प्रजानन्ति। न परीत्तशुभा देवाः प्रजानन्ति। न अप्रमाणशुभा देवाः प्रजानन्ति। न शुभकृत्स्ना देवाः प्रजानन्ति। न अनभ्रका देवाः प्रजानन्ति। न पुण्यप्रसवा देवाः प्रजानन्ति। न बृहत्फला देवाः प्रजानन्ति। न असंज्ञिसत्त्वा देवाः प्रजानन्ति। न शुद्धावासा देवाः प्रजानन्ति। न अस्पृहा देवाः प्रजानन्ति। न अतपा देवाः प्रजानन्ति। न सदृशा देवाः प्रजानन्ति। न सुदर्शना देवाः प्रजानन्ति। न अकनिष्ठा देवाः प्रजानन्ति।}}
07804 तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु
07805 लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परि-
07806 शुद्धेन दिव्येन चक्षुषा दक्षिणस्यां {{दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा }}
07807 ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोप-
07808 पादं यथाभूतं प्रजानाति। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं
07809 दिव्यचक्षुः॥
07810 शारिपुत्र आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञा-
07811 चक्षुः। भगवान् आह। येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो {बोधिसत्त्वो}
07812 महासत्त्वो न कञ्चिद् धर्मं प्रजानाति संस्कृतं वा असंस्कृतं वा कुशलं वा
07813 अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा
07814 निष्क्लेशं लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानम् वा। येन
07815 प्रज्ञाचक्षुषा {बोधिसत्त्वेन} महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो
07816 न विज्ञातः। इदम् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः।
07901 शारिपुत्र आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
07902 भगवान् आह। इह शारिपुत्र {बोधिसत्त्वो} महासत्त्वो धर्मचक्षुषैव जानाति।
07903 अयं पुद्गलः श्रद्धानुसारी। अयं पुद्गलो धर्मानुसारी। अयं पुद्गलः
07904 शून्यताविहारी। अयं पुद्गलो ऽनिमित्तविहारी। अयं पुद्गलो ऽप्रणि-
07905 हितविहारी। अयं पुद्गलः शून्यताविहारी। अस्य पुद्गलस्य शून्यता-
07906 विमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते। पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं
07907 प्रेक्षते। आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति।
07908 विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति। सत्कायदृष्टिं
07909 शीलव्रतपरामर्शविचिकित्सां चेति। अयम् उच्यते पुद्गलः स्रोतआपन्नः।
07910 स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः
07911 सकृदागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन काम-
07912 रागव्यापादप्रहाणादयम् उच्यते पुद्गलो ऽनागामी। स तेनैव भाव-
07913 नामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानमौद्धत्यं च
07914 प्रहायाम् उच्यते पुद्गलो ऽर्हन्। अयं पुद्गलो ऽनिमित्तविहारी अस्य
07915 पुद्गलस्यानिमित्तविमोक्षमुखेण पञ्चेन्द्रियाणि उत्पत्स्यन्ते। {{पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रेक्षते। आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति। विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति। सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति। अयम् उच्यते पुद्गलः स्रोतआपन्नः। स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणादयम् उच्यते पुद्गलो ऽनागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानमौद्धत्यं च प्रहायाम् उच्यते पुद्गलो ऽर्हन्।}}
07916 अयं पुद्गलो ऽप्रणिहितविहारी। अस्य पुद्गलस्याप्रणिहित-
07917 विमोक्षमुखेण पञ्चेन्द्रियाण्य् उत्पस्त्यन्ते। {{पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रेक्षते। आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति। विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति। सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति। अयम् उच्यते पुद्गलः स्रोतआपन्नः। स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणादयम् उच्यते पुद्गलो ऽनागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानमौद्धत्यं च प्रहायाम् उच्यते पुद्गलो ऽर्हन्।}}
07918 इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः॥
08001 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः एवं जानाति यत् किञ्चित् समु-
08002 दयधर्मि सर्वं तन्निरोधधर्मीति प्रजानाति प्रज्ञापारमितायां चरन् पञ्चे-
08003 न्द्रियाणि प्राप्नोति। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
08004 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः एवं जानाति अयं बोधिसत्त्वः
08005 प्रथमचित्तोत्पादिको यो दानपारमितायां वा चरति शीलपार-
08006 मितायां वा चरति स ततः श्रद्धेन्द्रियं प्रतिलभते। वीर्येन्दिर्यं च।
08007 स उपायकौशल्येन समन्वागतः संचिन्त्यात्मभावं परिगृह्णाति कुशल-
08008 मूलोपलम्भश् च भवति। अयं बोधिसत्त्वो ब्राह्मणमहाशालकुलेषूपपत्-
08009 स्यते। अयं क्षत्रियमहाशालकुलेषू{पपत्स्यते}। अयं गृहपतिमहाशालकुलेषू{पपत्स्यते}।
08010 अयं चातुर्महाराजकायिकेषु देवेषू{पपत्स्यते}। अयं त्रयस्त्रिंशेषु देवेषु{पपत्स्यते}। अयं
08011 यामेषु देवेषु{पपत्स्यते}। अयन् तुषितेषु देवेषू{पपत्स्यते}। अयं निर्माणरतिषु देवेषू{पपत्स्यते}।
08012 अयं परनिर्मितवशवर्तिषू देवेषू{पपत्स्यते}। अयं यावद् अकनिष्ठेषु देवेषूपपत्स्यते।
08013 स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति। सर्वमुखोपधानेन च सत्त्वान्
08014 प्रत्युपस्थास्यति बुद्धक्षेत्रं च परिशोधयिष्यति। तथागतांश् चार्हतः सम्यक्-
08015 संबुद्धान् आरागयिष्यति। सत्करिष्यति गुरूकरिष्यति मानयिष्यति
08016 न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति। अयं {बोधिसत्त्वो} महसत्त्वो
08017 न निवर्तते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति। इदं शारि-
08018 पुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
08101 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्व एवं जानाति। अमी {बोधिसत्त्वा} महा-
08102 सत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ। अमी बोधिसत्त्वा न
08103 व्याकृताः। अमी बोधिसत्त्वा अविनिवर्तनीयाः। अमी बोधिसत्त्वा न
08104 अविनिवर्तनीयाः। एषां बोधिसत्त्वानाम् अभिज्ञाः परिपूर्णाः। एषां
08105 बोधिसत्त्वानां न परिपूर्णाः। अयं बोधिसत्त्वो ऽभिज्ञापरिपूर्णः पूर्वस्यां
08106 दिशि यावद् उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा
08107 तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करोति गुरूकरोति मानयति पूजयति।
08108 अयं बोधिसत्त्वो नाभिज्ञापरिपूर्णो यावन् न पूजयति। अयं बोधि-
08109 सत्त्वो ऽभिज्ञानां लाभी भविष्यति। अयं बोधिसत्त्वो नाभिज्ञानां लाभी
08110 भविष्यति। अस्य {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति। अस्य
08111 {बोधिसत्त्वस्य} महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति अनेन बोधिसत्त्वेन सत्त्वाः
08112 परिशोधिताः। {{अस्य बोधिसत्त्वस्य महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति अनेन बोधिसत्त्वेन सत्त्वाः}} न परिशोधिताः अस्य {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धा
08113 भगवन्तो वर्णं भाषन्ते। {{अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धा भगवन्तो वर्णं}} न भाषन्ते। अमी बोधिसत्त्वा बुद्धानां
08114 भगवताम् आसन्नस्थायिनो भविष्यन्ति। {{अमी बोधिसत्त्वा बुद्धानां भगवताम्}} नासन्नस्थायिनो भविष्यन्ति।
08115 अस्य बोधिसत्त्वस्य परिमितम् आयुर् भविष्यति। {अस्य बोधिसत्त्वस्य} अपरिमितम् आयुर् भविष्यति।
08116 अस्य बोधिसत्त्वस्य परिमितः संघो भविष्यति। {{अस्य बोधिसत्त्वस्य}} अपरिमितः
08117 संघो भविष्यति। अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभि-
08118 संबुद्धस्य बोधिसत्त्वसंघो भविष्यति। {{अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य}} न बोधिसत्त्वसंघो भविष्यति।
08201 अयं {बोधिसत्त्वो} महासत्त्वो दुष्करचर्यां चरिष्यति। {{अयं बोधिसत्त्वो महासत्त्वो}} न दुष्करचर्यां
08202 चरिष्यति। अयं बोधिसत्त्वश् चरमभविकः। {{अयं बोधिसत्त्वो}} न चरमभविकः। अयं
08203 बोधिसत्त्वो बोधिमण्डे निषत्स्यते। {{अयं बोधिसत्त्वो बोधिमण्डे}} न निषत्स्यते। अस्य बोधिसत्त्वस्य
08204 मारो भविष्यति। {{अस्य बोधिसत्त्वस्य}} न मारो भविष्यति। एवं हि शारिपुत्र {बोधिसत्त्वस्य}
08205 महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
08206 शारिपुत्र आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धचक्षुः।
08207 भगवान् आह। यच् छारिपुत्र {बोधिसत्त्वो} महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं
08208 समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनु-
08209 प्राप्नोति। दशभिस् तथागतबलैः समन्वागतः। चतुर्भिर् वैशारध्यैश् चतसृभिः
08210 प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकबुद्धधर्मैर् महामैत्र्या महाकरुणया च
08211 समन्वागतः। येन च चक्षुषा {बोधिसत्त्वेन} महासत्त्वेन नास्ति किञ्चिद् अदृष्टं
08212 वा ऽश्रुतं वा ऽमतं वा ऽविज्ञातं वा सर्वैर् आकारैर् एवं हि शारिपुत्र
08213 {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धशक्षुः।
08214 एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन
08215 षट्सु पारमितासु योगः करणीयः। तत् कस्य हेतोः। तथा हि शारिपुत्र
08216 षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश् च सर्व-
08301 प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च यत् खलु शारिपुत्र सम्यग् वदन्तो
08302 वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग् वदन्तो वदेयुः।
08303 तत् कस्य हेतोः। तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां
08304 पारमितानाम् एषां च पञ्चानां बोधिसत्त्वचक्षुषाम्। एषु च शारिपुत्र
08305 पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा {बोधिसत्त्वा} महासत्त्वा अनुत्तरां सम्यक्-
08306 संबोधिम् अभिसंबुध्यन्ते। [इति पञ्चचक्षुरववादः॥]
08307 अत्र शारिप्तुर {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञा-
08308 पारमितां भावयति। सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति। पृथिवी-
08309 म् अपि कम्पयति। एको ऽपि भूत्वा बहुधा भवति। बहुधापि भूत्वा
08310 एको भवति। आविविर्भावं तिरोभावम् अपि प्रत्यनुभवति। तिरःकुड्यं
08311 तिरःप्राकारं तिरःपर्वतम् अप्य् असक्तो गच्छति तद् यथापि नाम
08312 आकाशे पक्षी शकुनिः। पृथिव्याम् अप्य् उन्मज्जनिमज्जं करोति तद्-
08313 यथापि नामोदके। उदके ऽभिद्यमानो गच्छति तद् यथापि नाम पृथि-
08314 व्याम्। धूमायत्य् अपि प्रज्वलत्य् अपि तद् यथापि नाम महान् अग्निस्कन्धः।
08315 उदकम् अपि कायात् प्रमुञ्चति तद् यथापि नाम महामेघः। इमाव् अपि
08401 सूर्यचन्द्रमसौ एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परि-
08402 मार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति। तया च ऋद्ध्या न
08403 मन्यते। तथा हि स ताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न
08404 मन्यते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावा-
08405 नुपलब्धिताम् उपादाय। स न ऋद्धिवेतनाम् अप्य् उत्पादयति न ऋद्ध्यभि-
08406 निर्हारचेतनां वा अन्यत्र सर्वज्ञताम् अनसिकारात्। एवं हि शारिपुत्र
08407 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रिया-
08408 ज्ञानम् अभिनिर्हरति।
08409 स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तम् आनुष्यकेण शब्दान्
08410 शृणोति दिव्यान् मानुष्यकांश् च। न च तेन दिव्येन श्रोत्रेण मन्यते अहं
08411 शब्दान् शृणोमि। तथा हि स तम् अपि शब्दं नोपलभते स्वभाव-
08412 शून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय
08413 स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति न दिव्यश्रोत्राभिनिर्हारचेतनां
08414 वा अन्यत्र सर्वाकारज्ञतामनसिकारात्। एवं हि शारिपुत्र बोधिसत्त्वो
08415 महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रिया-
08416 ज्ञानम् अभिनिर्हरति।
08501 स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति।
08502 सरागचित्तं सरागचित्तम् इति यथाभूतं प्रजानाति। विगतरागं चित्तं
08503 विगतरागं चित्तम् इति यथाभूतं प्रजानाति। सदोषं चित्तं सदोषं
08504 चित्तम् इति यथाभूतं प्रजानाति। वीतदोषं। समोहि चित्तं। वीत-
08505 मोहं। सतृष्णं। वीततृष्णं। सोपादानं। निरुपादानं। संक्षिप्तं।
08506 विक्षिप्तं। परीत्तं चित्तं। विपुलं। महद्गतं। समाहितं। असमाहितं।
08507 विविक्तं। अविविक्तं। सास्रवं। अनास्रवं। साङ्गणं। अनङ्गणं।
08508 सोत्तरं। अनुत्तरं। तेन च न मन्यते। तथा हि ताच् चित्तम् अचित्त-
08509 म् अचिन्त्यताम् उपादाय। सो ऽहं प्रजानामीति न मन्यते। तद् एव चित्तं
08510 नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभा-
08511 वानुपलब्धिताम् उपादाय। न स परचित्तचेतनाम् अप्य् उत्पादयति न
08512 परचित्ताभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्।
08513 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्व-
08514 चित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति।
08601 स पूर्वनिवासानुस्मृतिज्ञानेन एकाम् अपि जातिम् अनुस्मरति द्वे तिस्रो
08602 यावज् जातिशतसहस्राण्य् अप्य् अनुस्मरति। स एकम् अपि चित्तम् अनुस्मरति
08603 यावच् चित्तशतम् अपि। एकम् अपि दिवसं दिवसशतम् अपि। एकम् अपि
08604 मासं मासशतम् अपि। एकम् अपि वर्षं वर्षशतम् अपि। एकम् अपि कल्पं कल्प-
08605 शतम् अपि। अनेकानि अपि कल्पशतान्य् अनेकान्य् अपि कल्पसहस्राण्य् अनेका-
08606 न्य् अपि कल्पशतसहस्राण्य् एकानि अपि कल्पकोटिनियुतशतसहस्राणि
08607 अनुस्मरति यावत् पूर्वान्तकोटीम् अप्य् अनुस्मरति। अमुत्राहम् आसम् एवंनामा
08608 एवंगोत्र एवंजातिः एवमाहार एवंचिरस्थितिकः एवमायुः-
08609 पर्यन्तः। स ततश् च्युतो ऽमुत्रोपपन्नः ततश् च्युत इहास्म्य् उपपन्न इति। स
08610 एवं साकारं सादृशं सनिर्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति। तेन
08611 च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यते। तथा हि तज् ज्ञानम् अज्ञान-
08612 म् अचिन्त्यताम् उपादाय। सो ऽहम् प्रजानामीति न मन्यते। स तद् एव
08613 ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय
08614 स्वभावानुपलब्धिताम् उपादाय। न स पूर्वनिवासानुस्मृतिचेतनाम् अप्य् उ-
08615 त्पादयति। न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वा-
08616 कारज्ञतामनसिकारात्। एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः
08701 प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाज्ञानम् अभि-
08702 निर्हरति।
08703 स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तम् आनुष्यकेण सत्त्वान् पश्यति
08704 च्यवमानानुत्पद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ
08705 दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति। अमी भवन्तः सत्त्वाः काय-
08706 सुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुच-
08707 रितेन समन्वागताः आर्याणाम् अनपवादकाः सम्यग्दृष्टयः तेन
08708 कायवाङ्मनःसुचरितेन हेतुना सुगतौ स्वर्गलोक उपपद्यन्ते। इमे
08709 पुनर्भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः। वाग्दुश्चरितेन
08710 समन्वागताः मनोदुश्चरितेन समन्वागताः आर्याणाम् अपवादकाः
08711 मिथ्यादृष्टयस् ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं
08712 मरणाद् अपाय दुर्गतिविनिपातं नरकेषूपपद्यन्ते। इति हि दिव्येन
08713 चक्षुषा विशुद्धेनातिक्रान्तम् आनुष्यकेण दशदिशि लोके सर्वलोकधातुषु
08714 धर्मधातूपरमे आकाशधातुपर्यवसाने षड्गतिकानां सत्त्वानां च्युतोप-
08715 पादं यथाभूतं प्रजानाति। तेन च न मन्यते। तथा हि तच् चक्षु-
08801 र् अचक्षुर् अचिन्त्यताम् उपादाय सो ऽहं पश्यामीति न मन्यते। तद् एव
08802 चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्ताम् उपादाय
08803 स्वभावानुपलब्धिताम् उपादाय। न स दिव्यचक्षुश् चेतनाम् अप्य् उत्पादयति।
08804 न दिव्यचक्षुर् अभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्।
08805 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षु-
08806 र् अभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति।
08807 सो ऽनुत्पादसाक्षात्क्रिया अभिज्ञानम् अभिनिर्हरति। न च श्रावक-
08808 भूमौ वा प्रत्येकबुद्धभूमौ वा पतति। नाप्य् अन्यं कञ्चिद् धर्मम् आशंसति
08809 अन्यत्रानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यामीति। स तया आस्रवक्षय
08810 साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा
08811 हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय। सो ऽहं प्रजानामीति
08812 न मन्यते। तद् एव ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभाव-
08813 विविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय। न स आस्रव-
08814 क्षयचेतनाम् अप्य् उत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वा अन्यत्र
08815 सर्वाकारज्ञतामनसिकारात्। एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञा-
08816 पारमितायां चरन्न् आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति।
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0