पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 120
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता
00101 नमो भगवद्यै आर्यप्रज्ञापारमितायै॥
00102 निर्विकल्पे नमस् तुभ्यं प्रज्ञापारमिते ऽमिते।
00103 या त्वं सर्वान् अवद्याङ्गि निरवद्यैर् निरीक्ष्यसे॥
00104 आकाशम् इव निर्लेपां निष्प्रपञ्चां निरक्षराम्॥
00105 यस् त्वां पश्यति भावेन स पश्यति तथागतम्॥
00106 तव चार्यगुणाद्याया बुद्धस्य च जगद्गुरोः।
00107 न पश्यन्त्य् अन्तरं सन्तश् चन्द्रचन्द्रिकयोर् इव॥
00108 कृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसराम्।
00109 सुखेनायान्ति माहात्माम् अतुलं भक्तिवत्सले॥
00110 सकृद् अप्य् आशये शुद्धे यस् त्वां विधिवद् ईक्षते।
00111 तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने॥
00201 सर्वेषाम् अपि वीराणां परार्थे नियतात्मनाम्।
00202 पोषिका जनयित्री च माता त्वम् असि वत्सला॥
00203 यद् बुद्धा लोकगुरवः पुत्रास् तव कृपालवः।
00204 तेन त्वम् असि कल्याणि सर्वसत्त्वपितामही॥
00205 सर्वपारमिताभिस् त्वं निर्मलाभिर् अनिन्दिते।
00206 चन्द्रलेखेव ताराभिर् अनुयातासि सर्वदा॥
00207 विनेयं जनमासाद्य तत्र तत्र तथागथैः।
00208 बहुरूपा त्वम् एवैका नानानामभिर् ईड्यसे॥
00209 प्रभां प्राप्येव दीप्तांशोर् अवश्यायोदबिन्दवः।
00210 त्वां प्राप्य प्रलयं यान्ति दोषा वादाश् च वादिनाम्॥
00211 त्वम् एव त्रासजननी बालानां भीमदर्शना।
00212 आश्वासजननी चासि विदुषां सौम्यदर्शना॥
00213 यस्य त्वय्य् अप्य् अभिष्वङ्गस् त्वन्नाथस्य न विद्यते।
00214 तस्यांब कथम् अन्यत्र रागद्वेषौ भविष्यतः॥
00215 नागच्छसि कुतश् चित्तं न च क्वचन गच्छसि।
00216 स्थानेष्व् अपि च सर्वेषु विद्वद्भिर् नोपलभ्यसे॥
00217 ये त्वाम् एवं न पश्यन्ति प्रपद्यन्ते च भावतः।
00218 प्रपद्य च विमुच्यन्ते तद् इदं महद् अद्भुतम्॥
00301 त्वाम् एव बध्यते पश्यन्न् अपश्यन्न् अपि बध्यते।
00302 त्वाम् एव मुच्यते पश्यन्न् अपश्यन्न् अपि मुच्यते॥
00303 अहो विस्मयनीयासि गम्भीरासि यशस्विनी।
00304 सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे॥
00305 बुद्धैः प्रयेकबुद्धैश् च श्रावकैश् च निषेविता।
00306 मार्गस् त्वम् एको मोक्षस्य नास्त्य् अन्य इति निश्चयः॥
00307 व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम्।
00308 कृपया लोकनाथैस् त्वम् उच्यसे च न चोच्यसे॥
00309 शक्तः कस् त्वाम् इह स्तोतुं निर्निमित्तां निरञ्जनाम्।
00310 सर्ववाग्विसयातीता या त्वं क्वचिद् अनिःश्रिता॥
00311 सत्य् एवम् अपि संवृत्या वाक्पथैर् वयम् ईदृशैः।
00312 त्वाम् अस्तुत्याम् अपि स्तुत्वा तुष्टूषन्तः सुनिर्वृताअः।
00313 प्रज्ञापारमितां स्तुत्वा यन् मयोपचितं शुभम्।
00314 तेनास् त्व् आशु जगत् कृत्स्नं प्रज्ञापारपरायणम्॥
00401 एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म
00402 गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः
00403 क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयै-
00404 र् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्रस्वकार्थैः परिक्षीण-
00405 भवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः,
00406 पञ्चमात्रैर् भिक्षुणीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अपरि-
00407 माणैर्श् च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः
00408 शून्यताविहारिभिर् अनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रति-
00409 लब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकुहकैर् अलपकैर् अरपगत-
00410 ज्ञात्रलाभचित्तैर् निरामिषधर्मदेशकैर् गंभीरधर्मक्षान्तिपारंगतैर् वैशारद्य-
00411 प्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्ति-
00412 निर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभि-
00413 र् विगतभृकुटीमुखैर् गाथाभिर् गीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रति-
00414 भानैर् अनन्तपर्षदभिभवनवैशारद्यसमन्वागैर् अनन्तकल्पकोटीनिःसरणकुशलै-
00415 र् मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्मा-
00501 धिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तै-
00502 र् अधिमात्रक्सान्तिसमन्वागतैर् याथात्मावतारणकुशलैः सर्वबुद्धक्षेत्रआनन्तव्यूह-
00503 प्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहित-
00504 सततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यव-
00505 स्थानक्लेशप्रशमनकुशलैः समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः तद् यथा
00506 भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नर-
00507 दत्तेन च वरुणदत्तेन च शुभगुप्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेष-
00508 मतिना च वर्धमानमतिना च अमोघदर्शिना च सुसम्प्रस्थितेन च सुवि-
00509 क्रान्तविक्रमिणा च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च सूर्यगर्भेण च
00510 अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जु-
00511 श्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योक्षिप्तहस्तेन च मैत्रे-
00512 येण च बोधिसत्त्वेन महासत्त्वेन एवम् प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुत-
00513 शतसहस्रैः सार्धम्।
00514 अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कं बद्ध्वा
00515 ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिम् उपस्थाप्य समाधिराजं नाम
00516 समाधिं समापद्यते स्म यत्र सर्वसमाधयो ऽन्तर्गमान् संग्रहं समव-
00517 सरणं गच्छन्ति।
00518 अथ खलु भगवान् स्मृतिमान् सम्प्रजानंस् तस्मात् समाधेर् व्युत्थाय
00601 दिव्येन चक्षुषा सर्वलोकधातुं व्यवलोक्य सर्वकायात् स्मितम् अकरोत्।
00602 तस्याधस्तात् पादतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टीरश्मिकोटी-
00603 नियुतशतसहस्राणि निश्चेरुः दशभ्यः पादाङ्गुलिभ्यः षष्टिषष्टीरश्मिकोटी-
00604 नियुतशतसहस्राणि निश्चेरुः। एवं षष्टिषष्टिगुल्फाभ्यां षष्टिषष्टिर् जंघाभ्यां
00605 षष्टिषष्टिर् जानुमण्डलाभ्याम् एवं द्वाभ्याम् ऊरुभ्यां कटिनाभिमण्डलाभ्यां द्वाभ्यां
00606 पार्श्वाभ्यां हृदयश्रीवत्सात् महापुरुषलक्षणात्। एवं षष्टिषष्टिर् दशभ्यो
00607 हस्ताङ्गुलिभ्यः षष्टिषष्टिर् द्वाभ्यां बाहुभ्यां षष्टिषष्टिर् द्वाभ्याम् अंशाभ्याम् एवं ग्रीवा-
00608 याश् चत्वारिंशद्भ्यो दन्तेभ्यो द्वाभ्यां घ्राणाभ्यां द्वाभ्यां श्रोत्राभ्यां द्वाभ्यां
00609 चक्षुर्भ्यां मध्यादूर्णाया उपरिष्टाद् उष्णीषात् षष्टिषष्टी रश्मिकोटीनियुत-
00610 शतसहस्राणि निश्चेरुः यै रश्मिभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधाउर् अ-
00611 वभासितो ऽभूत् परिस्फुटः। पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक-
00612 धातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्। एवं दक्षि-
00613 णस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां
00614 पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातव-
00615 स् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्। ये च सत्त्वास् तेन
00616 महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन् अनु-
00617 त्तरायां सम्यक्सम्बोधौ।
00701 अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः स्मितम् अकरोत्। एवकिकतश् च
00702 रोमकूपात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः। यैर् अयं
00703 त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटो ऽभूत्। तैश् च पूर्वस्यां
00704 दिशि गङ्गानदीवालुकोपमाः सर्वलोकधातवो ऽवभासेनावभासिताः स्फुटा-
00705 श् चाभूवन्। एवं दक्षिणस्यां {{दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्। ये च सत्त्वास् तेन महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन् अनुत्तरायां}} सम्यक्-
00706 सम्बोधौ।
00707 अथ खलु भगवान् पुनर् एव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया
00708 प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासयामास। यावत् सर्वासु
00709 दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवयस् ता
00710 प्रभया अवभासिता अभूवन्। ये च सत्त्वास् तया प्रभया स्पृष्टास् ते सर्वे
00711 नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ॥
00712 अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्णामयामास। येनेमं
00713 त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास। त्रिसाहस्र-
00714 महासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा तस्माज् जिह्वेन्द्रियात् स्मित-
00715 म् अकरोत्। यतो ऽनेकानि रश्मिकोटीनियुतशतसहस्राणि निश्चेरुः।
00716 रश्मिमुखे चैकैकस्मिन्न् उत्तमरत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि
00717 पद्मान्य् उत्पन्नान्य् अभूवन्। तेषु च पद्मेषु बुद्धविग्रहा निषणाः संस्थिता-
00718 श् चाभूवन् धर्मं देशयन्तो यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्म-
00719 देशनाम्। ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमव्यतिवृत्तासंख्येषु लोक-
00720 धातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म। एवं दक्षिणस्यां पश्चिमाया-
00801 म् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु। एवकिकस्यां च दिशि दशसु दिक्षु गङ्गा-
00802 नदीवालुकोपमेषु अपरिमाणेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति
00803 स्म यद् उत इमाम् एव च षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्। ये च सत्त्वा-
00804 स् तां धर्मदेशनां शृण्वन्ति ते नियता भवन्त्य् अनुत्तरायां सम्यक्सम्बोधौ।
00805 अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषणः सिंहविक्रीडितं
00806 नाम समाधिं समापेदे। तथारुपं चर्द्ध्यभिसंस्कारम् अभिसंस्करोति स्म
00807 यथारूपेणर्द्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोक-
00808 धातुः षड्विकारम् अकम्पत प्राकम्पत संप्राकम्पत। अचलत् प्राचलत्
00809 संप्राचलत्। अवेधत् प्रावेधत् संप्रावेधत्। अरणत् प्रारणत्
00810 संप्रारणत्। अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्। अगर्जत् प्रागर्जत्
00811 संप्रागर्जत्। अन्ते उन्नमति मध्ये अवनमति, मध्ये उन्नमति अन्ते
00812 अवनमति। मृदुकः स्निग्धः सर्वसत्त्वमुखजननो ऽभूत्।
00813 अथ खलु तेन क्षणलवमुह्वर्तेन ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोक-
00814 धातौ निरया वा तिर्यग्योनयो वा यमलोका वा ते सर्वे समुच्छिन्नाः
00815 शून्या अभूवन्। सर्वाक्षणाश् चास्तमिता अभूवन्। ये च सत्त्वास् ताभ्यो
00816 निरयतिर्यग्योनियमलोकगतिभ्यश् च्यूतास् ते सर्वए तेनैव प्रीतिप्रामोद्येन
00817 मनुष्याणां सभागतायाम् उपपन्नाश् चाभूवन्। एवं चातुर्महाराअजिकानां
00818 देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मित-
00819 वशवर्तिनां देवानां सभागतायाम् उपपन्नाश् चाभूवन्।
00901 अथ खलु ते मनुष्यास् ते च देवा भगवत एवानुभावेन पूर्वजन्मान्य् अनु-
00902 स्मरन्ति स्म। अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन येन भगवांस् तेनोप-
00903 संक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तं
00904 प्राञ्जलयो भूत्वा नमस्यन्ति स्म। एवं पूर्वस्य्ं दिशि गङ्गानदीवालुकोप-
00905 मेषु लोकधातुषु दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधः समन्ता-
00906 द् दशसु दिक्ष्वैकस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वे
00907 निरयाः सर्वास् तिर्यग्योनयः सर्वे यमलोकाः समुच्छिन्नाः शून्या अभूवन्।
00908 सर्वाक्षणाश् चास्तमिता अभूवन्। ये च सत्त्वास् ताभ्यो निरयतिर्यग्योनि-
00909 यमलोकगतिभ्यश् च्युतास् ते सर्वे देवमनुष्येषूपपद्यन्ते स्म। ते च देवम् अनु-
00910 ष्येषूपपन्ना भगवत एवानुभावेन पूर्वनिवासम् अनुस्मरन्ति स्म। अनुस्मृत्य च
00911 तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र बुद्धा भगवन्त उत्पन्ना-
00912 स् तेषाम् अन्तिकम् उपसंक्रान्ताः। उपसंक्रम्य तेषां बुद्धानां भगवतां पाद-
00913 वन्दनां कृत्वा सर्वे प्राञ्जलयो भूत्वा भगवतो नमस्यन्ति स्म।
00914 अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः
00915 सत्त्वास् ते चक्षुषा रूपाणि पश्यन्ति स्म। वधिराः सत्त्वाः श्रोत्रेण शब्दान्
00916 शृण्वन्ति स्म। उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म। विक्षिप्तचित्ता
00917 एकाग्रचित्ता भवन्ति स्म। जिघत्सिताः पूर्णपात्रा भवन्ति स्म।
00918 तृषिता विगतपिपासा भवन्ति स्म। रोगस्पृष्टा विअगतरोगा भवन्ति
00919 स्म। हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म। अविरहिताकुशल-
00920 कायवाङ्मनस्कर्मान्ताजीवाविरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवाश् च
01001 भवन्ति स्म। सर्वसत्त्वाश् च मातापितृसमचित्ता भवन्ति स्म, भ्रातृभगिनी-
01002 समचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथ-
01003 सेविनश् च भवन्ति स्म। ब्रह्मचारिणः शुचयो निरामयगन्धाः सर्वसत्त्वाश् च
01004 सर्वसुखसमर्पिता ईदृशं सुखं प्रत्लभन्ते स्म तद् यथापि नाम तृतीयध्यान-
01005 समापन्नस्य भिक्षोः तस्मिन्न् एव च समये एवंरूपया प्रज्ञया ते समन्वागता
01006 भवन्ति स्म। यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवम् उदानयन्ति स्म
01007 साधु दमः साधु संयमः साधु वीर्णो ब्रह्मचर्य्यावासः साधु प्राणिभूते-
01008 ष्व् अविहिंसेति।
01009 अथ खलु भगवांस् तस्मिन्न् एव संहासने निषनः इमं त्रिसाहस्रमहा-
01010 साहस्रं लोकधातुम् अभिभूय तथागतस् तिष्ठति भासते तपति विरोचते स्म
01011 आभया वर्णेन श्रिया तेजसा च। पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया-
01012 म् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय
01013 तथागतस् तिष्ठति भासते। तद् यथापि नाम सुमेरुः पर्वतराजः सर्वपर्वता-
01014 न् अभिभूय तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} तेजसा च।
01015 एवम् एव भगवान् सर्वलोकधातून् अभिभूय तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}}
01016 तेजसा च। एवम् एव भगवान् सर्वलोकधातून् अभिभूय
01017 तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} तेजसा च।
01018 अथ खलु भगवान् पुनर् एव यादृक् त्रिसाहस्रमहासाहस्रलोकधातौ
01019 सत्त्वानाम् आत्मभावस् तत्समानम् आत्मभावं प्राकृतम् उपदर्शयामास। अथ खलु
01020 ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रलोकधातौ शुद्धावासकायिका देवाः शुभ-
01101 कृत्वा आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश् च निर्माण-
01102 रतयश् च तुषिताश् च यामाश् च त्रयस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते
01103 तं तथागस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविले-
01104 पनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर् गृहीत्वा दिव्यानि उत्पलकुमुद-
01105 सौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि
01106 गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः। ये चेह
01107 त्रिसाहस्रमहासाहस्रलोकधातौ मनुष्यास् ते ऽपि तं तथागतस्यासेचनक-
01108 म् आत्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्या-
01109 सेचनक आत्मभावस् तेनोपसंक्रान्ताः।
01110 अथ खलु ते देवास् ते च मानुषास् ताभिर् दिव्याभिः पुष्पधूपगन्ध-
01111 माल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस् तैश् च स्थलजलजैः
01112 पुष्पैस् तथागतकायम् अवकिरन्ति स्म अभ्यवकिरन्ति स्म।
01113 अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वज-
01114 पताकावैजयन्तीवर्षैः स्थलजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि च सर्वाणि
01115 उपर्य् अन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाण-
01116 म् एकं कूटागारं संस्थितम् अभूत्। ततश् च कूटागारात् तानि दिव्यानि
01117 पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म। तैश् च पुष्पदामभिः पट्टदामभि-
01118 श् चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीवाशोभत। तेन च सुवर्ण-
01119 वर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गा-
01201 नदीवालुकोपमा लोकधातवः स्फुटावभासिताश् चाभूवन्। अस्मिंश् च
01202 त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां
01203 देवमनुष्याणाञ् च एकैकस्यैतद् अभूत्। मम पुरतस् तथागतो निषणो
01204 धर्म्मं देशयतीति।
01205 अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषणः पुनर् एव स्मितम् अकरोत्।
01206 येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रलोकधातुः स्फुटो ऽभूत्।
01207 यावद् दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवः स्फुटा अभूवन्। ये
01208 च त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वास् ते सर्वे पूर्वस्यां दिशि गङ्गा-
01209 नदीवालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्
01210 तस्याञ् च पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते
01211 सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं
01212 भिक्षुसंघेन। एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां
01213 दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वं दिग्भागं गङ्गानदीवालु-
01214 कोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्। तेषु
01215 च गङानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोक-
01216 धातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिकुसंघेन।
01217 अथ खलु पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य
01218 तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम
01219 तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव
01220 प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र लोकधातौ
01221 समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च
01222 महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान्
01223 रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः
01224 पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः
01301 प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवी-
01302 चालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते
01303 रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद् अवोचत्। अस्ति कुलपुत्र
01304 इतः पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा
01305 नाम लोकधतुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति
01306 ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्र-
01307 काशयति तस्यायाम् ईदृशो ऽनुभावः।
01308 अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्।
01309 गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्श-
01310 नाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन
01311 कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधि-
01312 वशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं
01313 कालं मन्यसे।
01314 अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि
01315 सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं
01316 कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो
01317 भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां
01318 बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्ना-
01319 करेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत
01320 इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतो-
01321 र् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः।
01401 अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्
01402 तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि
01403 अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिका-
01404 भिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु
01405 लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्प-
01406 धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा
01407 लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः।
01408 उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते
01409 स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्ना-
01410 करो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां
01411 यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता
01412 रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि
01413 पद्मानि प्रेषितानि भगवतः।
01414 अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा
01415 येन ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन प्राक्षिपत्।
01416 तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहा-
01417 निषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापार-
01418 मिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता
01419 अभूवन् अनुत्तरायां सम्यक्सम्बोधौ।
01420 अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारका-
01421 स् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन
01422 महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं
01423 सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
01501 अथ खलु दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुः
01502 सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति। अथ
01503 तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति
01504 कुलपुत्र इत उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः। अथ
01505 खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्।
01506 तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01507 अथ खलु पश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वासानिको लोकधातुर् उपशान्ता
01508 नाम तत्र रत्नार्चिर् नाम तह्तागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति। अथ तत्र लोकधातौ
01509 चारित्रमतिर् नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति कुलपुत्र इतः पूर्वस्यां
01510 दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः। अथ खलु भगवान्
01511 शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पश्चिमायां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}}
01512 न्यषीदन्।
01513 अथ खलु उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वासानिको लोकधातुर् जया
01514 नाम तत्र जयेन्द्रो नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति। अथ तत्र लोक-
01515 धातौ जयदत्तो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति कुलपुत्र इतो
01516 दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः। अथ खलु भगवान्
01601 शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}}
01602 न्यषीदन्।
01603 अथ खलु उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुः समा-
01604 ध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति।
01605 अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्।
01606 अस्ति कुलपुत्र इतो दक्षिणपश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}}
01607 भगवतः। अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}}
01608 प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01609 अथ खलु पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् बोधि-
01610 मण्डलाकारसुरुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति।
01611 अथ तत्र लोकधातौ पद्महस्तो नाम तत्र बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति
01612 कुलपुत्र इतः पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः।
01613 अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्।
01614 तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01615 अथ खलु दक्षिणपश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातु-
01616 र् विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}}
01617 देशयति। अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्।
01618 अस्ति कुलपुत्र इत उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}}
01619 भगवतः। अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते दक्षिणपश्चिमायां
01620 दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01621 अथ खलु पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् वशी-
01622 भुता नाम तत्रैकच्छत्त्रो नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति। अथ तत्र
01623 लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति कुलपुत्र
01701 इतः पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः।
01702 अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}}
01703 प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01704 अथ खल्व् अधस्ताद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सवावसानिको लोकधातुः पद्मा नाम तत्र
01705 पद्मश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति। अथ तत्र लोकधातौ पद्मोत्तरो नाम
01706 बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति कुलपुत्र इत उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम
01707 लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः। अथ कह्लु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते अधस् ता-
01708 द् दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01709 अथ खलु उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् नन्दा नाम
01710 तत्र नन्दश्रीर् नाम तथागतः {{ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति। स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति। अथ तत्र लोकधातौ नन्द-
01711 दत्तो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय। एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्। अस्ति कुलपुत्र इतो ऽधस्ताद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}}
01712 सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्। गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे। अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्। एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः। एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः। येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्। एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्। रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः। अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}}
01713 येन ते उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्। तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्।
01714 अथ खलु तेन क्षणलवमुर्ह्वर्तेन अयं त्रिसाहस्रमहासाहस्रो लोक-
01715 धातुः सप्तरत्नमयः संस्थितो ऽभूत् पुष्पाभिकीर्नः। अवसक्तपट्टदामकलापः
01716 कल्पवृक्षैर् नानालङ्कारफलावनताग्रविटपैः पुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षै-
01717 र् माल्यवृक्षैश् चोपशोभितो ऽभूत्। तद् यथापि नाम पद्मावती लोकधातुः
01718 समन्तकुसुमस्य तथागतस्य बुद्धक्षेत्रं यत्र मञ्जुश्रीः कुमारभूतः प्रतिवसति
01719 सुस्थितमतिश् च बोधिसत्त्वः अन्ये च महौजस्का बोधिसत्त्वाः। भगवां-
01720 श् चाद्राक्षीत् सदेवलोकं सन्निपतितं समारकं सब्रह्मकं सश्रमणब्राह्मणिकां
01721 प्रजां सन्निपतितांस् तांश् च बोधिसत्त्वान् कुमारभूतान्॥ [इति निदानम्]॥
01722 तत्र खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयामास। सर्वाकारं
01801 शारिप्तुर सर्वधर्मानभिसम्बोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार-
01802 मितायां योगः करणीयः॥ [इति समासतः सम्बोधिकामनासहगत-
01803 श् चित्तोत्पादः॥]
01804 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अचोवत्। कथं भगवन्
01805 बोधिसत्त्वेन महासत्त्वेन सर्वाकारं सर्वधर्मानभिसम्बोद्धुकामेन प्रज्ञा-
01806 पारमितायां योगः करणीयः।
01807 एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एवद् अवोचत्। इह शारिपुत्र
01808 बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा ऽस्थानयोगेन दान-
01809 पारमिता परिपूरयितव्या अपरित्यागयोगेन देयदायकप्रतिग्राहकानुप-
01810 लब्धिताम् उपादाय। शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्या-
01811 पत्तिताम् उपादाय। क्षान्तिपारमिता परिपूरयितव्या अक्षोभणताम् उपादाय।
01812 वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनताम् उपा-
01813 दाय। ध्यानपारमिता परिपूरयितव्या अनास्वादनताम् उपादाय।
01814 प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपदाय॥
01815 [इति व्यासतः सम्बोधिकामनासहगतश् चित्तोत्पादः॥]
01816 पुनर् अपरं शारिपुत्र दशदिक्षु प्रत्येकं गङ्गानदीवालुकोपमेषु लोक-
01817 धातुषु ये सत्त्वास् तान् सर्वान् अनुपधिशेषनिर्वाणधातौ परिनिर्वापयितु-
01818 कामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति
01819 समासतः परार्थालम्बनश् चित्तोत्पादः॥]
01820 एवं मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन दुःशीलान्
01821 शीले व्यापादबहुलान् क्षान्तौ कुशीदान् वीर्ये विक्षिप्तचित्तान् ध्याने
01901 दुष्प्रज्ञान् प्रज्ञासम्पदि प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन
01902 प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति व्यासतः परार्थालम्बनश् चित्तो-
01903 त्पादः॥]
01904 पुनर् अपरं शारिपुत्र सर्वाकारं सर्वधर्मान् अभिसम्बोद्धुकामेन बोधिसत्त्वेन
01905 महासत्त्वेन प्रज्ञापारमिताय्ं स्थातव्यम्॥ [इति च्छन्दसहगतः पृथिव्यु-
01906 पमः॥]
01907 एवम् इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा-
01908 ऽस्थानयोगेन दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुप-
01909 लब्धिताम् उपादाय। एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता
01910 ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिता-
01911 म् उपादाय॥ [इत्य् आशयसहगतः कल्याणसुवर्णोपमः॥]
01912 एवं प्रज्ञापारमितायां शारिपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन
01913 चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि चत्वारि सम्यक्प्रहाणानि
01914 चत्वारि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्या-
01915 ष्टाङ्गमार्गः परिपूरयितव्यः। शून्यतासमाधिर् भावयितव्यः। अनिमित्त-
01916 समाधिर् भावयितव्यः। अप्रणिहितसमाधिर् भावयितव्यः। एवं चत्वारि
01917 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः
01918 नवानुपूर्वविहारसमापत्तयः नवाशुभाः संज्ञा भावयितव्याः। कतमा
01919 नव। यद् उत आध्मातकसंज्ञा विधूतकसंज्ञा विपूयकसंज्ञा विलो-
02001 हितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा विदग्धक-
02002 संज्ञा अस्थिसंज्ञा। आहारे प्रतिकूलसंज्ञा भावयितव्या। बुद्धानुस्मृति-
02003 र् भावयितव्या। संघानुस्मृतिर् भावयितव्या। शीलानुस्मृतिर् {भावयितव्या}। त्यागानु-
02004 स्मृतिर् {भावयितव्या}। देवतानुस्मृतिर् {भावयितव्या}। आनापानानुस्मृतिर् {भावयितव्या}। उद्वेगानु-
02005 स्मृतिर् {भावयितव्या}। मरणानुस्मृतिर् {भावयितव्या}। अनित्यसंज्ञा {भावयितव्या}। दुःखसंज्ञा {भावयितव्या}।
02006 अनात्मसंज्ञा {भावयितव्या}। अशुचिसंज्ञा {भावयितव्या}। मरणसंज्ञा {भावयितव्या}। सर्वलोके
02007 अनभिरतिसंज्ञा {भावयितव्या}। सर्वलोके अविश्वाससंज्ञा {भावयितव्या}। परिजयसंज्ञा-
02008 नम् भावयितव्यम्। संवृतिसंज्ञानम् भावयितव्यम्। यथारुतसंज्ञान-
02009 म् भावयितव्यम्। सवितर्कः सविचारः समाधिर् भावयितव्यः। अवितर्को-
02010 ऽविचारमात्रः समाधिर् भावयितव्यः। अवितर्को ऽविचारः समाधिर् भाव-
02011 यितव्यः। अनाज्ञातम् आज्ञास्यामीन्द्रियम् भावयितव्यम्। आज्ञेन्द्रियम् भावयि-
02012 तव्यम्। आज्ञातावीन्द्रियम् भावयितव्यम्। अभिभ्वायतनम् भावयितव्यम्।
02013 कृत्स्नायतनम् भावयितव्यम्। सर्वज्ञज्ञानम् भावयितव्यम्। शमथविप-
02014 श्यने भावयितव्ये तिस्रो विद्या भावयितव्याः। चतस्रः प्रतिसंविदो
02015 भावयितव्याः। चत्वारि चैशारद्यानि भावयितव्यानि। अच्युताः
02101 पञ्चाभिज्ञा भावयितव्याः। षट् पारमिता भावयितव्याः। सप्त धनानि
02102 भावयितव्यानि। अष्टौ महापुरुषवितर्का भावयितव्याः। दश तथा-
02103 गतबलानि भावयितव्यानि। अष्टादशावेणिका बुद्धधर्मा भावयितव्याः।
02104 महामैत्री {भावयितव्या}। महाकरुणा {भावयितव्या}। महामुदिता {भावयितव्या}। महोपेक्षा
02105 {भावयितव्या}॥ [इत्य् अध्याशयसहगतो नवचन्द्रोपमः॥]
02106 सर्वज्ञतां ज्ञानेन दर्शनेन चावलोक्यातिक्रमितुकामेन बोधिसत्त्वेन
02107 महासत्त्वेन प्रज्ञापारमिता भावयितव्या। मार्गज्ञतां परिपूरयितुकामेन
02108 सर्वाकारज्ञताम् अनुप्राप्तुकामेन सर्वसत्त्वचित्तचरितज्ञानाकारतां परि-
02109 पूरयितुकामेन सर्ववासनानुसन्धिक्लेशानुत्पाटयितुकामेन बोधिसत्त्वेन
02110 महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः। एवं बोधिसत्त्वेन महा-
02111 सत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। बोधिसत्त्वन्यामभवक्रमितुकामेन
02112 श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमितुकामेन अविनिवर्तनीयभूमौ स्थातुकामेन
02113 कुमारभूमिं समतिक्रमितुकामेन षडभिज्ञाः प्राप्तुकामेन सर्वसत्त्वचित्त-
02114 चरितविस्पन्दितानि विज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञान-
02115 म् अभिभवितुकामेन धारणीसमाधिसुखं प्रतिलब्धुकामेन॥ [इति प्रयोग-
02116 सहगतो ज्वलनोपमः॥]
02117 मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येक-
02118 बुद्धेभ्यो दानानि दीयमानानि एकेनानुमोदनासहगतेन चित्तोत्पादेना-
02119 भिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥
02120 [इति दानपारमितासहगतो महानिधानोपमः॥]
02201 दुःशीलान् शीले {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} शीलम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति शीलपारमिता-
02202 सहगतो रत्नाकरोपमः।]
02203 व्यापन्नचित्तान् क्षान्तौ {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} क्षान्तिम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति क्षान्तिसह-
02204 गतो महार्णवोपमः।]
02205 कुशीदान् वीर्ये {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} वीर्यम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति वीर्यसहगतो
02206 वज्रोपमः।]
02207 विक्षिप्तचित्तान् ध्याने {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} ध्यानम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति ध्यानपारमिता-
02208 सहगतः पर्वतोपमः।
02209 दुष्प्रज्ञान् सत्त्वान् प्रज्ञायां {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} प्रज्ञाम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति प्रज्ञासहगतो
02210 महाभैषज्योपमः।
02211 एकम् अपि कुशलचित्तोत्पादं सर्वाकारज्ञतायाम् उपादाय कौशल्येन
02212 परिणामनयाऽप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा-
02213 पारमितायां शिक्षितव्यम्। अल्पम् अपि दानं ददता अल्पम् अपि शीलं
02214 रक्षता अल्पाम् अपि क्षान्तिं भावयता अल्पम् अपि वीर्यम् आरभमाणेन
02215 अल्पम् अपि ध्यानं समापद्यमानेनाल्पाम् अपि प्रज्ञां भावयता सर्वसत्त्वेभ्यः
02216 सर्वाकारज्ञतायाम् उपादाय कौशल्येन परिणामनयाऽप्रमेयम् असंख्येयं कर्तु-
02217 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन
02218 दानपारमितायां चरता प्रज्ञापारमितायां शिक्षितव्यम्। एवं शील-
02219 पारमितायाञ् चरता क्षान्तिपारमितायाञ् चरता वीर्यपारमितायाञ् चरता
02220 ध्यानपारमितायाञ् चरता प्रज्ञापारमितायाञ् चरता बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। सर्व-
02301 सत्त्वानाम् अर्थाय नरकतिर्यग्योनियमलोकदुःखान्य् उत्सोढुकामेन कल्प-
02302 शतसहस्रसञ्चितम् अपि शीलं सत्त्वापेक्षया त्यक्तुकामेन बुद्धकुले उपपत्तु-
02303 कामेन अशीत्यनुव्यञ्जनानि द्वात्रिंशत्महापुरुषलक्षणानि च निष्पादयितु-
02304 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इत्य् उपायसहगतो मित्रोपमः॥]
02305 पुनर् अपरं शारिपुत्र बुद्धकायं निष्पादयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
02306 कुमारभूमिम् आक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। बुद्धबोधिसत्त्वैर् अविरहितेन
02307 भवितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
02308 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकेन स्वरेन पूर्वस्यां दिशि
02309 गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां
02310 शिक्षितव्यम्। एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षु अध ऊर्ध्व-
02311 म् एकेन स्वरेण गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन
02312 प्रज्ञापारमितायां शिक्षितव्यम्।
02313 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशस्यानुपच्छेदाय
02314 स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।
02315 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यैः यैः कुशलमूलै-
02316 र् आकाङ्क्षति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुं गुरूकर्तुं मानयितुं
02317 पूजयितुं तानि तानि मे कुशलमूलानि समृध्यन्ताम् इति बोधिसत्त्वेन
02318 {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति प्रणिधिसहगतश् चिन्तामणिसदृशः॥]
02319 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानां मनोरथान्
02320 परिपूरयितुकामेन अन्नपानवस्त्रगन्धमाल्यपुष्पधूपचूर्णविलेपनशयनासन-
02321 गृहधनधान्यालङ्काररत्नमणिमुक्तावैदुर्यशङ्खशिलाप्रवाडजातरूपरजतो-
02322 द्यानराज्यादिभिर् उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम्।
02401 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमे लोके
02402 आकाशधातुपर्यवसाने सर्वसत्त्वान् दानपारमितायां प्रतिष्ठापयितुकामेन
02403 शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपार-
02404 मितायां प्रज्ञापारमितायां प्रतिष्ट्ःआपयितुकामेन प्रज्ञापारमितायां
02405 शिक्षितव्यम्। पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकम् अपि
02406 कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन यावद् बोधिमण्डाभिसंबोधेर् इति
02407 प्रज्ञापारमितायां शिक्षितव्यम्। पुनर् अपरं शारिपुत्र ये दशसु दिक्षु
02408 बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति बल-
02409 सहगत आदित्योपमः॥]
02410 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अध्यात्मशून्यतायां
02411 शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। एवं बहिर्धाशून्यताया-
02412 म् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायाम् महाशून्यतायां परमार्थ-
02413 शून्यतायां संस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां अन-
02414 वकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यताया-
02415 म् अनुपलम्भशून्यतायाम् अभावस्वभावशून्यतायां भावशून्यतायाम् अभावशून्य-
02416 तायां स्वभावशून्यतायां परभावशून्यतायां शिक्ष्तुकामेन बोधि-
02417 सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
02418 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मतथताम् अवबोद्धु-
02419 कामेन प्रज्ञापारमितायां शिक्षितव्यम्। एवं धर्मधातुतथताम् अवबोद्धु-
02420 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। सर्वभूतकोटीतथताम् अवबोद्धुकामेन बोधि-
02421 सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
02501 पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ ये पृथिव्यप्ते-
02502 जोवायुपरमाणवस् तान् ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा-
02503 पारमितायां शिक्षितव्यम्।
02504 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
02505 चरञ् जानाति एवं दानं दत्तं महाफलं भवति। एवं दानं दत्तं क्षत्रिय-
02506 महाशालकुलेषूपपादयति। ब्राह्मनमहाशालकुलेषूप{पादयति}। गृहपति-
02507 महाशालकुलेषूप{पादयति}। एवं {दानं दत्तं} चातुर्महाराजकायिकेषु देवेषूप{पादयति}। एवं {दानं दत्तं}
02508 त्रयस्त्रिंशेषु देवेषूप{पादयति}। एवं {दानं दत्तं} यामेषूप{पादयति}। एवं {दानं दत्तं} तुषितेषूप{पादयति}। एवं {दानं दत्तं}
02509 निर्माणरतिषूप{पादयति}। एवं {दानं दत्तं} परनिर्मितवशवर्तिषु देवेषूप{पादयति}। एवं {दानं दत्तं} प्रथमध्यान-
02510 प्रतिलम्भाय संवर्तते। एवं {दानं दत्तं} द्वितीयध्यानप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} तृतीयध्यान-
02511 प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} चतुर्थध्यानप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} आकाशानन्त्यायतनसमापत्ति-
02512 प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} विज्ञानानन्त्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} आकिञ्च-
02513 न्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} नैवसंज्ञानासंज्ञायतनसमापत्तिप्रति{लम्भाय संवरत्ते}।
02514 एवं {दानं दत्तम्} सप्तत्रिंशद्बोधिपक्षाणां धर्माणां प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} स्रोतआपत्तिफल-
02515 प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} सकृदागामिफलप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तम्} अनागामिफलप्रति{लम्भाय संवर्तते}।
02516 एवं {दानं दत्तम्} अर्हत्फलप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} प्रत्येकबुद्धत्वप्रति{लम्भाय संवर्तते}। एवं सम्यक्सं-
02517 बुद्धत्वप्रति{लम्भाय संवर्तते}।
02518 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता
02519 ज्ञातव्यम् एवम् उपायकौशलेन दानं दत्तं दानपारमितां परिपूरयति। एवं
02520 दानं दत्तं शील{पारमितां परिपूरयति}। एवं {दानं दत्तं} क्षान्ति{पारमितां परिपूरयति}। एवं {दानं दत्तं} वीर्य{पारमितां परिपूरयति}। एवं {दानं दत्तं}
02521 ध्यान{पारमितां परिपूरयति}। एवं {दानं दत्तं} प्रज्ञा{पारमितां परिपूरयति}।
02601 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अचोवत्। कथं भगवन्
02602 बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता
02603 भवति। कथं {दानं ददता} शील{पारमिता परिपूरिता भवति}। कथं {दानं ददता} क्षान्ति{पारमिता परिपूरिता भवति}। कथं {दानं ददता} वीर्य-
02604 {पारमिता परिपूरिता भवति}। कथं {दानं ददता} ध्यान{पारमिता परिपूरिता भवति}। कथं भगवन् बोधिसत्त्वेन दानं ददता
02605 प्रज्ञा{पारमिता परिपूरिता भवति}।
02606 भगवान् आह। अनुपलम्भेन देयस्य दायकस्य ग्राहकस्य च दानपार-
02607 मिता परिपूरिता भवति। आपत्त्यनापत्त्यनध्यापत्तितः शील{पारमिता परिपूरिता भवति}।
02608 अक्षोभानभिक्षोभणतः क्षान्ति{पारमिता परिपूरिता भवति}। कायिकचैतसिकवीर्यास्रंसनतो
02609 वीर्य{पारमिता परिपूरिता भवति}। अविक्षेपासंकल्पनताम् उपादाय ध्यान{पारमिता परिपूरिता भवति}। सर्वधर्म-
02610 प्रजाननानुपलम्भयोगेन प्रज्ञा{पारमिता परिपूरिता भवति}। एवं बोधिसत्त्वेन महासत्त्वेन
02611 दानं ददता षट् पारमिताः परिपूरिता भवन्ति। एवं शीलपारमितायां
02612 सर्वाः षट् पारमिताः परिपूर्यन्ते। एवं क्षान्तिपारमितायां सर्वाः
02701 षट् पारमिताः परिपूर्यन्ते एवं वीर्यपारमितायां सर्वाः {षट् पारमिताः परिपूर्यन्ते} एवं ध्यान-
02702 पारमितायां सर्वाः {षट् पारमिताः परिपूर्यन्ते} एवं प्रज्ञापारमितायां सर्वाः {षट् पारमिताः परिपूर्यन्ते}॥ [इति ज्ञान-
02703 सहगतो मधुरसङ्गीतिभाषोपमः॥]
02704 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां
02705 दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रमितुकामेन एवं
02706 दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिग्भागे गङ्गानदीवालु-
02707 कोपमान् लोकधातून् समतिक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं
02708 शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ यो महासमुद्रेष्व् अप्य् अप्स्कन्धो
02709 महानदीषु कुनदीषूत्ससरस्तडागेषु पल्वलेषु तं सर्वं शतधा भिन्नया
02710 बालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन् निश्रितान् प्राणिनो विहेठयितु-
02711 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
02712 पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रं लोकधातुं कल्पोद्दाहाग्नि-
02713 प्रदीप्तम् एकेन मुखवातेन प्रशमयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अ-
02714 परं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन या विक्षोभणा वातमण्डली-
02715 वातसंवर्त्तन्यां वर्त्तमानायां यावत् सुमेरुमहासुमेरुचक्रवाडमहाचक्र-
02716 वाडानुपादाय सर्वपर्वतान् सर्वमहापृथिवीं विधुनोति विकिरति
02717 निर्मषीकरोति तां विक्षोभणावातमण्डलीम् एकेनाङ्गुलिपर्वाग्रेणा-
02718 च्छादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।
02801 पुनर् अप्रं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्रमहासाहस्रे लोकधातौ यावान् आकाशधातुस् तं
02802 सर्वम् एकेन पर्यङ्केन स्फारितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्र-
02803 महासाहस्रे लोकधातौ ये सुमेरुमहासुमेरुचक्रवाडमहाचक्रवाडादयः
02804 पर्वतास् तान् एकेन बालेन बद्ध्वा असंख्येयान् अप्रमाणान् लोकधातून् समति-
02805 क्रामयेयं क्षिपेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}।
02806 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो
02807 दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ् च धर्मदेशनां दिव्येन श्रोत्रेण श्रोतुकामेन
02808 सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासम् अनुस्मर्तुकामेन
02809 आस्रवक्षयज्ञानाभिज्ञाम् अभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तु-
02810 कामेन {प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति अभिज्ञासहगतो महाराजोपमः॥]
02811 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीवालुकोपमेषु
02812 लोकधातुषु बुद्धा भगवन्तः सश्रावकबोधिसत्त्वसंघास् तान् एकेन पिण्ड-
02813 पात्रेण प्रतिपादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। एवं पुष्पधूपगन्धमाल्यविलेपन-
02814 चूर्णचीवरच्छत्रध्वजपताकामेघैस् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्-
02815 कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यं}
02816 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लकधातुषु ये
02817 सत्त्वास् तान् शीलस्खन्धे {प्रतिष्ठापयितुकामेन} समाधिस्कन्धे {प्रतिष्ठापयितुकामेन} विमुक्तिज्ञान-
02818 दर्शनस्कन्धे {प्रतिष्ठापयितुकामेन} स्रोतआपत्तिफले {प्रतिष्ठापयितुकामेन} सकृदागामिफले {प्रतिष्ठापयितुकामेन} अना-
02819 गामिफले {प्रतिष्ठापयितुकामेन} अर्हत्त्वे {प्रतिष्ठापयितुकामेन} प्रत्येकबोधौ {प्रतिष्ठापयितुकामेन} यावद् अनुपधिशेष-
02820 निर्वाणधातौ {प्रतिष्ठापयितुकामेन} प्रज्ञापारमितायां शिक्षितव्यम्। यथा पूर्वस्यां दिशि
02821 एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां वदिक्ष्व् अध ऊर्ध्वं प्रत्येकं गङ्गानदी-
02901 वालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् यावद् अनुपधिशेषनिर्वाणधाअतौ
02902 {प्रतिष्ठापयितुकामेन} बोधिसत्त्वेन माहासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥
02903 [इति पुण्यज्ञानसहगतः कोष्ठागारोपमः॥]
02904 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणा-
02905 न् अनुप्राप्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} संस्कृतासंस्कृतानां धर्माणां पारं
02906 गन्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वधर्माणाम् अतीतानागतप्रत्युत्पन्नानां
02907 तथागतानाम् अवबोद्धुकामेन धर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन
02908 {प्रज्ञापारमितायां शिक्षितव्यम्।}॥ [इति बोधिपक्षसहगतो महामार्गोपमः॥]
02909 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन
02910 {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवताम् उपस्थापकेन भवितुकामेन
02911 {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन
02912 {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} महापरिवारेण भवितुकामेन बोधिसत्त्वपरिवारं
02913 प्रतिलब्धुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दक्षिणां परिशोधयितुकाअमेन
02914 {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} मात्सर्यचित्तं निग्रहीतुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन}
02915 दौःशील्यचित्तम् अनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} व्यापादचित्त-
02916 म् अनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} कौशीद्यचित्तम् उत्स्रष्टकामेन
02917 {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिप्तुर बोधिसत्त्वेन महासत्त्वेन} विक्षिप्तचित्तं निश्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन}
02918 दौष्प्रज्ञचित्तम् अप्रपञ्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वान् दानमय-
02919 पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन शीलमयपुण्यक्रियावस्तुनि
03001 {प्रतिष्ठापयितुकामेन} भावनामयपुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} वैयावृत्यसहगते चौपधिके
03002 पुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} {प्रज्ञापारमितायां शिक्षितव्यम्}।
03003 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पञ्च चक्षूंष्य् उत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। कतमानि पञ्च
03004 यद् उत मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयितुकामेन
03005 {प्रज्ञापारमितायां शिक्षितव्यम्}।
03006 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान्
03007 भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। एवं दक्षीणस्यां दिशि दिव्येन चक्षुषा
03008 गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यं}
03009 {{एवं पश्चिमायाम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवम् उत्तरस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवम् उत्तरपूर्वस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवं पूर्वदक्षिणस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवं दक्षिणपश्चिमायाम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवं पश्चिमोत्तरस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवम् अधस्ताद् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवम् उपरिष्टाद् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं}}।
03010 यांश् च ते बुद्धानां बह्गवन्तो धर्मान् भाषन्ते तान् धर्मान् दिव्येन
03011 श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतं चेतसैव चित्तं यथाभूतं
03012 परिज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वता-
03013 म् अनुस्मर्तुकामेन तेषाञ् च बुद्धानाम् ऋद्धिविकुर्वितं द्रष्टुकामेन {प्रज्ञापारमितायाम् शिक्षितव्यम्}।
03014 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यांस् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु
03015 धर्मान् भाषन्ते ताञ् श्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान्
03016 सन्धारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति {प्रज्ञापारमितायां शिक्षितव्यम्}।
03017 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्तुकामेन
03018 अनागतानाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। ये
03101 चैतर्हि समन्ताद् दशदिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते
03102 यापयन्ति तेषाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}॥
03103 [इति शमथविपश्यनासहगतो यानोपमः॥]
03104 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यत् किञ्चिद् दशसु दिक्षु बुद्धैर् भगवद्भिर् भाषितं भाष्यते
03105 भाषिष्यते च यद् इदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् इतिवृत्तकं
03106 जातकं वैपुल्याद्भुता धर्मा अवदानम् उपदेशाः यच् च श्रावकैर् न श्रुतं तत् सर्व-
03107 म् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तु-
03108 कामेन परेभ्यश् च विस्तरेण सम्प्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन}
03109 यत् किञ्चित् पूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च
03110 तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय
03111 प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। यत्
03112 किञ्चिद् दक्षिणस्यां दिशि {{बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् पश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् उत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् उत्तरपूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् पूर्वदक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् दक्षिणपश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् पश्चिमोत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत् किञ्चिद् अधस्ताद् दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।}}
03113 {{यत् किञ्चिद् ऊर्ध्वं दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्}}॥ [इति धारणीप्रतिभानसहगतः
03114 प्रस्नवणोपमः॥]
03115 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोक-
03116 धातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति
03117 तानि सर्वाण्य् अवभासयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। यानि दक्षिणस्यां दिशि
03118 {{गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।}}
03119 {{यानि उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्}}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गानदीवालुको-
03120 पमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं
03121 धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां
03201 प्रतिष्ठापयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। ये दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।}}
03202 {{ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम् }}॥
03203 [इति धर्मोद्दानसहगत आनन्दशब्दोपमः।]
03204 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु
03205 सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति
03206 {प्रज्ञापारमितायां शिक्षितव्यम्}। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं
03207 प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः
03208 सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो
03209 विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे
03210 प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे {प्रतिष्ठापयिष्यामीति} दुष्-
03211 प्रज्ञान् प्रज्ञास्कन्धे {प्रतिष्ठापयिष्यामीति} अविमुक्तान् विमुतिस्कन्धे {प्रतिष्ठापयिष्यामीति} अवि-
03212 मुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे {प्रतिष्ठापयिष्यामीति} अट्टष्टसत्यान् स्रोत-
03213 आपत्तिफले {प्रतिष्ठापयिष्यामीति} सकृदागामिफले अनागामिफले अर्हत्त्वे {प्रतिष्ठापयिष्यामीति}
03214 प्रत्येकबोधौ {प्रतिष्ठापयिष्यामीति} अनुत्तरायां सम्यक्संबोधौ {प्रतिष्ठापयिष्यामीति} बोधिसत्त्वेन
03215 प्रज्ञापारमितायां शिक्षितव्यम्। ये दक्षिणस्यां दिशि {{गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरपूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पूर्वदक्षिणस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि
प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये दक्षिणपश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमोत्तरस्याम् दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये अधस्ताद् दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}}
03216 {{ये ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}}
03217 [इति एकायनमार्गसहगतो नदीस्रोतोपमः॥]
03218 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} तथागतेर्यापथे शिक्षितुमामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं
03219 {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्। कदा न्व् अहं नागा-
03301 वलोकितम् अवलोकयिष्यामीति किम् इत्य् अहं पृथिवीं चतुरङ्गुलम् अस्पृशन्
03302 पद्भ्यां गच्छेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन
03303 प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्। किम् इत्य् अहं चातु-
03304 र्महाराजकायिकैस् त्रयस्त्रिंशैर् यामैर्स् तुषितैर् निर्माणरतिभिः परनिर्मितवश-
03305 वर्तिभिर् ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपारिषद्यैः परीत्ताभैः अप्रमाणाभै-
03306 र् आभास्वरैः परीत्तशुभैर् अप्रमाणशुभैः शुभकृत्स्नैर् अनभ्रकैः पुण्यप्रसवै-
03307 र् बृहत्फलैर् असंज्ञिसत्त्वैः शुद्धावासैर् अस्पृहैर् अतपैः सदृशैः सुदर्शनैर् अक-
03308 निष्ठैश् च परिवृतः पुरस्कृतो ऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर् बोधिमण्ड-
03309 द्रुममूलम् उपसंक्रमेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}। किम् इति ये चातु-
03310 र्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता {{निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना }}
03311 अकनिष्ठाश् च देवाः बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुर् इति
03312 {प्रज्ञापारमितायाम् शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}। किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभि-
03313 संबुद्धस्य गच्छतो वा तिष्ठतो वा निषणस्य शयानस्य वा स पृथिवीप्रदेशो
03314 वज्रमयः सन्तिष्ठते इति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}। किम् इत्य् अहं यत्रैव दिवसे
03315 निष्क्रामेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् इति।
03401 तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयम् इति। धर्मचक्रं च मे प्रवर्तयमानस्या-
03402 संख्येयानाम् अप्रमेयाणां सत्त्वानां चिरजो विगतमलं धर्मेषु धर्मचक्षु-
03403 र् विमुच्येद् इति। असंख्येयानाम् अप्रमेयाणां सत्त्वानाम् अनुपादायास्रवेभ्य-
03404 श् चित्तानि विमुच्येयुर् इति। असंख्येया अप्रमेयाः सत्त्वा अविनिवर्तनीया
03405 भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}। किम् इति
03406 मे ऽप्रमेयो ऽसंख्येयः श्रावकसंङ्हः स्याद् इत्य् अप्रमेयाः असंख्येयाः सत्त्वा एकधर्म-
03407 देशनाया एकासनिका बोधिसत्त्वा भवेयुर् अविनिवर्तनीया अनुत्तरायाः
03408 सम्यक्संबोधेर् इति। असंख्येयश् चाप्रमेयश् च बोधिसत्त्वसंघो भवेद् इति।
03409 अपरिमितं चायुःप्रमाणं भवेद् इति। अपरिमिता च प्रभासम्पद् भवेद् इति।
03410 {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}। किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य
03411 तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न
03412 भवेयुर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}। किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभि-
03413 संबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता भवेयुर् यद् अन्यबुद्धक्षेत्रस्था
03414 बुद्धा भगवन्तः एवम् उदानम् उदानयेयुः। साधु शमः साधु दमः साधु संयमः
03415 साधु चीर्णब्रह्मचर्यावासः साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति {प्रज्ञापारमितायां शिक्षितव्यम्}।
03416 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}। किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानम् अपि न स्यात् सह
03417 श्रवनेन च मे नामधेयस्य ये दशसु दिक्शु गङ्गानदीवालुकोपमेषु लोकधातुषु
03418 सत्त्वास् ते नियता भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}।
03501 यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
03502 चरन् इमान् गुणान् उत्पादयति तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ
03503 महाराजानस् ते एवं चिन्तयन्ति वयम् अस्मै बोधिसत्त्वाय चत्वारि पात्राणि
03504 दास्यामः। यथा दत्तानि पूर्वकैर् महाराजैः पूर्वकाणां तथागतानां
03505 त्रयस्त्रिंशाश् च देवा आत्तमनस्का भवन्ति यामास् तुषिता निमाणरतयः
03506 परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति। वयम् अस्य बोधि-
03507 सत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति। एवम् आसुराः
03508 कायाः परिहास्यन्ते। दिव्याः कायाः अभिवर्धिष्यन्ते आत्तमनस्काश् च
03509 त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति। ब्रह्मपारिषद्या ब्रह्मपुरोहिता
03510 महाब्रह्माणः आत्तमनस्का भवन्ति। परीत्ताभा अप्रमाणाभाश् च
03511 आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्य-
03512 प्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सदृशाः
03513 सुदर्शना अकनिष्ठाश् च देशास् तेषाम् एवं भवति। वयम् एनम् अभिसंबुद्धम् अध्ये-
03514 षिष्यामो धर्मचक्रप्रवर्तनाय।
03515 यस्मिन् समये शारिप्तुर बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
03516 चरन् विवर्धते षड्भिः पारमिताभिः तस्मिन् समये आत्तमनस्का
03517 भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य माता-
03518 पितरौ भ्विष्यामो भार्यापुत्रज्ञातिसालोहिता इति।
03519 आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास् त्रयस्त्रिंशा देवा
03601 यामास् तुषिता देवा {{निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणा ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना }} अकनिष्ठाश् च देवा
03602 बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन।
03603 अथ यः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ब्रन्मचारी
03604 भवति। न संयोजनीयैर् धर्मैः संप्रयुज्यते। तस्यैवं भवति अब्रह्मचारिणः
03605 स खलु पुनः कामान् प्रतिसेवमानस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो
03606 भवति कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेः। तस्मात् तर्हि
03607 बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहाद् अभिनिष्क्रम्यानुत्तरा सम्यक्-
03608 संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा॥ एवम् उक्ते आयुष्मान् शारिपुत्रो
03609 भगवन्तम् एतद् अवोचत्॥ किं पुनर् भगवन् अवश्यं बोधिसत्त्वस्य माता-
03610 पितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर् भवितव्यम्। एवम् उक्ते
03611 भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्। केषांचिच् छारिपुत्र बोधिसत्त्वानां
03612 महासत्त्वानां मातापित्रौ भवतः भार्यापुत्रज्ञातिसालोहिता वा
03613 केषाञ्चिद् बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्म-
03614 चर्यासमादानन्ते कुमारभूता एव बोधिसत्त्व चारिकां चरन्तो ऽनुत्तरां
03615 सम्य्कसंबोधिम् अभिसंबुध्यन्ते। केचिद् बोधिसत्त्वा महासत्त्वा उपाय-
03616 कौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरायां सम्यक्-
03701 संबोधिम् अभिसंबुध्यन्ते। तद् यथापि नाम शारिपुत्र दक्षो मायाकारो
03702 वा मायाकारान्तेवासी वा सुशिक्षितो भवेत् मायायाम्। स पञ्च काम-
03703 गुणान् अभिनिर्माय तैः पञ्चभिः कामगुणै रमेत क्रीडेत् परिचरेत्। तत्
03704 किं मन्यसे शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्ते-
03705 वासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः।
03706 शारिपुत्र आह। नो हीदं भगवन्। भगवान् आह। एवम् एव शारिपुत्र
03707 बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुंक्ते
03708 सत्त्वानां परिपाकहेतोः। न पुनर् बोधिसत्त्वो महासत्त्वः कामगुणै-
03709 र् लिप्यते। अनेन पर्यायेन बोधिसत्त्वो महासत्त्वः कामानाम् अवर्णं
03710 भाषते आदीप्ताः कामाः जुगुप्सिताः कामाः बधकाः कामाः
03711 प्रत्यर्थिकाः कामाः। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्व-
03712 परिपाकहेतोः पञ्च कामगुणान् उपाददाति॥ [इति धर्मकामसहगतो
03713 महामेघोपमः॥] [इति उक्तश् चित्तोत्पादः॥]
03714 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। कथं भगवन्
03715 बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्। एवम् उक्ते भग-
03716 वान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्। इह शारिपुत्र बोधिसत्त्वो महासत्त्वः
03717 प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति
03718 बोधिसत्त्वनामापि न समनुपश्यति। बोधिसत्त्वचर्याम् अपि न समनु-
03719 पश्यति। प्रज्ञापारमिताम् अपि न समनुपश्यति। रूपम् अपि न समनु-
03720 पश्यति। एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति।
03801 तत् कस्य हेतोः। तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन
03802 शून्यः प्रज्ञापारमितास्वभावेन शून्यः। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा।
03803 तथा हि शून्यतया न रूपं शून्यं न वेदना न संज्ञा न संस्कारा न विज्ञानं
03804 शून्यतया शून्यं नान्यत्र रूपाच् छून्यता नाप्य् अत्र वेदनायाः शून्यता नान्यत्र
03805 संज्ञायाः शून्यता नान्यत्र संस्कारेभ्यः शून्यता नान्यत्र विज्ञानाच् छून्यता।
03806 तत् कस्य हेतोः। रूपम् एव शून्यता वेदनैव शून्यता संज्ञैव शून्यता
03807 संस्कारा एव शून्यता विज्ञानम् एव शून्यता शून्यतैव रूपं शून्यतैव वेदना
03808 शून्यतैव संज्ञा शून्यतैव संस्काराः शून्यतैव विज्ञानम्। तत् कस्य हेतोः।
03809 तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति। नाममात्रम् इदं यद् इदं
03810 प्रज्ञापारमितेति नाममात्रम् इदं रूपं वेदना संज्ञा संस्काराः विज्ञानम्।
03811 तथा हि मायोपं रूपं वेदना संज्ञा संस्कारा विज्ञानं माया च नाममात्रं
03812 न देशस्था न प्रदेशस्था असहसम्भूतं वितथदर्शनम्। मायादर्शन-
03813 स्वभावस्य हि नोत्पादो न निरोधः। न संक्लेशो न व्यवदानम्। एवं
03814 प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति
03815 निरोधम् अपि न समनुपश्यति। संक्लेशम् अपि न समनुपश्यति। व्यव-
03816 दानम् अपि न समनुपश्यति। तत् कस्य हेतोः। तथा हि कृत्रिमं नाम
03817 प्रतिधर्मम्। ते च कल्पिताः। आगन्तुकेन नामधेयेन व्यवह्रियन्ते।
03818 तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति
03819 असमनुपश्यन् नाभिनिविशते। पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापार-
03820 मितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति।
03821 नाममात्रम् इदं यद् उत बोधिर् इति। नाम{मात्रम् इदं यद् उत} प्रज्ञा-
03901 पारमितेति। नाम{मात्रम् इदं यद् उत} प्रज्ञापारमितायां चर्येति। नाम{मात्रम् इदं यद् उत} रूपम् इति। नाम{मात्रम् इदं यद् उत}
03902 वेदनेति। नाम{मात्रम् इदं यद् उत} संज्ञेति। नाम{मात्रम् इदं यद् उत} संस्कारा इति। नाम {मात्रम् इदं यद् उत} विज्ञानम् इति।
03903 तद् यथापि नाम शारिपुत्र आत्मेति चोच्यते। न चात्मा उपलभ्यते।
03904 न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यन्ते।
03905 अनुपलम्भशून्यताम् उपादाय। तत् कस्य हेतोस् तथा हि बोधिसत्त्वस् तम् अपि
03906 न समनुपश्यति येनाभिनिविशेत। एवं चरन् बोधिसत्त्वो महासत्त्वः
03907 प्रज्ञापारमितायां चरति। सचेच् छारिपुत्रायं जम्बुद्वीपः परिपूर्णो भवे-
03908 च् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणु-
03909 वनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा
03910 सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां
03911 नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गण-
03912 नाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। एवं शारिपुत्र प्रज्ञा-
03913 पारमितायां चर्तो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावक-
03914 प्रत्येकबुद्धानां प्रज्ञाम् अभिभवति। तत् कस्य हेतोः। तथा हि शारिप्तुर
03915 या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता। तिष्ठतु
03916 शारिपुत्रायं जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः।
03917 सचेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारि-
03918 पुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः {{तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति।}} तिष्ठतु शारिपुत्र
03919 त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशै-
03920 र् भिक्षुभिः। सचेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक-
03921 धातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः {{तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति।}} {{सचेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति।}} स-
03922 चेच् छारिपुत्र पश्चिमायां दिशि {{गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। सचेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। सचेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। सचेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। सचेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। सचेच् छारिपुत्र पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति। सचेच् छारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति।}}
03923 {{सचेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति।}}
03924 अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। येयं भगवन्
04001 स्रोतआपन्नस्य प्रज्ञा सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा
04002 बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा
04003 सर्वा एताः प्रज्ञाञ् अभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः। न
04004 च भगवन्न् अभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरण-
04005 म् उपलभ्यते विशेषो वा। तत् कथं पुनर् भगवन् या बोधिसत्त्वस्यैकदिवस-
04006 भाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां
04007 प्रज्ञाम् अभिभवति। एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्। तत्
04008 किं मन्यसे शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापार-
04009 मितायां चरतः एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता
04010 सवज्ञतायां चरतः सर्वसत्त्वानां अर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्ध्वा
04011 सर्वसत्त्वाः परिनिर्वापयितव्या इति। अपि नु शारिपुत्र तेन कृत्येन
04012 सर्वश्रावकप्रत्येकबुद्धानां प्रत्युपस्थिता। शारिपुत्र आह। नो हीदं
04013 भगवन्। भगवान् आह। तत् किं मन्यसे शारिपुत्र अपि नु सर्वश्रावक-
04014 प्रत्येकबुद्धानाम् एवं भवति। अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य
04015 सर्वसत्त्वनिरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति। शारिपुत्र
04016 आह। नो हीदं भगवन्। भगवान् आह। तद् अनेनापि ते शारिपुत्र
04017 पर्यायेणैवं वेदितव्यम्। येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधि-
04018 सत्त्वस्य प्रज्ञाया एकदिवसभावितायाः शततमीम् अपि कलां {{नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि}}
04019 नोपैति।
04020 तत् किं मन्यसे शारिपुत्र अपि नु सस्र्वश्रावकप्रत्येकबुद्धानाम् एवं
04021 भवति। षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य
04022 दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टा-
04023 दशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य
04101 अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति। शारि-
04102 पुत्र आह। नो हीदं भगवन्। भवगान् आह। बोधिसत्त्वस्य महा-
04103 सत्त्वस्य पुनः शारिपुत्रैवं भवत्य् अहं षट्सु पारमितासु चरित्वा सत्त्वान्
04104 परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् परिनिर्वापयिष्यामीति। तद् यथापि
04105 नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जंबु-
04106 द्वीपो ऽवभास्येतेति ममाभया जम्बुद्वीपः स्फुटो भवेद् इति। एवम् एव
04107 शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति एकस्याप्य् अहं षट्सु पार-
04108 मितासु चरित्वा सत्त्वान् परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् परिनिर्वापयि-
04109 ष्यामीति। तद् यथापि नाम शारिपुत्र सूर्यमण्डलम् उदयत् सर्वजम्बुद्वीप-
04110 म् अवभासेन स्फुटीकरोति। एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः
04111 षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान्
04112 परिनिर्वापयति।
04113 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। कथं भगवन्
04114 बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्त-
04115 नीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति। एवम् उक्ते भगवान् आ-
04116 युष्मन्तं शारिपुत्रम् एतद् अवोचत्। इह शारिपुत्र बोधिसत्त्वो महासत्त्वः
04117 प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ता-
04118 प्रणिहितेषु धर्मेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति अविनि-
04119 वर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति।
04120 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। कतमस्यां भग-
04121 वन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येक-
04201 बुद्धानां दक्षिणीयो भवति। एवम् उक्ते भगवान् आयुष्मन्तं शारिप्तुरम् एतद् अ-
04202 वोचत्। प्रथमचित्तोत्पादम् उपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः
04203 षट्सु पारमितासु चरन् यावदा बोधिमण्डाद् अत्रान्तरे सततसमितं सर्व-
04204 श्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति। तत् कस्य हेतोः। तथा हि
04205 शारिप्तुर बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके
04206 प्रादुर्भावो भवति। यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां
04207 शिक्षाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमा-
04208 णानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां
04209 चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां
04210 पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य
04211 मार्गस्य लोके प्रादुर्भावो भवति। चतुर्णां वैशारद्यानां लोके प्रादुर्भावो
04212 भवति। चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति। षण्णां पार-
04213 मितानां दशानां तथागतबलानां अष्टादशानाम् आवेणिकानां बुद्धधर्माणां
04214 लोके प्रादुर्भावो भवति। एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात्
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0