भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चतन्त्र · अध्याय 2

2.1

एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यम् अकरोत् ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे
मित्र-भेदो नाम
प्रथमं तन्त्रम्
॥1॥
अथ मित्र-सम्प्राप्तिः
अथेदम् आरभ्यते मित्र-सम्प्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः-
असाधना अपि प्राज्ञा बुद्धिमनोत् बहु-श्रुताः ।
साधयन्त्य् आशु कार्याणि काकाखु-मृग-कूर्मवत्

2.2

तद् यथानुश्रूयते-
प्रस्तावना-कथा
लघुपतनक-चित्रग्रीव-वृत्तान्तः
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहङ्गोपभुक्त-फलः कीटैर् आवृत-कोटरश् छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्-
छाया-सुप्त-मृगः शकुन्त-निवहैर् विष्वग्-विलुप्त-च्छदः
कीटैर् आवृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः ।
विश्रब्धं मधुपैर् निपीत-कुसुमः श्लाघ्यः स एव द्रुमः
सर्वाङ्गैर् बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतो ऽपरः

2.3

तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्राण-यात्रार्थं पुरम् उद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तो ऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यद् अयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखो ऽभ्येति । तन् न ज्ञायते किम् अद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा ।
एवं बहुविधं विचिन्त्य तत्-क्षणान् निवृत्य तम् एव बट-पादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-भोः ! अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैर् अपि कालकूट-सदृशा द्रष्टव्याः ।
एवं वदतस् तस्य स लुब्धकस् तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस् तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस् तत्र स्थितास् ते लघु-पतनक-वाक्यार्गलया निवारितास् तांस् तण्डुलान् हालाहालाङ्कुरान् इव वीक्षमाणा निभृतास् तस्थुः ।
अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस् तांस् तण्डुलान् दूरतो ऽपि पश्यन् लघुपतनकेन निवार्यमाणो ऽपि जिह्वा-लौल्याद् भक्षणार्थम् अपतत् । स-परिवारो निबद्धश् च । अथवा साध्व् इदम् उच्यते-
जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् ।
अचिन्तितो वधो ऽज्ञानां मीनानाम् इव जायते

2.4

अथवा दैव-प्रतिपतिकूलतया भवत्य् एवम् । न तस्य दोषो ऽस्ति । उक्तं च-
पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः ।
अक्षैश् चापि युधिष्ठिरेण सहसा प्राप्तो ह्य् अनर्थः कथं
प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते

2.5

तथा च-
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि

2.6

अत्रान्तरे लुब्धकस् तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस् तद्-वधार्थं प्रधावितः । चित्रग्रीवो ऽप्य् आत्मानं स-परिवारं बद्धं मत्वा लुब्धकम् आयान्तं दृष्ट्वा तान् कपोतान् ऊचे-अहो, न भेतव्यम् । उक्तं च-
व्यसनेष्व् एव सर्वेषु यस्य बुद्धिर् न हीयते ।
स तेषां पारम् अभ्येति तत्-प्रभावाद् असंशयम्

2.7

सम्पत्तौ च विपत्तौ च महताम् एक-रूपता ।
उदये सविता रक्तो रक्तश् चास्त-मये तथा

2.8

तत् सर्वे वयं हेलयोड्डीय स-पाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद् भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युम् अवाप्स्यथ । उक्तं च-
तन्तवो ऽप्य् आयता नित्यं तन्तवो बहुलाः समाः ।
बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम्

2.9

तथानुष्ठिते लुब्धको जालम् आदायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थो ऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकम् एनम् अपठत् ।
जालम् आदाय गच्छन्ति संहताः पक्षिणो ऽप्य् अमी ।
यावच् च विवदिष्यन्ते पतिष्यन्ति न संशयः

2.10

लघुपतनको ऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किम् अत्र भविष्यन्तीति कुतूहलात् तत्-पृष्ठतो ऽनुसरति । अथ दृष्टेर् अगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकम् अपठन् निवृत्तश् च-
नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन ।
करतल-गतम् अपि नश्यति यस्य हि भवितव्यता नास्ति

2.11

तथा च-
पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद् द्रविणोदयः ।
तत् सो ऽन्यद् अपि सङ्गृह्य याति शङ्ख-निधिर् यथा

2.12

तद् आस्तां तावद् विहङ्गामिष-लोभो यावत् कुटुम्ब-वर्तनोपाय-भूतं जालम् अपि मे नष्टम् । चित्रग्रीवो ऽपि लुब्धकम् अदर्शनीभूतं ज्ञात्वा तान् उवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत् सर्वैर् अपि स्वस्थैर् गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद् धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च-
सर्वेषाम् एव मर्त्यानां व्यसने समुपस्थिते ।
वाङ्-मात्रेणापि साहाय्यं मित्राद् अन्यो न सन्दधे

2.13

एवं ते कपोताश् चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यको ऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्न् अकुतोभयः सुखेनास्त । अथवा साध्व् इदम् उच्यते-
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
सर्वेषां जायते वश्यो दुर्ग-हीनस् तथा नृपः

2.14

तथा च-
न गजानां सहस्रेण न च लक्षेण वाजिनाम् ।
तत् कर्म सिध्यते राज्ञां दुरेणैकेन यद् रणे

2.15

शतम् एको ऽपि सन्धत्ते प्राकारस्थो धनुर्धरः ।
तस्माद् दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः

2.16

अथ चित्रग्रीवो बिलम् आसाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक ! सत्वरम् आगच्छ । महती मे व्यसनावस्था वर्तते ।
तच् छ्रुत्वा हिरण्यको ऽपि बिल-दुर्गान्तर्गतः सन् प्रोवाच-भोः ! को भवान् ? किम् अर्थम् आयातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानाम् ? तत् कथ्यताम् इति ।
तच् छ्रुत्वा चित्रग्रीव आह-भोः ! चित्रग्रीवो नाम कपोत-राजो ऽहं ते सुहृत् । तत् सत्वरम् आगच्छ । गुरुतरं प्रयोजनम् अस्ति ।
तद् आकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास् त्वरमाणो निष्क्रान्तः । अथवा साध्व् इदम् उच्यते-
सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः ।
गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम्

2.17

आदित्यस्योदयं तात ताम्बूलं भारती कथा ।
इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने

2.18

सुहृदो भवने यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम्

2.19

अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धम् आलोक्य हिरण्यकः स-विषादम् इदम् आह-भोः, किम् एतत् ?
स आह-भोः, जानन्न् अपि किं पृच्छसि ? उक्तं च यतः-
यस्माच् च येन च यदा च यथा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म ।
तस्माच् च तेन च तदा च तथा च तच् च
तावच् च तत्र च कृतान्त-वशाद् उपैति

2.20

तत् प्राप्तं मयैतद् बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तद् आकर्ण्य हिरण्यकः प्राह-
अर्धार्धाद् योजन-शताद् आमिषं वीक्षते खगः ।
सो ऽपि पार्श्व-स्थितं दैवाद् बन्धनं न च पश्यति

2.21

तथा च-
रवि-निशाकरयोर् ग्रह-पीडनं
गज-भुजङ्ग-विहङ्गम-बन्धनम् ।
मतिमतां च निरीक्ष्य दरिद्रता
विधिर् अहो बलवान् इति मे मतिः

2.22

तथा च-
व्योमैकान्त-विचारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि ।
दुर्नीतं किम् इहास्ति किं च सुकृतं कः स्थान-लाभे गुणः
कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूराद् अपि

2.23

एवम् उक्त्वा चित्रग्रीवस्य पाशं छेत्तुम् उद्यतं स तम् आह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तद् अनु ममापि च ।
तच् छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तम् उक्तं भवता । यतः स्वामिनो ऽनन्तरं भृत्याः ।
स आह-भद्र, मा मैवं वद । मद्-आश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत् कथम् एतावन्-मात्रम् अपि संमानं न करोमि । उक्तं च-
यः संमानं सदा धत्ते भृत्यानां क्षितिपो ऽधिकम् ।
वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित्

2.24

तथा च-
विश्वासः सम्पदां मूलं तेन यूथपतिर् गजः ।
सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते

2.25

अपरं मम कदाचित् पाश-च्छेदे कुर्वतस् ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन् नूनं नरक-पात एव । उक्तं च-
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः ।
सुखी स्यान् नरकं याति परत्रेह च सीदति

2.26

तच् छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्म्य् अहं राज-धर्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवान् अप्य् अनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च-
कारुण्यं संविभागश् च यथा भृत्येषु लक्ष्यते ।
चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता

2.27

एवम् उक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश् चित्रग्रीवम् आह-मित्र, गम्यताम् अधुना स्वाश्रयं प्रति । भूयो ऽपि व्यसने प्राप्ते समागन्तव्यम् इति ।
तान् सम्प्रेष्य पुनर् अपि दुर्गं प्रविष्टः । चित्रग्रीवो ऽपि सपरिवारः स्वाश्रयम् अगमत् । अथवा साध्व् इदम् उच्यते-
मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अपि वै यतः ।
तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः

2.28

लघुपतनको ऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षम् अवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिर् अस्य हिरण्यकस्य शक्तिश् च दुर्ग-सामग्री च । तद् ईदृग् एव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद् विश्वसिमि चल-प्रकृतिश् च । तदाप्य् एनं मित्रं करोमि । उक्तं च-
अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः ।
नदीशः परिपूर्णो ऽपि चन्द्रोदयम् अपेक्षते

2.29

एवं सम्प्रधार्य पादपाद् अवतीर्य बिल-द्वारम् आश्रित्य चित्रग्रीववच् छब्देन हिरण्यकं समाहूतवान्-एह्य् एहि भो हिरण्यक, एहि ।
तच् छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किम् अन्यो ऽपि कश्चित् कपोतो बन्धन-शेषस् तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ?
स आह-अहं लघुपतनको नाम वायसः ।
तच् छ्रुत्वा विशेषाद् अन्तर्लीनो हिरण्यक आह-भोः ! द्रुतं गम्यताम् अस्मात् स्थानात् ।
वायस आह-अहं तव पार्श्वे गुरु-कार्येण समागतः । तत् किं न क्रियते मया सह दर्शनम् ?
हिरण्यक आह-न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनम् इति ।
स आह-भोः ! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत् कदाचिन् ममापि बन्धने जाते तव पार्श्वान् मुक्तैर् भविष्यति । तत् क्रियतां मया सह मैत्री ।
हिरण्यक आह-अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत् का त्वया सह मम मैत्री ? तद् गम्यताम् । मैत्री विरोध-भावात् कथम् ? उक्तं च-
ययोर् एव समं वित्तं ययोर् एव समं कुलम् ।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः

2.30

तथा च-
यो मित्रं कुरुते मूढ आत्मनो ऽसदृशं कुधीः ।
हीनं वाप्य् अधिकं वापि हास्यतां यात्य् असौ जनः

2.31

तद् गम्यताम् इति ।
वायस आह-भो हिरण्यक ! एषो ऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततो ऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यात् इति ।
हिरण्यक आह-भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च-
वैरिणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम्

2.32

वायस आह-भोः ! त्वया सह दर्शनम् अपि नास्ति । कुतो वैरम् ? तत् किम् अनुचितं वदसि ?
हिरण्यक आह-द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत् सहज-वैरी त्वम् अस्माकम् । उक्तं च-
कृत्रिमं नाशम् अभ्येति वैरं द्राक् कृत्रिमैर् गुणैः ।
प्राण-दानं विना वैरं सहजं याति न क्षयम्

2.33

वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुम् इच्छामि । तत् कथ्यताम् ।
हिरण्यक आह-भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तद्-अर्होपकार-करणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि न गच्छति । तद् यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति ।
वायस आह-भोः ! अकारणम् एतत् । श्रूयतां मे वचनम्-
कारणान् मित्रताम् एति कारणाद् याति शत्रुताम् ।
तस्मान् मित्रत्वम् एवात्र योज्यं वैरं न धीमता

2.34

तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम् ।
हिरण्यक आह-भोः, श्रूयतां नीति-सर्वस्वम्-
सकृद् दुष्टम् अपीष्टं यः पुनः सन्धातुम् इच्छति ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा

2.35

अथवा गुणवान् अहं, न मे कश्चिद् वैर-यातनां करिष्यति । एतद् अपि न सम्भाव्यम् । उक्तं च-
सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् पिर्यान् पाणिनेर्
मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम् ।
छन्दो-ज्ञान-निधिं जघान मकरो वेला-तटे पिङ्गलम्
अज्ञानावृत-चेतसाम् अतिरुषा को ऽर्थस् तिरश्चां गुणैः

2.36

वायस आह-अस्त्य् एतत् । यथापि श्रूयताम्-
उपकाराच् च लोकानां निमित्तान् मृग-पक्षिणाम् ।
भयाल् लोभाच् च मूर्खाणां मैत्री स्याद् दर्शनात् सताम्

2.37

मृद्-घट इव सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति ।
सुजनस् तु कनक-घट इव दुर्भेदः सुकर-सन्धिश् च

2.38

इक्षोर् अग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः ।
तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता

2.39

तथा च-
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम्

2.40

तत् साधुर् अहम् । अपरं त्वां शपथादिभिर् निर्भयं करिष्यामि ।
स आह-न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च-
शपथैः सन्धितस्यापि न विश्वासं व्रजेद् रिपोः ।
श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः

2.41

न विश्वासं विना शत्रुर् देवानाम् अपि सिध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः

2.42

अन्यच् च-
बृहस्पतेर् अपि प्राज्ञस् तस्मान् नैवात्र विश्वसेत् ।
य इच्छेद् आत्मनो बुद्धिम् आयुष्यं च सुखानि च

2.43

तथा च-
सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः ।
नाशयेच् च शनैः पश्चात् प्लवं सलिल-पूरवत्

2.44

न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति

2.45

न बध्यते ह्य् अविश्वस्तो दुर्बलो ऽपि बलोत्कटैः ।
विश्वस्ताश् चाशु बध्यन्ते बलवन्तो ऽपि दुर्बलैः

2.46

सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर् भार्गवस्य च ।
बृहस्पतेर् अविश्वासो नीतिर्-सन्धिस् त्रिधा स्थितः

2.47

तथा च-
महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु ।
भार्यासु सुविरक्तासु तद्-अन्तं तस्य जीवितम्

2.48

तच् छ्रुत्वा लघुपतनको ऽपि निरुत्तरश् चिन्तयामास-अहो, बुद्धि-प्रागल्भ्यम् अस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह-भो हिरण्यक !
सतां साप्तपदं मैत्रम् इत्य् आहुर् विबुधा जनाः ।
तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच् छृणु

2.49

दुर्गस्थेनापि त्वया मया सह नित्यम् एवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यद्य् एवं न विश्वसिषि ।
तच् छ्रुत्वा हिरण्यको ऽपि व्यचिन्तयत्-विदग्ध-वचनो ऽयं दृश्यते लघुपतनकः सत्य-वाक्यश् च तद् युक्तम् अनेन मैत्री-करणम् । परं कदाचिन् मम दुर्गे चरण-पातो ऽपि न कार्यः । उक्तं च-
भीत-भीतैः पुरा शत्रुर् मन्दं मन्दं विसर्पति ।
भूमौ प्रहेलया पश्चाज् जार-हस्तो ऽङ्गनास्व् इव

2.50

तच् छ्रुत्वा वायस आह-भद्र, एवं भवतु । ततः-प्रभृति तौ द्वाव् अपि सुभाषित-गोष्ठी-सुखम् अनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनको ऽपि मांस-शकलानि मेध्यानि बलिशेषाण्य् अन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थम् आनयति । हिरण्यको ऽपि तण्डुलान् अन्यांश् च भक्ष्य-विशेषाल् लघुपतनकार्थं रात्राव् आहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोर् अप्य् एतत् । उक्तं च-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति ।
भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम्

2.51

नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद् भवेत् ।
उपयाचित-दानेन यतो देवा अभीष्टदाः

2.52

तावत् प्रीतिर् भवेल् लोके यावद् दानं प्रदीयते ।
वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम्

2.53

पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् ।
यत्-प्रभावाद् अपि द्वेषो मित्रतां याति तत्-क्षणात्

2.54

पुत्राद् अपि प्रियतरं खलु तेन दानं
मन्ये पशोर् अपि विवेक-विवर्जितस्य ।
दत्ते खले तु निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुतापि पश्य

2.55

किं बहुना-
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् ।
मूषको वायसश् चैव गतौ कृत्रिम-मित्रताम्

2.56

एवं स मूषकस् तद्-उपकार-रञ्जितस् तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस् तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्न् अहनि वायसो ऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तम् उवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तद् अन्यत्र यास्यामि ।
हिरण्यक आह-भद्र किं विरक्तेः कारणम् ।
स आह-भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज् जनो बुभुक्षा-पीडितः को ऽपि बलि-मात्रम् अपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर् विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहम् अप्य् आयुः-शेषतया पाशेन बद्ध उद्धरितो ऽस्मि । एतद् विरक्तेः कारणम् æ। तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि ।
हिरण्यक आह-अथ भवान् क्व प्रस्थितः ?
स आह-अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तो ऽधिकः परम-सुहृत् कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्-भक्षणात् तेन सह सुभाषित-गोष्ठी-सुखम् अनुभवन् सुखेन कालं नेष्यामि । नाहम् अत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुम् इच्छामि । उक्तं च-
अनावृष्टि-हते देशे सस्ये च प्रलयं गते ।
धन्यास् तात न पश्यन्ति देश-भङ्गं कुल-क्षयम्

2.57

को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम्

2.58

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते

2.59

हिरण्यक आह-यद्य् एवं तद् अहम् अपि त्वया सह गमिष्यामि । ममापि महद् दुःखं वर्तते ।
वायस आह-भोः ! तव किं दुःखम् ? तत् कथय ।
हिरण्यक आह-भोः ! बहु वक्तव्यम् अस्त्य् अत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि ।
वायस आह-अहं तावद् आकाश-गतिः । तत् कथं भवतो मया सह गमनम् ?
स आह-यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठम् आरोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिर् अस्ति ।
तच् छ्रुत्वा सानन्दं वायस आह-यद्य् एवं तद् धन्यो ऽहं यद् भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकान् अषाव् उड्डीन-गति-विशेषान् वेद्मि । तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि ।
हिरण्यक आह-उड्डीनानां नामानि श्रोतुम् इच्छामि ।
स आह-
सम्पातं विप्र-पातं च महा-पातं निपातनम् ।
वक्रं तिर्यक् तथा चोर्ध्वम् अष्टमं लघु-संज्ञकम्

2.60

तच् छ्रुत्वा हिरण्यकस् तत्-क्षणाद् एव तद् उपरि समारूढः । सो ऽपि शनैः शनैस् तम् आदाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतो ऽपि देश-काल-विद-सामान्य-काको ऽयम् इति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनको ऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रम् आरुह्य तार-स्वरेण प्रोवाच-भो मन्थरक ! आगच्छागच्छ । तव मित्रम् अहं लघुपतनको नाम वायसश् चिरात् सोत्कण्ठः समायातः । तद् आगत्यालिङ्गय माम् । उक्तं च-
किं चन्दनैः स-कर्पूरैस् तुहिनैः किं च शीतलैः ।
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम्

2.61

तथा च-
केनामृतम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ।
आपदां च परित्राणं शोक-सन्ताप-भेषजम्

2.62

तच् छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुर् आनन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एह्य् एहि मित्र, आलिङ्गय माम् । चिर-कालान् मया त्वं न सम्यक् परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च-
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् ।
न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः

2.63

एवम् उक्ते लघुपतनको वृक्षाद् अवतीर्य तम् आलिङ्गितवान् । अथवा साध्व् इदम् उक्तम्-
अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः ।
चिरान् मित्र-परिष्वङ्गो यो ऽसौ मूल्य-विवर्जितः

2.64

एवं द्वाव् अपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षाद् अधः समुपविष्टौ प्रोचतुर् आत्म-चरित्र-वृत्तान्तम् । हिरण्यको ऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकम् आह-भोः हिरण्यको नाम मूषको ऽयम् । मम सुहृद्-द्वितीयम् इव जीवितम् । तत् किं बहुना-
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता

2.65

गुणाः सङ्ख्या-परित्यक्तास् तद्वद् अस्य महात्मनः ।
परं निर्वेदम् आपन्नः सम्प्राप्तो ऽयं तवान्तिकम्

2.66

मन्थरक आह-किम् अस्य वैराग्य-कारणम् ?
वायस आह-पृष्टो मया, परम् अनेनाभिहितं, यद् बहु वक्तव्यम् इति । तत् तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद् भद्र हिरण्यक ! इदानीं निवेद्यताम् उभयोर् अप्य् आवयोस् तद् आत्मनो वैराग्य-कारणम् ।
सो ऽब्रवीत्-
कथा 1
हिरण्यक-ताम्रचूड-कथा
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद् रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्न् अहनि मम बान्धवैर् निवेदितम्-स्वामिन्, मठायतने सिद्धम् अन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद् वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनर् आगम्य किम् अपि नास्ति । तत् किं वृथाटनेनान्यत्र । अद्य
तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।
तद् आकर्ण्याहं सकल-यूथ-परिवृतस् तत्-क्षणाद् एव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयम् एव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यम् एव तद् अन्नं भक्षयामि । परिव्राजको ऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तो ऽपि मम भयाद् भिक्षा-पात्रं ताडयति । अहम् अप्य् अभिक्षितेऽप्य् अन्ने प्रहार-भयाद् अपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।
अथान्यस्मिन्न् अहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस् तस्य सुहृत् तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकम् अभ्यागत-क्रियया नियोजितः । ततश् च रात्राव् एकत्र कुश-संस्तरे द्वाव् अपि प्रसुप्तौ धर्म-कथां कथयितुम् आरब्धौ ।
अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस् तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिद् उदाहरति । अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच-भोस् ताम्रचूड ! परिज्ञातः न त्वं सम्यक् सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्राव् अपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च-
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा

2.67

गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्य् अधः ।
तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः

2.68

साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः ।
गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते

2.69

तद् एक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद् वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च-
नरकाय मतिस् ते चेत् पौरोहित्यं समाचार ।
वर्षं यावत् किम् अन्येन मठ-चिन्तां दिन-त्रयम्

2.70

तन्-मुखं, शोचितव्यस् त्वं गर्वं गतः । तद् अहं त्वदीयं मठं परित्यज्य यास्यामि ।
अथ तच् छ्रुत्वा भय-त्रस्त-मनास् ताम्रचूडस् तम् उवाच-भो भगवन् ! मैवं वद । न त्वत्-समो ऽन्यो मम सुहृत् कश्चिद् अस्ति । परं तच् छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतम् अपि भिक्षा-पात्रम् उत्प्लुत्यारोहति, भिक्षा-शेषंच तत्रस्थं भक्षयति । तद्-अभावाद् एव मठे मार्जन-क्रियापि न भवति । तन् मूषक
मुहुर् मुहुस् ताडयामि । नान्यत् कारणम् इति । अपरम् एतत् कुतूहलं पश्यास्य दुर्तात्मनो यन् मार्जार-मर्कटादयो ऽपि तिरस्कृता अस्योत्पतनेन ।
बृहत्स्फिग् आह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे ।
ताम्रचूड आह-भगवन् न वेद्मि सम्यक् ।
स आह-नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च-
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
किं पुनस् तस्य सम्भोगस् त्याग-धर्म-समन्वितः

2.71

तथा च-
नाकस्माच् छाण्डिली मातर् विक्रीणाति तिलैस् तिलान् ।
लुञ्चितान् इतरैर् येन हेतुर् अत्र भविष्यति

2.72

ताम्रचूड आह-कथम् एतत् ?
स आह-
कथा 2
तिलचूर्ण-विक्रय-कथा
यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद् ब्राह्मणं वासार्थं प्रार्थितवान् । ततश् च तद्-वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस् तिष्ठामि । अथान्यस्मिन्न् अहनि प्रत्यूषे प्रबुद्धो ऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह-ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिर् अनन्त-दान-फलदा भविष्यति । तद् अहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद् भोजनं दातव्यम् इति ।
अथ तच् छ्रुत्वा ब्राह्मणी परुषतर-वचनैस् तं भर्त्सयमाना प्राह-कुतस् ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत् किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिद् अपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् ।
तच् छ्रुत्वा भय-त्रस्तो ऽपि विप्रो मन्दं मन्दं प्राह-ब्राह्मणि ! नैतद् युज्यते वक्तुम् । उक्तं च-
ग्रासाद् अपि तद् अर्धं च कस्मान् नो दीयतेऽर्थिषु ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति

2.73

ईश्वरा भूरि-दानेन यल् लभन्ते फलं किल ।
दरिद्रस् तच् च काकिण्या प्राप्नुयाद् इति न श्रुतिः

2.74

दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या ।
कूपो ऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः

2.75

तथा च-
अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन ।
गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः

2.76

अपि च-
सदा दान-परिक्षीणः शस्त एव करीश्वरः ।
अदानः पीन-गात्रो ऽपि निन्द्य एव हि गर्दभः

2.77

सुशीलो ऽपि सुवृत्तो ऽपि यात्य् अदानाद् अधो घटः ।
पुनः कुब्जापि काणापि दानाद् उपरि कर्कटी

2.78

यच्छन् जलम् अपि जलदो वल्लभताम् एति सकल-लोकस्य ।
नित्यं प्रसारित-करो मित्रो ऽपि न वीक्षितुं शक्यः

2.79

एवं ज्ञात्वा दरिद्र्याभिभूतैर् अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तं च-
सत्-पात्रं महती श्रद्धा देशे काले यथोचिते ।
यद् दीयते विवेक-ज्ञैस् तद् अनन्ताय कल्पते

2.80

तथा च-
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके

2.81

ब्राह्मण्य् आह-कथम् एतत् ?
स आह-
कथा 3
शवर-शूकर-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे कश्चित् पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महान् अञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर् भूतलेऽपतत् ।
अथ लुब्धकं व्यापाद्य शूकरो ऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्न् अन्तरे कश्चिद् आसन्न-मृत्युः शृगाल इतस् ततो निराहारतया पीडितः परिभ्रमंस् तं प्रदेशम् आजगाम । यावद् वराह-पुलिन्दौ द्वाव् अपि पश्यति तावत् प्रहृष्टो व्यचिन्तयत्-भोः ! सानुकूलो मे विधिः । तेनैतद् अप्य् अचिन्तितं भोजनम् उपस्थितम् । अथवा साध्व् इदम् उक्तम्-
अकृतेऽप्य् उद्यमे पुंसाम् अन्य-जन्म-कृतं फलम् ।
शुभाशुभं समभ्येति विधिना संनियोजितम्

2.82

तथा च-
यस्मिन् देशे च काले च वयसा यादृशेन च ।
कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते

2.83

तद् अहं तथा भक्षयामि यथा बहून्य् अहानि मे प्राण-यात्रा भवति । तत् तावद् एनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च-
शनैः शनैश् च भोक्तव्यं स्वयं वित्तम् उपार्जितम् ।
रसायनम् इव प्राज्ञैर् हेलया न कदाचन

2.84

इत्य् एवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश् च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सो ऽपि तद्वद् एनया तत्-क्षणान्तन् मृतः । अतो ऽहं ब्रवीमि-अतितृष्णा न कर्तव्या इति ।
स पुनर् अप्य् आह-ब्राह्मणि, न श्रुतं भवत्या ।
आयुः कर्म च वित्तं च विद्या निधनम् एव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः

2.85

अथैवं सा तेन प्रबोधिता ब्राह्मण्य् आह-यद्य् एवं तद् अस्ति मे गृहे स्तोकस् तिल-राशिः । ततस् तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति ।
ततस् तद्-वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्ह-कर्म-व्यग्रायास् तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यद् एते तिला अभोज्याः कृताः । तद् अहम् एतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैर् अलुञ्चितान् आनयामि । सर्वो ऽपि जनो ऽनेन विधिना प्रदास्यति इति ।
अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस् तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम् । आह च-गृह्णातु कश्चिद् अलुञ्चितैर् लुञ्चितांस् तिलान् ।
अथ तद्-गृह-गृहिणी-गृहं प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् गृह्णाति तावद् अस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः ! अग्राह्याः खल्व् इमे तिलाः । नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः । कारणं किञ्चिद् भविष्यति । तेनैषालुञ्चितैर् लुञ्चितान् प्रयच्छति ।
तच् छ्रुत्वा अया परित्यक्तास् ते तिलाः । अतो ऽहं ब्रवीमि-नाकस्माच् छाण्डिली-मातः इति ।
एतद् उक्त्वा स भूयो ऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः ।
ताम्रचूड आह-भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्व् असङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस् ततः सर्व-जनेन सहागच्छति याति च ।
अभ्यागत आह-अस्ति किञ्चित् खनित्रकम् ।
स आह-बाढम् अस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका ।
अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वाव् अपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्-वचनम् आकर्ण्य चिन्तितम्-अहो विनष्टो ऽस्मि, यतो ऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गम् अप्य् अस्माकं ज्ञास्यति । एतद् अभिप्रायाद् एव ज्ञायते । उक्तं च-
सकृद् अपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति

2.86

वाञ्छैव सूचयति पूर्वतरं भविष्यं
पुंसां यद् अन्य-तनुजं त्व् अशुभं शुभं वा ।
विज्ञायते शिशुर् अजात-कलाप-चिह्नः
प्रत्युद्गतैर् अपसरन् सरलः कलापी

2.87

ततो ऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावद् अग्रतो गच्छामि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषक-वृन्दम् अवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनम् अवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास् तम् एव दुर्गं प्रविष्टाः । अथवा साध्व् इदम् उच्यते-
छित्त्वा पाशम् अपास्य कूट-रचनां भङ्क्त्वा बलाद् वागुरां
पर्यन्ताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात् ।
व्याधानां शर-गोचराद् अपि जवेनोत्पत्य धावन् मृगः
कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम्

2.88

अथाहम् एको ऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिम् अवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः ।
यद् उत्साही सदा मर्त्यः पराभवति यज् जनान् ।
यद् उद्धतं वदेद् वाक्यं तत् सर्वं वित्तजं बलम्

2.89

अथाहं तच् छ्रुत्वा कोपाविष्टो भिक्षा-पात्रम् उद्दिश्य विशेषाद् उत्कूर्दितो ऽप्राप्त एव भूमौ निपतितः । तच् छ्रूत्वासौ मे शत्रुर् विहस्य ताम्रचूडम् उवाच-भोः ! पश्य पश्य कौतूहलम् । आह च-
अर्थेन बलवान् सर्वो ऽप्य् अर्थ-युक्तः स पण्डितः ।
पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम्

2.90

तत् स्वपिहि त्वं गत-शङ्कः । यद् अस्योत्पतन-कारणं तद् आवयोर् हस्त-गतं जातम् । अथवा साध्व् इदम् उच्यते-
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
तथार्थेन विहीनो ऽत्र पुरुषो नाम-धारकः

2.91

तच् छ्रुत्वाहं मनसा विचिन्तितवान्-यतो ऽङ्गुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च-
अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा

2.92

यथा काक-यवाः प्रोक्ता यथारण्य-भवास् तिलाः ।
नाम-मात्रा न सिद्धौ हि धन-हीनास् तथा नराः

2.93

सन्तो ऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः ।
आदित्य इव भूतानां श्रीर् गुणानां प्रकाशिनी

2.94

न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः ।
यथा द्रव्याणि सम्प्राप्य तैर् विहीनो ऽसुखे स्थितः

2.95

शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः ।
तरोर् अप्य् ऊषरस्थस्य वरं जन्म न चार्थिनः

2.96

शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।
उपकर्तुम् अपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति

2.97

उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव

2.98

व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः ।
अग्रतो ऽपि स्थितो यत्नान् न केनापीह दृश्यते

2.99

एवं विलप्याहं भग्नोत्साहस् तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश् च मद्-भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो, असमर्थो ऽयम् उदर-पूरणेऽस्माकम् । केवलम् अस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किम् अनेनाराधितेन ? उक्तं च-
यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर् विपत्तयः ।
स स्वामी दूरतस् त्याज्यो विशेषाद् अनुजीविभिः

2.100

एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टो ऽहम् । यावन् न कश्चिन् मम संमुखेऽभ्येति तावन् मया चिन्तितम्-धिग् इयं दरिद्रता । अथवा साध्व् इदम् उच्यते-
मृतो दरिद्रः पुरुषो मृतं मैथुनम् अप्रजम् ।
मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणम्

2.101

व्यथयन्ति परं चेतो मनोरथ-शतैर् जनाः ।
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव

2.102

दौर्गत्यं देहिनां दुःखम् अपमान-करं परम् ।
येन स्वैर् अपि मन्यन्ते जीवन्तो ऽपि मृता इव

2.103

दैन्यस्य पात्रताम् एति पराभृतेः परं पदम् ।
विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-कृतः

2.104

लज्जन्ते बान्धवास् तेन सम्बन्धं गोपयन्ति च ।
मित्राण्य् अमित्रतां यान्ति यस्य न स्युः कपर्दकाः

2.105

मूर्तं लाघवम् एवैतद् अपायानाम् इदं गृहम् ।
पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम्

2.106

अजा-धूलिर् इव त्रस्तैर् मार्जनी-रेणुवज् जनैः ।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः

2.107

शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यं क्वचिन् मृदा ।
निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम्

2.108

अधनो दातु-कामो ऽपि सम्प्राप्तो धनिनां गृहम् ।
मन्यते याचको ऽयं धिग् दारिद्र्यं खलु देहिनाम्

2.109

स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षत्य् असून् नरः ।
पितरो ऽपि न गृह्णन्ति तद्-दत्तं सलिआञ्जलिम्

2.110

तथा च-
गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा ।
प्राणांस् त्यजति यो युद्धे तस्य लोकाः सनातनाः

2.111

एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः । ततश् च जर्जर-वंश-प्रहारेण शिरसि ताडितः कथञ्चिद् आयुः-शेषतया निर्गतो ऽहम्, न मृतश् च । उक्तं च-
प्राप्तव्यम् अर्थं लभते मनुष्यो
देवो ऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम्
काक-कूर्मौ पृच्छतः-कथम् एतत् ?
हिरण्यक आह-
कथा 4
सागरदत्त-कथा
अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक् । तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश् च लिखितम् अस्ति-
प्राप्तव्यम् अर्थं लभते मनुष्यो
देवो ऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम्

2.112

तद् दृष्ट्वा सागरदत्तेन तनुजः पृष्टः-पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम् ?
सो ऽब्रवीत्-रूपक-शतेन ।
तच् छ्रुत्वा सागरदत्तो ऽब्रवीत्-धिङ् मूर्ख ! त्वं लिखितैक-श्लोकं रूपक-शतेन यद् गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तद् अद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम् ।
एवं निर्भर्त्स्य गृहान् निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम् आसाद्यावस्थितः । अथ कतिपय-दिवसैस् तन्-नगर-निवासिना केनचिद् असौ पृष्टः-कुतो भवान् आगतः ? किं नाम-धेयो वा ? इति ।
असाव् अब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम् ।
अथ राज-कन्या चन्द्रवती नामाभिनव-रूप-यौवन-सम्पन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद् राज-पुत्रो ऽतीव-रूप-सम्पन्नो मनोरमश् च कथम् अपि तस्या दृष्टि-गोचरे गतः । तद्-दर्शन-सम-कालम् एव कुसुम-बाणाहतया तया निज-सख्य्-अभिहिता-सखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् ।
एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रम् अब्रवीत्-यद् अहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन् मम त्वद्-दर्शनान् मनोभवेन पश्चिमावस्था कृता । तद् यदि शीघ्रम् एव मद्-अन्तिके न समेष्मसि तदा मे मरणं शरणम् ।
इति श्रुत्वा तेनाभिहितं-यद्य् अवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम् ?
अथ सख्याभिहितम्-रात्रौ सौधावलम्बितया दृढ-वरत्रया त्वया तत्रारोढव्यम् ।
सो ऽब्रवीत्-यद्य् एवं निश्चयो भवत्यास् तद् अहम् एवं करिष्यामि ।
इति निश्चित्य सखी चन्द्रवती-सकाशं गता । अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिन्तयत्-अहो महद् अकृत्यम् एतत् । उक्तं च-
गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम् ।
यो गच्छति पुमांल् लोके तम् आहुर् ब्रह्म-घातिनम्

2.113

अपरं च-
अयशः प्राप्यते येन येन चाधो-गतिर् भवेत् ।
स्वार्थाच् च भ्रश्यते येन तत् कर्म न समाचरेत्

2.114

इति सम्यग् विचार्य तत्-सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राव् अवलम्बित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस् ताम् आलम्ब्याधिरूढः । तया च राज-पुत्र्या स एवायम् इत्य् आश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलम् आश्रितया तद्-अङ्ग-संस्पर्श-सञ्जात-हर्ष-रोमाञ्चित-गात्रयोक्तं-युष्मद्-दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तो ऽयम् । त्वद्-वर्जम् अन्यो भर्ता मनस्य् अपि मे न भविष्यति इति । तत् कस्मान् अम्या सह न ब्रवीषि ?
सो ऽब्रवीत्- प्राप्तव्यम् अर्थं लभते मनुष्यः ।
इत्य् उक्ते तयान्यो ऽयम् इति मत्वा धवल-गृहाद् उत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावद् असौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्त-सङ्केतको यावद् दण्ड-पाशकः प्राप्तः, तावद् असौ पूर्व-सुप्तस् तेन दृष्टो रहस्य-संरक्षणार्थम् अभिहितश् च-को भवान् ?
सो ऽब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः ।
इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच् छून्यं देव-गृहम् इदम् । तद् अत्र मदीय-स्थाने गत्वा स्वपिहि ।
तथा प्रतिपद्य स मतिर् विपर्यासाद् अन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तम् आयातं दृष्ट्वा स एवायम् अस्मद्-वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तम् आह-किम् अद्यापि मया सह विश्रब्धं भवान् न ब्रवीति ।
सो ऽब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः ।
इति श्रुत्वा तया चिन्तितम्-यत् कार्यम् असमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य स-विषादया तया निःसारितो ऽसौ । स च यावद्-वीथी-मार्गेण गच्छति तावद् अन्य-विषय-वासी वर-कीर्तिर् नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थो ऽपि तैः समं गन्तुम् आरब्धः ।
अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकम् आकुलयंस् तम् एवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः ।
अथास्मिन्न् अवसरे भय-तरल-लोचनाम् एकाकिनीं कन्याम् अवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर् हस्तिनं निर्भर्त्सितवान् । ततः कथम् अपि दैव-योगाद् अपाये हस्तिनि स-सुहृद्-बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर् नागत्य तावत् तां कन्याम् अन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धम् इदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति ।
सो ऽब्रवीत्-भोः ! अहम् अपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किम् इदं वृतम् इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत् कथ्यतां को ऽयं वृत्तान्तः ।
सो ऽब्रवीत्-यद् अहम् अनेन प्राण-संशयाद् रक्षिता, तद् एनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति ।
अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस् तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तम् उद्देशम् आगता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम ।
प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशो ऽसौ वृत्तान्तः ?
अथ सो ऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति ।
राज-कन्या स्मृत्वा प्राह-देवो ऽपि तं लङ्घयितुं न शक्त इति ।
ततो दण्डपाशक-सुताब्रवीत्-तस्मान् न शोचामि न विस्मयो मे इति ।
तम् अखिललोक-वृत्तान्तम् आकर्ण्य वणिक्-सुताब्रवीत्-यद् अस्मदीयं न हि तत् परेषाम् इति ।
ततो ऽभय-दानं दत्त्वा राजा पृथक् पृथग् वृत्तान्तान् ज्ञात्वावगत-तत्त्वस् तस्मै प्राप्तव्यम् अर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रो ऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता ।
अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ । अथ सो ऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतो ऽहं ब्रवीमि-प्राप्तव्यम् अर्थं लभते मनुष्यः इति ।
तद् एतत् सकलं सुख-दुःखम् अनुभूय परं विषादम् उपागतो ऽनेन मित्रेण त्वत्-सकाशम् आनीतः । तद् एतन् मे वैराग्य-कारणम् । मन्थरक आह-भद्र, भवति सुहृद् अयम् असन्दिग्धं यः क्षुत्-क्षामो ऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितम् एवं पृष्ठम् आरोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः-
विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम्

2.115

विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम् ।
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः

2.116

तथा च-
आपत्-काले तु सम्प्राप्ते यन् मित्रं मित्रम् एव तत् ।
वृद्धि-काले तु सम्प्राप्ते दुर्जनो ऽपि सुहृद् भवेत्

2.117

तन् ममाप्य् अद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर् वायसैः सह जलचराणाम् । अथवा साध्व् इदम् उच्यते-
मित्रं को ऽपि न कस्यापि नितान्तं न च वैर-कृत् ।
दृश्यते मित्र-विध्वस्तात् कार्याद् वैरी परीक्षितः

2.118

तत् स्वागतं भवतः । स्व-गृह-वदास्यताम् अत्र सरस्-तीरे । यच् च वित्त्-नाशो विदेश-वासश् च ते सञ्जातस् तत्र विषये सन्तापो न कर्तव्यः । उक्तं च-
अभ्रच्-छाया खल-प्रीतिः समुद्रान्ते च मेदिनी ।
अल्पेनैव विनश्यन्ति यौवनानि धनानि च

2.119

अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च-
सुसञ्चितैर् जीवनवत् सुरक्षितैर्
निजेऽपि देहे न वियोजितैः क्वचित् ।
पुंसो यमान्तं व्रजतो ऽपि निष्ठुरैर्
एतैर् धनैः पञ्चपदी न दीयते

2.120

अन्यच् च-
यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि ।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान्

2.121

निर्दोषम् अपि वित्ताढ्य दोषैर् योजयते नृपः ।
निधनः प्राप्त-दोषो ऽपि सर्वत्र निरुपद्रवः

2.122

अर्थानाम् अर्जनं कार्यं वर्धनं रक्षणं तथा ।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते

2.123

अर्थार्थी यानि कष्टानि मूढो ऽयं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन् मोक्षम् आप्नुयात्

2.124

को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो
यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् ।
यद् दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते
तस्मिन् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिनत्त्य् आत्मनः

2.125

अर्थ-हीनः परे देशे गतो ऽपि यः प्रज्ञावान् भवति स कथञ्चिद् अपि न सीदति । उक्तं च-
को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम्

2.126

तत् प्रज्ञा-निधिर् भवान् न प्राकृत-पुरुष-तुल्यः । अथवा-
उत्साह-सम्पन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् ।
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः

2.127

अपरं प्राप्तो ऽप्य् अर्थः कर्म-प्राप्त्या नश्यति । तद् एतावन्ति दिनानि त्वदीयम् आसीत् । मुहूर्तम् अप्य् अनात्मीयं भोक्तुं न लभ्यते । स्वयम् आगतम् अपि विधिनापह्रियते ।
अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा

2.128

हिरण्यक आह--कथम् एतत् ?
स आह-
कथा 5
सोमिलक-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सो ऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्य् उत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथम् अप्य् अर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तान् अवलोक्य स स्व-भार्याम् आह-प्रिये ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान् । तद् अधारणकं ममैतत् स्थानम् । तद् अन्यत्रोपार्जनाय गच्छामि ।
सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितम् एतद् यद् अन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च-
उत्पतन्ति यद् आकाशे निपतन्ति महीतले ।
पक्षिणां तद् अपि प्राप्त्या नादत्तम् उपतिष्ठति

2.129

तथा च-
न हि भवति यन् न भाव्यं
भवति च भाव्यं विनापि यत्नेन ।
कर-तल-गतम् अपि नश्यति
यस्य तु भवितव्यता नास्ति

2.130

यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं ।
तथा पूर्व-कृतं कर्म कर्तारम् अनुगच्छति

2.131

शेते सह शयानेन गच्छन्तम् अनुगच्छति ।
नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना

2.132

यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परं ।
एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम्

2.133

कौलिक आह-प्रिये ! न सम्यग् अभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च-
यथैकेन न हस्तेन तालिका संप्रपद्यते ।
तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम्

2.134

पश्य कर्म-वशात् प्राप्तं भोज्यकालेऽपि भोजनम् ।
हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन

2.135

तथा च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः

2.136

तथा च-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः

2.137

उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
कातरा इति जल्पन्ति यद् भाव्यं तद् भविष्यति

2.138

स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति ।
नोपालभ्यः पुमांस् तत्र दैवान्तरित-पौरुषः

2.139

तन् मयावश्यं देशान्तरं गन्तव्यम् ।
इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस् तस्य कदाचिद् अटव्यां पर्यटतो भगवान् रविर् अस्तम् उपागतः । तत्र च व्याल-भयात् स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्ताव् अशृणोत् ।
तत्रैक आह-भोः कर्तः त्वं किं सम्यङ् न वेत्सि यद् अस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर् नास्ति । तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।
स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस् त्वद् आयत्तेति । अथ यावद् असौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिम् अवलोकयति तावद् रिक्तं पश्यति ।
ततः साक्षेपं चिन्तयामास । अहो किम् एतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद् व्यर्थ-श्रमो ऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तद् एव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकम् उपार्ज्य भूयो ऽपि स्व-स्थानं प्रति प्रस्थितः । यावद् अर्ध-पथे भूयो ऽटवी-गतस्य भगवान् भानुर् अस्तंजगामाथ सुवर्ण-नाश-भयात् सुश्रान्तो ऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति ।
अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत् किं न वेत्सि यद् भोजनाच्छादनाभ्यधिकम् अस्य किंचिन् नास्ति ।
स आह-भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस् त्वद्-आयत्तः । तत् किं माम् उपालम्भयसि ?
तच् छ्रुत्वा सोमिलको यावद् ग्रन्थिम् अवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखम् आपन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तद् अत्र वट-वृक्ष आत्मानम् उद्बध्य प्राणांस् त्यजामि ।
एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायाम् आत्मानं निबध्य यावत् प्रक्षिपति तावद् एकः पुमान् आकाश-स्थ एवेदम् आह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकाम् अपि सहामि । तद् गच्छ स्व-गृहं प्रति । अन्यच् च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद् व्यर्थं दर्शनम् । तत् प्रार्थ्यताम् अभीष्टो वरः कश्चित् ।
सोमिलक आह-यद्य् एवं तद् देहि मे प्रभूतं धनम् ।
स आह-भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस् तव भोजनाच्छादनाभ्यधिका प्राप्तिर् अपि नास्ति ? उक्तं च-
किं तया क्रियते लक्ष्म्या या वधूर् इव केवला ।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते

2.140

सोमिलक आह-यद्य् अपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च-
कृपणो ऽप्य् अकुलीनो ऽपि सदा संश्रित-मानुषैः ।
सेव्यते स नरो लोके यस्य स्याद् वित्त-सञ्चयः

2.141

तथा च-
शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च

2.142

पुरुष आह-किम् एतत् ?
सो ऽब्रवीत्-
कथा 6
तीक्ष्ण-विषाण-शृगाल-कथा
कस्मिंश्चिद् अधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात् परित्यक्त-निज-यूठः शृङ्गाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्न् अरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस् तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तद् एव पुलिनम् अवतीर्णः । ततश् च तस्य लम्बमानौ वृषणाव् आलोक्य शृगाल्या शृगालो ऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं ।
शृगाल आह-प्रिये ! न ज्ञायते कदाचिद् एतयोः पतनं भविष्यति वा न वा । तत् किं वृथा श्रमाय मां नियोजयसि ? अत्र-स्थस् तावज् जलार्थम् आगतान् मूषकान् भक्षयिष्यामि समं त्वया । मार्गो ऽयं यतस् तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिद् एतत् स्थानं समाश्रयिष्यति । नैतद् युज्यते कर्तुम् । उक्तं च-
यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव च

2.143

शृगाल्य् आह-भोः कापुरुषस् त्वं यत् किंचित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च-
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति

2.144

तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च-
यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः ।
नय-विक्रम-संयोगस् तत्र श्रीर् अचला ध्रुवं

2.145

तद् दैवम् इति सञ्चिन्त्य त्यजेन् नोद्योगम् आत्मनः ।
अनुयोगं विना तैलं तिलानां नोपजायते

2.146

अन्यच् च-
यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर् जनः ।
तस्य भाग्य-विहीनस्य दत्ता श्रीर् अपि मार्ज्यते

2.147

यच् च त्वं वदसि । एतौ पतिष्यतो न वेति । तद् अप्य् अयुक्तम् । उक्तं च-
कृत-निश्चयिनो वन्द्यास् तुङ्गिमा नोपभुज्यते ।
चातकः को वराको ऽयं यस्येन्द्रो वारिवाहकः

2.148

अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत् सर्वथा नान्यथा कर्तव्यम् इति । अथासौ तद् आकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठम् अन्वगच्छत् । अथ वा साध्व् इदम् उच्यते-
तावत् स्यात् सर्व-कृत्येषु पुरुषो ऽत्र स्वयं प्रभुः ।
स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन् नो ध्रियते बलात्

2.149

अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः

2.150

एवं स तस्य पृष्ठतः स-भार्यः परिभ्रमंश् चिर-कालम् अनयत् । न च तयोः पतनम् अभूत् । ततश् च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्याम् आह-शिथिलौ च सुबद्धौ च (141) इत्यादि ।
तयोस् तत्-पश्चाद् अपि पातो न भविष्यति । तत् तद् एव स्व-स्थानं गच्छावः । अतो ऽहं ब्रवीमि-शिथिलौ च सुबद्धौ च (141) इति ।
पुरुष आह-यद्य् एवं तद् गच्छ भूयो ऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस् तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततस् त्वाम् अपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तद् उपभुक्त-धनं करोमीति । एवम् उक्त्वादर्शनं गतः ।
सोमिलको ऽपि विस्मित-मना भूयो ऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथम् अपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल् लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद् गृहं प्रविश्योपविष्टः । ततश् च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिद् अशनं दत्तम् । ततश् च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् ताव् अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह-भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्यो ऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम् । तद् अयुक्तं त्वया कृतम् ।
स आह-भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर् दातव्या । तत्-परिणतिः पुनस् त्वद्-आयत्तेति । अथासौ यावद् उत्तिष्ठति तावद् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्-दोषेण कृतोपवासः सञ्जातः ।
सोमिलको ऽपि प्रभाते तद्-गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-संमानस् तस्यैव गृहे भव्य-शय्याम् आरुह्य सुष्वाप । ततश् च निशीथे यावत् पश्यति तावत् ताव् एव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोर् एक आह-भोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत् कथय कथम् अस्योद्धारक-विधिर् भविष्यति । अनेन सर्वम् एतद् व्यवहारक-गृहात् समानीतम् ।
स आह-भोः कर्मन् ! मम कृत्यम् एतत् । परिणतिस् त्वद्-आयत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तम् आदाय समायात उपभुक्त-धनाय समर्पयाम् आस ।
तद् दृष्ट्वा सोमिलकश् चिन्तयामास । सञ्चय-रहितो ऽपि वरम् एष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च-
अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् ।
रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम्

2.151

तद् विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतो ऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति ।
गृह-मध्य-निखातेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयं

2.152

तद् भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानम् अपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम् । उक्तं च-
उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाह इवाम्भसाम्

2.153

तथा च-
उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परिवाह इवाम्भसाम्

2.154

अन्यच् च-
दानं भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर् भवति

2.155

एवं ज्ञात्वा विवेकिना न स्थित्य्-अर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च-
धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः ।
तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम्

2.156

सर्पाः पिबन्ति पवनं न च दुर्बलास् ते
शुष्कैस् तृणैर् वन-गजा बलिनो भवन्ति ।
कन्दैः फलैर् मुनि-वरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम्

2.157

सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् ।
कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम्

2.158

पीयूषम् इव संतोषं पिबतां निर्वृतिः परा ।
दुःखं निरन्तरं पुंसाम् असंतोषवतां पुनः

2.159

निरोधाच् चेतसो ऽक्षाणि निरुद्धान्य् अखिलान्य् अपि ।
आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर् गभस्तयः

2.160

वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः ।
वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः

2.161

अनिन्द्यम् अपि निन्दन्ति स्तुवन्त्य् अस्तुत्यम् उच्चकैः ।
स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते

2.162

धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा ।
प्रक्षालनाद्द् हि पङ्कस्य दूराद् अस्पर्शनं वरम्

2.163

दानेन तुल्यो निधिर् अस्ति नान्यो
लोभाच् च नान्यो ऽस्ति परः पृथिव्याम् ।
विभूषणं शील-समं न चान्यत्
सन्तोष-तुल्यं धनम् अस्ति नान्यत्

2.164

दारिद्र्यस्य परा मूर्तिर् यन् मान-द्रविणाल्पता ।
जरद्-गव-धनः शर्वस् तथापि परमेश्वरः

2.166

एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनम् आकर्ण्य वायस आह-भद्र मन्थरको यद् एवं वदति तत् त्वया चित्ते कर्तव्यम् । अथवा साध्व् इदम् उच्यते-
सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः

2.167

अप्रियाण्य् अपि पथ्यानि ये वदन्ति नृणाम् इह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर् नाम-धारकाः

2.168

अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस् तस्मिन्न् एव सरसि प्रविष्टः । अथायान्तं स-सम्भ्रमम् अवलोक्य लघुपतनको वृक्षम् आरूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयम् आस्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकम् उवाच-एह्य् एहि सखे मन्थरक ! मृगो ऽयं तृषार्तो ऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दो ऽयं न मानुष-सम्भव इति ।
तच् छ्रुत्वा मन्थरको देश-कालोचितम् आह-भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतम् उच्छ्वासम् उद्वहन्न् उद्भ्रान्त-दृष्ट्या पृष्ठतो ऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः । तज् ज्ञायताम् अस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च-
भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः ।
दिशो ऽवलोकयत्य् एव न स्वास्थ्यं व्रजति क्वचित्

2.169

तच् छ्रुत्वा चित्राङ्ग आह-भो मन्थरक ! ज्ञातं त्वया सम्यङ् मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहाराद् उद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर् लुब्धकैर् व्यापादितं भविष्यति । तच् छरणागतस्य मे दर्शय किंचिद् अगम्यं स्थानं लुब्धकानाम् ।
तद् आकर्ण्य मन्थरक आह-भोश् चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् ।
द्वाव् उपायाव् इह प्रोक्तौ विमुक्तौ शत्रु-दर्शने ।
हस्तयोश् चालनाद् एको द्वितीयः पाद-वेग-जः

2.170

तद् गम्यतां शीघ्रं घनं वनं यावद् अद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः ।
अत्रान्तरे लघुपतनकः सत्वरम् अभ्युपेत्योवाच-भो मन्थरक ! गतास् ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच् चित्राङ्ग ! त्वं विश्रब्धो जलाद् बहिर् भव ।
ततस् ते चत्वारो ऽपि मित्र-भावम् आश्रितास् तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् सुभाषित-गोष्ठी-सुखम् अनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तम् एतद् उच्यते-
सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं ।
विनापि संगमं स्त्रीणां कवीनां सुखम् एधते

2.171

सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः ।
स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम्

2.172

तथा च-
सकृद् उक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य संपुटिका नास्ति कुतस् तस्य सुभाषितम्

2.173

अथैकस्मिन्न् अहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुम् आरब्धाः । अहो किम् अद्य सुहृन् न समायातः । किं सिंहादिभिः क्वचिद् व्यापादित उत लुब्धकैर् अथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्याद् इति । अथवा साध्व् इदम् उच्यते-
स्व-गृहोद्यान-गतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् ।
किम् उ दृष्ट-बह्व्-अपाय-प्रतिभय-कान्तार-मध्य-स्थे

2.174

अथ मन्थरको वायसम् आह-भो लघुपतनकाहं हिरण्यकश् च तावद् द्वाव् अप्य् अशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद् गत्वा त्वम् अरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसीति ।
तद् आकर्ण्य लघुपतनको नातिदूरे यावद् गच्छति तावत् पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस् तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास् तम् अवोचत् । भद्र किम् इदम् ? चित्राङ्गो ऽपि वायसम् अवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तम् एतत्-
अपि मन्दत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात् ।
प्रायेण प्राणिनां भूयो दुःखावेगो ऽधिको भवेत्

2.175

ततश् च वाष्पावसाने चित्राङ्गो लघुपतनकम् आह-भो मित्र संजातो ऽयं तावन् मम मृत्युः । तद् युक्तं सम्पन्नं यद् भवता सह मे दर्शनं सञ्जातम् । उक्तं च-
प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनं ।
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतो ऽपि मृतस्य च

2.176

तत् क्षन्तव्यं यन् मया प्रणयात् सुभाषित-गोष्ठीष्व् अभिहितं । तथा हिरण्यक-मन्थरकौ मम वाक्याद् वाच्यौ ।
अज्ञानाज् ज्ञानतो वापि दुरुक्तं यद् उदाहृतम् ।
मया तत् क्षम्यताम् अद्य द्वाभ्याम् अपि प्रसादतः

2.177

तच् छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यम् अस्मद्-विधैर् मित्रैर् विद्यमानैः । यावद् अहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वम् उपयान्ति । उक्तं च-
सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं

2.178

एवम् उक्त्वा लघुपतनकश् चित्राङ्गम् आश्वास्य यत्र हिरण्यक-मन्थरकौ तिष्ठतस् तत्र गत्वा सर्वं चित्राङ्ग-पाश-पतनं कथितवान् । हिरण्यकं च चित्राङ्ग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठम् आरोप्य भूयो ऽपि सत्वरं चित्राङ्ग-समीपे गतः । सो ऽपि मूषकम् अवलोक्य किंचिज् जीविताशया संश्लिष्ट आह-
आपन्-नाशाय विबुधैः कर्तव्याः सुहृदो ऽमलाः ।
न तरत्य् आपदं कश्चिद् यो ऽत्र मित्र-विवर्जितः

2.179

हिरण्यक आह-भद्र त्वं तावन् नीति-शास्त्र-ज्ञो दक्ष इति । तत् कथम् अत्र कूट-पाशे पतितः ?
स आह-भो न कालो ऽयं विवादस्य । तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्-पाद-पाशं ।
तद् आकर्ण्य विहस्याह हिरण्यकः-किं मय्य् अपि समायाते लुब्धकाद् बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद् भवद्-विधा अपि नीति-शास्त्र-विद एताम् अवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि ।
स आह-भद्र कर्मणा बुद्धिर् अपि हन्यते । उक्तं च-
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसां ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि

2.180

विधात्रा रचिता या सा ललाटेऽक्षर-मालिका ।
न तां मार्जयितुं शक्ताः स्व-शक्त्याप्य् अतिपण्डिताः

2.181

एवं तयोः प्रवदतोः सुहृद्-व्यसन-सन्तप्त-हृदयो मन्थरकः शनैः शनैस् तं प्रदेशम् आजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकम् आह-अहो न शोभनम् आपतितम् ।
हिरण्यक आह-किं स लुब्धकः समायाति ?
स आह-आस्तां तावल् लुब्धक-वार्ता । एष मन्थरकः समागच्छति । तद् अनीतिर् अनुष्ठितानेन यतो वयम् अप्य् अस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तद् अहं तावत् खम् उत्पतिष्यामि । त्वं पुनर् बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गो ऽपि वेगेन दिग्-अन्तरं यास्यति । एष पुनर् जलचरः स्थले कथं भविष्यतीति व्याकुलो ऽस्मि । अत्रान्तरे प्राप्तो ऽयं मन्थरकः ।
हिरण्यक आह-भद्र, न युक्तम् अनुष्ठितं भवता यद् अत्र समायातः । तद् भूयो ऽपि द्रुततरं गम्यतां यावद् असौ लुब्धको न समायाति ।
मन्थरक आह-भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहम् अत्रागतः । अथवा साध्व् इदम् उच्यते-
दयित-जन-विप्रयोगो वित्त-वियोगश् च सह्याः स्युः ।
यदि सुमहौषध-कल्पो वयस्य-जन-संगमो न स्यात्

2.182

वरं प्राण-परित्यागो न वियोगो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्-विधाः

2.183

एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धको ऽप्य् उपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस् तत्-क्षणात् खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठम् अवलोकयन् प्रधावितः । लघुपतनको वृक्षम् आरूढः । हिरण्यकश् च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद् विषण्ण-वदनो व्यर्थ-श्रमस् तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच् च-यद्य् अपि कुरङ्गो धात्रापहृतस् तथाप्य् अयं कूर्म आहारार्थं सम्पादितः । तद् अद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर् भविष्यति ।
एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानम् अवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टम् आपतितम् ।
एकस्य दुःखस्य न यावद् अन्तं
गच्छाम्य् अहं पारम् इवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति

2.184

तावद् अस्खलितं यावत् सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने विषमे च पदे पदे

2.185

यन् नम्रं सरलं चापि यच् चापत्सु न सीदति ।
धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम्

2.186

न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रम्भस् तादृशः पुंसां यादृङ् मित्रे निरन्तरे

2.187

यदि तावत् कृतान्तेन मे धन-नाशो विहितस् तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्माद् अपहृतं । अपरम् अपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च-
असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा ।
आपद्-विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम्

2.188

तद् अस्य पश्चान् नान्यः सुहृन् मे । तत् किं ममोपर्य् अनवरतं व्यसन-शरैर् वर्षति हन्त विधिः । यत आदौ तावद् वित्त-नाशस् ततः परिवार-भ्रंशस् ततो देश-त्यागस् ततो मित्र-वियोग इति । अथवा स्वरूपम् एतत् सर्वेषाम् एव जन्तूनां जीवित-धर्मस्य । उक्तं च-
कायः संनिहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम्

2.189

तथा च-
क्षते प्रहारा निपतन्त्य् अभीक्ष्णं
धन-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति
च्छिद्रेष्व् अनर्था बहुली-भवन्ति

2.190

अहो साधूक्तं केनापि ।
प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं ।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयं

2.191

अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह-अहो किं वृथा-प्रलपितेन । तद् यावद् एष मन्थरको दृष्टि-गोचरान् न नीयते तावद् अस्य मोक्षोपायश् चिन्त्यताम् इति । उक्तं च-
व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् ।
क्रन्दनं वर्धयत्य् एव तस्यान्तं नाधिगच्छति

2.192

केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः ।
तस्योच्छेद-समारम्भो विषाद-परिवर्जनं

2.193

अन्यच् च-
अतीत-लाभस्य सुरक्षणार्थं
भविष्य-लाभस्य च सङ्गमार्थम् ।
आपत्-प्रपन्नस्य च मोक्षणार्थं
यन् मन्त्र्यतेऽसौ परमो हि मन्त्रः

2.194

तच् छ्रुत्वा वायस आह-भो यद्य् एवं तत् क्रियतां मद्-वचः । एष चित्राङ्गो ऽस्य मार्गे गत्वा किंचित् पल्वलम् आसाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहम् अप्य् अस्य शिरसि समारुह्य मन्दैश् चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धको ऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।
चित्राङ्गः प्राह-भो भद्रो ऽयं दृष्टो मन्त्रस् त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च-
सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् ।
प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः

2.195

तत् तद् एवं क्रियताम् । तथानुष्ठिते स लुब्धकस् तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथम् अद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराको ऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथम् अप्य् एतद् वनान्तरं प्रविष्टो यावन् मृतः । तद् वश्यो ऽयं मे कच्छपः सुयन्त्रितत्वात् । तद् एनम् अपि तावद् गृह्णामीत्य् अवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगम् उपाद्रवत् ।
अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद् दर्भ-वेष्टनं तत्-क्षणात् खण्डशः कृतं । मन्थरको ऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गो ऽप्य् अप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपो ऽपि गतः । ततश् च तत्रोपविश्येमं श्लोकम् अपठत्-
प्राप्तो बन्धनम् अप्य् अयं गुरु-मृगस् तावत् त्वया मे हृतः
सम्प्राप्तः कमठः स चापि नियतं नष्टस् तवादेशतः ।
क्षुत्-क्षामो ऽत्र वने भ्रमामि शिशुकैस् त्यक्तः समं भार्यया
यच् चान्यन् न कृतं कृतान्त कुरुते तच् चापि सह्यं मया

2.196

एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन् दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परम् आलिङ्ग्य पुनर् जातान् इवात्मनो मन्यमानस् तद् एव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च-
यो मित्राणि करोत्य् अत्र न कौटिल्येन वर्तते ।
तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन

मूल पाठ: Pañcatantra · Edition: Ramchandra Jha, 6th edition, Varanasi : Chowkhamba Vidyabhavan, 1991. (Vidyabhavan Sanskrit Grantha Mala, 17) Also consulted: ed. by M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc