पञ्चतन्त्र · अध्याय 3
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-सम्प्राप्तिर् नाम
द्वितीयं तन्त्रं समाप्तम्
॥2॥
तृतीयं तन्त्रम्
अथ काकोलूकीयम्
प्रस्तावना कथा
मेघवर्णारिमर्दन-वृत्तान्तः
अथेदम् आरभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः-
न विश्वसेत् पूर्व-विरोधितस्य
शत्रोश् च मित्रत्वम् उपागतस्य ।
दग्धां गुहां पश्य उलूक-पूर्णां
काक-प्रणीतेन हुताशनेन
तद् यथानुश्रुयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थो ऽनेक-शाखासनाथो ऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपो ऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजो ऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्यो ऽरि-मर्दनो नामोलूक-राजो ऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्राव् अभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद् वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच् छनैः शनैस् तन् न्यग्रोध-पादपद्-दुर्गं तेन समन्तान् निर्वायसं कृतम् । अथवा भवत्य् एवम् । उक्तं च-
य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया ।
रोगं चालस्य-संयुक्तः स शनैस् तेन हन्यते
तथा च-
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महाबलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते
अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच-भोः ! उत्कटस् तावद् अस्माकं शत्रुर् उद्यम-सम्पन्नश् च कालविच् च नित्यम् एव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत् कथम् अस्य प्रतिविघातव्यम् ? वयं तावद् रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तद् अत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः-युक्तम् अभिहितं देवेन यद् एष प्रश्नः कृतः । उक्तं च-
अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः
यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् ।
मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम्
तस्माद् एकान्तम् आसाद्य कार्यो मन्त्रो महीपते ।
येन तस्य वयं कुर्मो नियमं कारणं तथा
उक्तं च-
बलीयसि प्रणमतां काले प्रहरताम् अपि ।
सम्पदो नावगच्छन्ति प्रतीपम् इव निम्नगाः
सत्याढ्यो धार्मिकश् चार्यो भ्रातृ-सङ्घातवान् बली ।
अनेक-विजयी चैव सन्धेयः स रिपुर् भवेत्
सन्धिः कार्यो ऽप्य् अनार्येण विज्ञाय प्राण-संशयम् ।
प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम्
अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति ।
तत्-प्रभावेण तस्याशु वशं गच्छन्त्य् अरातयः
सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयी युधि ।
न हि सांशयिकं कुर्याद् इत्य् उवाच बृहस्पतिः
सन्दिग्धो विजयो युद्धे जनानाम् इह युद्ध्यताम् ।
उपाय-त्रितयाद् ऊर्ध्वं तस्माद् युद्धं समाचरेत्
असन्दधानो मानान्धः समेनापि हतो भृशम् ।
आमकुम्भम् इवाभित्त्वा नावतिष्ठेत शक्तिमान्
समं शक्तिमता युद्धम् अशक्तस्य हि मृत्यवे ।
वृषत्कुम्भं यथा भित्त्वा तावत् तिष्ठति शक्तिमान्
अन्यच् च-
भूमिर् मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् ।
नास्त्य् एकम् अपि यद्य् एषां विग्रहं न समाचरेत्
खनन्न् आखु-बिलं सिंहः पाषाण-शकलाकुलम् ।
प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत्
तस्मान् न स्यात् फलं यत्र पुष्टं युद्धं तु केवलम् ।
न हि तत् स्वयम् उत्पाद्यं कर्तव्यं न कथञ्चन
बलीयसा समाक्रान्तो वैतसीं वृत्तिम् आश्रयेत् ।
वाञ्छन्न् अभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन
कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् ।
भुजङ्ग-वृत्तिम् आपन्नो वधम् अर्हति केवलम्
कौर्मं सङ्कोचम् आस्थाय प्रहारान् अपि मर्षयेत् ।
काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत्
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत्
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिद् उपसर्पति
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम्
उक्तं च-
सत्य-धर्म-विहीनेन न सन्दध्यात् कथञ्चन ।
सुगन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम्
तस्मात् तेन योद्धव्यम् इति मे मतिः । उक्तं च यतः-
क्रूरो लुब्धो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः ।
मूढो योधावमन्ता च सुखोच्छेद्यो भवेद् रिपुः
अपरं तेन पराभूता वयम् । तद् यदि सन्धान-कीर्तनं करिष्यामस् तद् भूयो ऽत्यन्तं कोपं करिष्यति । उक्तं च-
चतुर्थोपाय-साध्ये तु रिपौ सान्त्वम् अपक्रिया ।
स्वेद्यम् आम-ज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति
सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः ।
प्रतप्तस्येव सहसा सर्पिषस् तोय-बिन्दवः
प्रमाणाभ्यधिकस्यापि महत्-सत्त्वम् अधिष्ठितः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः
उत्साह-शक्ति-सम्पन्नो हन्याच् छत्रुं लघुर् गुरुम् ।
यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते
मायया शत्रवो वध्या अवध्याः स्युर् बलेन ये ।
यथा स्त्री-रूपम् आस्थाय हतो भीमेन कीचकः
तथा च-
मृत्योर् इवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः ।
सर्वंसहं तु मन्यन्ते तृणाय रिपवश् च तम्
न जातु शमनं यस्य तेजस् तेजस्वि-तेजसाम् ।
वृथा जातेन किं तेन मातुर् यौवन-हारिणा
या लक्ष्मीर् नानुलिप्ताङ्गी वैर्-शोणित-कुङ्कुमैः ।
कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम्
रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस् तथा ।
न भूमिर् यस्य भूपस्य का श्लाघा तस्य जीविते
बलोत्कटेन दुष्टेन मर्यादा-रहितेन च ।
न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते
द्विधाकारं भवेद् यानं भवेत् प्राणार्थ-रक्षणम् ।
एकम् अन्यज् जिगीषोश् च यात्रालक्षणम् उच्यते
कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
यानम् उत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा
अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च
स्वस्थानं सुदृढं कृत्वा शूरैश् चातैर् महाबलैः ।
पर-देशं ततो गच्छेत् प्रणिधि-व्याप्तम् अग्रतः
अज्ञातवी-वधासार-तोय-शस्यो व्रजेत् तु यः ।
पर-राष्ट्रं न भूयः स स्व-राष्ट्रम् अधिगच्छति
तत् ते युक्तं कर्तुम् अपसरणम् । अन्यच् च-
तन् न युक्तं प्रभो कर्तुं द्वितीयं यानम् एव च ।
न विग्रहो न सन्धानं बलिना तेन पापिना
अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च-
यद् अपसरति मेषः कारणं तत् प्रहर्तुं
मृग-पतिर् अपि कोपात् सङ्कुचत्य् उत्पतिष्णुः ।
हृदय-निहित-भावा गूढ-मन्त्र-प्रचाराः
किम् अपि विगणयन्तो बुद्धिमन्तः सहन्ते
अन्यच् च-
बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः ।
युधिष्ठिर इवाप्नोति पुनर् जीवन् स मेदिनीम्
युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा ।
स तस्य वाञ्छितं कुर्याद् आत्मनश् च कुल-क्षयम्
तद् बलवताभियुक्त्स्यापसरण-समयो ऽयं न सन्धेर् विग्रहस्य च । एवम् अनुजीवि-मन्त्रो ऽपसरणस्य ।
अथ तस्य वचनम् आकर्ण्य प्रजीवनम् आह-भद्र ! त्वम् अप्य् आत्मनो ऽभिप्रायं वद ।
सो ऽब्रवीत्-देव ! मम सन्धि-विग्रह-यानानि त्रीण्य् अपि न प्रतिभान्ति । विशेषतश् चासनं प्रतिभाति । उक्तं च-
नक्रः स्व-स्थानम् आसाद्य गजेन्द्रम् अपि कर्षति ।
स एव प्रच्युतः स्थानाच् छुनापि परिभूयते
तथा-
अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये
यो रिपोर् आगमं श्रुत्वा भय-सन्त्रस्त-मानसः ।
स्व-स्थानं हि त्यजेत् तत्र न तु भूयो विशेच् च सः
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
स्थान-हीनस् तथा राजा गम्यः स्यात् सर्व-जन्तुषु
निज-स्थान-स्थितो ऽप्य् एकः शतं योद्धुं सहेन् नरः ।
शक्तानाम् अपि शत्रूणां तस्मात् स्थानं न सन्त्यजेत्
तस्माद् दुर्गं दृढं कृत्वा सुभटासार-संयुतम् ।
प्राकार-परिखा-युक्तं शस्त्रादिभिर् अलङ्कृतम्
तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः ।
जीवन् सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गम् एष्यति
(युग्मकम्)
अन्यच् च-
बलिनापि न बाध्यन्ते लघवो ऽप्य् एक-संश्रयाः ।
विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः
महान् अप्य् एकजो वृक्षः बलवान् सुप्रतिष्ठितः ।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः
अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः ।
ते न रौद्रानिलेनापि हन्यन्ते ह्य् एक-संश्रयात्
एवं मनुष्यम् अप्य् एकं शौर्येणापि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम्
एवं प्रजीव-मन्त्रः । इदम् आसन-संज्ञकम् ।
एतत् समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वम् अपि स्वाभिप्रायं वद ।
सो ऽब्रवीत्-देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च-
असहायः समर्थो ऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलितो वह्निः स्वयम् एव प्रशाम्यति
सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः ।
तुषैर् अपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः
तद् अत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस् त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत् को ऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः-
वनानि दहतो वह्नेः सखी भवति मारुतः ।
स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम्
अथवा नैतद् एकान्तं यद् बलिनम् एकं समाश्रयेत् । लघूनाम् अपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः-
सङ्घातवान् यथा वेणुर् निविडैर् वेणुभिर् वृतः ।
न शक्येत समुच्छेत्तुं दुर्बलो ऽपि यथा नृपः
यदि पुनर् उत्तम-संश्रयो भवति तत् किम् उच्यते ? उक्तं च-
महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः ।
पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम्
तद् एवं संश्रयं विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः ।
अथैवम् अभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात ! यद् एते मया पृष्टाः सचिवास् तावद् अत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यद् उचितं तन् मे समादिशसि । तद् यद्य् उक्तं भवति तस् समादेश्यम् ।
स आह-वत्स ! सर्वैर् अप्य् एतैर् नीति-शास्त्राश्रयम् उक्तं सचिवैः । तद् उपयुज्यते स्व-कालोचितं सर्वम् एव । परम् एष द्वैधीभावस्य कालः । उक्तं च-
अविश्वासं सदा तिष्ठेत् सन्धिना विग्रहेण च ।
द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि
तच् छत्रुं विश्वास्याविश्वस्तैर् लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च-
उच्छेद्यम् अपि विद्वांसो वर्धयन्त्य् अरिम् एकदा ।
गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत्
तथा च-
स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः ।
यो भवेद् एक-भावो ऽत्र न स जीवति मानवः
कृत्यं देव-द्विजातीनाम् आत्मनश् च गुरोस् तथा ।
एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम्
एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम्
तद् द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच् च शत्रुम् उच्चाटयिष्यसि अपरं-यदि किञ्चिच् छिद्रं तस्य पश्यसि, तद् गत्वा व्यापादयिष्यसि ।
मेघवर्ण आह-तात मया सो ऽविदित संश्रयः । तत् कथं तस्य छिद्रं ज्ञास्यामि ?
स्थिरजीव्य् आह-वत्स ! न केवलं स्थानं, छिद्राण्य् अपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च-
गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः ।
चारै पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः
उक्तं चात्र विषये-
यस् तीर्थानि निजे पक्षे पर-पक्षे विशेषतः ।
गुप्तैश् चारैर् नृपो वेत्ति न स दुर्गतिम् आप्नुयात्
मेघवर्ण आह-तात, कानि तीर्थान्य् उच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत् सर्वं निवेद्यताम् इति ।
स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच् छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस् त्रिभिर् गुप्तचरैस् तानि ज्ञेयानि । तैर् ज्ञातैः स्व-पक्षः पर-पक्षश् च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति-
कच्चिद् अष्टदशान्य् एषु स्व-पक्षे दश पञ्च च ।
त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः
तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद् यदि तेषां कुत्सितं भवति तत् स्वामिनो ऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्याद् इति । तद् यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग् रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः, आचार्यः, अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च-
वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश् चराः ।
तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु
तथा च-
कृत्वा कृत्य-विदस् तीर्थेष्व् अन्तः प्रणिधयः पदम् ।
विदाङ्कुर्वन्तु महतस् तलं विद्विषद्-अम्भसः
एवं मन्त्रि-वाक्यम् आकर्ण्यात्रान्तरे मेघवर्ण आह-तात ! अथ किं निमित्तम् एवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ?
स आह-वत्स ! कदाचिद् धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुम् आरब्धाः । अहो अस्माकं तावद् वैनतेयो राजा, स च वासुदेव-भक्तो न काम् अपि चिन्ताम् अस्माकं करोति । तत् किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर् नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च-
यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा ।
जन्तून् पार्थिव-रूपेण स कृतान्तो न संशयः
यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः ।
अकर्णधारा जलधौ विप्लवेतेह नौर् इव
षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे ।
अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम्
अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् ।
ग्राम-कामं च गोपालं वन-कामं च नापितम्
(युग्मम्)
तत्, सञ्चित्यान्यः कश्चिद् राजा विहङ्गमानां क्रियताम् इति । अथ तैर् भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम्-यद् एष उलूको राजास्माकं भविष्यति, तद् आनीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति ।
अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायाम् अग्र-महिष्यां कृकालिकायाम्, उलूको ऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतो ऽपि वायसः समायातः सो ऽचिन्तयत्-अहो ! किम् एष सकल-पक्षि-समागमो महोत्सवश् च ? अथ ते पक्षिणस् तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश् चतुरः श्रूयते । उक्तं च-
नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
दंष्ट्रिणां च शृगालस् तु श्वेभिक्षुस् तपस्विनाम्
तद् अस्यापि वचनं ग्राह्यम् । उक्तं च-
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
कथञ्चिन् न विलीयन्ते विद्वद्भिश् चिन्तिता नयाः
अथ वायसः समेत्य तान् आह-अहो ! किं महाजन-समागमो ऽयं परम-महोत्सवश् च ।
ते प्रोचुः-भोः ! नास्ति कश्चिद् विहङ्गमानां राजा, तद् अस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस् तिष्ठति समस्त-पक्षिभिः । तत्त्वम् अपि स्व-मतं देहि । प्रस्तावे समागतो ऽसि ।
अथासौ काको विहस्याह-अहो ! न युक्तम् एतत् । यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन् मम मतम् । यतः-
वक्र-नासं सुजिह्माक्षं क्रूरम् अप्रिय-दर्शनम् ।
अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम्
स्वभाव-रौद्रम् अत्युग्रं क्रूरम् अप्रिय-वादिनम् ।
उलूकं नृपतिं कृत्वा का नः सिद्धिर् भविष्यति
अपरं वैनतेये स्वामिनि स्थिते किम् एष दिवान्धः क्रियते राजा ? तद् यद्यपि गुणवान् भवति, तथाप्य् एकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते ।
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवो ऽत्र विपत्तये
तत् तस्य नाम्नापि यूयं परेषाम् अगम्या भविष्यथ । उक्तं च-
गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे ।
दुष्टानां पुरतः क्षेमं तत्-क्षणाद् एव जायते
तथा च-
व्यपदेशेन महतां सिद्दिः सञ्जायते परा ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम्
पक्षिण ऊचुः-कथम् एतत् ?
स आह-
कथा 1
चतुर्दन्त-नाम-महा-गज-कथा
कस्मिंश्चिद् वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन् महत्य् अनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषम् उपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश् च । तद् अन्विष्यतां कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति ।
ततश् चिरं ध्यात्वा तेनाभिहितम्-अस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत् तत्र गम्यतां इति ।
तथानुष्ट्ःइते पञ्चरात्रम् उपसर्पद्भिः समासादितस् तैः स ह्रदः । तत्र स्वेच्छया जलम् अवगाह्यास् तम् अनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच् छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तान्य् अपि समस्तैर् अपि तैर् गजैर् इतस् ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन् मृताः केचिज् जीव-शेषा जाताः ।
अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद् भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः-अहो विनष्टा वयम् । नित्यम् एवैतद् गज-यूथम् आगमिष्यति यतो नान्यत्र जलम् अस्ति । तत् सर्वेषां नाशो भविष्यति । उक्तं च-
स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः ।
हसन्न् अपि नृपो हन्ति मानयन्न् अपि दुर्जनः
तच् चिन्त्यतां कश्चिद् उपायः । तत्रैकः प्रोवाच-गम्यतां देश-त्यागेन । किम् अन्यत् ? उक्तं च मनुना व्यासेन च-
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन्
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि
ततश् चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचिद् विभीषिका । यत् कथम् अपि दैवान् न समायान्ति । उक्तं च-
निर्विषेणापि सर्पेण कर्तव्या महती फटा ।
विषं भवतु मा वास्तु फटाटोपो भयङ्करः
अथान्ये प्रोचुः-यद्य् एवं ततस् तेषां महद्-विभीषिका-स्थानम् अस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश् चन्द्र-मण्डले निवसति । तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच् चन्द्रस् त्वाम् अत्र ह्रद आगच्छन्तं निषेधयति, यतो ऽस्मत्-परिग्रहो ऽस्य समन्ताद् वसति । एवम् अभिहिते श्रद्धेय-वचनात् कदापि निवर्तते । अथान्ये प्रोचुः-यद्य् एवं तद् अस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तं च-
साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः ।
पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते
अन्यच् च-
यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकम् आचरेत् ।
मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति
तद् अन्विष्यतां यद्य् अस्माद् व्यसनाद् आत्मनां सुनिर्मुक्तिः ।
अथान्ये प्रोचुः-अहो युक्तम् एतत् । नान्यः कश्चिद् उपायो ऽस्माकं जीवितस्य । तथैव क्रियताम् ।
अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश् च । तथानुष्ठिते लम्बकर्णो ऽपि गज-मार्गम् आसाद्यागम्यं स्थलम् आरुह्य तं गजम् उवाच-भोः भोः दुष्ट-गज ! किम् एवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन् नागन्तव्यं निवर्त्यताम् इति ।
तद् आकर्ण्य विस्मित-मना गज आह-भोः ! कस् त्वम् ?
स आह-अहं लम्बकर्णो नाम शशकश् चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्य् एव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च-
उद्यतेष्व् अपि शस्त्रेषु बन्धु-वर्ग-वधेष्व् अपि ।
पुरुषाण्य् अपि जल्पन्तो वध्या दूता न भूभुजा
तच् छ्रुत्वा स आह-भोः शशक ! तत् कथय भगवतश् चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते ।
स आह-भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत् किं न वेत्ति भवान् । यन् मम परिग्रहो ऽयम् । तद् यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्य् अत्र ह्रदे नागन्तव्यम् इति सन्देशः ।
गज आह-अथ क्व वर्तते भगवान् स्वामी चन्द्रः ।
स आह-अत्र ह्रदे साम्प्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस् तिष्ठति । अहं पुनस् तवान्तिकं प्रेषितः ।
गज आह-यद्य् एवं तद् दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि ।
शशक आह-आगच्छ मया सहैककी येन दर्शयामि ।
तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बम् अदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस् तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद् भूयो ऽपि प्रभूतं कोपं करिष्यति ।
अथ गजो ऽपि त्रस्त-मनास् तं प्रणम्य पुनर् गमनाय प्रस्थितः । शशकश् च तद्-दिनाद् आरभ्य स-परिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म ।
अतो ऽहं ब्रवीमि व्यपदेशेन महताम् इति । अपि च-
क्षुद्रम् अलसं कापुरुषं व्यसनिनम् अकृतज्ञं जीवित-कामः ।
पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत्
तथा च-
क्षुद्रम् अर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ ।
उभाव् अपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ
ते प्रोचुः-कथम् एतत् ?
स आह-
कथा 2
शश-कपिञ्जल-कथा
कस्मिंश्चिद् वृक्षे पुराहम् अवसम् । तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तम् अनवेलायाम् आगतयोर् द्वयोर् अनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखम् अनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अन्यैश् चटकैः सहान्यं पक्व-शालि-प्राञं देशं गतः । ततो यावन् निशा-समयेऽपि नायातस् तावद् अहं सोद्वेग-मनास् तद्-विप्रयोग-दुःखितश् चिन्तितवान्-अहो किम् अद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति ।
एवं मे चिन्तयतो बहून्य् अन्यानि व्यतिक्रान्तानि । ततश् च तत्र कोटरे कदाचिच् छीघ्रगो नाम शशको ऽस्तम् अनवेलायाम् आगत्य प्रविष्टः । मयापि कपिञ्जल-निराशत्वेन न निवारितः । अथान्यस्मिन्न् अहनि कपिञ्जलः शालि-भक्षणाद् अतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयो ऽप्य् अत्रैव समायातः । अथवा साध्व् इदम् उच्यते-
न तादृग् जायते सौख्यम् अपि स्वर्गे शरीरिणाम् ।
दारिद्र्येऽपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे
अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपम् आह-भोः शशक ! न त्वया सुन्दरं कृतं, यन् ममावसथ-स्थाने प्रविष्टो ऽसि । तच् छीघ्रं निष्क्रम्यताम् ।
शशक आह-न तवेदं गृहम्, किन्तु ममैव । तत् किं मिथ्या परुषाणि जल्पसि ? उक्तं च-
वापी-कूप-तडागानां देवालय-कुजन्मनाम् ।
उत्सर्गात् परतः स्वाम्यम् अपि कर्तुं न शक्यते
तथा च-
प्रत्यक्षं यस्य यद् भुक्तं क्षेत्राद्यं दश वत्सरान् ।
तत्र भुक्तिः प्रमाणं स्याद् न साक्षी नाक्षराणि वा
मानुषाणाम् अयं न्यायो मुनिभिः परिकीर्तितः ।
तिरश्चां च विहङ्गानां यावद् एव समाश्रयः
तन् ममैतद् गृहम्, न तवेति ।
कपिञ्जल आह-भोः ! यदि स्मृतिं प्रमाणीकरोषि, तद् आगच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु ।
तथानुष्ठिते मयापि चिन्तितं-किम् अत्र भविष्यति ? मया द्रष्टव्यो ऽयं न्यायः । ततः कौतुकाद् अहम् अपि ताव् अनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस् तयोर् विवादं श्रुत्वा मार्गासन्नं नदी-तटम् आसाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुर् अर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनाम् अकरोत्-अहो ! असारो ऽयं संसारः । क्षण-भङ्गुराः प्राणाः । स्वप्न-सदृशः प्रिय-समागमः । इन्द्र-जालवत् कुटुम्ब-परिग्रहो ऽयम् । तद् धर्मं मुक्त्वा नान्या गतिर् अस्ति । उक्तं च-
अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्म-संग्रहः
यस्य धर्म-विहीनानि दिनान्य् आयान्ति यान्ति च ।
स लोहकार-भस्त्रेव श्वसन्न् अपि न जीवति
नाच्छादयति कौपीनं न दंश-मशकापहम् ।
शुनः-पुच्छम् इव व्यर्थं पाण्डित्यं धर्म-वर्जितम्
अन्यच् च-
पुलाका इव धान्येषु पूतिका इव् पक्षिषु ।
मशका इव मर्त्येषु येषां धर्मो न कारणम्
श्रेयः पुष्प-फलं वृक्षाद् दध्नः श्रेयो घृतं स्मृतम् ।
श्रेयस् तैलं च पुण्याकाच् छ्रेयान् धर्मस् तु मानुषात्
सृष्टा मूत्र-पुरीषार्थम् आहाराय च केवलम् ।
धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा
स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नय-पण्डिताः ।
बह्व्-अन्तराय-युक्तस्य धर्मस्य त्वरिता गतिः
सङ्क्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय पर-पीडनम्
श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्
अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भोः भोः कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति । तद् एनं पृच्छावः ।
कपिञ्जल आह-ननु स्वभावतो ऽयम् अस्माकं शत्रु-भूतः । तद् दूरे स्थित्वा पृच्छावः । कदाचिद् अस्य व्रत-वैकल्यं सम्पद्येत । ततो दूरस्थो ताव् ऊचतुः-भोस् तपस्विन् ! धर्मोपदेशक ! आवयोर् विवादो वर्तते । तद् धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति ।
स आह-भद्रौ ! मा मैवं वदतम् । निवृत्तो ऽहं नरक-मार्गाद् धिंसा-कर्मणः । अहिंसैव धर्म-मार्गः । उक्तं च-
अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः ।
यूका-मत्-कुण-दंशादींस् तस्मात् तान् अपि रक्षयेत्
हिंसकान्य् अपि भूतानि यो हिंसति स निर्घृणः ।
स याति नरकं घोरं किं पुनर् यः शुभानि च
एतेऽपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर् न जानन्ति । तत्र किलैतद् उक्तम्-अजयैष्टव्यम् । अजा व्रीहयस् तावत् सप्त-वार्षिकाः कथ्यन्ते न पुनः पशु-विशेषः । उक्तं च-
वृक्षांश् छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम् ।
यद्य् एवं गम्यते स्वर्गं नरकं केन गम्यते
तन् नाहं भक्षयामि । परं जय-पराजय-निर्णयं करिष्यामि । किन्त्व् अहं वृद्धो दूरान् न यथावच् छृणोमि । एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति । उक्तं च-
मानाद् वा यदि वा लोभात् क्रोधाद् वा यदि वा भयात् ।
यो न्यायम् अन्यथा ब्रूते स याति नरकं नरः
पञ्च पश्व्-अनृते हन्ति दश हन्ति गवानृते ।
शतं कन्यानृते हन्ति सहस्रं पुरुषानृते
उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः ।
तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ऋतम्
तस्माद् विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्ग-वर्तिनौ जातौ । ततश् च तेनापि सम-कालम् एवैकः पादान्तेनाक्रान्तो ऽन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताव् इति । अतो ऽहं ब्रवीमि-क्षुद्रम् अर्थ-पतिं प्राप्य (91) इति ।
भवन्तो ऽप्य् एनं दिवान्धं क्षुद्रम् अर्थ-पतिम् आसाद्य रात्र्य्-अन्धाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति । एवं ज्ञात्वा यद् उचितं तद् विधेयम् । अथ तस्य तद्-वचनम् आकर्ण्य साध्व् अनेनाभिहितम् इत्य् उक्ता, भूयो ऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलम् अवशिष्टो भद्रासनोपविष्टो ऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च-कः को ऽत्र भोः ! किम् अद्यापि न क्रियते ममाभिषेकः ?
इति श्रुत्वा कृकालिकयाभिहितम्-भद्र ! कुतो ऽयं विघ्नस् ते काकेन ? गताश् च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलम् एको ऽयं वायसो ऽवशिष्टस् तिष्ठति केनापि कारणेन । तत् त्वरितम् उत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि ।
तच् छ्रुत्वा स-विषादम् उलूको वायसम् आह-भो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद् राज्याभिषेको मे विघ्नितः ? तद् अद्य-प्रभृति सान्वयम् आवयोर् वैरं सञ्जातम् । उक्तं च-
रोहते सायकैर् विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम्
इत्य् एवम् अभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भय-व्याकुलो वायसो व्यचिन्तयत्-अहो ! अकारणं वैरम् आसादितं मया । किम् इदं व्याहृतम् ? उक्तं च-
अदेश-कालज्ञम् अनायति-क्षमं
यद् अप्रियं लाघव-कारि चात्मनः ।
यो ऽत्राब्रवीत् कारण-वर्जितं वचो
न तद् वचः स्याद् विषम् एव तद् भवेत्
बलोपपन्नो ऽपि हि बुद्धिमान् नरः
परे नयेन् न स्वयम् एव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षयेद्
अकारणात् को हि विचक्षणो विषम्
परिवादः परिषदि न कथञ्चित् पण्डितेन वक्तव्यः ।
सत्यम् अपि तन् न वाच्यं यद् उक्तम् असुखावहं भवति
सुहृद्भिर् आप्तैर् असकृद्-विचारितं
स्वयं हि बुद्ध्या प्रविचारिताश्रयम् ।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसां च भाजनम्
एवं विचिन्त्य काको ऽपि प्रयातः । तदा-प्रभृत्य् अस्माभिः सह कौशिकानाम् अन्वया-गतं वैरम् अस्ति ।
मेघवर्ण आह-तात ! एवं गतेऽस्माभिः किं क्रियते ?
स आह-वत्स ! एवं गतेऽपि षाड्गुण्याद् अपरः स्थूलो ऽभिप्रायो ऽस्ति । तम् अङ्गीकृत्य स्वयम् एवाहं तद्-विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च-
बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलद् इव
मेघवर्ण आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 3
मित्र-शर्म-ब्राह्मण-कथा
कस्मिंश्चिद् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद् ग्रामान्तरं गत्वा, कश्चिद् यजमानो याचितः-भो यजमान ! आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि मे पशुम् एकम् ।
अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सो ऽपि तं समर्थम् इतश् चेतश् च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे ।
अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः संमुखा बभूवुः । तैश् च तादृशं पीवर-तनुं स्कन्ध आरूढम् आलोक्य, मिथो ऽभिहितं-अहो ! अस्य पशोर् भक्षणाद् अद्यतनीयो हिम-पातो व्यर्थतां नीयते । तद् एनं वञ्चयित्वा पशुम् आदाय शीत-त्राणं कुर्मः ।
अथ तेषाम् एकतमो वेश-परिवर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे-भो भोः ! बालाग्निहोत्रिन् ! किम् एवं जन-विरुद्धं हास्य-कार्यम् अनुष्ठीयते ? यद् एष सारमेयो ऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः ।
श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः ।
रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत्
ततश् च तेन कोपाभिभूतेनाभिहितम्-अहो ! किम् अन्धो भवान् ? यत् पशुं सारमेयत्वेन प्रतिपादयसि ?
सो ऽब्रवीत्-ब्रह्मन् ! कोपस् त्वया न कार्यः । यथेच्छं गम्यताम् ।
अथ यावत् किञ्चिद् अध्वनो ऽन्तरं गच्छति, तावद् द्वितीयो धूर्तः सम्मुखम् अभ्युपेत्य तम् उवाच-भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभो ऽयं ते मृत-वत्सस् तथापि स्कन्धम् आरोपयितुम् अयुक्तम् । उक्तं च यतः-
तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः ।
पञ्च-गव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन वा
अथासौ स-कोपम् इदम् आह-भोः ! किम् अन्धो भवान् ? यत् पशुं मृत-वत्सं वदति ।
सो ऽब्रवीत्-भगवन् ! मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वम् आत्म-रुचिं समाचर इति ।
अथ यावत् स्तोकं वनान्तरं गच्छति तावत् तृतीयो ऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तम् उवाच-भोः ! अयुक्तम् एतत्, यद् रासभं स्कन्धाधिरूढं नयसि । तत् त्यज्यताम् एषः । उक्तं च-
यः स्पृशेद् रासभं मर्त्यो ज्ञानाद् अज्ञानतो ऽपि वा ।
स-चैलं स्नानम् उद्दिष्टं तस्य पाप-प्रशान्तये
तत् त्यजैनं यावद् अन्यः कश्चिन् न पश्यति ।
अथासौ तं पशुं रासभं मन्यमानो भयाद् भूमौ प्रक्षिप्य स्व-गृहम् उद्दिश्य पलायितुं प्रारब्धः । ततस् तेऽपि त्रयो मिलित्वा पशुम् आदाय यथेच्छं भक्षितुम् आरब्धाः ।
अतो ऽहं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (116) इति । अथवा साध्व् इदम् उच्यते-
अभिनव-सेवक-विनयैः प्राघुणकोक्तैर् विलासिनीर् उदितैः ।
धूर्त-जन-वचन-निकरैर् इह कश्चिद् अवञ्चितो नास्ति
किं च-दुर्बलैर् अपि बहुभिः सह विरोधो न युक्तः । उक्तं च-
बहवो न विरोद्धव्या दुर्जया हि महाजनाः ।
स्फुरन्तम् अपि नागेन्द्रं भक्षयन्ति पिपीलिकाः
मेघवर्ण आह-कथम् एतत् ?
स्थिरजीवी कथयति-
कथा 4
अतिदर्प-नाम-सर्प-कथा
अस्ति कस्मिंश्चिद् वल्मीके महा-कायः कृष्ण-सर्पो ऽतिदर्पो नाम । स कदाचिद् विलानुसारि-मार्गम् उत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुम् आरब्धः । निष्क्रामतश् च तस्य महा-कायत्वाद् दैव-वशतया लघु-विवरत्वाच् च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश् च । कति व्यापादयति कति वा ताडयति ? अथ प्रभूतत्वाद् विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गो ऽतिदर्पः पञ्चत्वम् उपागतः ।
अतो ऽहं ब्रवीमि-बहवो न विरोद्धव्या (121) इति । तद् अत्रास्ति मे किञ्चिद् वक्तव्यम् एव । तद् अवधार्य यथोक्तम् अनुष्ठीयताम् ।
मेघवर्ण आह-तत् समादेशय । तवादेशो नान्यथा कर्तव्यः ।
स्थिरजीवी प्राह-वत्स ! समाकर्णय तर्हि । सामादीन् अतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर् निर्भर्त्स्य । यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैर् आलिप्यास्यैव न्यग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतम् ऋष्यमूकं प्रति । तत्र स-परिवारस् तिष्ठ, यावद् अहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तान् अन्धतां प्राप्तांस् त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक् नान्यथास्माकं सिद्धिर् अस्ति । यतो दुर्गम् एतद् अपसार-रहितं केवलं वधाय भविष्यति । उक्तं च-
अपसार-समायुक्तं न यज्ञैर् दुर्गम् उच्यते ।
अपसार-परित्यक्तं दुर्ग-व्याजेन बन्धनम्
न च त्वया मद्-अर्थं कृपा कार्या । उक्तं च-
अपि प्राण-समान् इष्टान् पालितान् लालितान् अपि ।
भृत्यान् युद्धे समुत्पन्ने पश्येच् छुष्कम् इवेन्धनम्
तथा च-
प्राणवद् रक्षयेद् भृत्यान् स्वकायम् इव पोषयेत् ।
सदैक-दिवसस्यार्थे यत्र स्याद् रिपु-सङ्गमः
तत् त्वयाहं नात्र विषये प्रतिषेधनीयः । इत्य् उक्त्वा तेन सह शुष्क-कलहं कर्तुम् आरब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनम् उच्छृङ्खल-वचनैर् जल्पन्तम् अवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो ! निवर्तध्वं यूयम् । अहम् एवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ । इत्य् अभिधाय तस्योपरि समारुह्य, लघुभिश् चञ्चु-प्रहारैस् तं निहत्याहृत-रुधिरेण प्लावयित्वा तद्-उपदिष्टम् ऋष्यमूक-पर्वतं स-परिवारो गतः ।
एतस्मिन्न् अन्तरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तद्-अमात्य-व्यसनं क्वचित् प्रचलितः स-परिवार इति ।
अथोलूकाधिपस् तद् आकर्ण्यास्तम् अनवेलायां सामात्यः स-परिजनो वायस-वधार्थं प्रचलितः । प्राह च-त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर् लभ्यते । उक्तं च-
शत्रोः प्रचलने छिद्रम् एकम् अन्यं च संश्रयम् ।
कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम्
एवं ब्रुवाणः समन्तान् न्यग्रोध-पादपम् अधः परिवेष्ट्य व्यवस्थितः । यावन् न कश्चिद् वायसो दृश्यते, तावच् छाखाग्रम् अधिरूढो हृष्ट-मना वन्दिभिर् अभिष्टूयमानो ऽरिमर्दनस् तान् परिजनान् प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद् यावन् न दुर्गं समाश्रयन्ति, तावद् एव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च-
वृत्तिम् अप्य् आश्रितः शत्रुर् अवध्यः स्याज् जिगीषुणा ।
किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम्
अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास-यद् एतेऽस्मच् छत्रवो ऽनुलब्धास्मद्-वृत्तान्ता यथागतम् एव यान्ति ततो मया न किञ्चित् कृतं भवति । उक्तं च-
अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् ।
आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम्
तद् वरम् अनारम्भो न चारम्भ-विघातः । तद् अहम् एतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दम् अकरोत् । तच् छ्रुत्वा ते सकला अप्य् उलूकास् तद्-वधाय प्रजग्मुः । अथ तेनोक्तं-अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीम् अवस्थां नीतः । तन् निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यम् अस्ति ।
अथ तैर् निवेदितः स उलूक-राजो विस्मयाविष्टस् तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किम् एतां दशां गतस् त्वम्, तत् कथ्यताम् ।
स्थिरजीवी प्राह-देव ! श्रूयतां तद्-अवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां पीडया युष्माकम् उपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस् तद्-उपरि गन्तुम् । बलवन्त एते, बल-हीनाश् च वयम् । उक्तं च-
बलीयसा हीन-बलो विरोधं
न भूति-कामो मनसापि वाञ्छेत् ।
न वध्यते वेतस-वृत्तिर् अत्र
व्यक्तं प्रणाशो ऽस्ति पतङ्ग-वृत्तेः
तत् तस्योआयन-प्रदानेन सन्धिर् एव युक्तः । उक्तं च-
बलवन्तं रिपुं दृष्ट्वा सर्वस्वम् अपि बुद्धिमान् ।
दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस् तैर् धनं पुनः
तच् छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं माम् आशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावद् अहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति ।
अथारिमर्दनस् तद् आकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद् यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चेति । तत्रादौ रक्ताक्षम् अपृच्छत्-भद्र ! एष तावत् तस्य रिपोर् मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति ।
रक्ताक्ष आह-देव ! किम् अत्र चिन्त्यते ? अविचारितम् अयं हन्तव्यः, यतः-
हीनः शत्रुर् निहन्तव्यो यावन् न बलवान् भवेत् ।
प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः
किं च स्वयम् उपागता श्रीस् त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च-
कालो हि सकृद् अभ्येति यन् नरं काल-काङ्क्षिणम् ।
दुर्लभः स पुनस् तेन काल-कर्माचिकीर्षता
श्रूयते च यथा-
कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शुनि-लुब्धकः
अरिमर्दनः प्राह-कथम् एतत् ?
रक्ताक्षः कथयति-
कथा 5
ब्राह्मण-सर्प-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालो ऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तो ऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनम् एषा क्षेत्र-देवता मया कदाचिद् अपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तद् अस्या अहं पूजाम् अद्य करिष्यामि । इत्य् अवधार्य कुतो ऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकम् उपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत् त्वम् अत्र वससि । तेन पूजा न कृता । तत् साम्प्रतं क्षमस्वेति ।
एवम् उक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर् यावद् आगत्य पश्यति, तावद् दीनारम् एकं शरावे दृष्टवान् । एवं च प्रतिदिनम् एकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रो ऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर् गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तद् एनं हत्वा सर्वम् एक-वारं ग्रहीष्यामि इत्य् एवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथम् अपि दैव-वशाद् अमुक्त-जीवित् एव रोषात् तम् एव तीव्र-विषद-शनैस् तथादशत्, यथा
सद्यः पञ्चत्वम् उपागतः । स्वजनैश् च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः ।
अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच् च-
भूतान् यो नानुगृह्णाति ह्य् आत्मनः शरणागतान् ।
भूतार्थास् तस्य नश्यन्ति हंसाः पद्म-वने यथा
पुरुषैर् उक्तं-कथम् एतत् ?
ब्राह्मणः कथयति-
कथा 6
हैम-हंस-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस् तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास् तिष्ठन्ति । षण्मासे षण्मासे पिच्छम् एकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश् चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतम् एतत् सरः । एवं च किं बहुना, परस्परं द्वैधम् उत्पन्नम् । स च राज्ञः शरणं गतो ऽब्रवीत्-देव ! एते पक्षिण एवं वदन्ति, यद् अस्माकं राजा किं करिष्यति ? न कस्याप्य् आवासं दद्मः ।
मया चोक्तं-न शोभनं युष्माभिर् अभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।
ततो राजा भृत्यान् अब्रवीत्-भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रम् आनयत । राजादेशानन्तरम् एव प्रचेलुस् ते ।
अथ लगुड-हस्तान् राज-पुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-भोः स्वजनाः ! न शोभनम् आपतितम् । ततः सर्वैर् एक-मती-भूयोत्पतितव्यम् । तैश् च तथानुष्ठितम् ।
अतो ऽहं ब्रवीमि-भूतान् यो नानुगृह्णाति (133) इति ।
इत्य् उक्त्वा पुनर् अपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पम् अस्तौत् । तदा सर्पश् चिरं वल्मीक-द्वारान्तर्-लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभाद् अत्रागतः पुत्र-शोकम् अपि विहाय । अतः परं तव मम च प्रीतिर् नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यम् इति पुनर् उक्त्वा विवरान्तर्-गतः । ब्राह्मणश् च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन् स्व-गृहम् आगतः । अतो ऽहं ब्रवीमि-चितिकां दीपितां पश्य इति । तद् अस्मिन् हतेऽयत्नाद् एव राज्यम् अकण्टकं भवतो भवति ।
तस्यैतद्-वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र ! त्वं तु किं मन्यसे ?
सो ऽब्रवीत्-देव ! निर्दयम् एतद् यद् अनेनाभिहितम् । यत् कारणं शरणागतो न वध्यते सुष्ठु । खल्व् इदम् आख्यानम्-
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ।
पूजितश् च यथा-न्यायं स्वैश् च मांसैर् निमन्त्रितः
अरिमर्दनो ऽब्रवीत्-कथम् एतत् ?
क्रूराक्षः कथयति-
कथा 7
कपोत-लुब्धक-कथा
कश्चिद् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शकुनि-लुब्धकः
नैव कश्चित् सुहृत् तस्य न सम्बन्धी न बान्धवः ।
स तैः सर्वैः परित्यक्तस् तेन रौद्रेण कर्मणा
अथवा-
ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते
स पञ्जरकम् आदाय पाशं च लगुडं तथा ।
नित्यम् एव वनं याति सर्व-प्राणि-विहिंसकः
अन्येद्युर् भ्रमतस् तस्य वने कापि कपोतिका ।
जाता हस्त-गता तां स प्राक्षिपत् पञ्ज्चरान्तरे
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः
वात-वृष्टिश् च महतो क्षय-काल इवाभवत्
ततः स त्रस्त-हृदयः कम्पमानो मुहुर् मुहुः ।
अन्वेषयन् परित्राणम् आससाद वनस्पतिम्
मुहूर्तं पश्यते यावद् वियद् विमल-तारकम् ।
प्राप्य वृक्षं वदत्य् एवं यो ऽत्र तिष्ठति कश्चन
तस्याहं शरणं प्राप्तः स परित्रातु माम् इति ।
शीतेन भिद्यमानं च क्षुधया गत-चेतनम्
अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः ।
भार्या-विरहितस् तिष्ठन् विललाप सुदुःखितः
वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया ।
तया विरहितं ह्य् एतच् छून्यम् अद्य गृहं मम
पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता ।
यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि
न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते ।
गृहं तु गृहिणी-हीनम् अरण्य-सदृशं मतम्
पञ्जर-स्था ततः श्रुत्वा भर्तुर् दुःखान्वितं वचः ।
कपोतिका सुसन्तुष्टा वाक्यं चेदम् अथाह सा
न सा स्त्रीत्य् अभिमन्तव्या यस्यां भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः
दावाग्निना विदग्धेव स-पुष्प-स्तवका लता ।
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत्
पुनश् चाब्रवीत्-
शृणुष्वावहितः कान्त यत् ते वक्ष्याम्य् अहं हितम् ।
प्राणैर् अपि त्वया नित्यं संरक्ष्यः शरणागतः
एष शाकुनिकः शेते तवावासं समाश्रितः ।
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर
श्रूयते च-
यः सायम् अतिथिं प्राप्तं यथा-शक्ति न पूजयेत् ।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति
मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया ।
स्व-कृतैर् एव बद्धाहं प्राक्तनैः कर्म-बन्धनैः
दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च ।
आत्मापराध-वृक्षस्य फलान्य् एतानि देहिनाम्
तस्मात् त्वं द्वेषम् उत्सृज्य मद्-बन्धन-समुद्भवम् ।
धर्मे मनः समाधाय पूजयैनं यथा-विधि
तस्यास् तद्-वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् ।
उपगम्य ततो ऽधृष्टः कपोतः प्राह लुब्धकम्
भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश् च न कर्तव्यः स्व-गृहे वर्तते भवान्
तस्य तद्-वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् ।
कपोत खलु शीतं मे हिम-त्राणं विधीयताम्
स गत्वाङ्गारकं नीत्वा पातयामास पावकम् ।
ततः शुष्केषु पर्णेषु तम् आशु समदीपयत्
सुसन्दीप्तं ततः कृत्वा तम् आह शरणागतम् ।
प्रतापयस्व विश्रब्धं स्व-गात्राण्य् अत्र निर्भयः
उद्गतेन च जीवामो वयं सर्वे वनौकसः ।
न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम्
सहस्रं भरते कश्चिच् छतमन्यो दशापरः ।
मम त्व् अकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः
एकस्याप्य् अतिथेर् अन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेक-परिक्लेशे गृहे किं वसतः फलम्
तत् तथा साधयाम्य् एतच् छरीरं दुःख-जीवितम् ।
यथा भूयो न वक्ष्यामि नास्तीत्य् अर्थि-समागमे
स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय
एवम् उक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना ।
तम् अग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत्
ततस् तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् ।
कपोतम् अग्नौ पतितं वाक्यम् एतद् अभाषत
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः ।
आत्मना हि कृतं पापम् आत्मनैव हि भुज्यते
सो ऽहं पाप-मतिश् चैव पाप-कर्म-रतः सदा ।
पतिष्यामि महा-घोरे नरके नात्र संशयः
नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः ।
प्रयच्छता स्व-मांसानि कपोतेन महात्मना
अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् ।
तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्य् अहं पुनः
शीत-वातातप-सहः कृशाङ्गो मलिनस् तथा ।
उपवासैर् बहुविधैश् चरिष्ये धर्मम् उत्तमम्
ततो यष्टिं शलाकां च जालकं पञ्जरं तथा ।
बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम्
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् ।
कपोती विललापार्ता शोक-सन्तप्त-मानसा
न कार्यम् अद्य मे नाथ जीवितेन त्वया विना ।
दीनायाः पति-हीनायाः किं नार्या जीविते फलम्
मानो दर्पस् त्व् अहङ्कारः कुलं पूजा च बन्धुषु ।
दास-भृत्य-जनेष्व् आज्ञा वैधव्येन प्रणश्यति
एवं विलप्य बहुशः कृपणं भृश-दुःखिता ।
पतिव्रता सुसन्दीप्तं तम् एवाग्निं विवेश सा
ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता ।
भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका
सो ऽपि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत् ।
अहो माम् अनुगच्छन्त्या कृतं साधु शुभे त्वया
तिस्रः कोट्यो ऽर्ध-कोटी च यानि रोमाणि मानुषे ।
तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति
कपोत-देहः सूर्यास्ते प्रत्यहं सुखम् अन्वभूत् ।
कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम्
हर्षाविष्टस् ततो व्याधो विवेश च वनं धनम् ।
प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम्
तत्र दावानलं दृष्ट्वा विवेश विरताशयः ।
निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यम् अवाप्तवान्
अतो ऽहं ब्रवीमि-श्रूयते हि कपोतेन (134) इत्य् आदि ।
तच् छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवम् अवस्थिते किं भवान् मन्यते ?
सो ऽब्रवीत्-देव ! न हन्तव्य एवायम् । यतः-
या ममोद्विजते नित्यं सा ममाद्यावगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत्
चोरेण चाप्य् उक्तम्-
हर्तव्यं ते न पश्यामि हर्तव्यं चेद् भविष्यति ।
पुनर् अप्य् आगमिष्यामि यदीयं नावगूहते
अरिमर्दनः पृष्टवान्-का च नावगूहते ? कश् चायं चौरः ? इति विस्तरतः श्रोतुम् इच्छामि ।
दीप्ताक्षः कथयति-
कथा 8
कामातुर-वणिक्-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । युक्तं चैतत्-
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपम् इव दूरतरं तरुण्यः
तथा च-
गात्रं सङ्कुचितं गतिर् विगलिता दन्ताश् च नाशङ्गता
दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतं वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रो ऽप्य् अवज्ञायते
अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तं पतिं गाढं समालिलिङ्ग । सो ऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिन्तयामास-अहो किम् एषा माम् अद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनम् एषास्य भयान् माम् आलिङ्गति इति ज्ञात्वा तं चौरम् आह-या ममोद्विजते (186) इत्य् आदि ।
तच् छ्रुत्वा चौरो ऽप्य् आह-हर्तव्यं ते न पश्यामि (187) इत्य् आदि । तस्माच् चौरस्याप्य् उपकारः श्रेयश् चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर् विप्रकृतो ऽस्माकम् एव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायम् अवध्य इति ।
एतद् आकर्ण्यारिमर्दनो ऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतम् एवं स्थिते किं करणीयम् इति ?
सो ऽब्रवीत्-देव ! अवध्यो ऽयम् । यतः-
शत्रवो ऽपि हितार्थैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम्
अरिमर्दनः प्राह-कथम् एतत् ?
वक्रनासः कथयति-
कथा 10
द्रोणाख्य-ब्राह्मण-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिन्तितवान्-अहम् अस्य ब्राह्मणस्य गो-युगम् इदम् अपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः
सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद् दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरो ऽब्रवीत्-को भवान् ? इति ।
सो ऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितो ऽस्मि ।
अथ जात-प्रत्ययो राक्षसो ऽब्रवीत्-भद्र ! षष्ठाह्न-कालिको ऽहम् । अतस् तम् एव ब्राह्मणम् अद्य भक्षयिष्यामि ।
अथ तौ तत्र गत्वैकान्ते कान्लम् अन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरो ऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात् त्वम् एनं ब्राह्मणं भक्षय ।
सो ऽब्रवीत्-कदाचिद् अयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थको ऽयं ममारम्भः स्यात् ।
चौरो ऽप्य् अब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एको ऽप्य् अन्तरायः स्यात् । तदाहम् अपि न शक्नोमि गो-युगम् अपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहम् अहमिकया तयोर् विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद् ब्राह्मणो जजागार ।
अथ तं चौरो ऽब्रवीत्-ब्राह्मण ! त्वाम् एवायं राक्षसो भक्षयितुम् इच्छति इति ।
राक्षसो ऽप्य् आह-ब्राह्मण ! चौरो ऽयं गो-युगं तेऽपहर्तुम् इच्छति ।
एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसाद् उद्गूर्ण-लगुडेन चौराद् गो-युगं ररक्ष ।
अतो ऽहं ब्रवीमि-शत्रवो ऽपि हितार्थैव (190) इति ।
अथ तस्य वचनम् अवधार्यारिमर्दनः पुनर् अपि प्राकारकर्णम् अपृच्छत्-कथय, किम् अत्र मन्यते भवान् ?
सो ऽब्रवीत्-देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च-
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति वल्मीकोदर-सर्पवत्
अरिमर्दनो ऽब्रवीत्-कथम् एतत् ?
प्राकारकर्णः कथयति-
कथा 10
वल्मीकोदर-गत-सर्प-कथा
अस्ति कस्मिंश्चिन् नगरे देवशक्तिर् नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यम् एति । अथासौ राजपुत्रो निर्वेदाद् देशान्तरं गतः ।
कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर् नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसम् आदित्योदये पितुः पादान्तिकम् आगत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात् सर्वं सुखं लभ्यते ।
द्वितीया तु-विहितं भुङ्क्ष्व महाराज ! इति ब्रवीति ।
तच् छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः ! एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत तेन निज-विहितम् इयम् एव भुङ्क्ते ।
अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस् तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता ।
ततः कस्मिंश्चिद् दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं स-परिवारा गता । कृत्वा च क्रय-विक्रयं यावद् आगच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद् भुजगः फणां निष्कास्य वायुम् अश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् ।
अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर् मध्याद् वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रम् इत्थं कदर्थयसि ?
मुखस्थो ऽरिर् अब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथम् इदं दूषितं हाटक-पूर्णं कलश-युगलम् इत्य् एवं परस्परस्य मर्माण्य् उद्घाटितवन्तौ ।
पुनर् वल्मीकस्थो ऽहिर् अब्रवीत्-भो दुरात्मन् ! भेषजम् इदं ते किं को ऽपि न जानाति यज् जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान् विनाशम् उपयाति ।
अथोदरस्थो ऽहिर् अब्रवीत्-तवाप्य् एतद् भेषजं किं कश्चिद् अपि न वेत्ति यद् उष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्याद् इति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती ।
विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परमम् आसाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतो ऽहं ब्रवीमि-परस्परस्य मर्माणि इति ।
तच् च श्रुत्वा स्वयम् अरिर्दनो ऽप्य् एवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम् । विनाशितो ऽयं भवद्भिर् अन्यायेन स्वामी । उक्तं च-
अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम्
तथा च-
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथ-कारः स्वकां भार्यां सजारां शिरसावहत्
मन्त्रिणः प्राहुः-कथम् एतत् ?
रक्ताक्षः कथयति-
कथा 11
वीरवर-रथकार-तत्-पत्नी-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सो ऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्-अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च-
यदि स्यात् पावकः शीतः प्रोष्णी वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः
जानामि चैनां लोक-वचनाद् असतीम् । उक्तं च-
यच् च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोको ऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम्
एवं सम्प्रधार्य भार्याम् अवोचत्-प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद् दिनानि लगिष्यन्ति । तत् त्वया किम् अपि पाथेयं मम योग्यं विधेयम् ।
सापि तद्-वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात् सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते-
दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः
अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पतिर् ग्रामान्तरं गतः । तत् त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारो ऽरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्-तले निभृतो भूत्वा स्थितः । एतस्मिन्न् अन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिन्तयत्-किम् एनम् उत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वाव् अप्य् एतौ व्यापादयामि ? परं पश्यामि तावद् अस्याश् चेष्टितम् । शृणोमि चानेन सहालापम् ।
अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा । तस्यास् तत्रारोहयन्त्या रथकार-शरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम् । ततः स्त्री-चरित्र-विज्ञानं किम् अपि करोमि ।
एवं तस्याश् चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलि-पुटयाभिहितं-भोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतो ऽहं पतिव्रता महासती च । नो चेच् छापं दत्त्वा त्वां बह्स्मसात्करिष्यामि ।
स आह-यद्य् एवं तर्हि त्वया किम् अहम् आहूतः ?
साब्रवीत्-भोः शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्ड्कायतनं गता तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि ।
ततो मयाभिहितं-भगवति ! यथा त्वम् आपदं वेत्सि, तथा तत्-प्रतीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति ?
ततस् तयाभिहितम्-वत्से, सन्न् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः ।
तच् छ्रुत्वा मयाभिहितम्-देवि ! यदि तन् मम प्राणैर् भवति तद् आदेशय येन करोमि ।
अथ देव्याभिहितम्-यद्य् अद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत् तव भर्तृ-सक्तो ऽपमृत्युस् तस्य सञ्चरति । भर्तापि तेन पुनर् वर्ष-शतं जीवति । तेन त्वं मयाभ्यर्थितः । तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व । न हि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततो ऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार ।
सो ऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षा-निमित्तं ग्रामान्तर-व्याजं कृत्वा खट्वाधस्-तले निभृतं लीनः । तद् एहि, आलिङ्ग माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । यद् आयुर् बुद्धि-कृतेऽपमृत्यु-विनाशार्थं चत्वम् एवं कृतवती । ताम् एवम् उक्त्वा सस्नेहम् आलिङ्गितवान् ।
स्व-स्कन्धे ताम् आरोप्य ताम् अपि देवदत्तम् उवाच-भो महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणम् आयुः । तत् त्वम् अपि माम् आलिङ्ग्य मत्-स्कन्धे समारोह इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तम् आलिङ्ग्य बलात् स्वकीय-स्कन्धे आरोपितवान् ।
ततश् च नृत्यं कृत्वा-हे ब्रह्म-व्रत-धराणां धुरीण ! त्वयापि मय्य् उपकृतम् इत्य् आद्य् उक्त्वा स्कन्धाद् उत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोर् उभयोर् अपि तद्-गुण-वर्णनम् अकरोत् ।
अतो ऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (193) इति ।
तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्व् इदम् उच्यते-
मित्र-रूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः ।
ये हितं वाक्यम् उत्सृज्य विपरीतोपसेविनः
तथा च-
सन्तो ऽप्य् अर्था विनश्यन्ति देश-काल-विरोधिनः ।
अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा
ततस् तद्-वचो ऽनादृत्य सर्वे ते स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनेतुम् आरब्धाः । अथानीयमानः स्थिरजीव्य् आह-देव ! अद्याकिञ्चित्करेणैतद् अवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणम् इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् अग्नि-प्रदानेन समुद्धर्तुम् ।
अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि ?
सो ऽब्रवीत्-अहं तावद् युष्मद्-अर्थम् इमाम् आपदं मेघवर्णेन प्रापितः । तद् इच्छामि तेषां वैर-यातनार्थम् उलूकत्वम् इति ।
तच् च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस् त्वं कृतक-वचन-चतुरश् च । तावद् उलूक-योनि-गतो ऽपि स्वकीयाम् एव वायस-योनिं बहु मन्यसे । श्रूयते चैतद् आख्यानकम् ।
सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा
मन्त्रिणः प्रोचुः--कथम् एतत् ?
रक्ताक्षः कथयति-
कथा 11
शालङ्कायन-रक्षित-मूषिका-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस् तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस् तस्योपरि पाषाण-खण्डं प्राक्षिपत् । सो ऽपि पाषाण-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकम् उपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिर् उक्तो, यद्-भो मुने ! न युक्तम् अनुष्ठितं भवता यद् अहं पाषाणेन ताडितः । किं त्वम् अधर्मान् न बिभेषि ? तत् समर्पय माम् एनाम् मूषिकाम् । नो चेत् प्रभूतं पातकम् अवाप्स्यसि ।
इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत् किम् असम्बद्धं प्रजल्पसि ?
श्येन आह-मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारो ऽपि विनिर्मितः । ततो यथा भवताम् अन्नं तथास्माकं मूषिकादयो विहिताः । तत् स्वाहार-काङ्क्षिणं मां किं दूषयसि ? उक्तं च-
यद्य् अस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति ।
अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः
भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः ।
अभक्ष्यं भक्ष्यताम् एति तथान्येषाम् अपि द्विज
भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महद् अघम् ।
तत् कथं मां वृथाचार त्वं दण्डयितुम् अर्हसि
अपरं मुनीनां न चैष धर्मो यतस् तैर् दृष्टं श्रुतम् अश्रुतम् अलौल्यत्वम् अशत्रुत्वं प्रशस्यते । उक्तं च-
समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः ।
सुहृन्-मित्रे ह्य् उदासीनो मध्यस्थो द्वेष्य-बन्धुषु ।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते
साधूनां निरवद्यानां सदाचार-विचारिणाम् ।
योगी युञ्जीत सततं सततम् आत्मानं रहसि स्थितः
तत् त्वम् अनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च-
मुञ्च मुञ्च पतत्य् एको मा मुञ्चेति द्वितीयकः ।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम्
शालङ्कायन आह--कथम् एतत् ?
श्येन आह-
कथा 12
?
कस्मिंश्चिद् नदी-तट एकत-द्वित-त्रिताभिधानास् त्रयो ऽपि भ्रातरो मुनयस् तपः कुर्वन्ति । तेषां च तपः-प्रभावाद् आकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर् ममैव काचिन् मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद् भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्-भयार्तेन मा मुञ्चेत्य् अभिहितं यावत् तस्यापि पपात । ततस् तृतीयो द्वयोर् अपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव ।
अतो ऽहं ब्रवीमि-मुञ्च मुञ्च पतत्य् एक इत्य् आदि ।
तच् छ्रुत्वा मुनिर् विहस्याह-भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतो ऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सद्-अपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वो ऽपि पापात्मा । तत् कर्म कृतं विना पापं न लगति । उक्तं च-
सञ्चरन्तीह पापानि युगेष्व् अन्येषु देहिनाम् ।
कलौ तु पाप-संयुक्ते यः करोति स लिप्यते
उक्तं च-
आसनाच् छयनाद् यानात् संगतेश् चापि भोजनात् ।
कृते सञ्चरते पापं तैल-बिन्दुर् इवाम्भसि
तत् किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच् छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिर् अभिहितः-भगवन् ! नय मां स्वाश्रयम् । नो चेद् अन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तद् अहं तत्रैवाश्रमे त्वद्-दत्तान्नाहार-मुष्ट्या कालं नेष्यामि ।
सो ऽपि दाक्षिण्यवान् स-करुणो व्यचिन्तयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तद् एनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिम् अवलोक्य पत्नी पप्रच्छ-भगवन् ! कुत इयं कन्या ?
स आह-एषा मूषिका श्येन-भयाच् छरणार्थिनी कन्या-रूपेण तव गृहम् आनीता । तत् त्वया यत्नेन रक्षणीया । भूयो ऽप्य् एनां मूषिकां करिष्यामि ।
सा प्राह-भगवन् ! मैवं कार्षीः । अस्यास् त्वं धर्म-पिता । उक्तं च-
जनिता चोपनेता च यस् तु विद्यां प्रयच्छति ।
अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः
तत् त्वयास्याः प्राण-प्रदत्ता । अपरं ममाप्य् अपत्यं नास्ति । तस्माद् एषा मम सुता भविष्यति ।
तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चन्द्र-कलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनम् आश्व् अयात् । अथ तां यौवनोन्मुखीम् अवलोक्य शालङ्कायनः स्व-पत्नीम् उवाच-प्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्-गृह-वासस्य । उक्तं च-
अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
पतन्ति पितरस् तस्य स्वर्ग-स्था अपि तैर् गुणैः
वरं वरयते कन्या माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः
तथा च-
यावन् न लज्जते कन्या यावत् क्रीडति पांसुना ।
यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत्
माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्
कुलं च शीलं च सनाथतां च
विद्यां च वित्तं च वपुर् वयश् च ।
एतान् गुणान् सप्तान् सप्त परीक्ष्य देया
कन्या बुधैः शेषम् अचिन्तनीयम्
तद् यद् यस्या रोचते तद् भगवन्तं आदित्यम् आकार्य तस्मै प्रयच्छामि । उक्तं च-
अनिष्टः कन्यकाया यो वरो रूपान्वितो ऽपि यः ।
यदि स्यात् तस्य नो देया कन्या श्रेयो ऽभिवाञ्छता
सा प्राह-को दोषो ऽत्र विषये ? एवं क्रियताम् ।
अथ मुनिना रविर् आहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणाद् एवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! वद द्रुतं किम्-अर्थम् आहूतः ?
स आह-एषा मदीया कन्यका तिष्ठति । यद्य् एषा त्वां वृणोति तर्ह्य् उद्वहस्व ताम् इति । एवम् उक्त्वा भगवांस् तस्या दर्शितः । प्रोवाच-पुत्रि ! किं तव रोचत एष भगवांस् त्रैलोक्य-दीपः ?
सा प्राह-तात ! अतिदहनात्मको ऽयम् । नाहम् एनम् अभिलषामि । अस्माद् अपि य उत्कृष्टतरः स आहूयताम् ।
अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरो ऽपि तां मूषिकां विदित्वा निःस्पृहस् तम् उवाच-भगवन् ! अस्ति ममाप्य् अधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ?
अथ मुनिना मेघम् अप्य् आहूय कन्याभिहिता-एष ते रोचते ?
सा प्राह-कृष्ण-वर्णो ऽयं जडात्मा च । तद् अस्माद् अन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ ।
अथ मुनिना मेघो ऽपि पृष्टः-भोः ! त्वत्तो ऽप्य् अधिकः को ऽप्य् अस्ति ?
स आह-मत्तो ऽप्य् अधिको ऽस्ति वायुः । वायुना हतो ऽहं सहस्रधा यामि ।
तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च-पुत्रिके किम् एष वायुस् ते विवाहाय उत्तमः प्रतिभाति ?
सा आह-प्रबलो ऽप्य् अयं चञ्चलः । तद् अभ्यधिकः कश्चिद् आहूयताम् ।
मुनिर् आह-भो वायो ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ?
स आह-मत्तो ऽप्य् अधिको ऽस्ति पर्वतो येन संस्तभ्य बलवान् अप्य् अहं ध्रिये ।
अथ मुनिः पर्वतम् आहूय कन्याया अदर्शयत्-पुत्रिके ! त्वाम् अस्मै प्रयच्छामि ?
सा आह-तात ! कठिनात्मको ऽयं स्तब्धश् च । तद् अन्यस्मै देहि माम् ।
अथ स मुनिना पृष्टः, यद्-भोः पर्वत-राज ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ?
स आह-सन्ति मत्तो ऽप्य् अधिका मूषिकाः, ये मद्-देहं बलात् सर्वतो भेदयन्ति ।
तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्-पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितम् अनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्मम् अनुतिष्ठामि ।
तच् छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता ।
अतो ऽहं ब्रवीमि-सूर्यं भर्तारम् उत्सृज्य इत्यादि ।
अथ रक्ताक्ष-वचनम् अनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गम् उपनीतः । नीयमानश् चान्तर्-लीनम् अवहस्य स्थिरजीव्य् अचिन्तयत्-
हन्यताम् इति येनोक्तं स्वामिनो हित-वादिना ।
स एवैको ऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित्
तद् यदि तस्य वचनम् अचरिष्यन्न् एते, ततो न स्वल्पो ऽप्य् अनर्थो ऽभविष्यद् एतेषाम् ।
अथ दुर्ग-द्वारं प्राप्यारिमर्दनो ऽब्रवीत्-भो भो हितैषिणो ऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत ।
तच् च श्रुत्वा स्थिरजीवी व्यचिन्तयत्-मया तावद् एतेषां वधोपायश् चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयम् इङ्गितादिकं विचारयन्तस् तेऽपि सावधाना भविष्यन्ति । तद् दुर्ग-द्वारम् अधिश्रितो ऽभिप्रेतं साधयामि । इति निश्चित्योलूक-पतिम् आह-देव ! युक्तम् इदं यत् स्वामिना प्रोक्तम् । परम् अहम् अपि नीतिज्ञस् तेऽहितश् च । यद्यप्य् अनुरक्तः शुचिस् तथापि दुर्ग-मध्ये आवासो नार्हः । तद् अहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि ।
तथेति प्रतिपन्ने प्रतिदिनम् उलूक-पति-सेवकास् ते प्रकामम् आहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा स-विस्मयो मन्त्रि-जनं राजानं च प्रत्य् आह-अहो मूर्खो ऽयं मन्त्रि-जनो भवांश् चेत्य् एवम् अहम् अवगच्छामि । उक्तं च-
पूर्वं तावद् अहं मूर्खो द्वितीयः पशु-बन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम्
ते प्राहुः-कथम् एतत् ?
रक्ताक्षः कथयति-
कथा 13
स्वर्ण-ष्ठीवी-सिन्धुक-पक्षी-कथा
अस्ति कस्मिंश्चित् पर्वतैक-देशे महान् वृक्षः । तत्र च सिन्धुक-नामा को ऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णम् उत्पद्यते । अथ कदाचित् तम् उद्दिश्य व्याधः को ऽपि समाययौ । स च पक्षी तद्-अग्रत एव पुरीषम् उत्ससर्ज । अथ पात-सम-कालम् एव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयम् अगमत्-अहो मम शिशु-कालाद् आरभ्य शकुनि-बन्ध-व्यसनिनो ऽशीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषे सुवर्णं दृष्टम् इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासाव् अपि पक्षी मूर्खस् तत्रैव विश्वस्त-चित्तो यथा-पूर्वम् उपविष्टस् तत्-कालम् एव पाशेन बद्धः । व्याधस् तु तं पाशाद् उन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास-किम् अनेन सापायेन पक्षिणाहं करिष्यामि ? यदि कदाचित् को
ऽप्य् अमुम् ईदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नूनं प्राण-संशयो मे भवेत् । अतः स्वयम् एव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् ।
अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिम् उपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत ।
अथ मन्त्रिणाभिहितम्-किम् अनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित् पक्षी-पुरीषे सुवर्णं सम्भवति ? तन् मुच्यतां पञ्जर-बन्धनाद् अयं पक्षी । इति मन्त्रि-वचनाद् राज्ञा मोचितो ऽसौ पक्ष्य् उन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावद् अहं मूर्खः इति श्लोकं पठित्वा यथा-सुखम् आकाश-मार्गेण प्रायात् ।
अतो ऽहं ब्रवीमि-पूर्वं तावद् अहं मूर्खः इति ।
अथ ते पुनर् अपि प्रतिकूल-दैवतया हितम् अपि रक्ताक्ष-वचनम् अनादृत्य भूयस् तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गम् आहूय रहः प्रोवाच-अहो ! एतावद् एवास्मद्-भूपतेः कुशलं दुर्गं च । तद् उपदिष्टं मया यत् कुल-क्रमागतः सचिवो ऽभिधत्ते । तद् वयम् अन्यत् पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः-
अनागतं यः कुरुते स शोभते
स शोचते यो न करोत्य् अनागतम् ।
वने वसन्न् एव जराम् उपागतो
बिलस्य वाचा न कदापि हि श्रुता
ते प्रोचुः-कथम् एतत् ?
रक्ताक्षः कथयति-
कथा 14
खरनखर-सिंह-कथा
कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिद् इतश् चेतश् च परिभ्रमन् क्षुत्क्षाम-कण्ठो न किञ्चिद् अपि सत्त्वम् आससाद । ततश् चास्तम् अनसमये महतीं गिरि-गुहाम् आसाद्य प्रविष्टश् चिन्तयामास-नूनम् एतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन् निभृतो भूत्वा तिष्ठामि ।
एतस्मिन्न् अन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर् गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश् चाचिन्तयत्-अहो विनष्टो ऽस्मि, नूनम् अस्यान्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ? एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरब्धः-अहो बिल ! अहो बिल ! इत्य् उक्त्वा तूष्णींभूय भूयो ऽपि तथैव प्रत्यभाषत-भोः ! किं न स्मरसि यन् मया त्वया सह समयः कृतो ऽस्ति ? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहम् आकरणीयः इति । तद् यदि मां नाह्वयसि ततो ऽहं द्वितीयं बिलं यास्यामि ।
अथ तच् छ्रुत्वा सिंहश् चिन्तितवान्-नूनम् एषा गुहास्य समागतस्य सदा समाह्वानं करोति । परम् अद्य मद्-भयान् न किंचिद् ब्रूते । अथवा साध्व् इदम् उच्यते-
भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः ।
प्रवर्तन्ते न वाणी च वेपथुश् चाधिको भवेत्
तद् अहम् अस्याह्वानं करोमि येन तद्-अनुसारेण प्रविष्टो ऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस् तस्याह्वानम् अकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यान् अपि दूर-स्थान् अरण्य-जीवांस् त्रासयामास । शृगालो ऽपि पलायमान इमं श्लोकम् अपठत्-अनागतं यः कुरुते स शोभते इत्य् आदि ।
तद् एवं मत्वा युष्माभिर् मया सह गन्तव्यम् इति । एवम् अभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम ।
अथ रक्ताक्षे गते स्थिरजीव्य् अतिहृष्ट-मना व्यचिन्तयत्-अहो ! कल्याणम् अस्माकम् उपस्थितम्, यद् रक्तांशो गतः स दीर्घदर्शी एते च मूढ-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः-
न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर् महीपतेः ।
क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः
अथवा साध्व् इदम् उच्यते-
मन्त्रि-रूपा हि रिपवः सम्भाव्यास् ते विचक्षणैः ।
ये सन्तं नयम् उत्सृज्य सेवन्ते प्रतिलोमतः
एवं विचिन्त्य स्व-कुलाय एकैकां वन-काष्ठिकां गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यद् एष कुलायम् अस्मद्-दाहाय वृद्धिं नयति । अथवा साध्व् इदम् उच्यते-
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्त्य् अशुभं पापं भद्रं दैव-हतो नरः
अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रम् ऋष्यमूकं गत्वा मेघवर्णम् आह-स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत् सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते ।
तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात ! कथयात्म-वृत्तान्तम् । चिराद् अद्य दृष्टो ऽसि ।
स आह-वत्स ! नायं कथनस्य कालः । यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर् ममेहागमनं निवेदयिष्यति । यज् ज्ञानाद् अन्धो ऽन्यत्रापसरणं करिष्यति । तत् त्वर्यताम् । उक्तं च-
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः ।
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम्
तथा च-
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तत्-फलम्
तद्-गुहायाम् आयातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनम् आकर्ण्य स-परिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वाद् अनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायम् आपन्ना मृताश् च । एवं शत्रून् निःशेषतां नीत्वा भूयो ऽपि मेघवर्णस् तद् एव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनम् अपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तद् अत्र कौतुकम् अस्माकं वर्तते, तत् कथ्यताम् । यतः-
वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् ।
न चारिजन-संसर्गो मुहूर्तम् अपि सेवितः
तद् आकर्ण्य स्थिरजीव्य् आह-भद्र ! आगामि-फल-वाञ्छया कष्टम् अपि सेवको न जानाति । उक्तं च यतः-
कार्यस्यापेक्षया भुक्तं विषम् अप्य् अमृतायते ।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा
उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणो ऽपि वा ।
करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद् बाहू कृतौ न किरीटिना
शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने ।
दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च
भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत्
यद् वा तद् वा विषम-पतितः साधु वा गर्हितं वा
कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर्
नासील् लीला-नटन-विलसन् मेखली सव्यसाची
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् ।
देवेन्द्र-द्रविणेश्वरान्तक-समैर् अप्य् अन्वितो भ्रातृभिः
किं क्लिष्टः सुचिरं विराट-भवने श्रीमान् न धर्मात्मजः
रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ ।
गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ
रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना
कान्त्या श्रीर् इव यात्र सापि विदशां काल-क्रमाद् आगता ।
सैरन्ध्रीति स-गर्वितं युवतिभिः साक्षेपम् आख्यातया
द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम्
मेघवर्ण आह-तात ! असि-धारा-व्रतम् इदं मन्ये यद् अरिणा सह संवासः ।
सो ऽब्रवीत्-देव ! एवम् एतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञम् अनेक-शास्त्रेष्व् अप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनर् अन्ये मन्त्रिणस् ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनो ऽतत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम् । यतः-
अरितो ऽभ्यागतो भृत्यो दुष्टस् तत्-सङ्ग-तत्-परः ।
अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः
आसने शयने याने पान-भोजन-वस्तुषु ।
दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्य् अरयो ऽरिषु
तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः ।
आत्मानम् आदृतो रक्षेत् प्रमादाद् धि विनश्यति
साधु चेदम् उच्यते-
सन्तापयन्ति कम् अपथ्य-भुजं न रोगा
दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ।
कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः
कं स्वीकृता न विषया परिपीडयन्ति
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः ।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य
तद् राजन् ! असि-धारा-व्रतं मयाचरितम् अरितम् अरि-संसर्गाद् इति यद् भवतोक्तं, तन् मया साक्षाद् एवानुभूतम् । उक्तं च-
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थम् अभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता
स्कन्धेनापि वहेच् छत्रुं कालम् आसाद्य बुद्धिमान् ।
महता कृष्ण-सर्पेण मण्डूका बहवो हताः
मेघवर्ण आह-कथम् एतत् ?
स्थिरजीवी कथयति-
कथा 15
मन्दविष-सर्प-कथा
अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यम् इति । ततो बहु-मण्डूकं ह्रदम् उपगम्य धृति-परीतम् इवात्मानं दर्शितवान् ।
अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः-माम ! किम् अद्य यथा-पूर्वम् आहारार्थं न विहरसि ।
सो ऽब्रवीत्-भद्र ! कुतो मे मन्द-भाग्यस्याहाराभिलाषः ? यत् कारणम् अद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्-ग्रहणार्थं मया क्रमः सज्जितः । सो ऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानाम् अन्तरम् अपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोर् ह्रद-तट-जलान्तः-स्थो ऽङ्गुष्ठो दष्टः । ततो ऽसौ सपदि पञ्चत्वम् उपागतः ।
अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तद् अनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततो ऽहं युष्माकं वाहनार्थम् आगतो ऽस्मि ।
तेन च सर्व-मण्डूकानाम् इदम् आवेदितम् । ततस् तैः प्रहृष्ट-मनोभिः सर्वैर् एव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासाव् अपि मन्त्रि-परिवृतो ऽत्यद्भुतम् इदम् इति मन्यमानो स-सम्भ्रमं ह्रदाद् उत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशम् अधिरूढः । शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना, उपरित-स्थानम् अप्राप्तवन्तस् तस्यानुपदं धावन्ति । मन्दविषो ऽपि तेषां तुष्ट्य्-अर्थम् अनेक-प्रकारान् गति-विशेषान् अदर्शयत् । अथ जलपादो लब्ध-सुखस् तम् आह-
न तथा करिणा यानं तुरगेण रथेन वा ।
नर-यानेन वा यानं यथा मन्दविषेण मे
अथान्येद्युर् मन्द-विषश् छद्मना मन्दं मन्दं विसर्पति । तच् च दृष्ट्वा जलपादो ऽब्रवीत्-भद्र ! मन्दविष ! यथा-पूर्वं किम् अद्य साधु नोह्यते ?
मन्दविषो ऽब्रवीत्-देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिर् अस्ति ।
अथासाव् अब्रवीत्-भद्र ! भक्षय क्षुद्र-मण्डूकान् ।
तच् छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः स-सम्भ्रमम् अब्रवीत्-ममायम् एव विप्र-शापो ऽस्ति । तत् तवानेनानुज्ञा-वचनेन प्रीतो ऽस्मि ।
ततो ऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैर् एवाहोभिर् बलवान् संवृत्तः । प्रहृष्टश् चान्तर्-लीनम् अवहस्येदम् अब्रवीत्-
मण्डूका विविधा ह्य् एते छल-पूर्वोपसाधिताः ।
कियन्तं कालम् अक्षीणा भवेयुः खादिता मम
जल-पादो ऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किम् अपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस् तम् उद्देशं समायातः । तं च मण्डूकैर् वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यद् अस्माकम् अशनं तैः कथं वाह्यसे । विरुद्धम् एतत् ।
मन्दविषो ऽब्रवीत्-
सर्वम् एतद् विजानामि यथा वाह्यो ऽस्मि दर्दुरैः ।
किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा
सो ऽब्रवीत्-कथम् एतत् ?
मन्दविषः कथयति-
कथा 16
घृतान्ध-ब्राह्मण-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्य् अन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान् घृत-पूरान् कृत्वा भर्तुश् चौरिकया प्रयच्छति । अथ कदाचिद् भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किम् एतत् परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत् कथय सत्यम् ।
सा चोत्पन्न-प्रतिभा कृतक-वचनैर् भर्तारम् अब्रवीत्-अस्त्य् अत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहम् उपोषिता सती बलिं भक्ष्य-विशेषांश् चापूर्वान् नयामि ।
अथ तत् पश्यता गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते नद्याम् अवतीर्य यावत् स्नानं करोति तावत् तद् भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतो ऽदृश्यो ऽवतस्थे ।
अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनम् आगत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ?
तच् छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वम् अजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रम् अन्धो भविष्यति ।
सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तद् एव नित्यं प्रददौ । अथान्येद्युर् ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि ।
तच् छ्रुत्वा चिन्तितम् अनया-देव्याः प्रसादो ऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस् तत्-सकाशम्-अन्धीभूतो ऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनम् अभ्येति । अथान्येद्युस् तं प्रविशन्तम् अभ्याश-गतं दृष्ट्वा केशैर् गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस् तावद् अताडयत् यावद् असौ पञ्चत्वम् आप । ताम् अपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज ।
अतो ऽहं ब्रवीमि-स्कन्धेनापि वहेच् छत्रुम् (238) इत्य् आदि ।
अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास् तथा मयापि सर्वे वैरिणः । साधु चेदम् उच्यते-
वने प्रज्वलितो वह्निर् दहन् मूलानि रक्षति ।
समूलोन्मूलनं कुर्याद् वायुर् यो मृदु-शीतलः
मेघवर्ण आह-तात ! सत्यम् एवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः-
महत्त्वम् एतन् महतां नयालङ्कार-धारिणाम् ।
न मुञ्चन्ति यद् आरब्धं कृच्छ्रेऽपि व्यसनोदये
तथा च-
प्रारभ्यते न खलु विघ्न-भयेन नीचैः
प्रारभ्य विघ्न-विहता विरमन्ति मध्याः ।
विघ्नैः सहस्र-गुणितैर् अपि हन्यमानाः
प्रारब्धम् उत्तम-गुणा न परित्यजन्ति
तत् कृतं निष्कण्टकं मम राज्यं शत्रून् निःशेषतां नयता त्वया । अथवा युक्तम् एतन् नय-वेदिनाम् । उक्तं च यतः-
ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च ।
व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति
सो ऽब्रवीत्-देव ! भाग्यवान् त्वम् एवासि, यस्यारब्धं सर्वम् एव संसिद्ध्यति । तन् न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत् क्रियते तद् एव विजयाय भवति । उक्तं च-
शस्त्रैर् हता न हि हता रिपवो भवन्ति
प्रज्ञा-हतास् तु रिपवः सुहता भवन्ति ।
शस्तं निहन्ति पुरुषस्य शरीरम् एकं
प्रज्ञा कुलं च विभवश् च यशश् च हन्ति
तद् एवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च-
प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः
स्वयम् उपनयन्न् अर्थान् मन्त्रो न गच्छति विप्लवम् ।
स्फुरति सफलस् तर्कश् चित्तं समुन्नतिम् अश्नुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः
तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यम् इति । उक्तं च-
त्यागिनि शूरे विदुषि च संसर्ग-रुचिर् जनो गुणी भवति ।
गुणवति धनं धनाच् छ्रीः श्रीमत्य् आज्ञा ततो राज्यम्
मेघवर्ण आह-नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः ।
स्थिरजीव्य् आह-
तीक्ष्णोपाय-प्राप्ति-गम्यो ऽपि यो ऽर्थस्
तस्याप्य् आदौ संश्रयः साधु युक्तः ।
उत्तुङ्गाग्रः सार-भूतो वनानां
मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः
अथवा स्वामिन् ! किं तेनाभिहितेन ? यद् अनन्तर-जाले क्रिया-रहितम् असुख-साध्यं वा भवति । साधु चेदम् उच्यते-
अनिश्चितैर् अध्यवसाय-भीरुभिर्
यथेष्ट-संलाप-रति-प्रयोजनैः ।
फले विसंवादम् उपागता गिरः
प्रयान्ति लोके परिहास-वस्तुताम्
न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कर्तव्यः । यतः-
शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम्
अनादरः क इति कृत्यम् उपेक्षमाणाः ।
केचित् प्रमत्त-मनसः परिताप-दुःखम्
आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति
तद् अद्य जितारेर् मद्-विभोर् यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्-
निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् ।
सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते
तथा च-
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां
कार्याणां नय-साहसोन्नति-मताम् इच्छापद्-आरोहिणाम् ।
मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः
सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः
तद् अवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च-
प्रजा न रञ्जयेद् यस् तु राजा रक्षादिभिर् गुणैः ।
अजागल-स्तनस्येव तस्य राज्यं निरर्थकम्
गुणेषु रागो व्यसनेष्व् अनादरो
रतिः सुभृत्येषु च यस्य भूपतेः ।
चिरं स भुङ्क्ते चल-चामरांशुकां
सितातपत्राभरणां नृप-श्रियम्
न च त्वया प्राप्त-राज्यो ऽहम् इति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत् कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद् राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैर् अपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्य् अन्ते विप्रलम्भिनी, वानर-जातिर् इव विद्रुतानेक-चित्ता, पद्म-पत्रम् इवाघटित-संश्लेषा, पवन-गतिर् इवातिचपला, अनार्य-सङ्गतिर् इवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिर् इव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिर् इव क्षण-दृष्ट-नष्टा । अपि च-
यदैव राज्ये क्रियतेऽभिषेकस्
तदैव बुद्धिर् व्यसनेषु योज्या ।
घटा हि राज्ञाम् अभिषेक-काले
सहाम्भसैवापदम् उद्गिरन्ति
न च कश्चिद् अनधिगमनीयो नामास्त्य् आपदाम् । उक्तं च-
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
नाट्याचार्यकम् अर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे
सर्वे काल-वशाज् जनो ऽत्र सहते कः कं परित्रायते
क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद् गतः
क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा ।
क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर् मनुः
ननु बलवता कालेनैते प्रबोध्य निमीलिताः
मान्धाता क्व गतस् त्रिलोक-विजयी राजा क्व सत्यव्रतः
देवानां नृपतिर् गतः क्व नहुषः सच्-छास्त्रवान् केशवः ।
मन्यन्ते सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः
कालेनैव महात्मना त्व् अनुकृताः कालेन निर्वासिताः
अपि च-
स च नृपतिस् ते सचिवास् ताः प्रमदास् तानि कानन-वनानि ।
स च ते च ताश् च तानि च कृतान्त-दृष्टानि नष्टानि
मूल पाठ: Pañcatantra · Edition: Ramchandra Jha, 6th edition, Varanasi : Chowkhamba Vidyabhavan, 1991. (Vidyabhavan Sanskrit Grantha Mala, 17) Also consulted: ed. by M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0