पञ्चतन्त्र · अध्याय 1
इति कथा-मुखम् ।
मित्र-भेदः
वर्धमान-वृत्तान्तः
अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायम् आदिमः श्लोकः-
वर्धमानो महान् स्नेहः सिंह-गो-वृषयोर् वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः
तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम वणिक्-पुत्रो बभूव । तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेऽर्थोपायाश् चिन्तनीयाः कर्तव्याश् चेति । यत उक्तं च-
नहि तद् विद्यते किंचिद् यद् अर्थेन न सिद्ध्यति ।
यत्नेन मतिमांस् तस्माद् अर्थम् एकं प्रसाधयेत्
यस्यार्यस् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः ।
यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः
न सा विद्या न तद् दानं न तच् छिल्पं न सा कला ।
न तत् स्थैर्यं हि धनिनां याचकैर् यन् न गीयते
इह लोके हि धनिनां परो ऽपि स्वजनायते ।
स्वजनो ऽपि दरिद्राणां सर्वदा दुर्जनायते
अर्थेभ्यो ऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस् ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः
पूज्यते यद् अपूज्यो ऽपि यद् अगम्यो ऽपि गम्यते ।
वन्द्यते यद् अवन्द्यो ऽपि स प्रभावो धनस्य च
अशनाद् इन्द्रियाणीव स्युः कार्याण्य् अखिलान्य् अपि ।
एतस्मात् कारणाद् वित्तं सर्व-साधनम् उच्यते
अर्थार्थी जीव-लोको ऽयं श्मशानम् अपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः
गत-वयसाम् अपि पुंसां येषाम् अर्था भवन्ति ते तरुणाः ।
अर्थे तु ये हीना वृद्धास् ते यौवनेऽपि स्युः
स चार्थः पुरुषाणां षड्भ्र् उपायैर् भवति भिक्षाया नृप-सेवया कृषि-कर्मणा विद्योपार्जनेन व्यवहारेण वणिक्-कर्मणा वा । सर्वेषाम् अपि तेषां वाणिज्येनातिरस्कृतो ऽर्थ-लाभः स्यात् । उक्तं च यतः-
कृता भिक्षानेकैर् वितरति नृपो नोचितम् अहो
कृषिः क्लिष्टा विद्या गुरु-विनय-वृत्त्यातिविषमा ।
कुसीदाद् दारिद्र्यं परकरगत-ग्रन्थि-शमनान्
न मन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह
उपायानां च सर्वेषाम् उपायः पण्य-संग्रहः ।
धनार्थं शस्यते हे एकस् तद्-अन्यः संशयात्मकः
तच् च वाणिज्यं सप्त-विधम् अर्थागमाय स्यात् । तद् यथा गान्धिक-व्यवहारः, निक्षेप-प्रवेशः, गोष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, देशान्तराद् भाण्डानयनं चेति । उक्तं च-
पण्यानां गान्धिकं पण्यं किम् अन्यैः काञ्चनादिभिः ।
यत्रैकेन च यत् क्रीतं तच् छतेन प्रदीयते
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्य् उपयाचितम्
गोष्ठिक-कर्म-नियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः ।
वसुधा वसु-सम्पूर्णा मयाद्य लब्धा किम् अन्येन
परिचितम् आगच्छन्तं ग्राहकम् उत्कण्ठ्या विलोकयासौ ।
हृष्यति तद्-धन-लब्धो यद्वत् पुत्रेण जातेन
अन्यच् च-
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् ।
मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम्
द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः ।
प्राप्नुवन्त्य् उद्यमाल् लोका दूर-देशान्तरं गताः
इत्य् एवं सम्प्रधार्य मथुरा-गामीनि भाण्डान्य् आदाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभ संजीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोर् एकः संजीवकाभिधानो यमुना-कच्छम् अवतीर्णः सम्पङ्क-पूरम् आसाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद ।
अथ तं तद्-अवस्थम् आलोक्य वर्धमानः परं विषादम् आगमत् । तद् अर्थं च स्नेहार्द्र-हृदयस् त्रि-रात्रं प्रयाण-भङ्गम् अकरोत् । अथ तं विषण्णम् आलोक्य साऋथिकैर् अभिहितम्- भोः श्रेष्ठिन् ! किम् एवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्व्-अपायेऽस्मिन् वने समस्त-सार्थस् त्वया सन्देहे नियोजितः । उक्तं च-
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतद् एवात्र पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम्
अथासौ तद् अवधार्य संजीवकस्य रक्षा-पुरुषान् निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्व्-अपायं तद्-वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस् तं सार्थवाहं मिथ्याहुः- स्वामिन्, मृतो ऽसौ संजीवकः । अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस् तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश् चकार । संजीवको ऽप्य् आयुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैर् आप्यायित-शरीरः कथंचिद् अप्य् उत्थाय यमुना-तटम् उपपेदे । तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हर-वृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदम् उच्यते-
अरक्षितं तिष्ठति देव-रक्षितं
सुरक्षितं देव-हतं विनश्यति ।
जीवत्य् अनाथो ऽपि वने विसर्जितः
कृत-प्रयत्नो ऽपि गृहे विनश्यति
अथ कदाचित् पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटम् अवतीर्णः संजीवकस्य गम्भीरतर-रावं दूराद् एवाशृणोत् । तच् छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसम् आकारं प्रच्छाद्य बट-तले चतुर्-मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्व् इदं- सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति ।
अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनको ऽब्रवीत्- भद्र करटक, अयं तावद् अस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छम् अवतीर्य स्थितः । स किं निमित्तं पिपासाकुलो ऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतो ऽत्र बट-तले स्थितः ।
करटक आह- भद्र किम् आवयोर् अनेन व्यापारेण उक्तं च यतः-
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः
कथा 1
कीलोत्पाटि-वानर-कथा
कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुम् आरब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायाम् आहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानर-यूथम् इतश् चेतश् च परिभ्रमद् आगतम् । तत्रैकस्य कस्यचिच् छिल्पिनो ऽर्ध-स्फाटितो ऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्न् अन्तरे ते वानरास् तरु-शिखर-प्रसाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुम् आरब्धाः । एकश् च तेषां प्रत्यासन्न-मृत्युश् चापल्यात् तस्मिन्न् अर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावद् उत्पादयितुम् आरेभे तावत् तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच् चलित-कीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम्
। अतो ऽहं ब्रवीमि- अव्यापारेषु इति । आवयोर् भक्षित-शेष आहारो ऽस्त्य् एव । तत् किम् अनेन व्यापारेण । दमनक आह तत् किं भवान् आहारार्थी केवलम् एव । तन् न युक्तम् । उक्तं च-
सुहृदाम् उपकारणाद् द्विषताम् अप्य् अपकारणात् ।
नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम्
किं च-
यस्मिञ् जीवन्ति जीवन्ति बहवः सो ऽत्र जीवतु ।
वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम्
तथा च-
यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्
विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् ।
तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः
काको ऽपि जीवति चिराय बलिं च भुङ्क्ते
यो नात्मना न च परेण च बन्धु-वर्गे
दीने दयां न कुरुते न च मर्त्य-वर्गे ।
किं तस्य जीवित-फलं हि मनुष्य-लोके
काको ऽपि जीवति चिराय बलिं च भुङ्क्ते
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति
किं च-
किं तेन जातु जातेन माटुर् यौवन-हारिणा ।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा
परिवर्तिनि संसारे मृतः को वा न जायते ।
जातस् तु गण्यते सो ऽत्र यः स्फुरेच् च श्रियाधिकः
किं च-
जातस्य नदी-तीरे तस्यापि तृणस्य जन्म-साफल्यम् ।
यत् सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति
तथा च-
स्तिमितोन्नत-सञ्चारा जन-सन्ताप-हारिणः ।
जायन्ते विरला लोके जलदा इव सज्जनाः
निरतिशयं गरिमाणं तेन
जनन्याः स्मरन्ति विद्वांसः ।
यत् कम् अपि वहति गर्भं
महताम् अपि यो गुरुर् भवति
अप्रकटीकृत-शक्तिः शक्तो ऽपि जनस् तिरस्क्रियां लभते ।
निवसन्न् अन्तर्-दारुणि लङ्घ्यो वह्निर् न तु ज्वलितः
करटक आह- आवां तावद् अप्रधानौ तत् किम् आवयोर् अनेन व्यापरेण ।
उक्तं च-
अपृष्टो ऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
न केवलम् असंमानं लभते च विडम्बनम्
तथा च-
वचस् तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।
स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा
दमक आह- मा मैवं वद ।
अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम् ।
प्रधानो ऽप्य् अप्रधानः स्याद् यदि सेवा-विवर्जितः
यत उक्तं च-
आसन्नम् एव नृपतिर् भजते मनुष्यं
विद्या-विहीनम् अकुलीनम् असंस्कृतं वा ।
प्रायेण भूमि-पतयः प्रमदा लताश् च
यत् पार्श्वतो भवति तत् परिवेष्टयन्ति
तथा च-
कोप-प्रसाद-वस्तूनि ये विचिन्वन्ति सेवकाः ।
आरोहन्ति शनैः पश्चाद् धुन्वन्तम् अपि पार्थिवम्
विद्यावतां महेच्छानां शिल्प-विक्रम-शालिनाम् ।
सेवा-वृत्ति-विदां चैव नाश्रयः पार्थिवं विना
ये जात्य्-आदि-महोत्साहान् नरेन्द्रान् नोपयान्ति च ।
तेषाम् आमरणं भिक्षा प्रायश्चित्तं विनिर्मितम्
ये च प्राहुर् दुरात्मानो दुराराध्या महीभुजः ।
प्रमादालस्य-जाड्यानि ख्यापितानि निजानि तैः
सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर् वशीकृतान् ।
राजेति कियती मात्रा धीमताम् अप्रमादिनाम्
राजानम् एव संश्रित्य विद्वान् याति परां गतिम् ।
विना मलयम् अन्यत्र चन्दनं न प्ररोहति
धवलान्य् आतपत्राणि वाजिनश् च मनोरमाः ।
सदा मत्ताश् च मातङ्गाः प्रसन्ने सति भूपतौ
करटक आह- अथ भवान् किं कर्तुमनाः ?
सो ऽब्रवीत्- अद्यास्मत्-स्वामी पिङ्गलको भीतो भीत-परिवारश् च वर्तते । तदैनं गत्वा भय-कारणं विज्ञाय सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावानाम् एकतमेन संविधास्ये ।
करटक आह- कथं वेत्ति भवान् यद् भयाविष्टो ऽयं स्वामी ?
सो ऽब्रवीत्- ज्ञेयं किम् अत्र ? यत उक्तं च-
उदीरितो ऽर्थः पशुनापि गृहते
हयाश् च नागाश् च वहन्ति चोदिताः ।
अनुक्तम् अप्य् ऊहति पण्डितो जनः
परेङ्गित-ज्ञान-फ्जला हि बुद्धयः
तथा च मनुः (8.26)-
आकारैर् इङ्गितैर् गत्या चेष्टया भाषणेन च ।
नेत्र-वक्त्र-विकारैश् च लक्ष्यतेऽन्तर्गतं मनः
तद् अद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि ।
करटक आह- अनभिज्ञो भवान् सेवा-धर्मस्य । तत् कथम् एनं वशीकरिष्यसि ?
सो ऽब्रवीत्- कथम् अहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागत-साधूनां नीति-शास्त्रं पठता यच् छ्रुतं सेवा-धर्मस्य सारं तद् हृदि स्थापितम् । श्रूयतां तच् चेदम्-
सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास् त्रयः ।
शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम्
सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः ।
आश्रयेत् पार्थिवं विद्वांस् तद्-द्वारेणैव नान्यथा
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव
द्रव्य-कृति-हीनो ऽपि सेव्यः सेव्य-गुणान्वितः ।
भवत्य् आजीवनं तस्मात् फलं कालान्तराद् अपि
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा ।
न त्व् अज्ञानात्म-सम्पन्नाद् वृत्तिम् ईहते पण्डितः
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः
यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः ।
सो ऽर्कवन् नृपतिस् त्याज्यः सदा पुष्प-फलो ऽपि सन्
राज-मातरि देव्यां च कुमारे मुख्य-मन्त्रिणि ।
पुरोहिते प्रतीहारे सदा वर्तेत राजवत्
जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः ।
करोति निर्विकल्पं यः स भवेद् राज-वल्लभः
प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् ।
वस्त्राद्यं च दधात्य् अङ्गे स भवेद् राज-वल्लभः
अन्तः-पुर-चरैः सार्धं यो न मन्त्रं समाचरेत् ।
न कलत्रैर् नरेन्द्रस्य स भवेद् राज-वल्लभः
द्यूतं यो यम-दूताभं हालां हालाहलोपमम् ।
पश्येद् दारान् वृथाकारान् स भवेद् राज-वल्लभः
युद्ध-कालेऽग्रणीर् यः स्यात् सदा पृष्ठानुगः पुरे ।
प्रभोर् द्वाराश्रितो हर्म्ये स भवेद् राज-वल्लभः
सम्मतो ऽहं विभोर् नित्यम् इति मत्वा व्यतिक्रमेत् ।
कृच्छ्रेष्व् अपि न मर्यादां स भवेद् राज-वल्लभः
द्वेषि-द्वेष-परो नित्यम् इष्टानाम् इष्ट-कर्म-कृत् ।
यो नरो नर-नाथस्य स भवेद् राज-वल्लभः
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः ।
न समीपे हसत्य् उच्चैः स भवेद् राज-वल्लभः
उप् रणं शरणं तद्वन् मन्यते भय-वर्जितः ।
प्रवासं स्व-पुरावासं स भवेद् राज-वल्लभः
न कुर्यान् नरनाथस्य योषिद्भिः सह संगतिम् ।
न निन्दां न विवादं च स भवेद् राज-वल्लभः
करटक आह- अथ भवांस् तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावद् उच्यताम् ।
दमनक आह-
उत्तराद् उत्तरं वाक्यं वदतां सम्प्रजायते ।
सुवृष्टि-गुण-सम्पन्नाद् बीजाद् बीजम् इवापरम्
अपाय-सन्दर्शनजां विपत्तिम्
उपाय-सन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीति-गुण-प्रयुक्तां
पुरः स्फुरन्तीम् इव वर्णयन्ति
एकेषां वाचि शुकवद् अन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः
न च अहम् अप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वम् उत्सङ्गं हि निषेवता ।
अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् ।
लभते बह्व्-अवज्ञानम् अपमानं च पुष्कलम्
करटक आह-
दुराराध्या हि राजानः पर्वता इव सर्वदा ।
व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः
तथा च-
भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः ।
सुदुष्टा मन्त्र-साध्याश् च राजानः पन्नगा इव
द्वि-जिह्वाः क्रूर-कर्माणो ऽनिष्ठाश् छिद्रानुसारिणः ।
दूरतो ऽपि हि पश्यन्ति राजानो भुजगा इव
स्वल्पम् अप्य् अपकुर्वन्ति येऽभीष्टा हि महीपतेः ।
ते वह्नाव् इव दह्यन्ते पतङ्गाः पाप-चेतसः
दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम् ।
स्वल्पेनाप्य् अपकारेण ब्राह्मण्यम् इव दुष्यति
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः ।
तिष्ठन्त्य् आप इवाधारे चिरम् आत्मनि संस्थिताः
दमनक आह- सत्यम् एतत् परम् । किन्तु-
यस्य यस्य हि यो भावस् तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत्
भर्तुश् चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् ।
राक्षसाश् चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः
सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः ।
तद्-दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम्
करटक आह- यद्य् एवम् अभिमतं तर्हि शिवास् ते पन्थानः सन्तु । यथाभिलषितम् अनुष्ठीयताम् । सो ऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।
अथागच्छन्तं दमनकम् आलोक्य पिङ्गलको द्वास्थम् अब्रवीत्- अपसार्यतां वेत्र-लता । अयम् अस्माकं चिरन्तनो मन्त्रिपुत्रो दमनको ऽव्याहत-प्रवेशः । तत् प्रवेश्यतां द्वितीय-मण्डल-भागी । इति ।
स आह- यथावादीद् भवान् इति ।
अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरः-सरम् उवाच- अपि शिवं भवतः । कस्माच् चिराद् दृष्टो ऽसि ?
दमनक आह- न किंचिद् देव-पादानाम् अस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यम् यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञां प्रयोजनम् । उक्तं च-
दन्तस्य निष्कोषणकेन नित्यं
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किम् आङ्ग वाग्घ-स्तवता नरेण
तथा वयं देव-पादानाम् अन्वयागता भृत्या आपत्स्व् अपि पृष्ठ-गामिनो यद्यपि स्वम् अधिकारं न लभामहे तथापि देव-पादानाम् एतद् युक्तं न भवति । उक्तं च-
स्थानेष्व् एव नियोक्तव्या भृत्या आभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते
यतः-
अनभिज्ञो गुणानां यो न भृत्यैर् अनुगम्यते ।
धनाढ्यो ऽपि कुलीनो ऽपि क्रमायातो ऽपि भूपतिः
उक्तं च-
असमैः समीयमानः समैश् च
परिहीयमाण-सत्-कारः ।
धुरि यो न युज्यमानस् त्रिभिर्
अर्थ-पतिं त्यजति भृत्यः
यच् चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर् दोषो न तेषाम् । उक्तं च-
कनक-भूषण-सङ्ग्रहणोचितो
यदि मणिस् त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि स शोभते
भवति योजयितुर् वचनीयता
यच् च स्वाम्य् एवं वदति चिराद् दृश्यते । तद् अपि श्रूयताम्-
सव्य-दक्षिणयोर् यत्र विशेषो नास्ति हस्तयोः ।
कस् तत्र क्षणम् अप्यार्यो विद्यमान-गतिर् भवेत्
काचे मणिर् मणौ काचो येषां बुद्धिर् विकल्पते ।
न तेषां सन्निधौ भृत्यो नाम-मात्रो ऽपि तिष्ठति
परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीर-देशे किल चन्द्रकान्तं
त्रिभिर् वराटैर् विपणन्ति गोपाः
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
तत्रोद्यम-समर्थानाम् उत्साहः परिहीयते
न विना पार्थिवो भृत्यैर् न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारो ऽयं परस्पर-निबन्धनः
भृत्यैर् विना स्वयं राजा लोकानुग्रह-कारिभिः ।
मयूखैर् इव दीप्तांशुस् तेजस्व्य् अपि न शोभते
अरैः सन्धार्यते नाभिर् नाभौ चाराः प्रतिष्ठिताः ।
स्वामि-सेवकयोर् एवं वृत्ति-चक्रं प्रवर्तते
शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः
राजा तुष्टो हि भृत्यानाम् अर्थ-मात्रं प्रयच्छति ।
ते तु संमान-मात्रेण प्राणैर् अप्य् उपकुर्वते
एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्य-संयुक्ताः शक्ता भक्ताः क्रमागताः
यः कृत्वा सुकृतं राज्ञो दुष्करं हितम् उत्तमम् ।
लज्जया वक्ति नो किञ्चित् तेन राजा सहायवान्
यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा ।
आस्यते सेवकः स स्यात् कलत्रम् इव चापरम्
यो ऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा ।
पृष्ठः सत्यं मितं ब्रूते स भृत्यो ऽर्हो महीभुजाम्
अनादिष्टो ऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स भृत्यो ऽर्हो महीभुजाम्
ताडितो ऽपि दुरुक्तो ऽपि दण्डितो ऽपि महीभुजा ।
यो न चिन्तयते पापं स भृत्यो ऽर्हो महीभुजाम्
न गर्वं कुरुते माने नापमाने च तप्यते ।
स्वाकारं रक्षयेद् यस् तु स भृत्यो ऽर्हो महीभुजाम्
न क्षुधा पीड्यते यस् तु निद्रया न कदाचन ।
न च शीतातपाद्यैश् च स भृत्यो ऽर्हो महीभुजाम्
श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद् यस् तु स भृत्यो ऽर्हो महीभुजाम्
सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुराट् ।
नियोग-संस्थिते यस्मिन् स भृत्यो ऽर्हो महीभुजाम्
सीमा संकोचम् आयाति वह्नौ चर्म इवाहितम् ।
स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता
तथा शृगालो ऽयम् इति मन्यमानेन ममोपरि स्वामिना यद्य् अवज्ञा क्रियते तद् अप्य् अयुक्तम् । उक्तं च यतः-
कौशेयं कृमिजं सुवर्णम् उपलाद् दुर्वापि गोरोमतः
पङ्कात् तामरसं शशाङ्क उदधेर् इन्दीवरं गोमयात् ।
काष्ठाद् अग्निर् अहेः फणाद् अपि मणिर् गो-पित्ततो रोचना
प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना
मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी ।
भक्ष्य-प्रदानैर् जारो हितकृत् प्राप्यते जनैः
एरण्ड-भिण्डार्क-नलैः प्रभूतैर् अपि सञ्चितैः ।
दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम्
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा ।
भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि
पिङ्गलक आह- भवत्व् एवं तावत् । असमर्थः समर्थो वा चिरन्तनस् त्वम् अस्माकं मन्त्रि-पुत्रः । तद् विश्रब्धं ब्रूहि यत् किञ्चिद् वक्तुकामः ।
दमनक आह- देव जिज्ञाप्यं किञ्चिद् अस्ति ।
पिङ्गलक आह- तन् निवेदयाभिप्रेतम् ।
सो ऽब्रवीत्-
अपि स्वल्पतरं कार्यं यद् भवेत् पृथिवी-पतेः ।
तन् न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः
तद् ऐकान्तिके मद्-विज्ञाप्यम् आकर्णयन्तु देव-पादाः । यतः-
षट्-कर्णो भिद्यते मन्त्रश् चतुष्कर्णः स्थिरो भवेत् ।
तस्मात् सर्व-प्रयत्नेन षट्कर्णं वर्जयेत् सुधीः
अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्-वचः समाकर्ण्य संसदि तत्-क्षणाद् एव दूरीभूताः । ततश् च दमनक आह- उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किम् इह निवृत्त्यावस्थानम् ।
पिङ्गलक आह सविलक्ष-स्मितम्- न किञ्चिद् अपि ।
सो ऽब्रवीत्- देव यद्य् अनाख्येयं तत् तिष्ठतु । उक्तं च-
दरिषु किञ्चित् स्वजनेषु किञ्चिद्
गोप्यं वयस्येषु सुतेषु किञ्चित् ।
युक्तं न वा युक्तम् इदं विचिन्त्य
वदेद् विपश्चिन् महतो ऽनुरोधात् ॥पन्च्_1.[*100]
तच् छ्रुत्वा पिङ्गलकश् चिन्तयामास- योग्यो ऽयं दृश्यते । तत् कथयाम्य् एतस्याग्रे आत्मनो ऽभिप्रायम् । उक्तं च-
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥पन्च्_1.[*101]
भो दमनक शृणोषि शब्दं दूरान् महान्तम् ।
सो ऽब्रवीत्- स्वामिन् शृणोमि । तत् किम् ।
पिङ्गलक आह- भद्र अहम् अस्माद् वनाद् गन्तुम् इच्छामि ।
दमनक आह- कस्मात् ।
पिङ्गलक आह - यतो ऽद्यस्मद्-वने किम् अप्य् अपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यम् इति ।
दमनक आह- यच्-छब्द-मात्राद् अपि भयम् उपगतः स्वामी तद् अप्य् अयुक्तम् । उक्तं च-
अम्भसा भिद्यते सेतुस् तथा मन्त्रो ऽप्य् अरक्षितः ।
पैशुन्याद् भिद्यते स्नेहो भिद्यते वाग्भिर् आतुरः
तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन् न केवलाच् छब्द-मात्राद् अपि भेतव्यम् । उक्तं च-
अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते ।
धैर्यं यस्य महीनाथो न स याति पराभवम्
दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम् ।
शोषित-सरसि निदाघे नितराम् एवोद्धतः सिन्धुः
तथा च-
यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् ।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम्
तथा च-
शक्ति-वैकल्य-नम्रस्य निःसारत्वाल् लघीयसः ।
जन्निमो मानहीनस्य तृणस्य च समा गतिः
अपि च-
अन्य-प्रतापम् आसाद्य यो दृढत्वं न गच्छति ।
जतुजाभरणस्येव रूपेणापि हि तस्य किम्
तद् एवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद् भेतव्यम् । अपि च-
पूर्वम् एव मया ज्ञातं पूर्णम् एतद् धि मेदसा ।
अनुप्रविश्य विज्ञातं यावच् चर्म च दारु च
पिङ्गलक आह- कथम् एतत् ।
सो ऽब्रवीत्-
कथा 2
शृगाल-दुन्दुभि-कथा
कश्चिद् गोमायुर् नाम शृगालः क्षुत्क्षाम-कण्ठः इतस् ततः परिभ्रमन् वने सैन्य-द्वय-संग्राम-भूमिम् अपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद् वल्ली-शाखाग्रैर् हन्यमानस्य शब्दम् अशृणोत् । अथ क्षुभित-हृदयश् चिन्तयामास अहो विनष्टो ऽस्मि । तद् यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावद् अन्यतो व्रजामि । अथवा नैतद् युज्यते सहसैव ।
भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान् न स सन्तापम् आप्नुयात्
तत् तावज् जानामि कस्यायं शब्दः । धैर्यम् आलम्ब्य विमर्शयन् यावन् मन्दं मन्दं गच्छति तावद् दुन्दुभिम् अपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयम् एव कौतुकाद् अताडयत् । भूयश् च हर्षाद् अचिन्तयत्- अहो चिराद् एतद् अस्माकं महोद्भोजनम् आपतितम् । तन् नूनं मांस-मेदो ऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत् कथम् अपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस् तद्-दारु-शेषम् अवलोक्य श्लोकम् एनम् अपठत् पूर्वम् एव मया ज्ञातम् इति । अतो न शब्द-मात्राद् भेतव्यम् ।
पिङ्गलक आह- भोः पश्यायं मम सर्वो ऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुम् इच्छति । तत् कथम् अहं धैर्याद् अवष्टम्भं करोमि ।
सो ऽब्रवीत्- स्वामिन् नैषाम् एष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च-
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च ।
पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च
तत्-पौरुषावष्टं कृत्वा त्वं तावद् अत्रैव प्रतिपालय यावद् अहम् एतच् छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद् यथोचितं कार्यम् इति ।
पिङ्गलक आह- किं तत्र भवान् गन्तुम् उत्सहते ।
स आह- किं स्वाम्य्-आदेशात् सद्-भृत्य कृत्याकृत्यम् अस्ति । उक्तं च-
स्वाम्य्-आदेशात् सुभृत्यस्य न भोः सञ्जायते क्वचित् ।
प्रविशेन् मुखम् आहेयं दुस्तरं वा महार्णवम्
तथा च-
स्वाम्य्-आदिष्टस् तु यो भृत्यः समं विषमम् एव च ।
मन्यते न स सन्धार्यो भूभुजा भूतिम् इच्छता
पिङ्गलक आह- भद्रं, यद्य् एवं तद् गच्छ । शिवास् ते पन्थानः सन्तु इति ।
दमनको ऽपि तम् प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे ।
अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश् चिन्तयामास- अहो न शोभनं कृतं मया । यत् तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद् दमनको ऽयम् उभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद् भ्रष्टाधिकारत्वात् । उक्तं च-
ये भवन्ति महीपस्य सम्मानित-विमानिताः ।
यतन्ते तस्य नाशाय कुलीना अपि सर्वदा
तत् तावद् अस्य चिकीर्षितं वेत्तुम् अन्यत् स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद् दमनकस् तम् आदाय मां व्यापादयितुम् इच्छति । उक्तं च-
न बध्यन्ते ह्य् अविश्वस्ता बलिभिर् दुर्बला अपि ।
विश्वस्तास् त्व् एव बध्यन्ते बलवन्तो ऽपि दुर्बलैः
बृहस्पतेर् अपि प्राज्ञो न विश्वासे व्रजेन् नरः ।
य इच्छेद् आत्मनो वृद्धिम् आयुष्यं च सुखानि च
शपथैः सन्धितस्यापि न विश्वासे व्रजेद् रिपोः ।
राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर् हतः
न विश्वासं विना शत्रुर् देवानाम् अपि सिद्ध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः
एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गम् अवलोकयन्न् एकाकी तस्थौ । दमनको ऽपि सञ्जीवक-सकाशं गत्वा वृषभो ऽयम् इति परिज्ञाय हृष्ट-मना व्यचिन्तयत्- अहो शोभनम् आपतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च-
न कौलीन्यान् न सौहार्दान् नृपो वाक्ये प्रवर्तते ।
मन्त्रिणां वावद् अभ्येति व्यसनं शोकम् एव च
सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् ।
अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम्
यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम् ।
तथापद् रहितो राजा सचिवं नाभिवाञ्छति
एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलको ऽपि तम् आयान्तं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनको ऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह - किं दृष्टं भवता तत् सत्त्वम् ?
दमनक आह- दृष्टं स्वामि-प्रसादात् ।
पिङ्गलक आह- अपि सत्यम् ।
दमनक आह- किं स्वामि-पादानाम् अग्रेऽसत्यं विज्ञाप्यते । उक्तं च-
अपि स्वल्पम् असत्यं यः पुरो वदति भूभुजाम् ।
देवानां च विनश्यते स द्रुतं सुमहान् अपि
तथा च-
सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः ।
तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित्
सर्व-देवमयस्यापि विशेषो नृपतेर् अयम् ।
शुभाशुभ-फलं सद्यो नृपाद् देवाद् भवान्तरे
पिङ्गलक आह- सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः-
तृणानि नोन्मूलयति प्रभञ्जनो
म्र्डूनि नीचैः प्रणतानि सर्वतः ।
स्वभाव एवोन्नत-चेतसाम् अयं
महान् महत्स्व् एव करोति विक्रमम्
अपि च-
गण्डस्थलेषु मद-वारिषु बद्ध-राग-
मत्त-भ्रमद्-भ्रमर-पाद-तलाहतो ऽपि ।
कोपं न गच्छति नितान्त-बलो ऽपि नागस्
तुल्ये बले तु बलवान् परिकोपम् एति
दमनक आह- अस्त्व् एवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि ।
पिङ्गलक आह सोच्छ्वासम्- किं भवान् शक्नोत्य् एवं कर्तुम् ।
दमनक आह- किम् असाध्यं बुद्धेर् अस्ति । उक्तं च-
न तच् छस्त्रैर् न नागेन्द्रैर् न हयैर् न पदातिभिः ।
कार्यं संसिद्धिम् अभ्येति यथा बुद्ध्या प्रसाधितम्
पिङ्गलक आह- यद्य् एवं तर्ह्य् अमात्य-पदेऽध्यारोपितस् त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यम् इति निश्चयः ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तम् इदम् आह- एह्य् एहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस् त्वाम् आकारयति । किं निःशङ्को भूत्वा मुहुर् मुहुर् नदसि वृथा इति ।
तच् छ्रुत्वा सञ्जीवको ऽब्रवीत्- भद्र को ऽयं पिङ्गलकः ।
दमनक आह- किं स्वामिनं पिङ्गलकम् अपि न जानासि ? तत्-क्षणम् प्रतिपालय । फलेनैव ज्ञास्यसि । नन्व् अयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस् तिष्ठति ।
तच् छ्रुत्वा गतायुषम् इवात्मानम् मन्यमानः सञ्जीवकः परं विषादम् अगमत् । आह च- भद्र भवान् साधु-समाचारो वचन-पटुश् च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि तद्-अभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः ।
दमनक आह-भोः सत्यम् अभिहितं भवता । नीतिर् एषा यतः-
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेर् अपि ।
न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित्
तत्त्वम् अत्रैव तिष्ठ यावद् अहं तं समये दृष्ट्वा ततः पश्चात् त्वाम् अनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदम् आह-स्वामिन् न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदम् ऊचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनम् इदम् ।
पिङ्गलक आह सभयम्-सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस् त्वया किम् अभिहितम् ।
दमनक आह-स्वामिन् एतद् अभिहितं मया यद् एतद्-वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद् भवान् अभ्यागतः प्रियो ऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिर् एक-स्थानाश्रयेण कालो नेयः इति । ततस् तेनापि सर्वम् एतत् प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशाद् अभय-दक्षिणा दापयितव्या इति । तद् अत्र स्वामी प्रमाणम् ।
तच् छ्रुत्वा पिङ्गलक आह-साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदम् अभिहितम् । तद् दत्ता मया तस्याभय-दक्षिणा । परं सो ऽपि मद्-अर्थेऽभय-दक्षिणां याचयित्वा द्रुततरम् आनीयताम् इति । अथ साधु चेदम् उच्यते-
अन्तः-सारैर् अकुटिलैर् अच्छिद्रैः सुपरीक्षितैः ।
मन्त्रिभिर् धार्यते राज्यं सुस्तम्भैर् इव मन्दिरम्
तथा च-
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः
दमनको ऽपि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षम् अचिन्तयत्- अहो प्रसाद-संमुखी नः स्वामी वचन-वशगश् च संवृत्तः । तन् नास्ति धन्यतरो मम । उक्तं च-
अमृतं शिशिरे वह्निर् अमृतं प्रिय-दर्शनम् ।
अमृतं राज-संमानम् अमृतं क्षीर-भोजनम्
अथ संजीवक-सकाशम् आसाद्य स-प्रश्रयम् उवाच-भो मित्र प्रार्थितो ऽसौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम् । तद्-विश्रब्धं गम्यताम् इति । परं त्वया राज-प्रसादम् आसाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वम् आसाद्य स्व-प्रभुतया विचरणीयम् । अहम् अपि तव सङ्केतेन सर्वा राज्य-धुरम् अमात्य-पदवीम् आश्रित्योद्धरिष्यामि । एवं कृते द्वयोर् अप्य् आवयो राज-लक्ष्मी-भाग्या भविष्यति । यतः-
आखेटकस्य धर्मेण विभवाः स्युर् वशे नॄणाम् ।
नृ-प्रजाः प्रेरयत्य् एको हन्त्य् अन्यो ऽत्र मृगान् इव
तथा च-
यो न पूजयते गर्वाद् उत्तमाधम-मध्यमान् ।
नृपासन्नान् स मान्यो ऽपि भ्रश्यते दन्तिलो यथा
संजीवक आह-कथम् एतत् ? सो ऽब्रवीत्-
कथा 3
दन्तिल-गोरम्भ-कथा
अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास् तत्-पुर-वासिनो लोका नृपतिश् च । किं बहुना, न को ऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यम् एतद् उक्तम्-
नरपति-हित-कर्ता द्वेष्यतां याति लोके
जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः ।
इति महति विरोधे वर्तमाने समाने
नृपति-जन-पदानां दुर्लभः कार्य-कर्ता
अथैवं गच्छति काले दनित्लस्य कदाचिद् विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-संनिधि-लोकाश् च सम्मान-पुरःसरम् आमन्त्र्य भोजिता वस्त्रादिभिः सत्-कृताश् च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहम् आनीयाभ्यर्चितः । अथ तस्य नृपतेर् गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातो ऽपि तेनानुचित-स्थान उपविष्टो ऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सो ऽपि ततः प्रभृति निश्वसन्न् अपमानान् न रात्राव् अप्य् अधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्न् आस्ते । अथवा किम् अनेन वृथा शरीर-शोषणेन । न किंचिन् मया तस्यापकर्तुं शक्यम् इति । अथवा साध्व् इदम् उच्यते-
यो ह्य् अपकर्तुम् अशक्तः कुप्यति
किम् असौ नरो ऽत्र निर्लज्जः ।
उत्पतितो ऽपि हि चणकः शक्तः
किं भ्राष्ट्रकं भङ्क्तुम्
अथ कदाचित् प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्न् इदम् आह-अहो दन्तिलस्य महद् दृप्तत्वं यद् राज-महिषीम् आलिङ्गति ।
तच् छ्रुत्वा राजा स-सम्भ्रमम् उत्थाय तम् उवाच-भो भो गोरम्भ । सत्यम् एतत् यत् त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति ।
गोरम्भः प्राह-देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता । तन् न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्व-गतम्-एष तावद् अस्मद्-गृहेऽप्रतिहत-गतिस् तथा दन्तिलो ऽपि । तत् कदाचिद् अनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदम् अभिहितम् । उक्तं च-
यद् वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
तत् स्वप्नेऽपि तद्-अभ्यासाद् ब्रूते वाथ करोति वा
तथा च-
शुभं वा यदि पापं यन् नॄणां हृदि संस्थितम् ।
सुगूढम् अपि तज् ज्ञेयं स्वप्न-वाक्यात् तथा मदात्
अथवा स्त्रीणां विषये को ऽत्र सन्देहः ।
जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं स-विभ्रमाः ।
हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम्
अन्यच् च-
एकेन स्मित-पाटलाधर-रुचो जल्पन्त्य् अनल्पाक्षरं वीक्षन्तेऽन्यम् इतः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः ।
दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतो ऽर्थवद् इव प्रेमास्ति वाम-भ्रुवाम्
तथा च-
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वम् उपजायते
यो मोहान् मन्यते मूढो रक्तेयं मम कामिनी ।
स तस्या वशगो नित्यं भवेत् क्रीडा-शकुन्तवत्
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि ।
करोति सः कृतैर् लोके लघुत्वं याति सर्वतः
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच् च कुरुते सेवां तम् एवेच्छन्ति योषितः
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च ।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति सर्वदा
नासां कश्चिद् अगम्यो ऽस्ति नासां च वयसि स्थितिः ।
विरूपं रूपवन्तं वा पुमान् इत्य् एव भुज्यते
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा ।
घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस् तथा ।
अबलाभिर् बलाद् रक्तः पाद-मूले निपात्यते
एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः संजातः । किं बहुना राज-द्वार-प्रवेशो ऽपि तस्य निवारितः । दन्तिलो ऽप्य् अकस्माद् एव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलोक्य चिन्तयामास-अहो साधु चेदम् उच्यते-
को ऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः ।
कः कालस्य न गोचरान्तर-गतः को ऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान्
तथा च-
काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा
अपरं मयास्य भूपतेर् अथवान्यस्यापि कस्यचिद् राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत् किम् एतत्-पराङ्मुखो मां प्रति भूपतिः इति ।
एवं तं दन्तिलं कदाचिद् राज-द्वारे विष्कम्भितं विलोक्य संमार्जन-कर्ता गोरम्भो विहस्य द्वारपालान् इदम् ऊचे-भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितो ऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तद् अनेन निवारितेन यथाहं तथा यूयम् अप्य् अर्ध-चन्द्र-भाजिनो भविष्यथ । तच् छ्रुत्वा दन्तिलश् चिन्तयामास-नूनम् इदम् अस्य गोरम्भस्य चेष्टितम् । अथवा साध्व् इदम् उच्यते-
अकुलीनो ऽपि मूर्खो ऽपि भूपालं यो ऽत्र सेवते ।
अपि संमानहीनो ऽपि स सर्वत्र प्रपूज्यते
अपि कापुरुषो भीरुः स्याच् चेन् नृपति-सेवकः ।
तथापि न पराभूतिं जनाद् आप्नोति मानवः
एवं स बहु-विधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरम्भम् आहूय वस्त्र-युगलेन संमान्येदम् उवाच-भद्र ! मया न तदा त्वं राग-वशान् निःसारितः । यतस् त्वं ब्राह्मणानाम् अग्रतो ऽनुचित-स्थाने समुपविष्टो दृष्ट इत्य् अपमानितः । तत् क्षम्यताम् ।
सो ऽपि स्वर्ग-राज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितोषं गत्वा तम् उवाच-भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तद् अस्य संमानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च । एवम् उक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदम् उच्यते-
स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधो-गतिम् ।
अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च
ततश् चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः संमार्जन-क्रियां कुर्वन्न् इदम् आह-अहो अविवेको ऽस्मद्-भूपतेः । यत् पुरीषोत्सर्गम् आचरंश् चर्भटी-भक्षणं करोति ।
तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच-रे रे गोरम्भ ! किम् अप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिद् अहम् एवंविधं कर्म समाचरन् दृष्टः ?
सो ऽब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन संमार्जनं कुर्वाणस्य मम बलान् निद्रा समायाता । तयाधिष्ठितेन मया किंचिज् जल्पितम् । तन् न वेद्मि । तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति ।
एवं श्रुत्वा राजा चिन्तितवान्-यन् मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद् यथायं व्यतिकरो ऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन् मया न युक्तं कृतं यत् स वराकः संमानेन वियोजितः । न तादृक्-पुरुषाणाम् एवंविधं चेष्टितं सम्भाव्यते । तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।
एवम् अनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतो ऽहं ब्रवीमि यो न पूजयते गर्वात् इति ।
संजीवक आह-भद्र एवम् एवैतत् । यद् भवताभिहितं तद् एव मया कर्तव्यम् इति । एवम् अभिहिते दमनकस् तम् आदाय पिङ्गलक-सकाशम् अगमत् । आह च-देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवको ऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलको ऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः । कुतस् त्वम् अस्मिन् वने विजने समायातो ऽसि ?
तेनाप्य् आत्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस् तथा सर्वं निवेदितम् । तच् छ्रुत्वा पिङ्गलकः सादरतरं तम् उवाच-वयस्य न भेतव्यम् । मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणाम् अपि सत्त्वानाम् असेव्यम् । कुतः शष्प-भोजिनाम् ।
एवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तद् एव वनं प्रविष्टः । ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीविकेन सह सुभाषित-गोष्ठीम् अनुभवन्न् आस्ते । अथवा साध्व् इदम् उच्यते-
यदृच्छयाप्य् उपनतं सकृत् सज्जन-सङ्गतम् ।
भवत्य् अजरम् अत्यन्तं नाभ्यास-क्रमम् ईक्षते
संजीवकेनाप्य् अनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैर् एवाहोभिर् मूढ-मतिः पिङ्गलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकाव् एव केवलं रहसि मन्त्रयतः । शेषः सर्वो ऽपि मृग-जनो दूरीभूतस् तिष्ठति । करटक-दमनकाव् अपि प्रवेशं न लभेते । अन्यच् च सिंह-पराक्रमाभावात् सर्वो ऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशम् आश्रित्य स्थिताः ।
उक्तं च-
फल-हीनं नृपं भृत्याः कुलीनम् अपि चोन्नतम् ।
सन्त्य् अज्यान्य् अत्र गच्छन्ति शुष्कं वृक्षम् इवाण्डजाः
तथा च-
अपि संमान-संयुक्ताः कुलीना भक्ति-तत्-पराः ।
वृत्ति-भङ्गान् महीपालं त्यजन्त्य् एव हि सेवकाः
अन्यच् च-
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः ।
कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः
तथा च केवलं सेवका इत्थम्भूता यावत् समस्तम् अप्य् एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति । तद् यथा-
देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः ।
वणिजो ग्राहकाणां च मूर्खाणाम् अपि पण्डिताः
प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् ।
गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः
सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् ।
उपजीवन्ति शक्त्या हि जलजा जलदान् इव
अथवा साध्व् इदम् उच्यते-
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत्
अत्तुं वाञ्छति शाम्भवो गणपतेर् आखुं क्षुधार्तः फणी
तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहो ऽपि नागाशनम् ।
इत्थं यत्र परिग्रहस्य घटना शम्भोर् अपि स्याद् गृहे
तत्राप्य् अस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत्
ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते-आर्य करटक । आवां तावद् अप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः । सर्वो ऽपि परिजनो गतः । तत् किं क्रियते ।
करटक आह-यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च-
अशृन्वन्न् अपि बोद्धव्यो मन्त्रिभिः पृथिवी-पतिः ।
यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः
तथा च-
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः ।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः
तत् त्वयैष शष्प-भोजी स्वामिनः सकाशम् आनीतः । तत् स्वहस्तेनाङ्गाराः कर्षिताः ।
दमनक आह-सत्यम् एतत् । ममायं दोषः । न स्वामिनः । उक्तं च-
जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना ।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः
करटक आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 4
देवशर्म-परिव्राजक-कथा
अस्ति कस्मिंश्चिद् विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद् विश्वसिति । नक्तं दिनं कक्षान्तरात् तां मात्रां न मुञ्चति । अथवा साधु चेदम् उच्यते-
अर्थानाम् अर्जने दुःखम् अर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिग् अर्थाः कष्ट-संश्रयाः
अथाषाढ-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयम् अर्थ-मात्रा हर्तव्या इति ।
तद् अत्र मठे तावद् दृढ-शिला-सञ्चय-वशाद् भित्ति-भेदो न भवति । उच्चैस्तरत्वाच् च द्वारे प्रवेशो न स्यात् । तद् एनं माया-वचनैर् विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद् विश्वासम् एति । उक्तं च-
निस्पृहो नाधिकारी स्यान् नाकामी मण्डन-प्रियः ।
नाविदग्धः प्रियं ब्रूयात् स्फुट-वक्ता न वञ्चकः
एवं निश्चित्य तस्यान्तिकम् उपगम्य-ओं नमः शिवाय-इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च स-प्रश्रयम् उवाच-भगवन् असारः संसारो ऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरद्-अभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक् परिज्ञातम् । तत् किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति ।
तच् छ्रुत्वा देव-शर्मा सादरम् आह-वत्स ! धन्यो ऽसि यत् प्रथमे वयस्य् एवं विरक्ती-भावः । उक्तं च-
पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते
आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन
यच् च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच् छ्रूयताम्-
शूद्रो वा यदि वान्यो ऽपि चण्डालो ऽपि जटाधरः ।
दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत्
षड्-अक्षरेण मन्त्रेण पुष्पम् एकम् अपि स्वयम् ।
लिङ्गस्य मूर्ध्नि यो दद्यान् न स भूयो ऽभिजायते
तच् छ्रुत्वाषाढ-भूतिस् तत्-पादौ गृहीत्वा स-प्रश्रयम् इदम् आह-भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आह-वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च-
दुर्मन्त्रान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालसाद्
विप्रो ऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् ।
मैत्री चाप्रणयात् समृद्धिर् अनयात् स्नेहः प्रवासाश्रयात्
स्त्री गर्वाद् अनवेक्षणाद् अपि कृषिस् त्यागात् प्रमादाद् धनम्
तत् त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यम् इति ।
स आह-भगवन् ! भवद्-आदेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यताम् अनयत् । सो ऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषम् अनयत् । पुनस् तथापि मुनिः कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश् चिन्तयामास-अहो, न कथञ्चिद् एष मे विश्वासम् आगच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ? इति ।
एवं चिन्तयतस् तस्य देवशर्मणो ऽपि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपण-कृते मम गृहम् आगम्यताम् इति ।
तच् छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतो ऽग्रे काचिन् नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तराद् अवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तद्-अनन्तरम् आषाढभूतिम् इदम् आह-भो आषाढभूते ! यावद् अहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावद् एषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्य् उक्त्वा गतः ।
आषाढभूतिर् अपि तस्मिन्न् अदर्शनी-भूते मात्राम् आदाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धम् अपश्यत् । अथ रोष-वशाद् धुडु-युगलस्य दूरम् अपसरणं कृत्वा भूयो ऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच् च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तद् आलोक्य व्यचिन्तयत्-अहो मन्द-मतिर् अयं जम्बूकः । यदि कथम् अप्य् अनयोः सङ्घट्टे पतिष्यति तन् नूनं मृत्युम् अवाप्स्यतीति वितर्कयामि ।
क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान् मध्ये प्रविशंस् तयोः शिरः-सम्पाते पतिओत् मृतश् च शृगालः । देवशर्मापि तं शोचमानो मात्राम् उद्दिश्य शनैः शनैः प्रस्थितो यावद् आषाढभूतिं न पश्यति ततश् चौत्सुक्येन शौचं विधाय यावत् कन्थाम् आलोकयति तावन् मात्रां न पश्यति । ततश् च-हा हा मुषितो ऽस्मि इति जल्पन् पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच् चेतनां लब्ध्वा भूयो ऽपि समुत्थाय फूत्कर्तुम् आरब्धः-भो आषाढभूते ! क्व मां वञ्चयित्वा गतो ऽसि ? तद् देहि मे प्रतिवचनम् ।
एवं बहु विलप्य तस्य पद-पद्धतिम् अन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तन-समये कञ्चिद् ग्रामम् आससाद । अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तम् आलोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस् तवान्तिकं प्राप्ताः । न कम् अप्य् अत्र ग्रामे जानीमः । तद् गृह्यताम् अतिथि-धर्मः । उक्तं च-
सम्प्राप्तो यो ऽतिथिः सायं सूर्योढे गृह-मेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः
तथा च-
तृणानि भूमिर् उदकं वाक्-चतुर्थी च सूनृता ।
सताम् एतानि हर्म्येषु नोच्छिद्यन्ते कदाचन
स्वागतेनाग्नयस् तृप्ता आसनेन शतक्रतुः ।
पाद-शौचेन पितरः अर्घाच् छम्भुस् तथातिथेः
कौलिको ऽपि तच् छ्रुत्वा भार्याम् आह-प्रिये, गच्छ त्व् अतिथिम् आदाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यम् आनेष्यामि । एवम् उक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तम् आदाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदम् उच्यते-
दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः
तथा च-
पर्यङ्केष्व् आस्तरणं पतिम् अनुकूलं मनोहरं शयनम् ।
तृणम् इव लघु मन्यन्ते कामिन्यश् चौर्य-रत-लुब्धाः
तथा च-
केलिं प्रदहति लज्जा शृङ्गारो ऽस्थीनि चाटवः कटवः ।
वन्ध-त्रयाः परितोषो न किंचिद् इष्टं भवेत् पत्यौ
कुल-पतनं जन-गर्हां बन्धनम् अपि जीवितव्य-सन्देहम् ।
अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता
अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदम् आह-भो भगवन् ! यावद् अहं स्व-सखीं ग्रामाद् अभ्यागतां सम्भाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-गृहेऽप्रमत्तेन भाव्यम् ।
एवम् अभिधाय शृङ्गार-विधिं विधाय यावद्-देवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता संमुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन् गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्व-गृहं प्रविश्य नुक्त-शृङ्गार-वेशा यथा-पूर्वम् अभवत् । कौलिको ऽपि तां पलायमानां कृताद्भुत-शृङ्गारां विलोक्य प्राग् एव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश् च तथाविधं चेष्टितम् अवलोक्य दृष्ट-प्रत्ययः क्रोध-वशगो गृहं प्रविश्य ताम् उवाच-आः पापे पुंश्चलि ! क्व प्रस्थितासि ?
सा प्रोवाच-अहं त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता । तत् कथं मद्य-पान-वशाद् अप्रस्तुतं वदसि ? अथवा साध्व् इदम् उच्यते-
वैकल्यं धरणी-पातम् अयथोचित-जल्पनम् ।
संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत्
कर-स्पन्दो ऽम्बर-त्यागस् तेजो-हानिः सरागता ।
वारुणी-सङ्गजावस्था भानुनाप्य् अनुभूयते
सो ऽपि तच् छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तम् आह-पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तद् अद्य स्वयं सञ्जात-प्रत्ययस् तव यथोचितं निग्रहं करोमि । इत्य् अभिधाय लगुड-प्रहारैस् तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सो ऽपि मद-विह्वलो विज्ञाय तां गत्वेदम् आह-सखि ! स देवदत्तस् तस्मिन् स्थाने त्वां प्रतीक्षते । तच् छीघ्रम् आगम्यताम् इति ।
सा चाह-पश्य ममावस्थाम् । तत् कथं गच्छामि ? तद् गत्वा ब्रूहि तं कामिनं यद् अस्यां रात्रौ न त्वया सह समागमः ।
नापिती प्राह-सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च-
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् ।
उष्ट्राणाम् इव तेषां मन्येऽहं शंसितं जन्म
तथा च-
सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे ।
स्वाधीने पर-रमणे धन्यास् तारुण्य-फल-भाजः
अन्यच् च-
यदि भवति देव-योगात् पुमान् विरूपो ऽपि बन्धको रहसि ।
न तु कृच्छ्राद् अपि भद्रं निज-कान्तं सा भजत्य् एव
साब्रवीत्-यद्य् एवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश् चायं पापात्मा मत्-पतिः ।
नापित्य् आह-सखि, मद-विह्वलो ऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तद् अहं त्वम् उन्मोचयामि । माम् आत्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ ।
साब्रवीत्-एवम् अस्तु इति ।
तद् अनु सा नापिती तां स्व-सखीं बन्धनाद् विमोच्य तस्याः स्थाने यथा-पूर्वम् आत्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे समुत्थाय किंचिद् गत-कोपो विमदस् ताम् आह-हे परुष-वादिनि ! यद् अद्य-प्रभृति गृहान् निष्क्रमणं न करोषि, न च परुषं वदसि, ततस् त्वाम् उन्मोचयामि ।
नापित्य् अपि स्वर-भेद-भयाद् यावन् न किंचिद् ऊचे, तावत् सो ऽपि भूयो भूयस् तां तद् एवाह । अथ सा यावत् प्रत्युत्तरं किम् अपि न ददौ, तावत् स प्रकुपितस् तीक्ष्ण-शस्त्रम् आदाय नासिकाम् अच्छिनत् । आह च-रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस् तोषयिष्यामि । इति जल्पन् पुनर् अपि निद्रा-वशम् अगात् ।
देवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कण्ठो नष्ट-निद्रस् तत् सर्वं स्त्री-चरित्रम् अपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखम् अनुभूय कस्मिंश्चित् क्षणे स्व-गृहम् आगतय तां नापितीम् इदम् आह-अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः ।
नापित्य् आह-शिवं नासिकया विना शेषस्य शरीरस्य । तद् द्रुतं तां मोचय बन्धनाद् यावन् नायं मां पश्यति, येन स्व-गृहं गच्छामि ।
तथानुष्ठिते भूयो ऽपि कौलिक उत्थाय ताम् आह-पुंश्चलि ! किम् अद्यापि न वदसि ? किं भूयो ऽप्य् अतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ?
अथ सा स-कोपं साधिक्षेपम् इदम् आह-धिङ् महा-मूढ ! को मां महा-सतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच् छृण्वन्तु सर्वेऽपि लोक-पालाः ।
आदित्य-चन्द्र-हरि-शंकर-वासवाद्याः
शक्ता न जेतुम् अतिदुःख-कराणि यानि ।
तानीन्द्रियाणि बलवन्ति सुदुर्जयानि
ये निर्जयन्ति भुवने बलिनस् त एके
तद् यदि मम सतीत्वम् अस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयो ऽपि मे नासिकां तादृग्-रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिर् अपि भवति, मां भस्मसान् नयन्तु । एवम् उक्त्वा भूयो ऽपि तम् आह-भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृश्य् एव नासिका संवृत्ता ।
अथासाव् उल्मुकम् आदाय यावत् पश्यति, तावत् तद्-रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तम् अपश्यत् । अथ स विस्मित-मनास् तां बन्धनाद् विमुच्य शय्यायाम् आरोप्य च चाटु-शतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तम् आलोक्य विस्मित-मना इदम् आह-
शम्बरस्य च या माया या माया नमुचेर् अपि ।
बलेः कुम्भीनसश् चैव सर्वास् ता योषितो विदुः
हसन्तं प्रहसन्त्य् एता रुदन्तं प्ररुदन्त्य् अपि ।
अप्रियं प्रिय-वाक्यैश् च गृह्णन्ति काल-योगतः
उशना वेद यच् छास्त्रं यच् च वेद बृहस्पतिः ।
स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः
अनृतं सत्यम् इत्य् आहुः सत्यं चापि तथानृतम् ।
इति यास् ताः कथं वीर संरक्ष्याः पुरुषैर् इह
अन्यत्राप्य् उक्तम्-
नातिप्रसङ्गः प्रमदासु कार्यो
नेच्छेद् बलं स्त्रीषु विवर्धमानम् ।
अतिप्रसक्तैः पुरुषैर् यतस् ताः
क्रीडन्ति काकैर् इव लून-पक्षैः
सुमुखेन वदन्ति वगुना प्रहरन्त्य् एव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्-विषम्
अत एव निपीयतेऽधरो हृदयं मुष्टिभिर् एव ताड्यते ।
पुरुषैः सुख-लेश-वञ्चितैर् मधु-लुब्धैः कमलं यथालिभिः
अपि च-
आवर्तः संशयानाम् अविनय-भवनं पत्तनं साहसानां दोषाणां संनिधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं स्त्री-यन्त्रं केन सृष्टं विषम् अमृत-मयं प्राणि-लोकस्य पाशः
कार्कश्यं स्तनयोर् दृशोस् तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कच-संचये च वचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये यासां दोष-गणो गुणो मृग-दृशां ताः स्युर् नराणां प्रियाः
एता हसन्ति च रुदन्ति च कार्य-हेतोर्
विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान् नरेण कुल-शील-समन्वितेन नार्यः श्मशान-घटिका इव वर्जनीयाः
तस्मान् नरेण कुलशीलवता सदैव
नार्यः श्मशान-वटिका इव वर्जनीयाः ।
व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा
नागाश् च भूरि-मद-राज-विराजमानाः
कुर्वन्ति तावत् प्रथमं प्रियाणि
यावन् न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथ-पाश-बद्धं
ग्रस्तामिषं मीनम् इवोद्धरन्ति
समुद्र-वीचीव चल-स्वभावाः
सन्ध्याभ्र-रेखेव मुहूर्त-रागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं
निष्पीडोतालक्तकवत् त्यजन्ति
अनृतं साहसं माया मूर्खत्वम् अतिलुब्धता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः
सम्मोहयन्तिमदयन्ति विडम्बयन्ति
निर्भर्स्तयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वाम-नयना न समाचरन्ति
अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः
एवं चिन्तयतस् तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास-किम् इदानीं कर्तव्यम् ? कथम् एतन् महच्-छिद्रं स्थगयितव्यम् ?
अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद् राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहम् अभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया ताम् आह-भद्रे शीघ्रम् आनीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि ।
सापि छिन्ननासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात् क्षुरम् एकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितो ऽप्य् उत्सुकतया तम् एकं क्षुरम् अवलोक्य कोपाविष्टः सन् तद्-अभिमुखम् एव तं क्षुरं प्राहिणोत् । एतस्मिन्न् अन्तरे सा दुष्टोर्ध्व-बाहू विधाय फुतकर्तु-मना गृहान् निश्चक्राम । अहो पश्यत पापेनानेन मम सद्-आचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् ।
अत्रान्तरे राज-पुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर् जर्जरीकृत्य दृढ-बन्धनैर् बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यान् ऊचुः-शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नम् एतद् व्यङ्गितम् । तद् अस्य यद् युज्यते तत् क्रियताम् ।
इत्य् अभिहिते सभ्या ऊचुः-रे नापित ! किम्-अर्थं त्वया भार्या व्यङ्गिता । किम् अनया पर-पुरुषो ऽभिलषितः । उन्त स्वित् प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत् कथ्यताम् अस्या अपराधः ?
नापितो ऽपि प्रहार-पीडित-तनुर् वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनर् ऊचुः-अहो, सत्यम् एतद् राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च-
भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः ।
भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः
तथा च-
आयाति स्खलितैः पादैर् मुख-वैवर्ण्य-संयुतः ।
ललाट-स्वेद-भाग् भूरि-गद्गदं भाषते वचः
अधो-दृष्टिर् वदेत् कृत्वा पापं प्राप्तः सभां नरः ।
तस्माद् यत्नात् परिज्ञेयाश् चिह्नैर् एतैर् विचक्षणैः
अन्यच् च-
प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् ।
सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः
तद् एष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्सणाद् वध्य इति । तच् छूलीयाम् आरोप्यताम् इति ।
अथ वध्य-स्थाने नीयमानं तम् अवलोक्य देव-शर्मा तान् धर्माधिकृतान् गत्वा प्रोवाच-भो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच् छ्रूयतां मे वाक्यम्-जम्बूको हुडु-युद्धेन इति ।
अथ ते सभ्या ऊचुः-भो भगवन् ! कथम् एतत् ?
ततो देवशर्मा तेषां त्रयाणाम् अपि वृत्तान्तं विस्तरेणाकथयत् । तद् आकर्ण्य सुविस्मित-मनसस् ते नापितं विमोच्य मिथः प्रोचुः-अहो !
अवध्या ब्राह्मणा गावो स्त्रियो बालाश् च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः
तद् अस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस् तु कर्ण-च्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनर् अपि स्वकीयं मठायतनं जगाम । अतो ऽहं ब्रवीमि-जम्बूको हुडु-युद्धेन (1.174) इति ।
करटक आह-एवं-विधे व्यतिकरे किं कर्तव्यम् आवयोः ?
दमनको ऽब्रवीत्-एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर् विश्लेषयिष्यामि । उक्तं च, यतः-
एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भ-गतान् अपि
तद् अहं माया-प्रपञ्चेन गुप्तम् आश्रित्य तं स्फोटयिष्यामि ।
करटक आह-भद्र, यदि कथम् अपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव ।
सो ऽब्रवीत्-तात, मैवं वद । गूढ-बुद्धिभिर् आपत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस् त्याज्यः । कदाचिद् घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च-
त्याज्यं न धैर्यं विधुरेऽपि दैवे
धैर्यात् कदाचित् स्थित्म् आप्नुयात् सः ।
याते समुद्रेऽपि हि पोत-भङ्गे
सांयात्रिको वाञ्छति कर्म एव
तथा च-
उद्योगिनं सततम् अत्र समेति लक्ष्मीर्
दैवं हि दैवम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः
तद् एवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वाव् अपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च-
सुप्रयुक्तस्य दम्भस्य ब्रह्माप्य् अन्तं न गच्छति ।
कौलिको विष्णु-रूपेण राज-कन्यां निषेवते
करटक आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 5
कौलिक-रथकार-कथा
कस्मिंश्चिद् अधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परम् अतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद् देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद् राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस् तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत इइव काम-शरैर् हन्यमानः सहसा भूतले निपपात । अथ तं तद्-अवस्थम् अवलोक्य रथकारस् तद्-दुःख-दुःखित आप्त-पुरुषैस् तं समुत्क्षिप्य स्व-गृहम् आनाययत् । तत्र
च विविधैः शीतोपचारैश् चिकित्सकोपदिष्टैर् मन्त्र-वादिभिर् उपचर्यमाणैश् चिरात् कथंचित् स-चेतनो बभूव ।
ततो रथकारेण पृष्टः-भो मित्र ! किम् एवं त्वम् अकस्माद् विचेतनः सञ्जातः ? तत् कथ्यताम् आत्म-स्वरूपम् ?
स आह-वयस्य ! यद्य् एवं तच् छृणु मे रहस्यं येन सर्वाम् आत्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद् वा किञ्चित् प्रणय्>अतिरेकाद् अयुक्तं तव मयानुष्ठितम् ।
सो ऽपि तद् आकर्ण्य बाष्प-पिहित-नयनः स-गद्गदम् उवाच-वयस्य, यत् किञ्चिद् दुःख-कारणं तद् वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च-
औषधार्थ-सुमन्त्राणां बुद्धेश् चैव महात्मनाम् ।
असाध्यं नास्ति लोकेऽत्र यद् ब्रह्माण्डस्य मध्यगम्
तद् एषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।
कौलिक आह-वयस्य, एतेषाम् अन्येषाम् अपि सहस्राणाम् उपायानाम् असाध्यं तन् मे दुःखम् । तस्मान् मम मरणे मा काल-क्षेपं कुरु ।
रथकार आह-भो मित्र ! यद्यप्य् असाध्यं तथापि निवेदय येनाहम् अपि तद् असाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणम् अपि त्वद्-वियोगं सहिष्ये । एष मे निश्चयः ।
कौलिक आह-वयस्य, यासौ राज-कन्या करेणुम् आरूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयम् अवस्था विहिता । तन् न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्-
मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे
तस्याः पयोधर-युगे रति-खेद-खिन्नः ।
वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती
स्वप्स्ये कदा क्षणम् अवाप्य तदीय-सङ्गम्
तथा च-
रागी बिम्बाधरो ऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं
नीचा नाभिः प्रकृत्या कुटिलकम् अलकं स्वल्पकं चापि मध्यम् ।
कुर्वत्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु खेदं
यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम्
रथकारो ऽप्य् एवं स-कामं तद्-वचनम् आकर्ण्य स-स्मितम् इदम् आह-वयस्य ! यद्य् एवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तद् अद्यैव तया सह समागमः क्रियताम् इति ।
कौलिक आह-वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशो ऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत् किं माम् असत्य-वचनेन विडम्बयसि ?
रथकार आह-मित्र, पश्य मे बुद्धि-बलम् ।
एवम् अभिधाय तत्-क्षणात् कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभम् अघटयन् । ततस् तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य, अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्याम् एकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।
कौलिको ऽपि तद् आकर्ण्य तथा-रूपस् तत्र गत्वा ताम् आह-राज-पुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहायैवागतः । तत् क्रियतां मया सह समागमः इति ।
सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतम् अवलोक्य स-विस्मया शयनाद् उत्थाय प्रोवाच-भगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस् त्रैलोक्य-पावनो वन्दनीयश् च । तत् कथम् एतद् युज्यते ।
कौलिक आह-सुभगे, सत्यम् अभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वम् अत्रावतीर्णा । तेनाहम् अत्रायातः ।
इत्य् उक्ता सा प्राह-भगवन्, यद्य् एवं तन् मे तातं प्रार्थय । सो ऽप्य् अविकल्पं मां तुभ्यं प्रयच्छति ।
कौलिक आह-सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनर् आलाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच् छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति । एवम् अभिधाय गरुडाद् अवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायाम् आनयत् । ततश् च रात्रि-शेषं यावद् वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहम् अलक्षितो जगाम ।
एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित् कञ्चुकिनस् तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत् कथम् अयं सुरक्षितेऽप्य् अस्मिन् गृह एवंविधो व्यवहारः । तद् राज्ञे निवेदयामः ।
एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित् प्रविशति । तद् देवः प्रमाणम् इति । तच् छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्-
पुत्रीति जाता महतीह चिन्ता
कस्मै प्रदेयेति महान् वितर्कः ।
दत्त्वा सुखं प्राप्स्यति वा न वेति
कन्या-पितृत्वं खलु नाम कष्टम्
नद्यश् च नार्यश् च सदृक्-प्रभावास्
तुल्यानि कूलानि कुलानि तासाम् ।
तोयैश् च दोषैश् च निपातयन्ति
नद्यो हि कूलानि कुलानि नार्यः
जननी-मनो हरति जातवती
परिवर्धते सह शुचा सुहृदाम् ।
पर-सात्कृतापि कुरुते मलिनं
दुरित-क्रमा दुहितरो विपदः
एवं बहु-विधं विचिन्त्य देवीं रहः-स्थां प्रोवाच-देवि, ज्ञायतां किम् एते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतद् एवं क्रियते ।
देव्य् अपि तद् आकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरम् अपश्यत् । आह च-आः पापे ! कुल-कलङ्क-कारिणि ! किम् एव शील-खण्डनं कृतम् । को ऽयं कृतान्तावलोकितस् त्वत्-सकाशम् अभ्येति । तत् कथ्यतां ममाग्रे सत्यम् ।
इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच-अम्ब, साक्षान् नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेद् असत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् ।
तच् छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानम् ऊचे-देव, दिष्ट्या वर्धसे । नित्यम् एव निशीथे भगवान् नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तद् अद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति ।
तच् छ्रुत्वा हर्षितस्य राज्ञस् तद् दिनं वर्ष-शत-प्रायम् इव कथञ्चिज् जगाम । ततस् तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्-स्थो गगनासक्त-दृष्टिर् यावत् तिष्ठति, तावत् तस्मिन् समये गरुडारूढं तं शङ्क-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नो ऽवतरन्तं नारायणम् अपश्यत् । ततः सुधा-पूर-प्लावितम् इवात्मानं मन्यमानस् ताम् उवाच-प्रिये ! नास्त्य् अन्यो धन्यतरो लोके मत्तस् त्वत्तश् च । तत् प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलाम् अपि वसुमतीं वश्यां करिष्यामि ।
एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रमम् अकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानम् आलोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः ।
अत्रान्तरे स राजा देवी-मुखेन तां दुहितरम् उवाच-पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किम् एवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत् सम्बोध्यो ऽद्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति ।
ततस् तया स कौलिको रात्रौ स-विनयम् अभिहितः-भगवन्, त्वयि जामातरि स्थिते मम तातो यच् छत्रुभिः परिभूयते तन् न युक्तम् । तत् प्रसादं कृत्वा सर्वांस् तान् शत्रून् व्यापादय ।
कौलिक आह-सुभगे ! कियन्-मात्रास् त्व् एते तव पितुः शत्रवः । तद्-विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस् तिलशः खण्डयिष्यामि ।
अथ गच्छता कालेन सर्व-देशं शत्रुभिर् उद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकम् अजानन् राज नित्यम् एव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश् च प्रेषयन् दुहितृ-मुखेन तम् ऊचे-भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस् तथा सर्वो ऽपि जनः प्रहारैर् जर्जरित-देहः संवृत्तो योद्धुम् अक्षमः प्रचुरो मृतश् च । तद् एवं ज्ञात्वात्र काले यद् उचितं भवति तद् विधेयम् इति ।
तच् छ्रुत्वा कौलिको ऽप्य् अचिन्तयत्-स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति æ तस्माद् गरुडम् आरुह्य सायुधम् आत्मानम् आकाशे दर्शयामि । कदाचिन् मां वासुदेवं मन्यमानास् ते साशङ्का राज्ञो योद्धृभिर् हन्यते । उक्तं च-
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु वा माभूत् फणाटोपो भयङ्करः
अथ यदि मम स्थानार्थम् उद्यतस्य मृत्युर् भविष्यति तद् अपि सुन्दरतरम् । उक्तं च-
गवाम् अर्थे ब्राह्मणार्थे स्वाम्य्-अर्थे स्वीकृतेऽथवा ।
स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः
चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः ।
शरणागतेन सार्धं विपद् अपि तेजस्विना श्लाघ्या
एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच-सुभगे ! समस्तैः शत्रुभिर् हतैर् अन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस् त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम् । अहं चाकाश-स्थित एव सर्वांस् तान् निस्तेजसः करिष्यामि । पश्चात् सुखेन भवता हन्तव्याः यदि पुनर् अहं तान् स्वयम् एव सूदयामि तत् तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात् ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति ।
सापि तद् आकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिको ऽपि मरणे कृत-निश्चयश् चाप-पाणिर् गगन-गतिर् गरुडारूढो युद्धाय प्रस्थितः ।
अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः-भो गरुत्मन् ! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते ।
सो ऽब्रवीत्-देव, सर्वं ज्ञायते तच् चेष्टितम् । तत् किं कुर्मः साम्प्रतम् ?
श्री-भगवान् आह-अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर् मिलित्वा वासुदेवो गरुडश् च निपातितः । ततः परं लोको ऽयम् आवयोः पूजां न करिष्यति । ततस् त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहम् अपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश् च शत्रु-वधाद् आवयोर् माहात्म्य-वृद्धिः स्यात् ।
अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस् तच्-छरीरे सङ्क्रमणम् अकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणाद् एव लीलयैव समस्तान् अपि प्रधान-क्षत्रियान् निस्तेजसश् चकारर् । ततस् तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश् च ते सर्वेऽपि शत्रवः । जातश् च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति ।
कौलिको ऽपि तान् हतान् दृष्ट्वा प्रमुदित-मना गगनाद् अवतीर्णः सन्, यावद् राजामात्य-पौर-लोकास् तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किम् एतद् इति । ततः सो ऽपि मूलाद् आरभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश् च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधाद् अवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश् च प्रदत्तः । कौलिको ऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखम् अनुभवन् कालं निनाय । अतस् तूच्यते सुप्रयुक्तस्य दम्भस्य (218) इति ।
तच् छ्रुत्वा करटक आह-भद्र, अस्त्य् एवम् । परं तथापि महन् मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश् च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात् तं वियोजयितुम् असमर्थ एव ।
दमनक आह-भ्रातः ! असमर्थो ऽपि समर्थ एव । उक्तं च-
उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत्
करटक आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 6
वायस-दम्पति-कथा
अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति । ततस् तौ निर्वेदाद् अन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र ! किम् एवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद् दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर् बालकान् भक्षयति । तत् कथ्यतां तद्-रक्षार्थं कश्चिद् उपायः ।
यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता ।
स-सर्पे च गृहे वासः कथं स्यात् तस्य निर्वृतिः
अन्यच् च-
सर्प-युक्ते गृहे वासो मृत्युर् एव न संशयः ।
यद् ग्रामान्ते वसेत् सर्पस् तस्य स्यात् प्राण-संशयः
अस्माकम् अपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः ।
स आह-नात्र विषये स्वल्पो ऽपि विषादः कार्यः । नूनं स लुब्धो नोपायम् अन्तरेण वध्यः स्यात् ।
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते
तथा च-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात्
ताव् ऊचतुः-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 7
बक-कुलीरक-कथा
अस्ति कस्मिंश्चिद् वन-प्रदेशे नाना-जल-चर-सनाथं महत् सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावम् उपागतो मत्स्यान् व्यापादयितुम् असमर्थः । ततश् च क्षुत्क्षाम-कण्ठः सरस्-तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैर् अश्रु-प्रवाहैर् धरा-तलम् अभिषिञ्चन् रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरम् इदम् ऊचे-माम ! किम् अद्य त्वया नाहार-वृत्तिर् अनुष्ठीयते ? केवलम् अश्रु-पूर्ण-नेत्राभ्यां स-निःश्वासेन स्थीयते ।
स आह-वत्स ! सत्यम् उपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतान् अपि मत्स्यान् न भक्षयामि ।
कुलीरकस् तच् छ्रुत्वा प्राह-माम, किं तद् वैराग्य-कारणम् ?
स प्राह-वत्स, अहम् अस्मिन् सरसि जातो वृद्धिं गतश् च । तन् मयैतच् छ्रुतं यद् द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना ।
कुलीरक आह-कस्मात् तच् छ्रुतम् ?
बक आह-दैवज्ञ-मुखाद् एष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराह-मिहिरेण-
यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटम् इह लोके ।
द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ
तथा च-
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थि-शकलाकीर्णा कापालिकम् इव व्रतं धत्ते
तथा च-
रोहिणी-शकटम् अर्क-नन्दनश् चेद्
भिन्नत्ति रुधिरो ऽथवा शशी ।
किं वदामि तद्-अनिष्ट-सागरे
सर्व-लोकम् उपयाति सङ्क्षयः
रोहिणी-शकट-मध्य-संस्थिते
चन्द्रम् अस्य शरणी-कृता जनाः ।
क्वापि यान्ति शिशुपाचिताशनाः
सूर्य-तप्त-भिदुराम्बु-पायिनः
तद् एतत् सरः स्वल्प-तोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश् च, ते सर्वे तोयाभावान् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुम् अहम् असमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर् नीयन्ते । केचिच् च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयम् एव गच्छन्ति । अत्र पुनः सरसि ये जलचरास् ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद् रोदिमि यद् बीज-शेस-मात्रम् अप्य् अत्र नोद्धरिष्यति ।
ततः स तद् आकर्ण्यान्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस् तम् अभ्युपेत्य पप्रच्छुः-माम ! अस्ति कश्चिद् उपायो येनास्माकं रक्षा भवति ?
बक आह-अस्त्य् अस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच् चतुर्विंशत्य् अपि वर्षाणाम् अवृष्ट्या न शोषम् एष्यति । तद् यदि मम पृष्ठं कश्चिद् आरोहति, तद् अहं तं तत्र नयामि ।
अथ ते तत्र विश्वासम् आपन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वम् अहं पूर्वम् इति समन्तात् परितस्थुः । सो ऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्याम् आक्षिप्य स्वेच्छया भक्षयित्वा भूयो ऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता-सन्देशकैर् मनांसि रञ्जयन् नित्यम् एवाहार-वृत्तिम् अकरोत् ।
अन्यस्मिन् दिने च कुलीरकेणोक्तः-माम ! मया सह ते प्रथमः स्नेह-सम्भाषः सञ्जातः । तत् किं मां परित्यज्यान्यान् नयसि ? तस्माद् अद्य मे प्राण-त्राणं कुरु ।
तद् आकर्ण्य सो ऽपि दुष्टाशयश् चिन्तितवान्-निर्विण्णो ऽहं मत्स्य-मांसादनेन तद् अद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलाम् उद्दिश्य प्रस्थितः । कुलीरको ऽपि दूराद् एवास्थि-पर्वतं शिलाश्रयम् अवलोक्य मस्त्यास्थीनि परिज्ञाय तम् अपृच्छत्-माम, कियद् दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस् त्वम् । तत् कथय ।
सो ऽपि मन्द-धीर् जलचरो ऽयम् इति मत्वा स्थले न प्रभवतीति स-स्मितम् इदम् आह-कुलीरक, कुतो ऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात् स्मर्यताम् आत्मनो ऽभीष्ट-देवता । त्वाम् अप्य् अन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्य् उक्तवति तस्मिन् स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश् च ।
अथ स तां बक-ग्रीवां समादाय शनैः शनैस् तज् जलाशयम् आससाद । ततः सर्वैर् एव जलचरैः पृष्टः-भोः कुलीरक ! किं निवृत्तस् त्वम् ? स मातुलो ऽपि नायातः । तत् किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृत-क्षणास् तिष्ठामः ।
एवं तैर् अभिहिते कुलीरको ऽपि विहस्योवाच-मूर्खाः ! सर्वे जलचरास् तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिला-तले प्रक्षिप्य भक्षिताः । तन् ममायुः-शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयम् आनीता । तद् अलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति ।
अतो ऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इति ।
वायस आह-भद्र ! तत् कथय कथं स दुष्ट-सर्पो वधम् उपैष्यति ।
शृगाल आह-गच्छतु भवान् कञ्चिन् नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस् तद्-ग्रहणेन वध्यते ।
तत्-क्षणात् काकः काकी च तद् आकर्ण्यात्मेच्छयोत्पतितौ । ततश् च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन्-मध्ये कस्यचिद् राज्ञो ऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रम् एकम् आदाय स्व-गृहाभिमुखं प्रतस्थे । ततश् च कञ्चुकिनो वर्ष-वराश् च तन्-नीयमानम् उपलक्ष्य गृहीत-लगुडाः सत्वरम् अनुययुः । काक्य् अपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरम् अवस्थिता ।
अथ यावद् राज-पुरुषास् तं वृक्षम् आरुह्य तत्-कोटरम् अवलोकयन्ति, तावत् कृष्ण-सर्पः प्रसारित-भोगस् तिष्ठति । ततस् तं लगुड-प्रहारेण हत्वा कनक-सूत्रम् आदाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतो ऽहं ब्रवीमि-उपायेन हि यत् कुर्यात् इति ।
तन् न किंचिद् इह बुद्धिमताम् असाध्यम् अस्ति । उक्तं च-
यस्य बुद्धिर् बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः
करटक आह-कथम् एतत् ?
स आह-
कथा 8
भासुरकाख्य-सिंह-कथा
कस्मिंश्चिद् वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान् नित्यम् एवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम । अथान्येद्युस् तद्-वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तम् अभ्युपेत्य प्रोचुः-स्वामिन् ! किम् अनेन सकल-मृग-वधेन नित्यम् एव, यतस् तवैकेनापि मृगेण तृप्तिर् भवति तत् क्रियताम् अस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनम् एको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तद् एष राज-धर्मो ऽनुष्ठीयताम् । उक्तं च-
शनैः शनैश् च यो राज्यम् उपभुङ्क्ते यथा-बलम् ।
रसायनम् इव प्राज्ञः स पुष्टिं परमां व्रजेत्
विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च ।
प्रयच्छति फलं भूमिर् अरणीव हुताशनम्
प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् ।
पीडनं धर्म-नाशाय पापायायशसे स्थितम्
गोपालेन प्रजाधेनोर् वित्त-दुग्धं शनैः शनैः ।
पालनात् पोषणाद् ग्राह्यं न्याय्यां वृत्तिं समाचरेत्
अजाम् इव प्रजां मोहाद् यो हन्यात् पृथिवी-पतिम् ।
तस्यैका जायते तृप्तिर् न द्वितीया कथञ्चन
फलार्थी नृपतिर् लोकान् पालयेद् यत्नम् आस्थितः ।
दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव
नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्न् अपि ।
आन्तर-स्थैर् गुणैः शुभ्रैर् लक्ष्यते नैव केनचित्
यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः ।
सिच्यते चीयते चैव लता पुष्प-फल-प्रदा
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः
हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः
लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः ।
लोकानां सङ्क्षयाच् चैव क्षयं यान्ति न संशयः
अथ तेषां तद्-वचनम् आकर्ण्य भासुरक आह-अहो सत्यम् अभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यम् एव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वान् अपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस् तत्रैव वने निर्भयाः पर्यटन्ति । एकश् च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते ।
अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितो ऽनिच्छन्न् अपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद् गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्-यद् भाव्य उपायो ऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि ।
अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहो ऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद् व्यचिन्तयत्-अहो ! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस् तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न् आह-रे शशकाधम एकस् तावत् त्वं लघुः प्राप्तो ऽपरतो वेलातिक्रमेण । तद् अस्माद् अपराधात् त्वां निपात्य प्रातः सकलान्य् अपि मृग-कुलान्य् उच्छेदयिष्यामि ।
अथ शशकः स-विनयं प्रोवाच-स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच् छ्य्रूतां कारणम् ।
सिंह आह-सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति ।
शशक आह-स्वामिन्, समस्त-मृगैर् अद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततो ऽहं पञ्च-शशकैः समं प्रेषितः । ततश् चाहम् आगच्छेन्न् अन्तराले महता केनचिद् अपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत ।
ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशम् आहारार्थं समय-धर्मेण गच्छामः ।
ततस् तेनाभिहितम्-यद्य् एवं तर्हि मदीयम् एतद्-वनम् । मया सह समय-धर्मेण समस्तैर् अपि श्वापदैर् वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सो ऽत्र राजा । विश्वास-स्थाने चतुरः शशकान् अत्र धृत्वा तम् आहूय द्रुततरम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति ।
ततो ऽहं तेनादिष्टः स्वामि-सकाशम् अभ्यागतः । एतद् वेला व्यतिक्रम-कारणम् । तद् अत्र स्वामी प्रमाणम् ।
तच् छ्रुत्वा भासुरक आह-भद्र, यद्य् एवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च-
भूमिर् मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् ।
नास्त्य् एकम् अपि यद्य् एषां न तं कुर्यात् कथञ्चन
यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः ।
न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत्
शशाक आह-स्वामिन् ! सत्यम् इदम् । स्व-भूमि-हेतोः परिभवाच् च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च-
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे
शतम् एको ऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद् दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः
पुरा गुरोः समादेशाद्द् हिरण्यकशिपोर् भयात् । शक्रेण विहितं दुर्गं प्रभावाद् विश्वकर्मणः
तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः
दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस् तथा नृपः
तच् छ्रुत्वा भासुरक आह । भद्र दुर्गस्थम् अपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च-
जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते
तथा च-
उत्तिष्ठमानस् तु परो नोपेक्ष्यः पथ्यम् इच्छता । समौ हि शिष्टैर् आम्नातौ वर्त्स्यन्ताव् आमयः स च
अपि च-
उपेक्षितः क्षीण-बलो ऽपि शत्रुः प्रमाद-दोषात् पुरुषैर् मदान्धैः । साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव्
असाध्यतां व्याधिर् इव प्रयाति
तथा च-
आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एको ऽपि क्षत्रियान् भार्गवो यथा
शशक आह-अस्त्य् एतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गन्तुम् । उक्तं च-
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत्
यो बलात् प्रोन्नतं याति निहन्तुं सबलो ऽप्य् अरिम् । विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा
भासुरक आह-भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम् अपि ।
अथ शशक आह-यद्य् एवं तर्ह्य् आगच्छतु स्वामी । एवम् उक्त्वाग्रे व्यवस्थितः ।
ततश् च तेनागच्छता यः कूपो दृष्टो ऽभूत् तम् एव कूपम् आसाद्य भासुरकम् आह-स्वामिन् कस् ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतो ऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तद् आगच्छ यथा दर्शयामीति । भासुरक आह-दर्शय मे दुर्गम् । तद् अनु दर्शितस् तेन कूपः । ततः सो ऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद् द्वि-गुणतरो नादः समुत्थितः ।
अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशको ऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतो ऽहं ब्रवीमि-यस्य बुद्धिर् बलं तस्य इति ।
तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि ।
करटक आह-भद्र ! यद्य् एवं तर्हि गच्छ । शिवास् ते पन्थानः सन्तु । यथाभिप्रेतम् अनुष्ठीयताम् ।
अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकम् अवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलको ऽपि तम् आह-भद्र, किं चिराद् दृष्टः ?
दमनक आह-न कञ्चिद् देव-पादानाम् अस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशम् अवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयम् एवाभ्यागतो वक्तुम् । उक्तं च-
प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् ।
अपृष्टो ऽपि हितं वक्ष्येद् यस्य नेच्छेत् पराभवम्
अथ तस्य साभिप्रायं वचनम् आकर्ण्य पिङ्गलक आह-किं वक्तु-मना भवान् ? तत् कथ्यतां यत् कथनीयम् अस्ति ।
स प्राह-देव सञ्जीवको युष्मत्-पादानाम् उपरि द्रोह-बुद्धिर् इति । विश्वास-गतस्य मम विजने इदम् आह-भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तद् अहम् एनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलको ऽपि तद्-वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहम् उपगतो न किञ्चिद् अप्य् उक्तवान् । दमनको ऽपि तस्य तम् आकारम् आलोक्य चिन्तितवान्-अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनम् अनेन मन्त्रिणा राजा विनाशम् अवाप्स्यति इति । उक्तं च-
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति
तत् किम् अत्र युक्तम् इति । पिङ्गलको ऽपि चेतनां समासाद्य कथम् अपि तम् आह-सञ्जीवकस् तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति ।
दमनक आह-देव, भृत्यो ऽभृत्य इत्य् अनेकान्तिकम् एतत् । उक्तं च-
न सो ऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते
पिङ्गलक आह-भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर् न विकृतिं याति । अथवा साध्व् इदम् उच्यते-
अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः ।
कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः
दमनक आह-अत एवायं दोषः । उक्तं च-
यस्मिन्न् एवाधिकं चक्षुर् आरोपयति पार्थिवः ।
अकुलीनः कुलीनो वा स श्रिया भाजनं नरः
अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकम् अपि निकटे धारयति । अथ देव, यद्य् एवं चिन्तयसि महा-कायो ऽयम् । अनेन रिपून् व्यापादयिष्यामि । तद् अस्मान् न सिध्यति, यतो ऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनम् अस्य साहाय्येन न भवति । तस्माद् एनं दूषयित्वा हन्यताम् इति ।
पिङ्गलक आह-
उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा
अन्यच् च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयम् एव व्यापादयामि । सर्वथा सञ्जीवको ऽयं सुहृद् अस्माकम् । न तं प्रति कश्चिन् मन्युर् इति । उक्तं च-
इतः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम् ।
विष-वृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम्
आदौ न वा प्रणयिनां प्रणयो विधेयो
दत्तो ऽथवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां
भूमौ स्थितस्य पतनाद् भयम् एव नास्ति
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते
तद्-द्रोह-बुद्धेर् अपि मयास्य न विरुद्धम् आचरणीयम् ।
दमनक आह-स्वामिन् ! नैष राज-धर्मो यद् द्रोह-बुद्धिर् अपि क्षम्यते । उक्तं च-
तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते
अपरं त्वयास्य सखित्वात् सर्वो ऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वो ऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश् च यत् तवावध्यव्यसाय-बाह्यं कुतस् तासां मांसाशनम् । यद्-रहितास् त्वां त्यक्त्वा यास्यन्ति । ततो ऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस् ते न कदाचिद् आखेटके मतिर् भविष्यति । उक्तं च-
यादृशैः सेव्यते भृत्यैर् यादृशांश् चोपसेवते ।
कदाचिन् नात्र सन्देहस् तादृग् भवति पूरुषः
तथा च-
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्त-कारतया तद् एव नलिनी-पत्र-स्थितं राजते ।
स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं
प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते
तथा च-
असतां सङ्ग-दोषेण सती याति मतिर् भ्रमम् ।
एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम्
अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च-
न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः ।
मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी
पिङ्गलक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 9
मन्द-विसर्पिणी-नाम-यूका-कथा
अस्ति कस्यचिन् महीपतेर् मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश् च तत्र शयने क्वचिद् भ्राम्यन्न् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भो ऽग्निमुख कुतस् त्वम् अत्रानुचित-स्थाने समायातः । तद् यावन् न कश्चिद् वेत्ति तावच् छीघ्रं गम्यताम् इति ।
स आह-भगवति गृहागतस्यासाधोर् अपि नैतद् युज्यते वक्तुम् । उक्तं च-
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा
अपरं मयानेक-मानुषाणाम् अनेक-विधानि रुधिराण्य् आस्वादितान्य् आहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद् यदि त्वं प्रसादं करोषि तद् अस्य नृपतेर् विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरे यन् मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च-
रङ्कस्य नृपतेर् वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः
यद्य् एव न भवेल् लोके कर्म जिह्वा-प्रतुष्टिदम् । तन् न भृत्यो भवेत् कश्चित् कस्यचिद् वशगो ऽथ वा
यद् असत्यं वदेन् मर्त्यो यद् वासेव्यं च सेवते । यद् गच्छति विदेशं च तत् सर्वम् उदरार्थतः
तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद् भोजनम् अर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते ।
तच् छ्रुत्वा मन्दविसर्पिण्य् आह-भो मत्कुण ! अस्य नृपतेर् निद्रा-वशं गतस्य रक्तम् आस्वादयामि ।
पुनस् त्वम् अग्निमुखश् चपलश् च-तद् यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तम् आस्वादय ।
सो ऽब्रवीत्-भगवत्य् एवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद् यदि तद् आस्वादयामि ।
एवं तयोः परस्परं वदतोः स राजा तच्-छयनम् आसाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतम् अपि तं मही-पतिम् अदशत् । अथ वा साध्व् इदम् उच्यते ।
स्वभावो नोपदेशेन शक्यते कर्तुम् अन्यथा । सुतप्तम् अपि पानीयं पुनर् गच्छति शीतताम्
यदि स्याच् छीतलो वह्निः शीतांशुर् दहनात्मकः । न स्वभावो ऽत्र मर्त्यानां शक्यते कर्तुम् अन्यथा
अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणाद् एवोत्थितः । अहो ज्ञायताम् अत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस् तत्र स्थितास् ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश् चापल्यात् खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्य् अपि वस्त्र-सन्ध्य्-अन्तर्-गता तैर् दृष्टा व्यापादिता च । अतो ऽहं ब्रवीमि-न ह्य् अविज्ञात-शीलस्य इति ।
एवं ज्ञात्वा त्वयिष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च-
त्यक्ताश् चाभ्यन्तरा येन बाह्याश् चाभ्यन्तरीकृताः ।
स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः
पिङ्गलक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 10
चण्डरव-नाम-शृगाल-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृआग्रैर् भक्षितुम् आरब्धाः । सो ऽपि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डम् सज्जीकृतम् आसीत् । तत्र सारमेयैर् आक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस् तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास् तं शृगालम् अजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवो ऽपि दूरतरं प्रदेशम् आसाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस् त्यज्यते । उक्तं
च-
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस् तु मीनानां नीलीमद्यपयोर् यथा
अथ तं हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वं सत्त्वम् अवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयो ऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग् विचेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च-
न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् ।
न तस्य विश्वसेत् प्राज्ञो यदीच्छेच् छ्रियम् आत्मनः
चण्डरवो ऽपि भय-व्याकुलितान् विज्ञायेदम् आह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयम् एव सृष्ट्वाभिहितः-यच् छ्वापदानां कश्चिद् राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततो ऽहम् अत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैर् अपि श्वापदैर् वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।
तच् छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस् तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस् ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास् तैः सहालाप-मात्रम् अपि न करोति । शृगालाः सर्वेऽप्य् अधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सो ऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति ।
एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलो ऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुर् आनन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुम् आरब्धवान् । अथ ते सिंहादयस् तं तार-स्वरम् आकर्ण्य शृगालो ऽयम् इति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयम् अनेन क्षुद्र-शृगालेन । तद् वध्यताम् इति ।
सो ऽपि तद् आकर्ण्य पलायितुम् इच्छंस् तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश् च ।
अतो ऽहं ब्रवीमि-त्यक्ताश् चाभ्यन्तरा येन इति ।
तद् आकर्ण्य पिङ्गलक आह-भो दमनक ! कः प्रत्ययो ऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः ।
स आह-यद् अद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तद् अत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायाम् आरक्त-मुख-नयनः स्फुरिताधरो दिशो ऽवलोकयन्न् अनुचित-स्थानोपविष्टस् त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यद् उचितं तत् कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस् तं प्रणम्योपविष्टः । सञ्जीवको ऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तम् उद्वीक्ष्य सादरतरम् उवाच-भो मित्र ! स्वागतम् । चिराद् दृष्टो ऽसि । अपि शिवं भवतः । तत् कथय येनादेयम् अपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च-
ते धन्यास् ते विवेक-ज्ञास् ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः
दमनक आह-भोः ! कथं शिवं सेवक-जनस्य ।
सम्पत्तयः परायत्ताः सदा चित्तम् अनिर्वृतम् ।
स्व-जीवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः
तथा च-
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम्
तावज् जन्माति-दुःखाय ततो दुर्गतता सदा ।
तत्रापि सेवया वृत्तिर् अहो दुःख-परम्परा
जीवन्तो ऽपि मृताः पञ्च श्रूयन्ते किल भारते ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः
नाश्नाति स्वच्छयोत्सुक्याद् विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवको ऽप्य् अत्र जीवति
सेवा श्व-वृत्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम् ।
स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात्
भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् ।
सेवकस्य यतेर् यद्वद् विशेषः पाप-धर्मजः
शीतातपादि-कष्टानि सहते यानि सेवकः ।
धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते
मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा ।
मोदकेनापि किं तेन निष्पत्तिर् यस्य सेवया
सञ्जीवक आह-अथ भवान् किं वक्तु-मनाः ?
सो ऽब्रवीत्-मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च-
यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः ।
स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत्
येन यस्य कृतो भेदः सचिवेन महीपतेः ।
तेनाशस्त्र-वधस् तस्य कृत इत्य् आह नारदः
तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस् त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश् च । उक्तं च-
विश्रम्भाद् यस्य यो मृत्युम् अवाप्नोति कथञ्चन ।
तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः
तत् तवोपरि पिङ्गलको ऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश् चतुष्कर्णतया-यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि ।
ततः स मयोक्तः-स्वामिन् ! न युक्तम् इदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च-
अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति ।
तद्-अर्थेन विचीर्णेन न कथञ्चित् सुहृद्-द्रुहः
ततस् तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस् तावच् छष्प-भोजी, वयं मांसाशिनः । तद् अस्माकं स्वाभाविकं वैरम् इति कथं रिपुर् उपेक्ष्यते ? तस्मात् सामादिभिर् उपायैर् हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च-
दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता ।
अन्योपायैर् अशक्यो यो हते दोषो न विद्यते
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः
तद् अहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशम् इहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस् तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहम् उपगतः । अथ चेतनां लब्ध्वा स-वैराग्यम् इदम् आह-भो साध्व् इदम् उच्यते-
दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा ।
कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च
अहं हि संमतो राज्ञो य एवं मन्यते कुधीः ।
बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः
वरं वनं वरं भैक्षं वरं भारोपजीवनम् ।
वरं व्याधिर् मनुष्याणां नाधिकारेण सम्पदः
तद् युक्तं मया कृतं तद् अनेन सह मैत्री विहिता । उक्तं च-
ययोर् एव समं वित्तं ययोर् एव समं कुलम् ।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः
तथा च-
मृगा मृगैः सङ्गम् अनुव्रजन्ति
गावश् च गोभिस् तुरगास् तुरगैः ।
मूर्खाश् च मूर्खैः सुधियः
सुधीभिः समान-शील-व्यसनेन सख्यम्
तद् यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च-
निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारण-द्वेष-परो हि यो भवेत्
कथं नरस् तं परितोषयति
अहो साधु चेदम् उच्यते-
भक्तानाम् उपकारिणां पर-हित-व्यापार-युक्तात्मनां
सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानाम् अपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर् भवेद् वा न वा
तस्माद् अम्बुपतेर् इवावनि-पतेः सेवा सदा शङ्किनी
तथा च-
भाव-स्निग्धैर् उपकृतम् अपि द्वेष्यतां याति लोके
साक्षाद् अन्यैर् अपकृतम् अपि प्रीतये चोपयाति ।
दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः
तत् परिज्ञातं मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् एष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्य् एवं वदति । उक्तं च-
प्रभोः प्रसादम् अन्यस्य न सहन्तीह सेवकाः ।
सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैर् अपि
भवति चैवं यद् गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च-
गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीप-शिखा-कान्तिर् न भानाव् उदिते सति
दमनक आह-भो मित्र ! यद्य् एवं तन् नास्ति ते भयम् । प्रकोपितो ऽपि स दुर्जनैस् तव वचन-रचनया प्रसादं यास्यति ।
स आह-भोः ! न युक्तम् उक्तं भवता । लघूनाम् अपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च-
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युः कृत्यम् अकृत्यं वा उष्ट्रे काकादयो यथा
दमक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 11
मदोत्कट-सिंह-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैर् इतस् ततो भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह-अहो अपूर्वम् इदं सत्त्वम् । तज् ज्ञायतां किम् एतद् आरण्यकं ग्राम्यं वेति ।
तच् छ्रुत्वा वायस आह-भोः स्वामिन् ! ग्राम्यो ऽयम् उष्ट्र-नामा जीव-विशेषस् तव भोज्यः । तद् व्यापाद्यताम् ।
सिंह आह-नाहं गृहम् आगतं हन्मि । उक्तं च-
गृहं शत्रुम् अपि प्राप्तं विश्वस्तम् अकुतोभयम् । यो हन्यात् तस्य पापं स्याच् छतब्राह्मणघातजम्
तद् अभय-प्रदानं दत्त्वा मत्-सकाशम् आनीयतां येनास्यागम-कारणं पृच्छामि ।
अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशम् आनीतः प्रणम्योपविष्टश् च । ततस् तस्य पृच्छतस् तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयो ऽपि भारोद्वहन-कष्ट-भागी भूयाः । तद् अत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सो ऽपि तथेत्य् उक्त्वा तेषां मध्ये विचरन् न कुतो ऽपि भयम् इति सुखेनास्ते ।
तथान्येद्युर् मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धम् अभवत् । ततस् तस्य दन्त-मुसल-प्रहारैर् व्यथा सञ्जाता । व्यथितः कथम् अपि प्राणैर् न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुं शक्नोति । ते सर्वे काकादयो ऽप्य् अप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः ।
अथ तान् सिंहः प्राह-भोः ! अन्विष्यतां कुत्रचित् किंचित् सत्त्वं येनाहम् एताम् अपि दशां प्राप्तस् तद् धत्वा युष्मद्-भोजनं सम्पादयामि ।
अथ ते चत्वारो ऽपि भ्रमितुम् आरब्धा यावन् न किंचित् सत्त्वं पश्यन्ति तावद् वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह-भो वायस ! किं प्रभूत-भ्रान्तेन । अयम् अस्माकं प्रभोः क्रथनको विश्वस्तस् तिष्ठति । तद् एनं हत्वा प्राण-यात्रां कुर्मः ।
वायस आह-युक्तम् उक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तम् आस्ते न वध्यो ऽयम् इति ।
शृगाल आह-भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तो ऽत्रैव, यावद् अहं गृहं गत्वा प्रभोर् आज्ञां गृहीत्वा चागच्छामि ।
एवम् अभिधाय सत्वरं सिंहम् उद्दिश्य प्रस्थितः । अथ सिंहम् आसाद्येदम् आह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः । न किंचित् सत्त्वम् आसादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवो ऽपि पथ्याशी वर्तते । तद् यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते ।
अथ सिंहस् तस्य तद् दारुणं वचनम् आकर्ण्य स-कोपम् इदम् आह-धिक् पापाधम ! यद्य् एवं भूयो ऽपि वदसि । ततस् त्वां तत्-क्षणम् एव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च-
न गो-प्रदानं न मही-प्रदानं
न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं
सर्व-प्रदानेष्व् अभय-प्रदानम्
तच् छ्रुत्वा शृगाल आह-स्वामिन् यद्य् अभयप्रदानं दत्त्वा वधः क्रियते तद् एष दोषो भवति । पुनर् यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः ।
ततो यदि स स्वयम् एवात्मानं वधाय नियोजयति तद् वध्यो ऽन्यथास्माकं मध्याद् एकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधाद् अन्त्यां दशां यास्यन्ति ।
तत् किम् एतैः प्राणैर् अस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिद् अनिष्टं भविष्यति । उक्तं च-
यस्मिन् कुले यः पुरुषः प्रधानः
स सर्व-यत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्व-कुलं विनष्टं
न नाभि-भङ्गे ह्य् अरका वहन्ति
तद् आकर्ण्य मदोत्कट आह-यद्य् एवं तत् कुरुष्व यद् रोचते ।
तच् छ्रुत्वा स सत्वरं गत्वा तान् आह-भोः ! स्वामिनो महत्य् अवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना को ऽत्रास्मान् रक्षयिष्यति ? तद् गत्वा तस्य क्षुद्-रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च-
आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः ।
प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत्
तद्-अनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह-भोः ! प्राप्तं दृष्टं वा किंचित् सत्त्वम् ।
अथ तेषां मध्यात् काकः प्रोवाच-स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किंचित् सत्त्वम् आसादितं दृष्टं वा । तद् अद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिर् इति । उक्तं च-
स्वाम्य्-अर्थे यस् त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः । स परं पदम् आप्नोति जरा-मरण-वर्जितम्
तच् छ्रुत्वा शृगाल आह-भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति । अपरो दोषश् च तावत् समुत्पद्यते । उक्तं च-
काक-मांसं तथोच्छिष्टं स्तोकं तद् अपि दुर्बलम् ।
भक्षितेनापि किं तेन येन तृप्तिर् न जायते
तद् दर्षिता स्वामि-भक्तिर् भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश् चोभय-लोके साधु-वादः । तद् अपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह-स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च-
स्वाम्य्-आयत्ताः सदा प्राणा भृत्यानाम् अर्जिता धनैः । यतस् ततो न दोषो ऽस्ति तेषां ग्रहण-सम्भवः
अथ तच् छ्रुत्वा द्वीप्य् आह-भोः साधूक्तं भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य एव । उक्तं च-
नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैर् अपि । विशेषात् तद् अपि स्तोकं लोक-द्वय-विनाशकम्
तद् दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदम् उच्यते-
एतद्-अर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम्
तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह-स्वामिन् ! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा । दीयताम् अक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च-
मृतानां स्वामिनः कार्ये भृत्यानाम् अनुवर्तिनाम् । भवेत् स्वर्गे अक्षयो वासः कीर्तिश् च धरणी-तले
तच् छ्रुत्वा क्रथनकश् चिन्तयामास-एतैस् तावत् सर्वैर् अपि शोभा-वाक्यान्य् उक्तानि न चैको ऽपि स्वामिना विनाशितः । तद् अहम् अपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्-वचनम् एते त्रयो ऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः सत्यम् उक्तं भवता परं भवान् अपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च-
मनसापि स्वजात्यानां यो ऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्य् एव इह लोके परत्र च
तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनको ऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन् ! एतेऽभक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर् भवति । उक्तं च-
न यज्वानो ऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः
एवम् अभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत् । ततश् च तैः क्षुद्र-पण्डितैः सर्वैर् भक्षितः ।
अतो ऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः इति ।
तद् भद्र, क्षुद्र-परिवारो ऽयं ते राजा मया सम्यग् जातः । सताम् असेव्यं च । उक्तं च-
अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते ।
यथा गृध्र-समासन्नः कलहंसः समाचरेत्
तथा च-
गृध्राकारो ऽपि सेव्यः स्याद् धंसाकारैः सभासदैः ।
हंसाकारो ऽपि सन्त्याज्यो गृध्राकारैः स तैर् नृपः
तन् नूनं ममोपरि केनचिद् दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्य् एतत् । उक्तं च-
मृदुना सलिलेन खन्यमा
नान्यवद् धृष्यन्ति गिरेर् अपि स्थलानि ।
उपजापविदां च कर्ण-जापैः
किम् उ चेतांसि मृदूनि मानवानाम्
कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः ।
क्षपणकताम् अपि धत्ते पिबति सुरां नरक-पालेन
अथवा साध्व् इदम् उच्यते-
पादाहतो ऽपि दृढ-दण्ड-समाहतो ऽपि
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
को ऽप्य् एष एव पिशुनोग्र-मनुष्य-धर्मः
कर्णे परं स्पृशति हन्ति परं समूलम्
तथा च-
अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः ।
कर्णे लगति चान्यस्य प्राणैर् अन्यो वियुज्यते
तद् एवं गतेऽपि किं कर्तव्यम् इत्य् अहं त्वां सुहृद्-भावात् पृच्छामि ।
दमनक आह-तद्-देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च-
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते
सञ्जीवक आह-अस्माकम् उपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानाम् अपि निर्वृतिर् भवति । उक्तं च-
महतां यो ऽपराध्येन दूरस्थो ऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम्
तद् युद्धं मुक्त्वा मे नान्यद् असित् श्रेयस्करम् । उक्तं च-
न तान् हि तीर्थैस् तपसा च लोकान्
स्वर्गैषिणो दान-शतैः सुवृत्तैः ।
क्षणेन यान् यान्ति रणेषु धीराः
प्राणान् समुज्झन्ति हि ये सुशीलाः
मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिर् उत्तमा ।
तद् उभाव् अपि शूराणां गुणाव् एतौ सुदुर्लभौ
ललाट-देशे रुधिरं स्रवत् तु
शूरस्य यस्य प्रविशेच् च वक्त्रे ।
तत् सोमपानेन समं भवेच् च
सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम्
तथा च-
होमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-वृन्दार्चनैर्
यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् ।
सत्-तीर्थाश्रम-वास-होम-नियमैश् चान्द्रायणाद्यैः कृतैः
पुम्भिस् तत्-फलम् आहवे विनिहितैः सम्प्राप्यते तत्-क्षणात्
तद् आकर्ण्य दमनकश् चिन्तयामास-युद्धाय कृत-निश्चयो ऽयं दृश्यते दुरात्मा । तद् यदि कदाचित् तीक्ष्ण-शृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महान् अनर्थः सम्पत्स्यते । तद् एनं भूयो ऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च-भो मित्र ! सम्यग् अभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च-
बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् ।
बलवद्भिश् च कर्तव्या शरच्-चन्द्र-प्रकाशता
अन्यच् च-
शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः ।
स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा
सञ्जीवक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 12
टिट्टिभ-दम्पती-कथा
कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त । आसन्न-प्रसवा सती सा टिट्टिभम् ऊचे-भोः कान्त ! मम प्रसव-समयो वर्तते । तद् विचिन्त्यतां किम् अपि निरुपद्रवं स्थानं येन तत्राहम् अण्डक-मोक्षणं करोमि ।
टिट्टिभः प्राह-भद्रे रम्यो ऽयं समुद्र-प्रदेशः । तद् अत्रैव प्रसवः कार्यः ।
सा प्राह-अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रान् अपि समाकर्षति । तद् दूरम् अन्यत्र किंचित् स्थानम् अन्विष्यताम् ।
तच् छ्रुत्वा विहस्य टिट्टिभ आह-भद्रे न युक्तम् उक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या-
बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद् भयदम् ।
मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः
मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तम् अन्तक-प्रतिमम् ।
यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम
को गत्वा यम-सदनं स्वयम् अन्तकम् आदिशत्य् अजात-भयः ।
प्राणान् अपहर मत्तो यदि शक्तिः काचिद् अस्ति तव
प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे ।
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति
तस्माद् विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च-
यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः ।
तेन चेत् पुत्रिणी माता तद् वन्ध्या केन कथ्यते
तच् छ्रुत्वा समुद्रश् चिन्तयाम् आस-अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्व् इदम् उच्यते-
उत्क्षिप्य टिट्टिभः पादाव् आस्ते भ गभयाद् दिवः ।
स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते
तन् मयास्य प्रमाणं कुतूहलाद् अपि द्रष्टव्यम् । किं ममैषो ऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्य् अपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यम् अवलोक्य प्रलपन्ती टिट्टिभम् ऊचे-भो मूर्ख ! कथितम् आसीन् मया ते यत् समुद्रवेलया अण्डानां विनाशो भविष्यति तद् दूरतरं व्रजावः परं मूढतयाहंकारम् आश्रित्य मम वचनं न करोषि । अथवा साध्व् इदम् उच्यते ।
सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति
टिट्टिभ आह-कथम् एतत् ?
साब्रवीत्-
कथा 13
कम्बुग्रीवाख्य-कूर्म-कथा
अस्ति कस्मिंश्चिज् जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिम् आश्रिते नित्यम् एव सरस्-तीरम् आसाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषम् अगमत् । ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः-भो मित्र ! जम्बाल-शेषम् एतत्-सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।
तच् छ्रुत्वा कम्बुग्रीव आह-भोः, साम्प्रतं नास्त्य् अस्माकं जीवितव्यं जलाभावात् । तथाप्य् उपायश् चिन्त्यताम् इति । उक्तं च-
त्याज्यं न धैर्यं विधुरेऽपि काले
धैर्यात् कदाचिद् गतिम् आप्नुयात् सः ।
यथा समुद्रेऽपि च पोत-भङ्गे
सांयात्रिको वाञ्छति तर्तुम् एव
अपरं च-
मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा ।
जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः
तद् आनीयतां काचिद् दृढ-रज्जुर् लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर् गृहीते सति युवां कोटि-भागयोस् तत्-काष्ठं मया सहितं सङ्गृह्य तत्-सरो नयथः ।
ताव् ऊचतुः-भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव काष्ठात् पातो भविष्यति ।
तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किंचित् पुरम् आलोकितम् । तत्र ये पौरास् ते तथा नीयमानं विलोक्य सविस्मयम् इदम् ऊचुः-अहो चक्राकारं किम् अपि पक्षिभ्यां नीयते । पश्यत पश्यत ।
अथ तेषां कोलाहलम् आकर्ण्य कम्बुग्रीव आह-भोः ! किम् एष कोलाहलः ? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश् च । अतो ऽहं ब्रवीमि-सुहृदां हित-कामानाम् इति । तथा च-
अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा ।
द्वाव् एतौ सुखम् एधेते यद्-भविष्यो विनश्यति
टिट्टिभ आह-कथम् एतत् ?
साब्रवीत्-
कथा 14
अनागत-विधातादि-मत्स्य-त्रय-कथा
कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर् मत्स्य-जीविभिर् उक्तम्-यद् अहो बहु-मत्स्यो ऽयं ह्रदः । कदाचिद् अपि नास्माभिर् अन्वेषितः । तद् अद्य तावद् आहार-वृत्तिः सञ्जाता । सन्ध्या-समयश् च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यम् इति निश्चयः ।
अतस् तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदम् ऊचे-अहो, श्रुतं भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम् । तद् रात्राव् अपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च-
अशक्तैर् बलिनः शत्रोः कर्तव्यं प्रपलायनम् ।
संश्रितव्यो ऽथवा दुर्गो नान्या तेषां गतिर् भवेत्
तन् नूनं प्रभात-समये मत्स्य-जीविनो ऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणम् अप्य् अत्रावस्थातुम् । उक्तं च-
विद्यमाना गतिर् येषाम् अन्यत्रापि सुखावहा ।
ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम्
तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यम् अभिहितं भवता । ममाप्य् अभीष्टम् एतत् । तद् अन्यत्र गम्यताम् इति । उक्तं च-
पर-देश-भयात् भीता बहु-माया नपुंसकाः ।
स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्व-देश-रागेण हि याति नाशम् ।
तातस्य कूपो ऽयम् इति ब्रुवाणाः
क्षार-जलं कापुरुषाः पिबन्ति
अथ तत् समाकर्ण्य प्रोच्चैर् विहस्य यद्-भविष्यः प्रोवाच-अहो, न भवद्भ्यां मन्त्रितं सम्यग् एतद् इति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकम् एतत् सरस् त्यक्तुं युज्यते । यद्य् आयुः-क्षयो ऽस्ति तद् अन्यत्र गतानाम् अपि मृत्युर् भविष्यत्य् एव । उक्तं च-
अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथो ऽपि वने विसर्जितः
कृत-प्रयत्नो ऽपि गृहे न जीवति
तद् अहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् ।
अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलोड्य यद्-भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतो ऽहं ब्रवीमि-अनागत-विधाता चेति ।
तच् छ्रुत्वा टिट्टिभ आह-भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावद् एनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि ।
टिट्टिभ्य् आह-अहो कस् ते समुद्रेण सह विग्रहः । तन् न युक्तम् अस्योपरि कोपं कर्तुम् । उक्तं च-
पुंसाम् असमर्थानाम् उपद्रवायात्मनो भवेत् कोपः ।
पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वान् एव दहतितराम्
तथा च-
अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत्
टिट्टिभ आह-प्रिये, मा मैवं वद । येषाम् उत्साह-शक्तिर् भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च-
विशेषात् परिपूर्णस्य याति शत्रोर् अमर्षणः ।
आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः
तथा च-
प्रमाणाद् अधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः
तथा च-
बालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते
हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रो ऽङ्कुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः ।
वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस्
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः
तद् अनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि ।
टिट्टिभ्य् आह-भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यम् एव प्रविशति, तथा सिन्धुश् च । तत् कथं त्वम् अष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किम् अश्रद्धो येनोक्तेन ।
टिट्टिभ आह-प्रिये !
अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-सन्निभा ।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति
दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् ।
जयति तुलाम् अधिरूढो भास्वान् अपि जलद-पटलानि
टिट्टिभ्य् आह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तद् अन्यान् अपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च-
बहूनाम् अप्य् असाराणां सम्वायो हि दुर्जयः ।
तृणैर् आवेष्ट्यते रज्जुर् यथा नागो ऽपि बद्ध्यते
तथा च-
चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस् तथा ।
महाजन-विरोधेन कुञ्जरः प्रलयं गतः
टिट्टिभ आह-कथम् एतत् ?
सा प्राह-
कथा 15
कुञ्जर-चटक-दम्पती-कथा
कस्मिंश्चिद् वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर् गच्छता कालेन सन्ततिर् अभवत् । अन्यस्मिन्न् अहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश् छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ ।
अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद । अत्रान्तरे तस्यास् तान् प्रलापान् श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितो ऽभ्येत्य ताम् उवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च-
नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषो ऽयं यतः स्मृतः
तथा च-
अशोच्यानीह भूतानि यो मूढस् तानि शोचति ।
तद्-दुःखाल् लभते दुःखं द्वाव् अनर्थौ निषेवते
अन्यच् च-
श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः ।
तस्मान् न रोदितव्यं हि क्रियाः कार्याश् च शक्तितः
चटका प्राह-अस्त्व् एतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद् यदि मम त्वं सुहृत्-सत्यस् तद् अस्य गजापसदस्य को ऽपि वधोपायश् चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखम् अपसरति । उक्तं च-
आपदि येनोपकृतं येन च हसितं दशासु विषमासु ।
उपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये
काष्ठ-कूट आह-भगवति, सत्यम् अभिहितं भवत्या । उक्तं च-
स सुहृद्-व्यसने यः स्याद् अन्य-जात्य्-उद्भवो ऽपि सन् ।
वृद्धौ सर्वो ऽपि मित्रं स्यात् सर्वेषाम् एव देहिनाम्
स सुहृद्-व्यसने यः स्यात् स पुत्रो यस् तु भक्तिमान् ।
स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः
तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति । तत् ताम् आहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते ।
अथासौ चटकया सह मक्षिकाम् आसाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद् दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायम् अनुतिष्ठतो मे साहाय्यं कर्तुम् अर्हसि ।
मक्षिकाप्य् आह-भद्र ! किम् उच्यतेऽत्र विषये । उक्तं च-
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् ।
यत् पुनर् मित्र-मित्रस्य कार्यं मित्रैर् न किं कृतम्
सत्यम् एतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तम् अप्य् आहूय यथोचितं कुर्मः । उक्तं च-
हितैः साधु-समाचारैः शास्त्रज्ञैर् मति-शालिभिः ।
कथञ्चिन् न विकल्पन्ते विद्वद्भिश् चिन्तिता नयाः
अथ ते त्रयो ऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-कियन् मात्रो ऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन् मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश् च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनो ऽन्धीभूतस् तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तम् आसाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति ।
अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर् मध्याह्न-समये भ्राम्यन् मण्डूक-शब्दानुसारी गच्छन् महतीं गर्तम् आसाद्य पतितो मृतश् च । अतो ऽहं ब्रवीमि-चटका काष्ठ-कूटेन इति ।
टिट्टिभ आह-भद्रे, एवं भवतु । सुहृद्-वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच-भोः पराभूतो ऽहं समुद्रेणाण्डकापहरेण । तच् चिन्त्यताम् अस्य शोषणोपायः ।
ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे । तत् किं वृथा प्रयासेन । उक्तं च-
अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः ।
युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः
तद् अस्माकं स्वामी वैनतेयो ऽस्ति । तस्मै सर्वम् एतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च-
सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे ।
स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति
तद् यामो विनतेय-सकाशं यतो ऽसाव् अस्माकं स्वामी ।
तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशम् आसाद्य करुण-स्वरेण फूत्कर्तुम् आरब्धाः-अहो ! अब्रह्मण्यम् अब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्य् अपहृतानि तत्-प्रनष्टम् अधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च-
क्व कस्य कर्म संवीक्ष्य करोत्य् अन्यो ऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः
चाटु-तस्कर-दुर्वृत्तैस् तथा साहसिकादिभिः ।
पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस् तथा
प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः ।
अधर्माद् अपि षड्-भागो जायते यो न रक्षति
प्रजा-पीडन-सन्तापात् समुद्भूतो हुताशनः ।
राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते
राजा बन्धुर् अबन्धूनां राजा चक्षुर् अचक्षुषाम् ।
राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम्
फलार्थी पार्थिवो लोकान् पालयेद् यत्नम् आस्थितः ।
दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव
यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः
हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत्
अथैवं गरुडः समाकर्ण्य तद्-दुःख-दुःखितः कोपाविष्टश् च व्यचिन्तयत्-अहो ! सत्यम् उक्तम् एतैः पक्षिभिः । तद् अद्य गत्वा तं समुद्रं शोषयामः ।
एवं चिन्तयतस् तस्य विष्णु-दूतः समागत्याह-भो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देव-कार्याय भगवान् अमरावत्यां यास्यतीति । तत् सत्वरम् आगम्यताम् ।
तच् छ्रुत्वा गरुडः साभिमानं प्राह-भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद् गत्वा तं वद यद् अन्यो भृत्यो वाहनाय्समत्-स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च-
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव
दूत आह-भो वैनतेय ! कदाचिद् अपि भगवन्तं प्रति त्वया नैतद् अभिहितम् ईदृक् । तत् कथय, किं ते भगवतापमान-स्थानं कृतम् ?
गरुड आह-भगवद्-आश्रय-भूतेन समुद्रेणास्मट् टिट्टिभाण्डान्य् अपहृतानि । तद् यदि निग्रहं न करोति तद् अहं भगवतो न भृत्य इत्य् एष निश्चयस् त्वया वाच्यः । तद् द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् ।
अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय सम्मान-पुरःसरं तम् आनयामि । उक्तं च-
भक्तं शक्तं कुलीनं च न भृत्यम् अवमानयेत् ।
पुत्रवल् लालयेन् नित्यं य इच्छेच् छ्रियम् आत्मनः
अन्यच् च-
राजा तुष्टो ऽपि भृत्यानाम् अर्थ-मात्रं प्रयच्छति ।
ते तु सम्मानितास् तस्य प्राणैर् अप्य् उपकुर्वते
इत्य् एवं सम्प्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरम् अगमत् । वैनतेयो ऽपि गृहागतं भगवन्तम् अवलोक्य त्रपाधोमुखः प्रणम्योवाच-भगवन् ! त्वद्-आश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डान्य् अपहृत्य ममापमानो विहितः । परं भगवल्-लज्जया मया विलम्बितम् । नो चेद् एनम् अहं स्थलान्तरम् अद्यैव नयामि । यतः स्वामि-भयाच् छ्रवणो ऽपि प्रहारो न दीयते । उक्तं च-
येन स्याल् लघुता वाथ पीडा चित्ते प्रभोः क्वचित् ।
प्राण-त्यागेऽपि तत् कर्म न कुर्यात् कुल-सेवकः
तच् छ्रुत्वा भगवान् आह-भो वैनतेय ! सत्यम् अभिहितं भवता । उक्तं च-
भृत्यापराधजो दण्डः स्वामिनो जायते यतः ।
तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः
तद् आगच्छ येनाण्डानि समुद्राद् आदाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः ।
तथानुष्ठिते समुद्रो भगवता निर्भर्स्याग्नेयं शरं सन्ध्यायाभिहितः-भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत् स्थलतां त्वां नयामि ।
ततः समुद्रेण स-भयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतो ऽहं ब्रवीमि-शत्रोर् बलम् अविज्ञाय इति । तस्मात् पुरुषेणोद्यमो न त्याज्यः ।
तद् आकर्ण्य सञ्जीवकस् तम् एव भूयो ऽपि पप्रच्छ-भो मित्र ! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिर् इति । इयन्तं कालं यावद् उत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित् तद्-विकृतिर् दृष्टा । तत् कथ्यतां येनाहम् आत्म-रक्षार्थं तद्-वधायोद्यमं करोमि ।
दमनक आह-भद्र, किम् अत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्त-नेत्रस् त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद् दुष्ट-बुद्धिः । अन्यथा सुप्रसादश् चेति । तद् आज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्र-भेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्-देश-त्यागः कार्यः । यतः-
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत्
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि
बलवताभिभूतस्य विदेश-गमनं तद्-अनुप्रवेशो वा नीतिः । तद्-देश-त्यागः कार्यः । अथवात्मा सामादिभिर् उपायैर् आभरक्षणीयः । उक्तं च-
अपि पुत्र-कलत्रैर् वा प्राणान् रक्षेत पण्डितः ।
विद्यमानैर् यतस् तैः स्यात् सर्वं भूयो ऽपि देहिनाम्
तथा च-
येन केनाप्य् उपायेन शुभेनाप्य् अशुभेन वा ।
उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत्
यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु ।
तस्य प्राणाः प्रणश्यन्ति तैर् नष्टैर् नष्टम् एव तत्
एवम् अभिधाय दमनकः करटक-सकाशम् अगमत् । करटको ऽपि तम् आयान्तं दृष्ट्वा प्रोवाच-भद्र ! किं कृतं तत्रभवता ?
दमनक आह-मया तावन् नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च-
पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता ।
आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च
तथा च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः
करटक आह-तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम् ।
सो ऽब्रवीत्-मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस् तथा विहितो यथा भूयो ऽपि मन्त्रयन्ताव् एक-स्थान-स्थितौ न द्रक्ष्यसि ।
करटक आह-अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च-
अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् ।
जन्म-जन्मान्तरे दुःखी स नरः स्याद् असंशयम्
अपरं त्वं यद् भेद-मात्रेणापि हृष्टस् तद् अप्य् अयुक्तम्, यतः सर्वतो ऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च-
घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् ।
पातयितुम् अस्ति शक्तिर् वायोर् वृक्षं न चोन्नमितुम्
दमनक आह-अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद् ब्रवीषि । उक्तं च यतः-
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महा-बलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते
तच्-छत्रु-भूतो ऽयम् अस्माकं मन्त्रि-पदाहरणात् । उक्तं च-
पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते ।
स तस्य सहजः शत्रुर् उच्छेद्यो ऽपि प्रिये स्थितः
तन् मया स उदासीनतया समानीतो ऽभय-प्रदानेन यावत् तावद् अहम् अपि तेन साचिव्यात् प्रच्यावितः । अथवा साध्व् इदम् उच्यते-
दद्यात् साधुर् यदि निज-पदे दुर्जनाय प्रवेशं
तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः ।
तस्माद् देयो विपुल-मतिभिर् नावकाशो ऽधमानां
जारापि स्याद् गृह-पतिर् इति श्रूयते वाक्यतो ऽत्र
तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच् च त्वां मुक्त्वान्यो न ज्ञास्यति । तद् उक्तम् एतत् ते स्वार्थायानुष्ठितम् । उक्तं च-
निस्त्रिंशं हृदयं कृत्वा वाणीम् इक्षु-रसोपामाम् ।
विकल्पो ऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम्
अपरं मृतो ऽप्य् अस्माकं भोज्यो भविष्यति । तद् एकं तावद् वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश् चेति । तद्-गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं जाड्य-भावात् । उक्तं च-
परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पण्डितः ।
मूढ-बुद्धिर् न भक्षेत वने चतुरको यथा
करटक आह-कथम् एतत् ?
स आह-
कथा 16
वज्र-दंष्ट्र-नाम-सिंह-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिद् आसन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद् भ्रष्टोष्ट्र्य् उपविष्टा कस्मिंश्चिद् वन-गहने समासादिता । अथ तां व्यापाद्य यावद् उदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर् निष्क्रान्तः । सिंहो ऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिम् उपागतः । परं स्नेहाद् बाल-दासेकं त्यक्तं गृहम् आनीयेदम् उवाच-भद्र, न तेऽस्ति मृत्योर् भयं मत्तो नान्यस्माद् अपि । ततः स्वेच्छयात्र वने भ्राम्यताम् इति । यतस् ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति ।
एवम् अनुष्ठिते चत्वारो ऽपि न एक-स्थाने विहारिणः परस्परम् अनेक-प्रकार-गोष्ठी-सुखम् अनुभवन्तस् तिष्ठन्ति । शङ्कुकर्णो ऽपि यौवन-पदवीम् आरूढः क्षणम् अपि न तं सिंहं मुञ्चति ।
अथ कदाचिद् वज्र-दंष्ट्रस्य केनचिद् वन्येन मत्त-गजेन सह युद्धम् अभवत् । तेन मद-वीर्यात् स दन्त-प्रहारैस् तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस् तान् प्रोवाच-भोः ! अन्विष्यतां किञ्चित् सत्त्वं येनाहम् एवं स्थितो ऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि ।
तच् छ्रुत्वा ते त्रयो ऽपि वने सन्ध्या-कालं यावद् भ्रान्ताः, परं न किञ्चित् सत्त्वम् आसादितम् । अथ चतुरकश् चिन्तयामास-यदि शङ्कुकर्णो ऽयं व्यापाद्येत ततः सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति । परं नैनं स्वामी मित्रत्वाद् आश्रय-समाश्रितत्वाच् च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च-
अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन ।
लोके बुद्धिमताम् अत्र तस्मात् तां योजयाम्य् अहम्
एवं विचिन्त्य शङ्कुकर्णम् इदम् आह-भोः शङ्कुकर्ण ! स्वामी तावत् पथ्यं विना क्षुधया परिपीड्यते । स्वाम्य-भावाद् अस्माकम् अपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित् स्वाम्य्-अर्थे वदिष्यामि । तच् छ्रूयताम् ।
शङ्कुकर्ण आह-भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति ।
अथ चतुरक आह-भो भद्र ! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राण-यात्रा भवति ।
तद् आकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यद्य् एवं तन् मदीय-प्रयोजनम् एतद् उच्यताम् । स्वाम्य्-अर्थः क्रियताम् इति । परम् अत्र धर्मः प्रतिभूः इति ।
ते विचिन्त्य सर्वे सिंह-सकाशम् आजग्मुः । ततश् चतुरक आह-देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवान् आदित्यो ऽप्य् अस्तं गतः । तद् यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णो ऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा ।
सिंह आह-भोः, यद्य् एवं तत् सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम् इति ।
अथ सिंह-वचनानन्तरं वृक-शृगालाभ्यां विदारितोभय-कुक्षिः शङ्कुकर्णः पञ्चत्वम् उपागतः ।
अथ वज्र-दंष्ट्रश् चतुरकम् आह-भोश् चतुरक ! यावद् अहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यम् इत्य् उक्त्वा नद्यां गतः ।
अथ तस्मिन् गते चतुरकश् चिन्तयामास-कथं ममैकाकिनो भोज्यो ऽयम् उष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखम् आह-भोः क्रव्यमुख ! क्षुधालुर् भवान् । तद् यावद् असौ स्वामी नागच्छति, तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि ।
सो ऽपि तच् छ्रुत्वा यावत् किञ्चिन् मांसम् आस्वादयति तावच् चतुरकेणोक्तम्-भोः क्रव्यमुख ! समागच्छति स्वामी । तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति ।
तथानुष्ठिते सिंहः समायातो यावद् उष्ट्रं पश्यति तावद् रिक्तीकृत-हृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरम् आह-अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तम् अपि व्यापादयामि ।
एवम् अभिहिते क्रव्यमुखश् चतुरक-मुखम् अवलोकयति । अथ चतुरको विहस्योवाच-भोः ! माम् अनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखम् अवलोकयसि । तद्-आस्वादयास्य दुर्णय-तरोः फलम् इति ।
तद् आकर्ण्य क्रव्यमुखो जीव-नाश-भयाद् दूर-देशं गतः । एतस्मिन्न् अन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतो ऽप्य् आकर्ण्य सिंहो जम्बुकम् आह-भद्र, ज्ञायतां किम् एष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः ?
तच् छ्रुत्वा, चतुरकः किञ्चिद् वनान्तरं गत्वा सत्वरम् अभ्युपेत्य प्रोवाच-स्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् ।
सो ऽब्रवीत्-भद्र, किम् एवं मां व्याकुलयसि । तत् कथय किम् एतत् ?
इति चतुरक आह-स्वामिन्, एष धर्मराजस् तवोपरि कुपितः । यद् अनेनाकाले दासेरको ऽयं मदीयो व्यापादितः । तत् सहस्र-गुणम् उष्ट्रम् अस्य सकाशाद् ग्रहीष्यामि । इति निश्चित्य बृहन्-मानम् आदायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्य-दासेरक-सक्तान् अपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थम् आयात एव ।
सिंहो ऽपि तच् छ्रुत्वा सर्वतो दूराद् एवावलोक्य मृतम् उष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः । चतुरको ऽपि शनैः शनैस् तस्योष्ट्रस्य मांसं भक्षयामास । अतो ऽहं ब्रवीमि-परसय पीडनं कुर्वन् (399) इति ।
अथ दमनके गते सञ्जीवकश् चिन्तयामास-अहो किम् एतन् मया कृतम् ? यच् छष्पादो ऽपि मांसाशितस् तस्यानुगः संवृत्तः । अथवा साध्व् इदम् उच्यते-
अगम्यानि पुमान् याति यो ऽसेव्यांश् च निषेवते ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा
तत् किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर् भविष्यति ? अथवा तम् एव पिङ्गलकं गच्छामि । कदाचिन् मां शरणागतं रक्षति । प्राणैर् न वियोजयति । यत उक्तं च-
धर्मार्थं यतताम् अपीह विपदो देवाद् यदि स्युः क्वचित्
तत् तासाम् उपशान्तये सुमतिभिः कार्यो विशेषान् नयः ।
लोके ख्यातिम् उपागतात्र सकले लोकोक्तिर् एषा यतो
दग्धानां किल वह्निना हित-करः सेको ऽपि तस्योद्भवः
तथा च-
लोकेऽथवा तनु-भृतां निज-कर्म-पाकं
नित्यं समाश्रितवतां सुहित-क्रियाणाम् ।
भावार्जितं शुभम् अथाप्य् अशुभं निकामं
यद् भावि तद् भवति नात्र विचार-हेतुः
अपरं चान्यत्र गतस्यापि मे कस्यचिद् दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर् भविष्यति । तद् वरं सिंहात् । उक्तं च-
महद्भिः स्पर्धमानस्य विपद् एव गरीयसी ।
दन्त-भङ्गेऽपि नागानां श्लाघ्यो गिरि-विदारणे
तथा च-
महतो ऽपि क्षयं लब्ध्वा श्लाघ्यं नीचो ऽपि गच्छति ।
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः
एवं निश्चित्य स स्थलित-गतिं मन्दं गत्वा सिंहाश्रयं पश्यन्न् अपठत्-अहो, साध्व् इदम् उच्यते-
अन्तर्-लीन-भुजङ्गमं गृहम् इवान्तःस्थोग्र-सिंहं वनं
ग्राहाकीर्णम् इवाभिराम-कमल-च्छाया-सनाथं सरः ।
कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैर् अनार्यैः श्रितं
दुःखेन प्रविगाह्यते स-चकितं राज्ञां मनः सामयम्
एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनाप्य् उपविष्टः । पिङ्गलको ऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात ।
अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः शृङ्गाभ्यां तद्-उदरम् उल्लिख्य कथम् अपि तस्माद् अपेतः शृङ्गाभ्यां हन्तुम् इच्छन् युद्धायावस्थितः । अथ द्वाव् अपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-काङ्क्षिणौ दृष्ट्वा करटको दमनकम् आह-भो मूढ-मते ! अनयोर् विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीति-तत्त्वं वेत्सि । नीतिविद्भिर् उक्तं च-
कार्याण्य् उत्तम-दण्ड-साहस-फलान्य् आयास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मन्त्रिणः ।
निःसाराल्प-फलानि ये त्व् अविधिना वाञ्छन्ति दण्डोद्यमैस्
तेषां दुर्नय-चेष्टितैर् नरपतेर् आरोप्यते श्रीस् तुलाम्
तद् यदि स्वाम्य्-अभिघातो भविष्यति तत् किं तव्दीय-मन्त्र-बुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथाप्य् अभव्यम् । यतः प्राण-सन्देहात् तस्य च वधः । तन् मूढ ! कथं त्वं मन्त्रि-पदम् अभिलषसि । साम-सिद्धिं न वेत्सि । तद् वृथा मनोरथो ऽयं ते दण्डरुचेः । उक्तं च-
सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा ।
तेषां दण्डस् तु पापीयांस् तं पश्चाद् विनियोजयेत्
तथा च-
साम्नैव यत्र सिद्धिर् न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यति को ऽर्थः पटोलेन
तथा च-
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।
साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित्
न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना ।
साम्नैव विलयं याति विद्वेष-प्रभवं तमः
तथा यत् त्वं मन्त्रित्वम् अभिलषसि, तद् अप्य् अयुक्तम् । यतस् त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणाम् आरम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश् चेति । सो ऽयं स्वाम्य्-अमात्ययोर् एकतमस्य किं वा द्वयोर् अपि विनिपातः समुत्पद्यते लग्नः । तद् यदि काचिच् छक्तिर् अस्ति तद् विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन् मूर्ख ! तत् कर्तुम् असमर्थत्वं यतो विपरीत-बुद्धिर् असि । उक्तं च-
मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः
अन्यच् च-
घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् ।
पातयितुम् एव शक्तिर् नाखोरुद्धर्तुम् अन्न-पिटकम्
अथवा न ते दोषो ऽयम् । स्वामिनो दोषः । यस् ते वाक्यं श्रद्दधाति । उक्तं च-
नराधिपा नीच-जनानुवर्तिनो
बुधोपदिष्टेन पथा न यान्ति ये ।
विशन्त्य् अतो दुर्गम-मार्ग-निर्गमं
समस्त-सम्बाधम् अनर्थ-पञ्जरम्
तद् यदि त्वम् अस्य मन्त्री भविष्यसि तदान्यो ऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति । उक्तं च-
गुणालयो ऽप्य् असन् मन्त्री नृपतिर् नाधिगम्यते ।
प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः
तथा च शिष्ट-जन-रहितस्य स्वामिनो ऽपि नाशो भविष्यति । उक्तं च-
चित्रास्वाद-कथैर् भृत्यैर् अनायासित-कार्मुकैः ।
ये रमन्ते नृपास् तेषां रमन्ते रिपवः श्रिया
तत् किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च-
नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया ।
सूची-मुखं विजानीहि नाशिष्यायोपश्यते
दमनक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 17
वानर-यूथ-कथा
अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम् । तच् च कदाचिद् धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच् छान्तिम् अगमत् । अथ केचिद् वानरा वह्नि-कण-सदृशानि गुञ्जा-फलान्य् अवचित्य वह्नि-वाञ्छया फूत्कुर्वन्तः समन्तात् तस्थुः ।
अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत् किं वृथा श्रमेण । नैतस्माच् छीत-रक्षा भविष्यति । तद् अन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि स-टोपा मेधा दृश्यन्ते ।
अथ तेषाम् एकतमो वृद्ध-वानरस् तम् उवाच-भो मूर्ख ! किं तावद् अनेन व्यापारेण । तद् गम्यताम् । उक्तं च-
मुहुर् विघ्नित-कर्माणं द्यूत-कारं पराजितम् ।
नालापयेद् विवेक-ज्ञो यदीच्छेत् सिद्धिम् आत्मनः
तथा च-
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् ।
समालापेन यो युङ्क्ते स गच्छति पराभवम्
सो ऽपि तम् अनादृत्य भूयो ऽपि वानरान् अनवरतम् आह-भोः ! किं वृथा क्लेशेन ? अथ यावद् असौ न कथञ्चित् प्रलपन् विरमति तावद् एकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालित उपरतश् च ।
अतो ऽहं ब्रवीमि-नानम्यं नमते दारु इत्य् आदि । तथा च-
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयः-पानं भुजङ्गानां केवलं विष-वर्धनम्
अन्यच् च-
उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता
दमनक आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 18
कस्मिंश्चिद् वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म । अथ कदाचित् तयोः सुख-संस्थयोर् हेमन्त-मेघो मन्दं मन्दं वर्षितुम् आरब्धः । अत्रान्तरे कश्चिच् छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन् वेपमानस् तस्याः शम्या मूलम् आसाद्योपविष्टः । अथ तं तादृषम् अवलोक्य चटका प्राह-भो भद्र !
हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम्
एतच् छ्रुत्वा तां वानरः सकोपम् आह-अधमे कस्मान् न त्वं मौन-व्रता भवसि ? अहो धार्ष्ट्यम् अस्याः । अद्य माम् उपहसति-
सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी ।
नाशङ्कते प्रजल्पन्ती तत् किम् एनां न हन्म्य् अहम्
एवं प्रलप्य ताम् आह-मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च-
वाच्यं श्रद्धा-समेतस्य पृच्छतेश् च विशेषतः ।
प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम्
तत् किं बहुना तावत् । कुलाय-स्थितया तया पुनर् अप्य् अभिहितः । स तावत् तां शमीम् आरुह्य तस्याः कुलायं शतधा खण्डशो ऽकरोत् । अतो ऽहं ब्रवीमि-उपदेशो न दातव्यः इति ।
तन् मूर्ख ! शिक्षापितो ऽपि न शिक्षितस् त्वम् । अथवा न ते दोषो ऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च-
किं करोत्य् एव पाण्डित्यम् अस्थाने विनियोजितम् ।
अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः
तद्-व्यर्थ-पाण्डित्यम् आश्रित्य मम वचनम् अशृण्वन्न् आत्मनः शान्तिम् अपि वेत्सि । तन् नूनम् अपजातस् त्वम् । उक्तं च-
जातः पुत्रो ऽनुजातश् च अतिजातस् तथैव च ।
अपजातश् च लोकेऽस्मिन् मन्तव्याः शास्त्र-वेदिभिः
मातृ-तुल्य-गुणो जातस् त्व् अनुजातः पितुः समः ।
अतिजातो ऽधिकस् तस्माद् अपजातो ऽधमाधमः
अप्य् आत्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः ।
प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः
अहो, साध्व् इदम् उच्यते-
धर्म-बुद्धिः कुबुद्धिश् च द्वाव् एतौ विदितौ मम ।
पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः
दमनक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 20
कृष्ण-सर्प-कथा
कस्मिंश्चिद् देशे धर्मबुद्धिः पापबुद्धिश् च द्वे मित्रे प्रतिवसतः । अथ कदाचित् पापबुद्धिना चिन्तितं यद्-अहं तावन् मूर्खो दारिद्र्योपेतश् च । तद् एनं धर्मबुद्धिम् आदाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनम् अपि वञ्चयित्वा सुखीभवामि ।
अथान्यस्मिन्न् अहनि पापबुद्धिर् धर्मबुद्धिं प्राह-भो मित्र ! वार्धक-भावे किं त्व् आत्म-विचेष्टितं स्मरसि । देशान्तरम् अदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ? उक्तं च-
देशान्तरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम् ।
भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम्
तथा च-
विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक् ।
यावद् व्रजति न भूमौ देशाद् देशान्तरं हृष्टः
अथ तस्य तद्-वचनम् आकर्ण्य प्रहृष्ट-मनास् तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् आसादितम् । ततश् च तौ द्वाव् अपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रत्य् औत्सुक्येन प्रस्थितौ । उक्तं च-
प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् ।
क्रोश-मात्रो ऽपि भू-भागः शत-योजनवद् भवेत्
अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिर् अभिहितः-भद्र ! न सर्वम् एतद् धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश् च प्रार्थयिष्यन्ते । तद् अत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रम् आदाय गृहं प्रविशावः । भूयो ऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः । उक्तं च-
न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पम् अप्य् अहो ।
मुनेर् अपि यतस् तस्य दर्शनाच् चलते मनः
तथा च-
यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि ।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान्
तद् आकर्ण्य धर्मबुद्धिर् आह-भद्र एवं क्रियताम् । तथानुष्ठिते द्वाव् अपि तौ स्व-गृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्न् अहनि पापबुद्धिर् निशीथेऽटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम ।
अथान्येद्युर् धर्मबुद्धिं समेत्य प्रोवाच-सखे बहु-कुटुम्बा वयं वित्ताभावात् सीदामः । तद् गत्वा तत्र स्थाने किंचिन् मात्रं धनम् आनयावः ।
सो ऽब्रवीत्-भद्र, एवं क्रियताम् ।
अथ द्वाव् अपि गत्वा तत् स्थानं यावत् खनतस् तावद् रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस् ताडयन् प्रोवाच-भो धर्मबुद्धे ! त्वया हृतम् एतद् धनं, नान्येन । यतो भूयो ऽपि गर्तापूरणं कृतम् । तत् प्रयच्छ मे तस्यार्धम् । अन्यथाहं राज-कुले निवेदयिष्यामि ।
स आह-भो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्व् अहम् । नैतच् चौर-कर्म करोमि । उक्तं च-
मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत् ।
आत्मवत् सर्व-भूतानि वीक्षन्ते धर्म-बुद्धयः
एवं द्वाव् अपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश् च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित-पुरुषैर् दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिर् आह-
अहो न सम्यग्-दृष्टो न्यायः । उक्तं च-
विवादे अन्विष्यते पत्रं तद्-अभावेऽपि साक्षिणः ।
साक्ष्य् अभावात् ततो दिव्यं प्रवदन्ति मनीषिणः
तद् अत्र विषये मम वृक्ष-देवताः साक्षि-भूतास् तिष्ठन्ति । ता अप्य् आवयोर् एकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैर् अभिहितम्-भो युक्तम् उक्तं भवता । उक्तं च-
अन्त्यजो ऽपि यदा साक्षी विवादे सम्प्रजायते ।
न तत्र युज्यते दिव्यं किं पुनर् वन-देवताः
तद् अस्माकम् अप्य् अत्र विषये महत् कौतूहलम् वर्तते । प्रत्यूष-समये युवाभ्याम् अप्य् अस्माभिः सह तत्र वनोद्देशे गन्तव्यम् इति । एतस्मिन्न् अन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकम् उवाच-तात, प्रभूतो ऽयं मयार्थो धर्मबुद्धेश् चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति ।
स आह-वत्स, द्रुतं वद येन प्रोच्य तद् द्रव्यं स्थिरतां नयामि ।
पापबुद्धिर् आह-तात, अस्ति तत्-प्रदेशे महा-शमी । तस्यां महत् कोटरम् अस्ति । तत्र त्वं सांप्रतम् एव प्रविश । ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्धिश् चौर इति ।
तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः सह तां शमीम् अभ्येत्य तार-स्वरेण प्रोवाच ।
आदित्यचन्द्राव् अनिलो ऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मो हि जानाति नरस्य वृत्तम्
भगवति वन-देवते ! आवयोर् मध्ये यश् चौर तत् कथयत ।
अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच-भो, धर्मबुद्धिना हृतम् एतद् धनम् ।
तद् आकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद् धर्मबुद्धेर् वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद् धर्मबुद्धिना तच् छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमी-कोटरेऽर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम । ततश् च तैः सर्वैः पृष्टः-भो किम् इदम् ?
इत्य् उक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातम् इत्य् उक्त्वा मृतः । ततस् ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदम् ऊचुः-
अहो साध्व् इदम् उच्यते-
उपायं चिन्तयेत् प्राज्ञस् तथापायम् अपि चिन्तयेत् ।
पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः
धर्म-बुद्धिः प्राह-कथम् एतत् ?
ते प्रोचुः-
कथा 21
जीर्णधन-नाम-वणिक्-पुत्र-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे बहु-बक-सनाथो वट-पादपः । तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म । स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालं नयति । अथैको बकस् तेन भक्षितान्य् अपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य बाष्प-पूरैत-नयनो ऽधो-मुखस् तिष्ठति । तं च तादृक्-चेष्टितम् अवलोक्य कुलीरकः प्रोवाच-माम किम् एवं रुद्यते भवताद्य ?
स आह-भद्र किं करोमि ? मम मन्द-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः । तद्-दुःख-दुःखितो ऽहं रोदिमि । तत् कथय मे यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय ।
तद् आकर्ण्य कुलीरकश् चिन्तयामास-अयं तावद् अस्मत्-सहज-वैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयम् आयान्ति । उक्तं च-
नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम् ।
तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा
आह च-माम, यद्य् एवं तन् मत्स्य-मांस-खण्डानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस् तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति ।
अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेऽपि तद्-वृक्षाश्रयाः सर्वे बकाश् च शनैः शनैर् भक्षिताः । अतो वयं ब्रूमः-उपायं चिन्तयेद् इति ।
एवं मूढ ! त्वयाप्य् अपायश् चिन्तितो नोपायः पाप-बुद्धिवत् । तन् न भवसि त्वं सज्जनः । केवलं पाप-बुद्धिर् असि । ज्ञातो मया स्वामिनः प्राण-सन्देहानयनात् । प्रकटीकृतं त्वया स्वयम् एवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्व् इदम् उच्यते-
यत्नाद् अपि कः पश्येच् छिखिनाम् आहार-निःसरण-मार्गम् ।
यदि जलद-ध्वनि-मुदितास् त एव मूढा न नृत्येयुः
यदि त्वं स्वामिनम् एनां दशां नयसि तद् अस्मद्-विधस्य का गणना ? तस्मान् ममासन्नेन भवता न भाव्यम् । उक्तं च-
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः
दमनक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 22
जीर्णधन-नाम-वणिक्-पुत्र-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः । स च द्रव्य-क्षयाद् देशान्तर-गमन-मना व्यचिन्तयत्-
यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः
तथा च-
येनाहंकारयुक्तेन चिरं विलसितं पुरा ।
दीनं वदति तत्रैव यः परेषां स निन्दितः
तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत् । तां च कस्यचिद् छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्व-पुरम् आगत्य तं श्रेष्ठिनम् उवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेप-तुला ।
स आह-भो ! नास्ति सा त्वदीया तुला । मूषिकैर् भक्षिता ।
जीर्णधन आह-भोः श्रेष्ठिन् ! नास्ति दोषस् ते यदि मूषिकैर् भक्षितेति । ईदृग् एवायं संसारः । न किंचिद् अत्र शाश्वतम् अस्ति । परम् अहं नद्यां स्नानार्थं गमिष्यामि । तत् त्वम् आत्मीयं शिशुम् एनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति ।
सो ऽपि चौर्य-भयात् तस्य शङ्कितः स्व-पुत्रम् उवाच-वत्स, पितृव्यो ऽयं तव स्नानार्थं नद्यां यास्यति । तद् गम्यताम् अनेन सार्धं स्नानोपकरणम् आदायेति । अहो साध्व् इदम् उच्यते-
न भक्त्या कस्यचित् को ऽपि प्रियं प्रकुरुते नरः ।
मुक्त्वा भयं प्रलोभं वा कार्य-कारणम् एव वा
तथा च-
अत्यादरो भवेद् यत्र कार्य-कारण-वर्जितः ।
तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा
अथासौ वणिक्-शिशुः स्नानोपकरणम् आदाय प्रहृष्ट-मनास् तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्-द्वारं बृहच्-छिलयाच्छाद्य सत्वरं गृहम् आगतः । पृष्टश् च तेन वणिजा-भो ऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर् यस् त्वया सह नदीं गतः इति ।
स आह-नदी-तटात् स श्येनेन हृत इति ।
श्रेष्ठ्य् आह-मिथ्या-वादिन् ! किं क्वचिच् छ्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति ।
स आह-भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तद् अर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वाव् अपि राज-कुलं गतौ ।
तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भो ऽब्रह्मण्यम् अब्रह्मण्यम् । मम शिशुर् अनेन चौरेणापहृतः ।
अथ धर्माधिकारिणस् तम् ऊचुः-भोः समर्प्यतां श्रेष्ठि-सुतः ।
स आह-किं करोमि ? पश्यतो मे नदी-तटाच् छ्येनेनापहृतः शिशुः ।
तच् छ्रुत्वा ते प्रोचुः-भो न सत्यम् अभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ?
स आह-भो भोः श्रूयतां मद्-वचः ।
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः
ते प्रोचुः-कथम् एतत् ?
ततः श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास । ततस् तैर् विहस्य द्वाव् अपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ ।
अतो ऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति ।
तन् मूर्ख ! सञ्जीवक-प्रसादम् असहमानेन त्वयैतत् कृतम् । अहो साध्व् इदम् उच्यते-
प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा
दातारं कृपणा ऋजून् अनृजवो वित्ते स्थितं निर्धनाः ।
वैरूप्योपहृताश् च कान्त-वपुषं धर्माश्रयं पापिनो
नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा
तथा च-
मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः ।
व्रतिनः पाप-शीलानाम् असतीनां कुल-स्त्रियः
तन् मूर्ख त्वया हितम् अप्य् अहितं कृतम् । उक्तं च-
पण्डितो ऽपि वरं शत्रुर् न मूर्खो हित-कारकः ।
वानरेण हतो राजा विप्राश् चीरेण रक्षिताः
दमनक आह--कथम् एतत् ?
सो ऽब्रवीत्-
कथा 23
कस्यचिद् राज्ञो नित्यं वानरो ऽतिभक्ति-परो ऽङ्ग-सेवको ऽन्तः-पुरे अप्य् अप्रतिषिद्ध-प्रसरो ऽतिविश्वास-स्थानम् अभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवोपविशति । ततस् तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश् च । तस्माच् चिरायुर् इच्छता नृपेण मूर्खो ऽनुचरो न रक्षणीयः ।
अपरम् एकस्मिन् नगरे को ऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन् पुरेऽन्य-देशाद् आगतांश् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरो ऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासम् उत्पाद्य सेवा कर्तुम् आरब्धा । अथवा साध्व् इदम् उच्यते-
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः
अथ तस्मिन् सेवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस् तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुम् उद्यमो विहितः । ततः स धूर्त-विप्रस् तान् विप्रान् गन्तुम् उद्यतान् प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः-
अहो धनम् एतन् न किंचिन् मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषाम् अग्रे स-करुणं विलप्येदम् आह-भो मित्राणि ! यूयं माम् एकाकिनं मुक्त्वा गन्तुम् उद्यताः । तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयम् अनुग्रहं विधाय सहाय-भूतं माम् अपि सहैव नयत ।
तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास् तेन समम् एव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानाम् अपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुम् आरब्धाः-रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान् निहत्य धनं नयत ।
ततः किरातैर् ध्वाङ्क्ष-वचनम् आकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन् न लब्धम् । तदा तैः किरातैर् अभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनम् अनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तद् अर्पयत । अन्यथा सर्वेषाम् अपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।
तदा तेषाम् ईदृशं वचनम् आकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततो ऽहं पूर्वम् एवात्मानम् अरत्नं समर्प्यैतान् मुञ्चामि । उक्तं च-
मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति ।
अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः
तथा च-
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः ।
सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम्
इति निश्चित्याभिहितं-भोः किराताः ! यद्य् एवं ततो मां पूर्वं निहत्य विलोकयत । ततस् तैस् तथानुष्ठिते तं धन-रहितम् अवलोक्यापरे चत्वारो ऽपि मुक्ताः ।
अतो ऽहं ब्रवीमि-पण्डितो ऽपि वरं शत्रुः इति ।
अथैवं संवदतोः सञ्जीवकः क्षणम् एकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर् वसुन्धरा-पीठे निपपात । अथ तं गतासुम् अवलोक्य पिङ्गलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घाताद् अन्यन् नास्ति पापतरं कर्म । उक्तं च-
मित्र-द्रोही कृतघ्नश् च यश् च विश्वास-घातकः ।
ते नरा नरकं यान्ति यावच् चन्द्र-दिवाकरौ
भूमि-क्षये राज-विनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे ।
नो युक्तम् उक्तं ह्य् अनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः
तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत् किं कथयिष्यामि तेषाम् अग्रतः । उक्तं च-
उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा
एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षम् इदम् आह-देव, कातरतमस् तवैष न्यायो यद् द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन् नैतद् उपपन्नं भूभुजाम् । उक्तं च-
पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् ।
प्राण-द्रोहं यदा गच्छेद् धन्तव्यो नास्ति पातकम्
तथा च-
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चात्रपा दुष्टमतिः सहायः ।
प्रेष्यः प्रतीपो ऽधिकृतः प्रसादी
त्याज्या अमी यश् च कृतं न वेत्ति
अपि च-
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या ।
भूरि-व्यथा प्रचुर-वित्त-समागमा च
वेश्याङ्गनेव नृप-नीतिर् अनेक-रूपा
अपि च-
अकृतोपद्रवः कश्चिन् महान् अपि न पूज्यते ।
पूजयन्ति नरा नागान् न तार्क्ष्यं नाग-घातिनम्
तथा च-
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः
मूल पाठ: Pañcatantra · Edition: Ramchandra Jha, 6th edition, Varanasi : Chowkhamba Vidyabhavan, 1991. (Vidyabhavan Sanskrit Grantha Mala, 17) Also consulted: ed. by M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0